विश्वास-प्रस्तुतिः - २७।१
द्यूतं निषिद्धं मनुना
सत्य-शौच-धनापहम्।
तत् प्रवर्तितम् अन्यैस् तु
राज-भाग-समन्वितम् ॥ २७।१ ॥
मूलम् - २७।१
द्यूतं निषिद्धं मनुना
सत्य-शौच-धनापहम्।
तत् प्रवर्तितम् अन्यैस् तु
राज-भाग-समन्वितम् ॥ २७।१ ॥
विश्वास-प्रस्तुतिः - २७।२
सभिकाधिष्ठितं कार्यं
तस्कर-ज्ञान-हेतुना।
एष एव विधिर् ज्ञेयः
प्राणि-द्यूत-समाह्वये ॥ २७।२ ॥
मूलम् - २७।२
सभिकाधिष्ठितं कार्यं
तस्कर-ज्ञान-हेतुना।
एष एव विधिर् ज्ञेयः
प्राणि-द्यूत-समाह्वये ॥ २७।२ ॥
२७।१ सभिक-वृत्तिः
विश्वास-प्रस्तुतिः - २७।३
सभिको ग्राहकस् तत्र
दद्याज् जेत्रे नृपाय च।
राज-वृद्धिः सकितवात्
सभिकाद् दशकं शतम् ॥ २७।३ ॥
मूलम् - २७।३
सभिको ग्राहकस् तत्र
दद्याज् जेत्रे नृपाय च।
राज-वृद्धिः सकितवात्
सभिकाद् दशकं शतम् ॥ २७।३ ॥
विश्वास-प्रस्तुतिः - २७।४
यथा-समयं वा स्यात् ।
॥॥ ॥॥ ॥ २७।४ ॥
मूलम् - २७।४
यथा-समयं वा स्यात् ।
॥॥ ॥॥ ॥ २७।४ ॥
२७।२ स्वामिनोर् जय-पराजयः
विश्वास-प्रस्तुतिः - २७।५
द्वन्द्व-युद्धेन यः कश्चिद्
अवसादम् अवाप्नुयात्।
तत् स्वामिना पणो देयो
यस् तत्र परिकल्पितः ॥ २७।५ ॥
मूलम् - २७।५
द्वन्द्व-युद्धेन यः कश्चिद्
अवसादम् अवाप्नुयात्।
तत् स्वामिना पणो देयो
यस् तत्र परिकल्पितः ॥ २७।५ ॥
विश्वास-प्रस्तुतिः - २७।६
रहोजितो ऽनभिज्ञश् च
कूटाक्षैः कपटेन वा।
मोच्यो ऽभिज्ञो ऽपि सर्वस्वम्
जितं सर्वं न दाप्यते ॥ २७।६ ॥
मूलम् - २७।६
रहोजितो ऽनभिज्ञश् च
कूटाक्षैः कपटेन वा।
मोच्यो ऽभिज्ञो ऽपि सर्वस्वम्
जितं सर्वं न दाप्यते ॥ २७।६ ॥
२७।३ कूट-द्यूत-दण्डः
विश्वास-प्रस्तुतिः - २७।७
कूटाक्ष-देविनः पापा
राज-भाग-हराश् च ये।
गणनावञ्चकाश् चैव
दण्ड्यास् ते कितवाः स्मृताः ॥ २७।७ ॥
मूलम् - २७।७
कूटाक्ष-देविनः पापा
राज-भाग-हराश् च ये।
गणनावञ्चकाश् चैव
दण्ड्यास् ते कितवाः स्मृताः ॥ २७।७ ॥
विश्वास-प्रस्तुतिः - २७।८
ग्रहः प्रकाशः कर्तव्यो
निर्वास्याः कूट-देविनः।
व्यापादने तु तत्-कारी
वधं चित्रम् अवाप्नुयात् ॥ २७।८ ॥
मूलम् - २७।८
ग्रहः प्रकाशः कर्तव्यो
निर्वास्याः कूट-देविनः।
व्यापादने तु तत्-कारी
वधं चित्रम् अवाप्नुयात् ॥ २७।८ ॥
२७।४ सन्दिग्ध-जय-पराजय-निर्णयः
विश्वास-प्रस्तुतिः - २७।९
स एव साक्षी सन्दिग्धौ
सभ्यैश् चान्यैस् त्रिभिर् वृतः।
उभयोर् अपि सन्दिग्धं
कितवास् तु परीक्षकाः ॥ २७।९ ॥
मूलम् - २७।९
स एव साक्षी सन्दिग्धौ
सभ्यैश् चान्यैस् त्रिभिर् वृतः।
उभयोर् अपि सन्दिग्धं
कितवास् तु परीक्षकाः ॥ २७।९ ॥
विश्वास-प्रस्तुतिः - २७।१०
यदा विद्वेषिणस् ते तु
तदा राजा विचारयेत् ॥ २७।१० ॥
मूलम् - २७।१०
यदा विद्वेषिणस् ते तु
तदा राजा विचारयेत् ॥ २७।१० ॥
विश्वास-प्रस्तुतिः - २७।११
एवं वादि-कृतान् वादान्
प्रपश्येत् प्रत्यहं नृपः।
नृपाश्रयास् तथा चान्ये
विद्वद्भिर् ब्राह्मणैः सह ॥ २७।११ ॥
मूलम् - २७।११
एवं वादि-कृतान् वादान्
प्रपश्येत् प्रत्यहं नृपः।
नृपाश्रयास् तथा चान्ये
विद्वद्भिर् ब्राह्मणैः सह ॥ २७।११ ॥