२५ स्त्री-पुंस-वर्तनोपायः

विश्वास-प्रस्तुतिः - २५।१

एतत् सङ्ग्रहणस्योक्तं
विधानं सङ्ग्रहस् तथा।
स्त्री-पुंस-वर्तनोपायः
श्रूयतां गदतो मम ॥ २५।१ ॥

मूलम् - २५।१

एतत् सङ्ग्रहणस्योक्तं
विधानं सङ्ग्रहस् तथा।
स्त्री-पुंस-वर्तनोपायः
श्रूयतां गदतो मम ॥ २५।१ ॥

विश्वास-प्रस्तुतिः - २५।२

सूक्ष्मेभ्यो ऽपि प्रसङ्गेभ्यो
निवार्या स्त्री स्व-बन्धुभिः।
श्वश्र्व्-आदिभिर् गुरु-स्त्रीभिः
पालनीया दिवानिशम् ॥ २५।२ ॥

मूलम् - २५।२

सूक्ष्मेभ्यो ऽपि प्रसङ्गेभ्यो
निवार्या स्त्री स्व-बन्धुभिः।
श्वश्र्व्-आदिभिर् गुरु-स्त्रीभिः
पालनीया दिवानिशम् ॥ २५।२ ॥

विश्वास-प्रस्तुतिः - २५।३

स्वकामे वर्तमाना तु
या स्नेहान् न निवारिता।
अवश्या सा भवेत् पश्चाद्
यथा व्याधिर् उपेक्षिता ॥ २५।३ ॥

मूलम् - २५।३

स्वकामे वर्तमाना तु
या स्नेहान् न निवारिता।
अवश्या सा भवेत् पश्चाद्
यथा व्याधिर् उपेक्षिता ॥ २५।३ ॥

२५।१ पