विश्वास-प्रस्तुतिः - ।
ददाति दीयते पित्रा
पुत्रेभ्यः स्वस्य यद् धनम्।
तद् दायं ॥॥।
॥॥ ॥॥ ॥ २६।१ ॥
मूलम् - ।
ददाति दीयते पित्रा
पुत्रेभ्यः स्वस्य यद् धनम्।
तद् दायं ॥॥।
॥॥ ॥॥ ॥ २६।१ ॥
विश्वास-प्रस्तुतिः - २६।२
एकां स्त्रीं कारयेत् कर्म
यथांशेन गृहे गृहे।
बह्व्यः समांशतो देया
दासानाम् अप्य् अयं विधिः ॥ २६।२ ॥
मूलम् - २६।२
एकां स्त्रीं कारयेत् कर्म
यथांशेन गृहे गृहे।
बह्व्यः समांशतो देया
दासानाम् अप्य् अयं विधिः ॥ २६।२ ॥
विश्वास-प्रस्तुतिः - २६।३
उद्धृत्य कूप-वाप्य्-अम्भस् त्व्
अनुसारेण गृह्यते।
तथा भागानुसारेण
सेतुः क्षेत्रं विभज्यते ॥ २६।३ ॥
मूलम् - २६।३
उद्धृत्य कूप-वाप्य्-अम्भस् त्व्
अनुसारेण गृह्यते।
तथा भागानुसारेण
सेतुः क्षेत्रं विभज्यते ॥ २६।३ ॥
विश्वास-प्रस्तुतिः - २६।४
युक्त्या विभजनीयं तद्
अन्यथानर्थकं भवेत् ॥ २६।४ ॥
मूलम् - २६।४
युक्त्या विभजनीयं तद्
अन्यथानर्थकं भवेत् ॥ २६।४ ॥
२६।१ विभक्त-लक्षणम्
विश्वास-प्रस्तुतिः - २६।५
एक-पाकेन वसतां
पितृ-देव-द्विजार्चनम्।
एकं भवेद् द्वि-भक्तानां
तद् एव स्याद् गृहे गृहे ॥ २६।५ ॥
मूलम् - २६।५
एक-पाकेन वसतां
पितृ-देव-द्विजार्चनम्।
एकं भवेद् द्वि-भक्तानां
तद् एव स्याद् गृहे गृहे ॥ २६।५ ॥
विश्वास-प्रस्तुतिः - २६।६
साक्सित्वं प्रतिभाव्यं च
दानं ग्रहणम् एव च।
विभक्ता भ्रातरः कुर्युः
नाविभक्ताः परस्परम् ॥ २६।६ ॥
मूलम् - २६।६
साक्सित्वं प्रतिभाव्यं च
दानं ग्रहणम् एव च।
विभक्ता भ्रातरः कुर्युः
नाविभक्ताः परस्परम् ॥ २६।६ ॥
विश्वास-प्रस्तुतिः - २६।७
येषाम् एताः क्रिया लोके
प्रवर्तन्ते स्वरिक्थिषु।
विभक्तान् अवगच्छेयुः
लेख्यम् अप्य् अन्तरेण तान् ॥ २६।७ ॥
मूलम् - २६।७
येषाम् एताः क्रिया लोके
प्रवर्तन्ते स्वरिक्थिषु।
विभक्तान् अवगच्छेयुः
लेख्यम् अप्य् अन्तरेण तान् ॥ २६।७ ॥
विश्वास-प्रस्तुतिः - २६।८
कुलानुबन्ध-व्याघात-
होधं साहस-साधकम्।
स्वस्व-भोग-स्थावरस्य
विभागस्य पृथग्-धनम् ॥ २६।८ ॥
मूलम् - २६।८
कुलानुबन्ध-व्याघात-
होधं साहस-साधकम्।
स्वस्व-भोग-स्थावरस्य
विभागस्य पृथग्-धनम् ॥ २६।८ ॥
२६।२ विभाग-कालः
विश्वास-प्रस्तुतिः - २६।९
पित्रोर् अभावे भ्रातृणां
विभागः सम्प्रदर्शितः।
मातुर् निवृत्ते रजसि
प्रत्तसु भगिनीषु च ॥ २६।९ ॥
मूलम् - २६।९
पित्रोर् अभावे भ्रातृणां
विभागः सम्प्रदर्शितः।
मातुर् निवृत्ते रजसि
प्रत्तसु भगिनीषु च ॥ २६।९ ॥
२६।३ विभाग-क्रमः
विश्वास-प्रस्तुतिः - २६।१०
क्रमागते गृह-क्षेत्रे
पिता पुत्राः समांशिनः।
पैतृके न विभागार्हाः
सुताः पितुर् अनिच्छया ॥ २६।१० ॥
मूलम् - २६।१०
क्रमागते गृह-क्षेत्रे
पिता पुत्राः समांशिनः।
पैतृके न विभागार्हाः
सुताः पितुर् अनिच्छया ॥ २६।१० ॥
विश्वास-प्रस्तुतिः - २६।११
समवर्णासु ये जाताः
सर्वे पुत्रा द्विजन्मनाम्।
उद्धारं ज्यायसे दत्त्वा
भजेरन्न् इतरे समम् ॥ २६।११ ॥
मूलम् - २६।११
समवर्णासु ये जाताः
सर्वे पुत्रा द्विजन्मनाम्।
उद्धारं ज्यायसे दत्त्वा
भजेरन्न् इतरे समम् ॥ २६।११ ॥
वयो-विद्या-तपोभिश् च
द्व्यंशं हि लभते धनम्।
यथा यथा विभागाप्तं
धनं यागार्थताम् इयात् \
तथा तथा विधातव्यं # विद्वद्भिर् भाग-गौरवम् ॥ २६।१२ ॥
विश्वास-प्रस्तुतिः - २६।१३
तत्-पुत्रा विषम-समाः
पितृ-भाग-हराः स्मृताः ॥ २६।१३ ॥
मूलम् - २६।१३
तत्-पुत्रा विषम-समाः
पितृ-भाग-हराः स्मृताः ॥ २६।१३ ॥
विश्वास-प्रस्तुतिः - २६।१४
द्रव्ये पितामहोपात्ते
स्थावरे जङ्गमे ऽपि वा।
समम् अंशित्वम् आख्यातं
पितुः पुत्रस्य चैव हि ॥ २६।१४ ॥
मूलम् - २६।१४
द्रव्ये पितामहोपात्ते
स्थावरे जङ्गमे ऽपि वा।
समम् अंशित्वम् आख्यातं
पितुः पुत्रस्य चैव हि ॥ २६।१४ ॥
विश्वास-प्रस्तुतिः - २६।१५
सम-न्यूनाधिका भागाः
पित्रा येषां प्रकल्पिताः।
तथैव ते पालनीया
विनेयास् ते स्युर् अन्यथा ॥ २६।१५ ॥
मूलम् - २६।१५
सम-न्यूनाधिका भागाः
पित्रा येषां प्रकल्पिताः।
तथैव ते पालनीया
विनेयास् ते स्युर् अन्यथा ॥ २६।१५ ॥
विश्वास-प्रस्तुतिः - २६।१६
जीवद्-विभागे तु पिता
गृह्णीतांश-द्वयं स्वकम् ॥ २६।१६ ॥
मूलम् - २६।१६
जीवद्-विभागे तु पिता
गृह्णीतांश-द्वयं स्वकम् ॥ २६।१६ ॥
विश्वास-प्रस्तुतिः - २६।१७
द्वि-प्रकारो विभागस् तु
दायादानां प्रकीर्तितः।
वयो-ज्येष्ठ-क्रमेणैकः
समा परांश-कल्पना ॥ २६।१७ ॥
मूलम् - २६।१७
द्वि-प्रकारो विभागस् तु
दायादानां प्रकीर्तितः।
वयो-ज्येष्ठ-क्रमेणैकः
समा परांश-कल्पना ॥ २६।१७ ॥
विश्वास-प्रस्तुतिः - २६।१८
समवेतैस् तु यत् प्राप्तं
सर्वे तत्र समांशिनः।
तत्-पुत्रा विषम-समाः
पितृ-भाग-हराः स्मृताः ॥ २६।१८ ॥
मूलम् - २६।१८
समवेतैस् तु यत् प्राप्तं
सर्वे तत्र समांशिनः।
तत्-पुत्रा विषम-समाः
पितृ-भाग-हराः स्मृताः ॥ २६।१८ ॥
विश्वास-प्रस्तुतिः - २६।१९
पितृ-रिक्थ-हराः पुत्राः
सर्व एव समांशिनः।
विद्या-कर्म-रतस् तेषाम्
अधिकं लब्धुम् अर्हति ॥ २६।१९ ॥
मूलम् - २६।१९
पितृ-रिक्थ-हराः पुत्राः
सर्व एव समांशिनः।
विद्या-कर्म-रतस् तेषाम्
अधिकं लब्धुम् अर्हति ॥ २६।१९ ॥
विश्वास-प्रस्तुतिः - २६।२०
विद्या-विज्ञान-शौर्यार्थे
ज्ञान-दान-क्रियासु च।
यस्येह प्रथिता कीर्तितः
पितरस् तेन पुत्रिणः ॥ २६।२० ॥
मूलम् - २६।२०
विद्या-विज्ञान-शौर्यार्थे
ज्ञान-दान-क्रियासु च।
यस्येह प्रथिता कीर्तितः
पितरस् तेन पुत्रिणः ॥ २६।२० ॥
विश्वास-प्रस्तुतिः - २६।२१
जन्म-विद्या-गुणैर् ज्येष्ठो
द्व्यंशं दायाद् अवाप्नुयात्।
समांश-भागिनस् त्व् अन्ये
तेषां पितृ-समस् तु सः ॥ २६।२१ ॥
मूलम् - २६।२१
जन्म-विद्या-गुणैर् ज्येष्ठो
द्व्यंशं दायाद् अवाप्नुयात्।
समांश-भागिनस् त्व् अन्ये
तेषां पितृ-समस् तु सः ॥ २६।२१ ॥
विश्वास-प्रस्तुतिः - २६।२२
तद्-अभावे तु जननी
तनयांश-समांशिनी।
समांशा मातरस् तेषां
तुरीयांशा च कन्यका ॥ २६।२२ ॥
मूलम् - २६।२२
तद्-अभावे तु जननी
तनयांश-समांशिनी।
समांशा मातरस् तेषां
तुरीयांशा च कन्यका ॥ २६।२२ ॥
विश्वास-प्रस्तुतिः - २६।२३
कन्यकानां त्व् अदत्तानां
चतुर्थो भाग इष्यते।
पुत्राणां च त्रयो भागाः
साम्यं त्व् अल्प-धने स्मृतम् ॥ २६।२३ ॥
मूलम् - २६।२३
कन्यकानां त्व् अदत्तानां
चतुर्थो भाग इष्यते।
पुत्राणां च त्रयो भागाः
साम्यं त्व् अल्प-धने स्मृतम् ॥ २६।२३ ॥
विश्वास-प्रस्तुतिः - २६।२४
यद्य् एक-जाता बहवः
समाना जाति-सङ्ख्यया।
स्व-धनैस् तैर् विभक्तव्यं
मातृ-भागेन धर्मतः ॥ २६।२४ ॥
मूलम् - २६।२४
यद्य् एक-जाता बहवः
समाना जाति-सङ्ख्यया।
स्व-धनैस् तैर् विभक्तव्यं
मातृ-भागेन धर्मतः ॥ २६।२४ ॥
विश्वास-प्रस्तुतिः - २६।२५
सवर्णा भिन्न-सङ्ख्या ये
पुं-भागस् तेषु शस्यते।
पितामह्यस् तु सर्वास् ता
मातृ-तुल्याः प्रकीर्तिताः ॥ २६।२५ ॥
मूलम् - २६।२५
सवर्णा भिन्न-सङ्ख्या ये
पुं-भागस् तेषु शस्यते।
पितामह्यस् तु सर्वास् ता
मातृ-तुल्याः प्रकीर्तिताः ॥ २६।२५ ॥
विश्वास-प्रस्तुतिः - २६।२६
असंस्कृतास् तु यास् तत्र
पैतृकाद् एव ता धनात्।
संस्कार्या भ्रातृभिर् ज्येष्ठः
कन्यकाश् च यथा-विधि ॥ २६।२६ ॥
मूलम् - २६।२६
असंस्कृतास् तु यास् तत्र
पैतृकाद् एव ता धनात्।
संस्कार्या भ्रातृभिर् ज्येष्ठः
कन्यकाश् च यथा-विधि ॥ २६।२६ ॥
विश्वास-प्रस्तुतिः - २६।२७
असंस्कृता भ्रातरस् तु
ये स्युस् तत्र यवीयसः।
संस्कार्याः पूर्व-जैस् ते वै
पैतृकान् मध्य-गाद् धनात् ॥ २६।२७ ॥
मूलम् - २६।२७
असंस्कृता भ्रातरस् तु
ये स्युस् तत्र यवीयसः।
संस्कार्याः पूर्व-जैस् ते वै
पैतृकान् मध्य-गाद् धनात् ॥ २६।२७ ॥
विश्वास-प्रस्तुतिः - २६।२८
दद्याद् धनं च पर्याप्तं
क्षेत्रांशं वा यद् इच्छति ॥ २६।२८ ॥
मूलम् - २६।२८
दद्याद् धनं च पर्याप्तं
क्षेत्रांशं वा यद् इच्छति ॥ २६।२८ ॥
विश्वास-प्रस्तुतिः - २६।२९
ऊढया कन्यया वापि
भर्तुः पितृ-गृहे ऽपि वा।
भ्रातुः सकाशात् पित्रोर् वा
लब्धं सौदायिकं स्मृतम् ॥ २६।२९ ॥
मूलम् - २६।२९
ऊढया कन्यया वापि
भर्तुः पितृ-गृहे ऽपि वा।
भ्रातुः सकाशात् पित्रोर् वा
लब्धं सौदायिकं स्मृतम् ॥ २६।२९ ॥
विश्वास-प्रस्तुतिः - २६।३०
सौदायिकं धनं प्राप्य
स्त्रीणां स्वातन्त्रम् इष्यते।
यस्मात् तद्-आनृशंस्यार्थं
तैर् दत्तम् उपजीवनम् ॥ २६।३० ॥
मूलम् - २६।३०
सौदायिकं धनं प्राप्य
स्त्रीणां स्वातन्त्रम् इष्यते।
यस्मात् तद्-आनृशंस्यार्थं
तैर् दत्तम् उपजीवनम् ॥ २६।३० ॥
विक्रये चैव दाने च
यथेष्तं स्थावरेष्व् अपि।
स्त्री-धनं स्याद् अपत्यानां
दुहिता च तद्-अंशिनी \
अप्रत्ता चेत् समूढा तु # लभते मान-मात्रकम् ॥ २६।३१ ॥
विश्वास-प्रस्तुतिः - २६।३२
मातुः स्वसा मातुलानी
पितृव्य-स्त्री पितृष्वसा।
श्वश्रूः पूर्वज-पत्नी च
मातृ-तुल्याः प्रकीर्तिताः ॥ २६।३२ ॥
मूलम् - २६।३२
मातुः स्वसा मातुलानी
पितृव्य-स्त्री पितृष्वसा।
श्वश्रूः पूर्वज-पत्नी च
मातृ-तुल्याः प्रकीर्तिताः ॥ २६।३२ ॥
विश्वास-प्रस्तुतिः - २६।३३
यद् आसाम् औरसो न स्यात्
पुत्रो दौहित्र एव वा।
तत् सुतो वा धनं तासां
स्व-स्त्रीयाद् याः समाप्नुयुः ॥ २६।३३ ॥
मूलम् - २६।३३
यद् आसाम् औरसो न स्यात्
पुत्रो दौहित्र एव वा।
तत् सुतो वा धनं तासां
स्व-स्त्रीयाद् याः समाप्नुयुः ॥ २६।३३ ॥
२६।४ पुत्र-लक्षणम्
विश्वास-प्रस्तुतिः - २६।३४
सवर्णजो ऽप्य् अगुणवान्
नार्हः स्यात् पैतृके धने।
तत्-पिण्डदाः श्रोत्रिया ये
तेषां तत् तु विधीयते ॥ २६।३४ ॥
मूलम् - २६।३४
सवर्णजो ऽप्य् अगुणवान्
नार्हः स्यात् पैतृके धने।
तत्-पिण्डदाः श्रोत्रिया ये
तेषां तत् तु विधीयते ॥ २६।३४ ॥
विश्वास-प्रस्तुतिः - २६।३५
उत्तम-र्णाधम-र्णेभ्यः
पितरं त्रायते सुतः।
अतस् तु विपरीतेन
तेन नास्ति प्रयोजनम् ॥ २६।३५ ॥
मूलम् - २६।३५
उत्तम-र्णाधम-र्णेभ्यः
पितरं त्रायते सुतः।
अतस् तु विपरीतेन
तेन नास्ति प्रयोजनम् ॥ २६।३५ ॥
विश्वास-प्रस्तुतिः - २६।३६
तया गवा किं क्रियते
या न दोग्ध्री न गर्भिणी।
को ऽर्थः पुत्रेण जातेन
यो न विद्वान् न धार्मिकः ॥ २६।३६ ॥
मूलम् - २६।३६
तया गवा किं क्रियते
या न दोग्ध्री न गर्भिणी।
को ऽर्थः पुत्रेण जातेन
यो न विद्वान् न धार्मिकः ॥ २६।३६ ॥
विश्वास-प्रस्तुतिः - २६।३७
शास्त्र-शौर्यार्थ-रहितस्
तपो-विज्ञान-वर्जितः।
आचार-हीनः पुत्रस् तु
मूत्रोच्चार-समः स्मृतः ॥ २६।३७ ॥
मूलम् - २६।३७
शास्त्र-शौर्यार्थ-रहितस्
तपो-विज्ञान-वर्जितः।
आचार-हीनः पुत्रस् तु
मूत्रोच्चार-समः स्मृतः ॥ २६।३७ ॥
२६।५ पुत्र-विभागः
विश्वास-प्रस्तुतिः - २६।३८
स्थावर-द्विपदं चैव
यद्य् अपि स्वयम् आर्हितम्।
असम्भूय सुतान् सर्वान्
न दानं न च विक्रयः ॥ २६।३८ ॥
मूलम् - २६।३८
स्थावर-द्विपदं चैव
यद्य् अपि स्वयम् आर्हितम्।
असम्भूय सुतान् सर्वान्
न दानं न च विक्रयः ॥ २६।३८ ॥
विश्वास-प्रस्तुतिः - २६।३९
जाता जनिष्यद् गर्भ-स्थाः
पितृ-स्था ये च मानवाः।
सर्वे काङ्क्षन्ति तां वृत्तिम्
अनाच्छेद्यास् ततस् तु सा ॥ २६।३९ ॥
मूलम् - २६।३९
जाता जनिष्यद् गर्भ-स्थाः
पितृ-स्था ये च मानवाः।
सर्वे काङ्क्षन्ति तां वृत्तिम्
अनाच्छेद्यास् ततस् तु सा ॥ २६।३९ ॥
विश्वास-प्रस्तुतिः - २६।४०
गृहोपस्कर-वाह्यादि
भोज्याभरण-कर्मिणः।
दृश्यमाना विभज्यन्ते
गूढे केशो विधीयते ॥ २६।४० ॥
मूलम् - २६।४०
गृहोपस्कर-वाह्यादि
भोज्याभरण-कर्मिणः।
दृश्यमाना विभज्यन्ते
गूढे केशो विधीयते ॥ २६।४० ॥
विश्वास-प्रस्तुतिः - २६।४१
क्षत्रजास् त्रि-द्व्य्-एक-भागा
विड्जौ तु द्व्य्-एक-भागिनौ ॥ २६।४१ ॥
मूलम् - २६।४१
क्षत्रजास् त्रि-द्व्य्-एक-भागा
विड्जौ तु द्व्य्-एक-भागिनौ ॥ २६।४१ ॥
विश्वास-प्रस्तुतिः - २६।४२
ब्रह्म-क्सत्रिय-विष्-शूद्रा
विप्रोत्पन्नास् त्व् अनुक्रमात्।
चतुस्-त्रि-द्व्य्-एक-भागेन
भवेयुस् ते यथा-क्रमम् ॥ २६।४२ ॥
मूलम् - २६।४२
ब्रह्म-क्सत्रिय-विष्-शूद्रा
विप्रोत्पन्नास् त्व् अनुक्रमात्।
चतुस्-त्रि-द्व्य्-एक-भागेन
भवेयुस् ते यथा-क्रमम् ॥ २६।४२ ॥
विश्वास-प्रस्तुतिः - २६।४३
शूद्र्यां द्वि-जातिभिर् जातो
न भूमेर् भागम् अर्हति।
द्वि-जातिर् आप्नुयात् सर्वम्
इति धर्मो व्यवस्थितः ॥ २६।४३ ॥
मूलम् - २६।४३
शूद्र्यां द्वि-जातिभिर् जातो
न भूमेर् भागम् अर्हति।
द्वि-जातिर् आप्नुयात् सर्वम्
इति धर्मो व्यवस्थितः ॥ २६।४३ ॥
विश्वास-प्रस्तुतिः - २६।४४
तेषां सवर्णा ये पुत्रास्
ते तृतीयांश-भागिनः।
हीनास् तम् उपजीवेयुर्
ग्रासाच्छादन-सम्भृताः ॥ २६।४४ ॥
मूलम् - २६।४४
तेषां सवर्णा ये पुत्रास्
ते तृतीयांश-भागिनः।
हीनास् तम् उपजीवेयुर्
ग्रासाच्छादन-सम्भृताः ॥ २६।४४ ॥
विश्वास-प्रस्तुतिः - २६।४५
सर्वे ह्य् अनौरसस्यैते
पुत्रा दाय-हराः स्मृताः।
औरसे पुनर् उत्पन्ने
तेषु ज्यैष्ठ्यं न तिष्ठति ॥ २६।४५ ॥
मूलम् - २६।४५
सर्वे ह्य् अनौरसस्यैते
पुत्रा दाय-हराः स्मृताः।
औरसे पुनर् उत्पन्ने
तेषु ज्यैष्ठ्यं न तिष्ठति ॥ २६।४५ ॥
विश्वास-प्रस्तुतिः - २६।४६
पितामह-पितृभ्यां च
दत्तं मात्रा च यद् भवेत्।
तस्य तन् नापहर्तव्यं
शौर्य-भार्या-धनं तथा ॥ २६।४६ ॥
मूलम् - २६।४६
पितामह-पितृभ्यां च
दत्तं मात्रा च यद् भवेत्।
तस्य तन् नापहर्तव्यं
शौर्य-भार्या-धनं तथा ॥ २६।४६ ॥
विश्वास-प्रस्तुतिः - २६।४७
वस्त्रादयो ऽविभाज्या यैर्
उक्तं तैर् न विचारितम्।
धनं भवेत् समृद्धानां
वस्त्रालङ्कार-संश्रितम् ॥ २६।४७ ॥
मूलम् - २६।४७
वस्त्रादयो ऽविभाज्या यैर्
उक्तं तैर् न विचारितम्।
धनं भवेत् समृद्धानां
वस्त्रालङ्कार-संश्रितम् ॥ २६।४७ ॥
विश्वास-प्रस्तुतिः - २६।४८
ऋणम् उद्वाह्य लेखितम्
॥॥ ॥॥ ॥ २६।४८ ॥
मूलम् - २६।४८
ऋणम् उद्वाह्य लेखितम्
॥॥ ॥॥ ॥ २६।४८ ॥
विश्वास-प्रस्तुतिः - २६।४९
उक्त-प्रकारो विज्ञेयः
पत्रारूढ-ऋणे खलु।
उक्त्या विभजनीयं तद्
अन्यथानर्थकं भवेत् ॥ २६।४९ ॥
मूलम् - २६।४९
उक्त-प्रकारो विज्ञेयः
पत्रारूढ-ऋणे खलु।
उक्त्या विभजनीयं तद्
अन्यथानर्थकं भवेत् ॥ २६।४९ ॥
विश्वास-प्रस्तुतिः - २६।५०
मध्य-स्थितम् अनाजीव्यं
दातुं नैकस्य शक्यते।
युक्त्या विभजनीयं तद्
अन्यथानर्थकं भवेत् ॥ २६।५० ॥
मूलम् - २६।५०
मध्य-स्थितम् अनाजीव्यं
दातुं नैकस्य शक्यते।
युक्त्या विभजनीयं तद्
अन्यथानर्थकं भवेत् ॥ २६।५० ॥
विश्वास-प्रस्तुतिः - २६।५१
विक्रीय वस्त्राभरणं
धनम् उद्ग्राह्य लेखितम्।
कृतान्नं चाकृतान्नेन
परिवर्त्य विभज्यते ॥ २६।५१ ॥
मूलम् - २६।५१
विक्रीय वस्त्राभरणं
धनम् उद्ग्राह्य लेखितम्।
कृतान्नं चाकृतान्नेन
परिवर्त्य विभज्यते ॥ २६।५१ ॥
विश्वास-प्रस्तुतिः - २६।५२
योगक्षेमवतो लाभः
समत्वेन विभज्यते।
प्रचारश् च यथांशेन
कर्तव्यो रिक्थिभिः सदा ॥ २६।५२ ॥
मूलम् - २६।५२
योगक्षेमवतो लाभः
समत्वेन विभज्यते।
प्रचारश् च यथांशेन
कर्तव्यो रिक्थिभिः सदा ॥ २६।५२ ॥
विश्वास-प्रस्तुतिः - २६।५३
ब्रह्म-दायं गतां भूमिं
हरेद् यो ब्राह्मणी-सुतः।
गृहं द्विजातयः सर्वे
तथा क्षेत्रं क्रमागतम् ॥ २६।५३ ॥
मूलम् - २६।५३
ब्रह्म-दायं गतां भूमिं
हरेद् यो ब्राह्मणी-सुतः।
गृहं द्विजातयः सर्वे
तथा क्षेत्रं क्रमागतम् ॥ २६।५३ ॥
२६।६ पित्रा सह विभक्तानां व्यवस्था
विश्वास-प्रस्तुतिः - २६।५४
पित्रा सह विभक्ता ये
सापत्ना वा सहोदराः।
जघन्याश् चैव ये तेषां
पितृ-भाग-हरास् तु ते ॥ २६।५४ ॥
मूलम् - २६।५४
पित्रा सह विभक्ता ये
सापत्ना वा सहोदराः।
जघन्याश् चैव ये तेषां
पितृ-भाग-हरास् तु ते ॥ २६।५४ ॥
विश्वास-प्रस्तुतिः - २६।५५
अनीशः पूर्वजः पित्र्ये
भ्रातृ-भागे विभक्तजः ॥ २६।५५ ॥
मूलम् - २६।५५
अनीशः पूर्वजः पित्र्ये
भ्रातृ-भागे विभक्तजः ॥ २६।५५ ॥
विश्वास-प्रस्तुतिः - २६।५६
पुत्रैः सह विभक्तेन
पित्रा यत् स्वयम् आर्जितम्।
विभक्तजस्य तत् सर्वम्
अनीशाः पूर्वजाः स्मृताः ॥ २६।५६ ॥
मूलम् - २६।५६
पुत्रैः सह विभक्तेन
पित्रा यत् स्वयम् आर्जितम्।
विभक्तजस्य तत् सर्वम्
अनीशाः पूर्वजाः स्मृताः ॥ २६।५६ ॥
विश्वास-प्रस्तुतिः - २६।५७
यथा धने तथा र्णे च
दानादान-क्रयेषु च।
परस्परम् अनीशास् ते
मुक्त्वाशौचोदक-क्रियाम् ॥ २६।५७ ॥
मूलम् - २६।५७
यथा धने तथा र्णे च
दानादान-क्रयेषु च।
परस्परम् अनीशास् ते
मुक्त्वाशौचोदक-क्रियाम् ॥ २६।५७ ॥
विश्वास-प्रस्तुतिः - २६।५८
पैतामहं हृतं पित्रा
स्व-शक्त्या यद् उपार्जितम्।
विद्या-शौर्यादिनावाप्तं
तत्र स्वाम्यं पितुः स्मृतम् ॥ २६।५८ ॥
मूलम् - २६।५८
पैतामहं हृतं पित्रा
स्व-शक्त्या यद् उपार्जितम्।
विद्या-शौर्यादिनावाप्तं
तत्र स्वाम्यं पितुः स्मृतम् ॥ २६।५८ ॥
विश्वास-प्रस्तुतिः - २६।५९
प्रदानं स्वेच्छया कुर्यात्
भोगं चैव ततो धनात्।
तद्-अभावे ऽपि तनयाः
समांशाः परिकीर्तिताः ॥ २६।५९ ॥
मूलम् - २६।५९
प्रदानं स्वेच्छया कुर्यात्
भोगं चैव ततो धनात्।
तद्-अभावे ऽपि तनयाः
समांशाः परिकीर्तिताः ॥ २६।५९ ॥
विश्वास-प्रस्तुतिः - २६।६०
वस्त्रालङ्कार-शय्याइ
पितुर् यद् वाहनादिकम्।
गन्ध-माल्यैः समभ्यर्च्य
श्राद्ध-भोक्त्रे तद् अर्पयेत् ॥ २६।६० ॥
मूलम् - २६।६०
वस्त्रालङ्कार-शय्याइ
पितुर् यद् वाहनादिकम्।
गन्ध-माल्यैः समभ्यर्च्य
श्राद्ध-भोक्त्रे तद् अर्पयेत् ॥ २६।६० ॥
विश्वास-प्रस्तुतिः - २६।६१
पत्यौ जीवति यः स्त्रीभिर्
अलङ्कारो धृतो भवेत्।
न तं भजेरन् दायादाः
भजमानाः पतन्ति ते ॥ २६।६१ ॥
मूलम् - २६।६१
पत्यौ जीवति यः स्त्रीभिर्
अलङ्कारो धृतो भवेत्।
न तं भजेरन् दायादाः
भजमानाः पतन्ति ते ॥ २६।६१ ॥
विश्वास-प्रस्तुतिः - २६।६२
पितृ-प्रसादात् भुज्यन्ते
वस्त्राण्य् आभरणानि च ॥ २६।६२ ॥
मूलम् - २६।६२
पितृ-प्रसादात् भुज्यन्ते
वस्त्राण्य् आभरणानि च ॥ २६।६२ ॥
विश्वास-प्रस्तुतिः - २६।६३
कृते ऽकृते वा विभागे
रिक्थी यत्र प्रवर्तते।
सामान्यं चेद् भावयति
तत्र भाग-हरस् तु सः ॥ २६।६३ ॥
मूलम् - २६।६३
कृते ऽकृते वा विभागे
रिक्थी यत्र प्रवर्तते।
सामान्यं चेद् भावयति
तत्र भाग-हरस् तु सः ॥ २६।६३ ॥
विश्वास-प्रस्तुतिः - २६।६४
ऋणं लेख्यं गृहं क्षेत्रं
यस्य पैतामहं भवेत्।
चिर-काल-प्रोषितो ऽपि
भागभागागतस् तु सः ॥ २६।६४ ॥
मूलम् - २६।६४
ऋणं लेख्यं गृहं क्षेत्रं
यस्य पैतामहं भवेत्।
चिर-काल-प्रोषितो ऽपि
भागभागागतस् तु सः ॥ २६।६४ ॥
विश्वास-प्रस्तुतिः - २६।६५
गोत्र-साधारणं त्यक्त्वा
यो ऽन्यं देशं समाश्रितः।
अर्धतस् त्व् आगतस्यांशः
प्रदातव्यो न संशयः ॥ २६।६५ ॥
मूलम् - २६।६५
गोत्र-साधारणं त्यक्त्वा
यो ऽन्यं देशं समाश्रितः।
अर्धतस् त्व् आगतस्यांशः
प्रदातव्यो न संशयः ॥ २६।६५ ॥
विश्वास-प्रस्तुतिः - २६।६६
तृतीयः पञ्चमश् चैव
सप्तमो यो ऽपि वा भवेत्।
जन्मनाम् अपरिज्ञाने
लभेतांशं क्रमागते ॥ २६।६६ ॥
मूलम् - २६।६६
तृतीयः पञ्चमश् चैव
सप्तमो यो ऽपि वा भवेत्।
जन्मनाम् अपरिज्ञाने
लभेतांशं क्रमागते ॥ २६।६६ ॥
विश्वास-प्रस्तुतिः - २६।६७
यं परम्परया मौलाः
समस्ताः स्वामिनं विदुः।
तद् अन्वयस्यागतस्य
दातव्या गोत्रजैर् मही ॥ २६।६७ ॥
मूलम् - २६।६७
यं परम्परया मौलाः
समस्ताः स्वामिनं विदुः।
तद् अन्वयस्यागतस्य
दातव्या गोत्रजैर् मही ॥ २६।६७ ॥
विश्वास-प्रस्तुतिः - २६।६८
अविभक्त-विभक्तानां
कुल्यानां वसतां सह।
भूयो दाय-विभागः स्याद्
आचतुर्थाद् इति स्थितिः ॥ २६।६८ ॥
मूलम् - २६।६८
अविभक्त-विभक्तानां
कुल्यानां वसतां सह।
भूयो दाय-विभागः स्याद्
आचतुर्थाद् इति स्थितिः ॥ २६।६८ ॥
२६।७ पुत्र-भेदाः
विश्वास-प्रस्तुतिः - २६।६९
अनेकधा कृताः पुत्रा
ऋषिभिश् च पुरातनैः।
न शक्यन्ते ऽधुना कर्तुं
शक्ति-हीनैश् चिरन्तनैः ॥ २६।६९ ॥
मूलम् - २६।६९
अनेकधा कृताः पुत्रा
ऋषिभिश् च पुरातनैः।
न शक्यन्ते ऽधुना कर्तुं
शक्ति-हीनैश् चिरन्तनैः ॥ २६।६९ ॥
विश्वास-प्रस्तुतिः - २६।७०
एक एवौरसः पित्र्ये
धने स्वामी प्रकीर्तितः।
तत् तुल्यः पुत्रिक-पुत्रो
भर्तव्यास् त्व् अपरे स्मृताः ॥ २६।७० ॥
मूलम् - २६।७०
एक एवौरसः पित्र्ये
धने स्वामी प्रकीर्तितः।
तत् तुल्यः पुत्रिक-पुत्रो
भर्तव्यास् त्व् अपरे स्मृताः ॥ २६।७० ॥
विश्वास-प्रस्तुतिः - २६।७१
क्षेत्रजाद्याः सुतास् त्व् अन्ये
पञ्च-षट्-सप्त-भागिनः ॥ २६।७१ ॥
मूलम् - २६।७१
क्षेत्रजाद्याः सुतास् त्व् अन्ये
पञ्च-षट्-सप्त-भागिनः ॥ २६।७१ ॥
विश्वास-प्रस्तुतिः - २६।७२
दत्तो ऽपविद्धः क्रीतश् च
कृतः शौद्रस् तथैव च।
जाति-शुद्धा मध्यमास् ते
सर्वे रिक्थ-सुताः स्मृताः ॥ २६।७२ ॥
मूलम् - २६।७२
दत्तो ऽपविद्धः क्रीतश् च
कृतः शौद्रस् तथैव च।
जाति-शुद्धा मध्यमास् ते
सर्वे रिक्थ-सुताः स्मृताः ॥ २६।७२ ॥
विश्वास-प्रस्तुतिः - २६।७३
क्षेत्रजो गर्हितः सद्भिस्
तथा पौनर्भवः सुतः।
कानीनश् च सहोढश् च
गूढजः पुत्रिका-सुतः ॥ २६।७३ ॥
मूलम् - २६।७३
क्षेत्रजो गर्हितः सद्भिस्
तथा पौनर्भवः सुतः।
कानीनश् च सहोढश् च
गूढजः पुत्रिका-सुतः ॥ २६।७३ ॥
विश्वास-प्रस्तुतिः - २६।७४
शूद्रा-पुत्रः स्वयन्दत्तो
ये चैते क्रीतकाः स्मृताः।
सर्वे ते मैत्रिणः प्रोक्ता
काण्ड-पृष्ठा न संशयः ॥ २६।७४ ॥
मूलम् - २६।७४
शूद्रा-पुत्रः स्वयन्दत्तो
ये चैते क्रीतकाः स्मृताः।
सर्वे ते मैत्रिणः प्रोक्ता
काण्ड-पृष्ठा न संशयः ॥ २६।७४ ॥
विश्वास-प्रस्तुतिः - २६।७५
स्वकुलं पृष्ठतः कृत्वा
यो वै पर-कुलं व्रजेत्।
तेन दुश्चरितेनासौ
काण्ड-पृष्ठो न संशयः ॥ २६।७५ ॥
मूलम् - २६।७५
स्वकुलं पृष्ठतः कृत्वा
यो वै पर-कुलं व्रजेत्।
तेन दुश्चरितेनासौ
काण्ड-पृष्ठो न संशयः ॥ २६।७५ ॥
विश्वास-प्रस्तुतिः - २६।७६
अग्निं प्रजापतिं चेष्ट्वा
क्रियते गौतमो ऽवदत्।
अन्ये त्व् आहुर् अपुत्रस्य
चिन्तिता पुत्रिका भवेत् ॥ २६।७६ ॥
मूलम् - २६।७६
अग्निं प्रजापतिं चेष्ट्वा
क्रियते गौतमो ऽवदत्।
अन्ये त्व् आहुर् अपुत्रस्य
चिन्तिता पुत्रिका भवेत् ॥ २६।७६ ॥
विश्वास-प्रस्तुतिः - २६।७७
पुत्रास् त्रयोदश प्रोक्ता
मनुना येन पूर्वशः।
सन्तान-कारणं तेषाम्
औरसः पुत्रिका तथा ॥ २६।७७ ॥
मूलम् - २६।७७
पुत्रास् त्रयोदश प्रोक्ता
मनुना येन पूर्वशः।
सन्तान-कारणं तेषाम्
औरसः पुत्रिका तथा ॥ २६।७७ ॥
विश्वास-प्रस्तुतिः - २६।७८
आज्यं विना यथा तैलं
सद्भिः प्रतिनिधिः स्मृतम्।
तथैकादश पुत्रास् तु
पुत्रिकौरसयोर् विना ॥ २६।७८ ॥
मूलम् - २६।७८
आज्यं विना यथा तैलं
सद्भिः प्रतिनिधिः स्मृतम्।
तथैकादश पुत्रास् तु
पुत्रिकौरसयोर् विना ॥ २६।७८ ॥
विश्वास-प्रस्तुतिः - २६।७९
यद्य् एकजाता बहवो
भ्रातरस् तु सहोदराः।
एकस्यापि सुते जाते
सर्वे ते पुत्रिणः स्मृताः ॥ २६।७९ ॥
मूलम् - २६।७९
यद्य् एकजाता बहवो
भ्रातरस् तु सहोदराः।
एकस्यापि सुते जाते
सर्वे ते पुत्रिणः स्मृताः ॥ २६।७९ ॥
विश्वास-प्रस्तुतिः - २६।८०
बह्वीनाम् एक-पत्नीनाम्
एष एव विधिः स्मृतः।
एका चेत् पुत्रिणी तासां
सर्वासां पिण्डदस् तु सः ॥ २६।८० ॥
मूलम् - २६।८०
बह्वीनाम् एक-पत्नीनाम्
एष एव विधिः स्मृतः।
एका चेत् पुत्रिणी तासां
सर्वासां पिण्डदस् तु सः ॥ २६।८० ॥
विश्वास-प्रस्तुतिः - २६।८१
पुन्नाम्नो नरकात् पुत्रः
पितरं त्रायते यतः।
मुख-सन्दर्शनेनापि
तद् उत्पत्तौ यतेत सः ॥ २६।८१ ॥
मूलम् - २६।८१
पुन्नाम्नो नरकात् पुत्रः
पितरं त्रायते यतः।
मुख-सन्दर्शनेनापि
तद् उत्पत्तौ यतेत सः ॥ २६।८१ ॥
विश्वास-प्रस्तुतिः - २६।८२
पौत्रो ऽथ पुत्रिका-पुत्रः
स्वर्ग-प्राप्ति-कराव् उभौ।
रिक्थे च पिण्ड-दाने च
समौ तौ परिकीर्तितौ ॥ २६।८२ ॥
मूलम् - २६।८२
पौत्रो ऽथ पुत्रिका-पुत्रः
स्वर्ग-प्राप्ति-कराव् उभौ।
रिक्थे च पिण्ड-दाने च
समौ तौ परिकीर्तितौ ॥ २६।८२ ॥
विश्वास-प्रस्तुतिः - २६।८३
कामतश् च शूद्रावरोधजस्य भ्रातुर् अंशं ।
सम्मान-मात्रं प्रेते पितरि दद्युः शुश्रूषुश् चेत् (?) ॥ २६।८३ ॥
मूलम् - २६।८३
कामतश् च शूद्रावरोधजस्य भ्रातुर् अंशं ।
सम्मान-मात्रं प्रेते पितरि दद्युः शुश्रूषुश् चेत् (?) ॥ २६।८३ ॥
विश्वास-प्रस्तुतिः - २६।८४
अन्नार्थं तण्डुल-प्रस्थम्
अपराह्ने तु सेन्धनम्।
वसनं त्रि-पण-क्रीतं
देयम् एकं त्रि-मासतः ॥ २६।८४ ॥
मूलम् - २६।८४
अन्नार्थं तण्डुल-प्रस्थम्
अपराह्ने तु सेन्धनम्।
वसनं त्रि-पण-क्रीतं
देयम् एकं त्रि-मासतः ॥ २६।८४ ॥
२६।८ विधवा-भागः
विश्वास-प्रस्तुतिः - २६।८५
एतावद् एव साध्वीनां
चोदितं विधवा-धनम् ॥ २६।८५ ॥
मूलम् - २६।८५
एतावद् एव साध्वीनां
चोदितं विधवा-धनम् ॥ २६।८५ ॥
विश्वास-प्रस्तुतिः - २६।८६
वसनस्याशनस्यैव
तथैव रजकस्य च।
धनं व्यपोह्य तच् छिष्टं
दायादानां प्रकल्पयेत् ॥ २६।८६ ॥
मूलम् - २६।८६
वसनस्याशनस्यैव
तथैव रजकस्य च।
धनं व्यपोह्य तच् छिष्टं
दायादानां प्रकल्पयेत् ॥ २६।८६ ॥
विश्वास-प्रस्तुतिः - २६।८७
अपुत्रस्याथ कुलजा
पत्नी दुहितरो ऽपि वा।
तद्-अभावे पिता माता
भ्राता पुत्राश् च कीर्तिताः ॥ २६।८७ ॥
मूलम् - २६।८७
अपुत्रस्याथ कुलजा
पत्नी दुहितरो ऽपि वा।
तद्-अभावे पिता माता
भ्राता पुत्राश् च कीर्तिताः ॥ २६।८७ ॥
विश्वास-प्रस्तुतिः - २६।८८
अपुत्रेण सुतः कार्यो
यादृक् तादृक् प्रयत्नतः।
पिण्डोदक-क्रिया-हेतोर्
धर्म-सङ्कीर्तनस्य च ॥ २६।८८ ॥
मूलम् - २६।८८
अपुत्रेण सुतः कार्यो
यादृक् तादृक् प्रयत्नतः।
पिण्डोदक-क्रिया-हेतोर्
धर्म-सङ्कीर्तनस्य च ॥ २६।८८ ॥
विश्वास-प्रस्तुतिः - २६।८९
काङ्क्षण्ति पितरः पुत्रान्
नरकापत-भीरवः।
गयां यास्यति यः कश्चित्
सो ऽस्मान् सन्तारयिष्यति ॥ २६।८९ ॥
मूलम् - २६।८९
काङ्क्षण्ति पितरः पुत्रान्
नरकापत-भीरवः।
गयां यास्यति यः कश्चित्
सो ऽस्मान् सन्तारयिष्यति ॥ २६।८९ ॥
विश्वास-प्रस्तुतिः - २६।९०
यथा जलं कुप्लवेन
तरन् मज्जति मानवः।
तद्वत् पिता कुपुत्रेण
तमस्य् अन्धे निमज्जति ॥ २६।९० ॥
मूलम् - २६।९०
यथा जलं कुप्लवेन
तरन् मज्जति मानवः।
तद्वत् पिता कुपुत्रेण
तमस्य् अन्धे निमज्जति ॥ २६।९० ॥
विश्वास-प्रस्तुतिः - २६।९१
करिष्यति वृषोत्सर्गम्
इष्टापूर्तं तथैव च।
पालयिष्यति वार्धक्ये
श्राद्धं दास्यति चान्वहम् ॥ २६।९१ ॥
मूलम् - २६।९१
करिष्यति वृषोत्सर्गम्
इष्टापूर्तं तथैव च।
पालयिष्यति वार्धक्ये
श्राद्धं दास्यति चान्वहम् ॥ २६।९१ ॥
२६।९ भार्या-भागः
विश्वास-प्रस्तुतिः - २६।९२
आम्नाये स्मृति-तन्त्रे च
लोकाचारे च सूरिभिः।
शरीरार्धं स्मृता भार्या
पुण्यापुण्य-फले समा ॥ २६।९२ ॥
मूलम् - २६।९२
आम्नाये स्मृति-तन्त्रे च
लोकाचारे च सूरिभिः।
शरीरार्धं स्मृता भार्या
पुण्यापुण्य-फले समा ॥ २६।९२ ॥
विश्वास-प्रस्तुतिः - २६।९३
यस्य नोपरता भार्या
देहार्धं तस्य जीवति।
जीवत्य् अर्ध-शरीरे ऽर्थं
कथम् अन्यः समाप्नुयात् ॥ २६।९३ ॥
मूलम् - २६।९३
यस्य नोपरता भार्या
देहार्धं तस्य जीवति।
जीवत्य् अर्ध-शरीरे ऽर्थं
कथम् अन्यः समाप्नुयात् ॥ २६।९३ ॥
विश्वास-प्रस्तुतिः - २६।९४
सकुल्यैर् विद्यमानस् तु
पितृ-भ्रातृ-सनाभिभिः।
असुतस्य प्रमीतस्य
पत्नी तद् भाग-हारिणी ॥ २६।९४ ॥
मूलम् - २६।९४
सकुल्यैर् विद्यमानस् तु
पितृ-भ्रातृ-सनाभिभिः।
असुतस्य प्रमीतस्य
पत्नी तद् भाग-हारिणी ॥ २६।९४ ॥
विश्वास-प्रस्तुतिः - २६।९५
पूर्व-प्रमीताग्निहोत्रं
मृतं भर्तरि तद्-धनम्।
विन्देत् पतिव्रता नारी
धर्म एष सनातनः ॥ २६।९५ ॥
मूलम् - २६।९५
पूर्व-प्रमीताग्निहोत्रं
मृतं भर्तरि तद्-धनम्।
विन्देत् पतिव्रता नारी
धर्म एष सनातनः ॥ २६।९५ ॥
मूर्वं म्र्ता हरेद् अग्निम्
अन्वारूढा हरेद् अघम्।
पुत्राभावे तु पत्नी स्यात्
पत्न्य्-अभावे तु सोदरः \
तद्-अभावे तु दायादः # पश्चाद् दौहित्रकं धनम् ॥ २६।९६ ॥
विश्वास-प्रस्तुतिः - २६।९७
जङ्गमं स्थावरं हेम
रूप्य-धान्य-रसाम्बरम्।
आदाय दापयेच् छ्राद्धं
मास-षाण्मासिकादिकम् ॥ २६।९७ ॥
मूलम् - २६।९७
जङ्गमं स्थावरं हेम
रूप्य-धान्य-रसाम्बरम्।
आदाय दापयेच् छ्राद्धं
मास-षाण्मासिकादिकम् ॥ २६।९७ ॥
विश्वास-प्रस्तुतिः - २६।९८
पितृव्य-गुरु-दौहित्रान्
स्वसृ-भर्त्रीयम् आतुलान्।
पूजयेत् कव्यपूर्ताभ्यां
वृद्धान् आथातिथीन् स्त्रियः ॥ २६।९८ ॥
मूलम् - २६।९८
पितृव्य-गुरु-दौहित्रान्
स्वसृ-भर्त्रीयम् आतुलान्।
पूजयेत् कव्यपूर्ताभ्यां
वृद्धान् आथातिथीन् स्त्रियः ॥ २६।९८ ॥
विश्वास-प्रस्तुतिः - २६।९९
यद् विभक्ते धने किञ्चिद्
आध्य्-आदि-विधि-संस्मृतम्।
तज्-जाया स्थावरं मुक्त्वा
लभेत गत-भर्तृका ॥ २६।९९ ॥
मूलम् - २६।९९
यद् विभक्ते धने किञ्चिद्
आध्य्-आदि-विधि-संस्मृतम्।
तज्-जाया स्थावरं मुक्त्वा
लभेत गत-भर्तृका ॥ २६।९९ ॥
वृत्तस्थापि कृते ऽप्य् अंशे
न स्त्री स्थावरम् अर्हति।
विधवा यौवनस्था चेन्
नारी भवति कर्कशा \
आयुषः क्षपणार्थं तु # दातव्यं जीवनं तदा ॥ २६।१०० ॥
विश्वास-प्रस्तुतिः - २६।१०१
मृते भर्तरि भर्तृ-अंशं
लभेत कुल-पालिका।
यावज् जीवं हीन-स्वाम्यं
दानाधमन-विक्रये ॥ २६।१०१ ॥
मूलम् - २६।१०१
मृते भर्तरि भर्तृ-अंशं
लभेत कुल-पालिका।
यावज् जीवं हीन-स्वाम्यं
दानाधमन-विक्रये ॥ २६।१०१ ॥
विश्वास-प्रस्तुतिः - २६।१०२
क्रय-क्रीता तु या नारी
सम्भोगार्थं सुतार्थिना।
गृहीता वान्यदीया वा
सैव स्त्री परिकीर्त्यते ॥ २६।१०२ ॥
मूलम् - २६।१०२
क्रय-क्रीता तु या नारी
सम्भोगार्थं सुतार्थिना।
गृहीता वान्यदीया वा
सैव स्त्री परिकीर्त्यते ॥ २६।१०२ ॥
विश्वास-प्रस्तुतिः - २६।१०३
प्रदद्यात् त्व् एव पिण्डं वा
क्षेत्रांशं वा यदृच्छया ॥ २६।१०३ ॥
मूलम् - २६।१०३
प्रदद्यात् त्व् एव पिण्डं वा
क्षेत्रांशं वा यदृच्छया ॥ २६।१०३ ॥
विश्वास-प्रस्तुतिः - २६।१०४
स्थावराज् जीवनं स्त्रीभ्यो
यद् दत्तं श्वशुरेण तु।
न तच् छक्यम् अपाहर्तुं
इतरैः श्वशुरे म्र्ते ॥ २६।१०४ ॥
मूलम् - २६।१०४
स्थावराज् जीवनं स्त्रीभ्यो
यद् दत्तं श्वशुरेण तु।
न तच् छक्यम् अपाहर्तुं
इतरैः श्वशुरे म्र्ते ॥ २६।१०४ ॥
विश्वास-प्रस्तुतिः - २६।१०५
सपिण्डा बान्धवा ये तु
तस्याः स्युः परिपन्थिनः।
हिंस्युर् धनानि तान् राजा
चौर-दण्डेण घातयेत् ॥ २६।१०५ ॥
मूलम् - २६।१०५
सपिण्डा बान्धवा ये तु
तस्याः स्युः परिपन्थिनः।
हिंस्युर् धनानि तान् राजा
चौर-दण्डेण घातयेत् ॥ २६।१०५ ॥
२६।१० संसृष्टि-विभागः
संसृष्टौ यौ पुनः प्रीत्या
तौ परस्पर-भागिनौ।
विभक्ता भ्रातरो ये तु
सम्प्रीत्यैकत्र संस्थिताः \
पुनर् विभाग-करणे # तेषां ज्यैष्ठ्यं न विद्यते ॥ २६।१०६ ॥
विश्वास-प्रस्तुतिः - २६।१०७
कदाचिद् वा प्रमीयेत
प्रव्रजेद् वा कथञ्चन।
न लुप्यते तस्य भागः
सोदरस्य विधीयते ॥ २६।१०७ ॥
मूलम् - २६।१०७
कदाचिद् वा प्रमीयेत
प्रव्रजेद् वा कथञ्चन।
न लुप्यते तस्य भागः
सोदरस्य विधीयते ॥ २६।१०७ ॥
विश्वास-प्रस्तुतिः - २६।१०८
या तस्य भगिनी सा तु
ततो ऽंशं लब्धुम् अर्हति।
अनपत्यस्य धर्मो ऽयम्
अभार्य-पितृकस्य च ॥ २६।१०८ ॥
मूलम् - २६।१०८
या तस्य भगिनी सा तु
ततो ऽंशं लब्धुम् अर्हति।
अनपत्यस्य धर्मो ऽयम्
अभार्य-पितृकस्य च ॥ २६।१०८ ॥
विश्वास-प्रस्तुतिः - २६।१०९
सा च दत्ता त्व् अदत्ता वा
सोदरे तु मृते सति।
तस्यांशं तु हरेत् सैव
द्वयोर् व्यक्तं हि कारणम् ॥ २६।१०९ ॥
मूलम् - २६।१०९
सा च दत्ता त्व् अदत्ता वा
सोदरे तु मृते सति।
तस्यांशं तु हरेत् सैव
द्वयोर् व्यक्तं हि कारणम् ॥ २६।१०९ ॥
विश्वास-प्रस्तुतिः - २६।११०
अनन्तरः सपिण्डाद् यस्
तस्य तस्य धनं भवेत् ॥ २६।११० ॥
मूलम् - २६।११०
अनन्तरः सपिण्डाद् यस्
तस्य तस्य धनं भवेत् ॥ २६।११० ॥
विश्वास-प्रस्तुतिः - २६।१११
मृतो ऽनपत्यो ऽभार्यश् चेद्
अभ्रातृ-पितृ-मातृकः।
सर्वे सपिण्डास् तद् दायं
विभजेरन् यथांशतः ॥ २६।१११ ॥
मूलम् - २६।१११
मृतो ऽनपत्यो ऽभार्यश् चेद्
अभ्रातृ-पितृ-मातृकः।
सर्वे सपिण्डास् तद् दायं
विभजेरन् यथांशतः ॥ २६।१११ ॥
विश्वास-प्रस्तुतिः - २६।११२
संसृष्टानां तु यः कश्चिद्
विद्या शौर्यादिना धनम्।
प्राप्नोति तस्य दातव्यो
द्व्यंशः शेषाः समांशिनः ॥ २६।११२ ॥
मूलम् - २६।११२
संसृष्टानां तु यः कश्चिद्
विद्या शौर्यादिना धनम्।
प्राप्नोति तस्य दातव्यो
द्व्यंशः शेषाः समांशिनः ॥ २६।११२ ॥
विश्वास-प्रस्तुतिः - २६।११३
विभक्तो यः पुनः पित्रा
भ्रात्रा चैकत्र संस्थितः।
पितृव्येणाथवा प्रीत्या
तत् संसृष्टः स उच्यते ॥ २६।११३ ॥
मूलम् - २६।११३
विभक्तो यः पुनः पित्रा
भ्रात्रा चैकत्र संस्थितः।
पितृव्येणाथवा प्रीत्या
तत् संसृष्टः स उच्यते ॥ २६।११३ ॥
विश्वास-प्रस्तुतिः - २६।११४
सोदर्या विभजेरंस् तं
समेत्य सहिताः समम्।
भ्रातरो ये च संसृष्टा
भगिन्यश् च सनाभयः ॥ २६।११४ ॥
मूलम् - २६।११४
सोदर्या विभजेरंस् तं
समेत्य सहिताः समम्।
भ्रातरो ये च संसृष्टा
भगिन्यश् च सनाभयः ॥ २६।११४ ॥
विश्वास-प्रस्तुतिः - २६।११५
येषां ज्येष्ठः कनिष्ठो वा
हीयेतांश-प्रदानतः।
म्रियेतान्यतरो वापि
तस्य भागो न लुप्यते ॥ २६।११५ ॥
मूलम् - २६।११५
येषां ज्येष्ठः कनिष्ठो वा
हीयेतांश-प्रदानतः।
म्रियेतान्यतरो वापि
तस्य भागो न लुप्यते ॥ २६।११५ ॥
विश्वास-प्रस्तुतिः - २६।११६
॥॥ ॥॥
सोदरस्य तु सोदरः।
दद्याच् चापहरेच् चांशं
जातस्य च मृतस्य च ॥ २६।११६ ॥
मूलम् - २६।११६
॥॥ ॥॥
सोदरस्य तु सोदरः।
दद्याच् चापहरेच् चांशं
जातस्य च मृतस्य च ॥ २६।११६ ॥
विश्वास-प्रस्तुतिः - २६।११७
अन्योदर्यस् तु संसृष्टी
नान्योदर्याद् धनं हरेत्।
असंसृष्ट्य् अपि चादद्यात्
सोदर्यो नान्य-मातृजः ॥ २६।११७ ॥
मूलम् - २६।११७
अन्योदर्यस् तु संसृष्टी
नान्योदर्याद् धनं हरेत्।
असंसृष्ट्य् अपि चादद्यात्
सोदर्यो नान्य-मातृजः ॥ २६।११७ ॥
विश्वास-प्रस्तुतिः - २६।११८
प्रमीत-पितृकाणां तु
पितृतो भाग-कल्पना ॥ २६।११८ ॥
मूलम् - २६।११८
प्रमीत-पितृकाणां तु
पितृतो भाग-कल्पना ॥ २६।११८ ॥
विश्वास-प्रस्तुतिः - २६।११९
ये ऽपुत्राः क्षत्रविट्-शूद्राः
पत्नी-भ्रातृ-विवर्जिताः।
तेषां धन-हरो राजा
सर्वस्याधिपतिर् हि सः ॥ २६।११९ ॥
मूलम् - २६।११९
ये ऽपुत्राः क्षत्रविट्-शूद्राः
पत्नी-भ्रातृ-विवर्जिताः।
तेषां धन-हरो राजा
सर्वस्याधिपतिर् हि सः ॥ २६।११९ ॥
२६।११ पुत्राणां वर्णानुरूपेण विशेषः
विश्वास-प्रस्तुतिः - २६।१२०
विप्रेण क्षत्रिया-जातो
जन्म-ज्येष्ठो गुणान्वितः।
भवेत् समांशः क्षत्रेण
वैश्या-जातस् तथैव च ॥ २६।१२० ॥
मूलम् - २६।१२०
विप्रेण क्षत्रिया-जातो
जन्म-ज्येष्ठो गुणान्वितः।
भवेत् समांशः क्षत्रेण
वैश्या-जातस् तथैव च ॥ २६।१२० ॥
विश्वास-प्रस्तुतिः - २६।१२१
न प्रतिग्रह-भूर् देया
क्षत्रियादि-सुताय वै।
यद्य् अप्य् एषाम् पिता दद्यान्
मृते विप्रा-सुतो हरेत् ॥ २६।१२१ ॥
मूलम् - २६।१२१
न प्रतिग्रह-भूर् देया
क्षत्रियादि-सुताय वै।
यद्य् अप्य् एषाम् पिता दद्यान्
मृते विप्रा-सुतो हरेत् ॥ २६।१२१ ॥
विश्वास-प्रस्तुतिः - २६।१२२
शूद्र्यां द्वि-जातिभिर् जातो
न भूमेर् भागम् अर्हति।
सजाताव् आप्नुयात् सर्वम्
इति धर्मो व्यवस्थितः ॥ २६।१२२ ॥
मूलम् - २६।१२२
शूद्र्यां द्वि-जातिभिर् जातो
न भूमेर् भागम् अर्हति।
सजाताव् आप्नुयात् सर्वम्
इति धर्मो व्यवस्थितः ॥ २६।१२२ ॥
विश्वास-प्रस्तुतिः - २६।१२३
निषाद एक-पुत्रस् तु
विप्रस्य स तृतीय-भाक्।
द्वौ सकुल्याः सपिण्डा वा
स्वधा-दाताथ संहरेत् ॥ २६।१२३ ॥
मूलम् - २६।१२३
निषाद एक-पुत्रस् तु
विप्रस्य स तृतीय-भाक्।
द्वौ सकुल्याः सपिण्डा वा
स्वधा-दाताथ संहरेत् ॥ २६।१२३ ॥
विश्वास-प्रस्तुतिः - २६।१२४
कुल्याभावे स्वधा-दाता
आचार्यः शिष्य एव वा।
सर्वास्व् आपत्सु तान् वर्णांस्
तथैव प्रतिपादयेत् ॥ २६।१२४ ॥
मूलम् - २६।१२४
कुल्याभावे स्वधा-दाता
आचार्यः शिष्य एव वा।
सर्वास्व् आपत्सु तान् वर्णांस्
तथैव प्रतिपादयेत् ॥ २६।१२४ ॥
विश्वास-प्रस्तुतिः - २६।१२५
अनपत्यस्य शुश्रूषुर्
गुणवाञ् शूद्र-योनिजः।
लभेताजीवनं शेषं
सपिण्डाः समवाप्नुयुः ॥ २६।१२५ ॥
मूलम् - २६।१२५
अनपत्यस्य शुश्रूषुर्
गुणवाञ् शूद्र-योनिजः।
लभेताजीवनं शेषं
सपिण्डाः समवाप्नुयुः ॥ २६।१२५ ॥
२६।१२ दुहितुः दायार्हत्वम्
विश्वास-प्रस्तुतिः - २६।१२६
भर्तुर् धन-हरी पत्नी
तां विना दुहिता स्मृता ॥ २६।१२६ ॥
मूलम् - २६।१२६
भर्तुर् धन-हरी पत्नी
तां विना दुहिता स्मृता ॥ २६।१२६ ॥
विश्वास-प्रस्तुतिः - २६।१२७
अङ्गाद् अङ्गात् सम्भवति
पुत्रवद् दुहिता नृणाम्।
तस्मात् पितृ-धनं त्व् अन्यः
कथं गृह्णीत मानवः ॥ २६।१२७ ॥
मूलम् - २६।१२७
अङ्गाद् अङ्गात् सम्भवति
पुत्रवद् दुहिता नृणाम्।
तस्मात् पितृ-धनं त्व् अन्यः
कथं गृह्णीत मानवः ॥ २६।१२७ ॥
विश्वास-प्रस्तुतिः - २६।१२८
तद्-अभावे तु दुहिता
यद्य् अनूढा भवेत् तदा।
अपुत्र-पौत्र-सन्ताने
दौहित्रा धनम् आप्नुयुः ॥ २६।१२८ ॥
मूलम् - २६।१२८
तद्-अभावे तु दुहिता
यद्य् अनूढा भवेत् तदा।
अपुत्र-पौत्र-सन्ताने
दौहित्रा धनम् आप्नुयुः ॥ २६।१२८ ॥
विश्वास-प्रस्तुतिः - २६।१२९
यथैवात्मा तथा पुत्रः
पुत्रेण दुहिता समा।
तस्याम् आत्मनि तिष्ठन्ति
कथम् अन्यो धनं हरेत् ॥ २६।१२९ ॥
मूलम् - २६।१२९
यथैवात्मा तथा पुत्रः
पुत्रेण दुहिता समा।
तस्याम् आत्मनि तिष्ठन्ति
कथम् अन्यो धनं हरेत् ॥ २६।१२९ ॥
विश्वास-प्रस्तुतिः - २६।१३०
पौत्र-दौहित्रयोर् लोके
विशेषो नास्ति धर्मतः।
अनेनैव विधानेन
सुतं चक्रे ऽथ पुत्रिकाम् ॥ २६।१३० ॥
मूलम् - २६।१३०
पौत्र-दौहित्रयोर् लोके
विशेषो नास्ति धर्मतः।
अनेनैव विधानेन
सुतं चक्रे ऽथ पुत्रिकाम् ॥ २६।१३० ॥
विश्वास-प्रस्तुतिः - २६।१३१
पुमान् पुंसो ऽधिके शुक्ले
स्त्री भवत्य् अधिके स्त्रियाः ॥ २६।१३१ ॥
मूलम् - २६।१३१
पुमान् पुंसो ऽधिके शुक्ले
स्त्री भवत्य् अधिके स्त्रियाः ॥ २६।१३१ ॥
विश्वास-प्रस्तुतिः - २६।१३२
सदृशी सदृशेनोढा
साध्वी शुश्रूषणे रता।
कृताकृता वा पुत्रस्य
पितुर् धन-हरी तु सा ॥ २६।१३२ ॥
मूलम् - २६।१३२
सदृशी सदृशेनोढा
साध्वी शुश्रूषणे रता।
कृताकृता वा पुत्रस्य
पितुर् धन-हरी तु सा ॥ २६।१३२ ॥
विश्वास-प्रस्तुतिः - २६।१३३
यथा पितृ-धने स्वाम्यं
तस्याः सत्स्व् अपि बन्धुषु।
तथैव तत्-सुतो ऽपीष्टे
मातृ-मातामहे धने ॥ २६।१३३ ॥
मूलम् - २६।१३३
यथा पितृ-धने स्वाम्यं
तस्याः सत्स्व् अपि बन्धुषु।
तथैव तत्-सुतो ऽपीष्टे
मातृ-मातामहे धने ॥ २६।१३३ ॥
विश्वास-प्रस्तुतिः - २६।१३४
तद्-अभावे भ्रातरस् तु
भ्रातृ-पुत्राः सनाभयः।
सकुल्या बान्धवाः शिष्याः
श्रोत्रियाश् च धनार्हकाः ॥ २६।१३४ ॥
मूलम् - २६।१३४
तद्-अभावे भ्रातरस् तु
भ्रातृ-पुत्राः सनाभयः।
सकुल्या बान्धवाः शिष्याः
श्रोत्रियाश् च धनार्हकाः ॥ २६।१३४ ॥
२६।१३ अपुत्रस्य धन-विभागः
अनपत्यस्य पुत्रस्य
माता दायम् अवाप्नुयात्।
भार्या-सुत-विहीनस्य
तनयस्य मृतस्य तु \
माता रिक्थ-हरी ज्ञेया # भ्राता वा तद्-अनुज्ञया ॥ २६।१३५ ॥
विश्वास-प्रस्तुतिः - २६।१३६
पुत्राभावे तु पत्नी स्यात्
पत्न्य्-अभावे तु सोदरः।
तद्-अभावे तु दायादः
पश्चाद् दौहित्रकं धनम् ॥ २६।१३६ ॥
मूलम् - २६।१३६
पुत्राभावे तु पत्नी स्यात्
पत्न्य्-अभावे तु सोदरः।
तद्-अभावे तु दायादः
पश्चाद् दौहित्रकं धनम् ॥ २६।१३६ ॥
विश्वास-प्रस्तुतिः - २६।१३७
समुत्पन्नाद् धनाद् अर्धं
तद्-अर्थं स्थापयेत् प्र्थक्।
मास-षाण्मासिके श्राद्धे
वार्षिके वा प्रयत्नतः ॥ २६।१३७ ॥
मूलम् - २६।१३७
समुत्पन्नाद् धनाद् अर्धं
तद्-अर्थं स्थापयेत् प्र्थक्।
मास-षाण्मासिके श्राद्धे
वार्षिके वा प्रयत्नतः ॥ २६।१३७ ॥
विश्वास-प्रस्तुतिः - २६।१३८
बहवो ज्ञातयो यत्र
सकुल्या बान्धवास् तथा।
यस् त्व् आसन्नतरस् तेषां
सो ऽनपत्य-धनं हरेत् ॥ २६।१३८ ॥
मूलम् - २६।१३८
बहवो ज्ञातयो यत्र
सकुल्या बान्धवास् तथा।
यस् त्व् आसन्नतरस् तेषां
सो ऽनपत्य-धनं हरेत् ॥ २६।१३८ ॥
विश्वास-प्रस्तुतिः - २६।१३९
भ्राता वा भ्रातृ-पुत्रो वा
सपिण्डः शिष्य एव वा।
सह पिण्ड-क्रियां कृत्वा
कुर्याद् अभ्युदयं ततः ॥ २६।१३९ ॥
मूलम् - २६।१३९
भ्राता वा भ्रातृ-पुत्रो वा
सपिण्डः शिष्य एव वा।
सह पिण्ड-क्रियां कृत्वा
कुर्याद् अभ्युदयं ततः ॥ २६।१३९ ॥
विश्वास-प्रस्तुतिः - २६।१४०
स्वेच्छा-कृत-विभागो यः
पुनर् एव विसंवदेत्।
स राज्ञांशे स्वके स्थाप्यः
शासनीयो ऽनुबन्धकृत् ॥ २६।१४० ॥
मूलम् - २६।१४०
स्वेच्छा-कृत-विभागो यः
पुनर् एव विसंवदेत्।
स राज्ञांशे स्वके स्थाप्यः
शासनीयो ऽनुबन्धकृत् ॥ २६।१४० ॥
विश्वास-प्रस्तुतिः - २६।१४१
साधारण-ऋण-न्यास-
निह्नवे छद्मना क्रियाम्।
पार्श्व-हानि-कारीं कृत्वा
बलान् नैव प्रदापयेत् ॥ २६।१४१ ॥
मूलम् - २६।१४१
साधारण-ऋण-न्यास-
निह्नवे छद्मना क्रियाम्।
पार्श्व-हानि-कारीं कृत्वा
बलान् नैव प्रदापयेत् ॥ २६।१४१ ॥
विश्वास-प्रस्तुतिः - २६।१४२
मायाविनो धृत-धनाः
क्रूरा लुब्धाश् च ये नराः।
सम्प्रीत्या साधनीयास् ते
स्वार्थ-हान्या छलेन वा ॥ २६।१४२ ॥
मूलम् - २६।१४२
मायाविनो धृत-धनाः
क्रूरा लुब्धाश् च ये नराः।
सम्प्रीत्या साधनीयास् ते
स्वार्थ-हान्या छलेन वा ॥ २६।१४२ ॥
विश्वास-प्रस्तुतिः - २६।१४३
साहसं स्थावर-स्वाम्यं
प्राग्-विभागश् च रिक्थिनाम्।
अनुमानेन विज्ञेयं
न स्युर् यत्र च साक्षिणः ॥ २६।१४३ ॥
मूलम् - २६।१४३
साहसं स्थावर-स्वाम्यं
प्राग्-विभागश् च रिक्थिनाम्।
अनुमानेन विज्ञेयं
न स्युर् यत्र च साक्षिणः ॥ २६।१४३ ॥
२६।१४ विभक्त-क्रिया
विश्वास-प्रस्तुतिः - २६।१४४
तेषाम् एताः क्रिया लोके
प्रवर्तन्ते स्व-रिक्थिषु।
विभक्तान् अवगच्छेयुर्
लेख्यम् अप्य् अन्तरेण तान् ॥ २६।१४४ ॥
मूलम् - २६।१४४
तेषाम् एताः क्रिया लोके
प्रवर्तन्ते स्व-रिक्थिषु।
विभक्तान् अवगच्छेयुर्
लेख्यम् अप्य् अन्तरेण तान् ॥ २६।१४४ ॥
विश्वास-प्रस्तुतिः - २६।१४५
अविभक्तैश् च कर्तव्या
वैश्वदेवादिकाः क्रियाः ॥ २६।१४५ ॥
मूलम् - २६।१४५
अविभक्तैश् च कर्तव्या
वैश्वदेवादिकाः क्रियाः ॥ २६।१४५ ॥
विश्वास-प्रस्तुतिः - २६।१४६
बलानुबन्ध-व्याघात-
होढं साहस-भावकम्।
स्वस्य भोगः स्थावरस्य
विभागस्य पृथग्-धनम् ॥ २६।१४६ ॥
मूलम् - २६।१४६
बलानुबन्ध-व्याघात-
होढं साहस-भावकम्।
स्वस्य भोगः स्थावरस्य
विभागस्य पृथग्-धनम् ॥ २६।१४६ ॥
विश्वास-प्रस्तुतिः - २६।१४७
पृथग्-आय-व्यय-धनाः
कुसीदं च परस्परम्।
वणिक्-पथं च ये कुर्युर्
विभक्तास् ते न संशयः ॥ २६।१४७ ॥
मूलम् - २६।१४७
पृथग्-आय-व्यय-धनाः
कुसीदं च परस्परम्।
वणिक्-पथं च ये कुर्युर्
विभक्तास् ते न संशयः ॥ २६।१४७ ॥
विश्वास-प्रस्तुतिः - २६।१४८
कार्यम् उच्छ्रावणालेख्यं
विभक्तैर् भ्रातृभिर् मिथः।
साक्षिणो वा विरोधार्थं
विभजद्भिर् अनिन्दिताः ॥ २६।१४८ ॥
मूलम् - २६।१४८
कार्यम् उच्छ्रावणालेख्यं
विभक्तैर् भ्रातृभिर् मिथः।
साक्षिणो वा विरोधार्थं
विभजद्भिर् अनिन्दिताः ॥ २६।१४८ ॥
विश्वास-प्रस्तुतिः - २६।१४९
येनांशो यादृशो भुक्तस्
तस्य तं न विचालयेत् ॥ २६।१४९ ॥
मूलम् - २६।१४९
येनांशो यादृशो भुक्तस्
तस्य तं न विचालयेत् ॥ २६।१४९ ॥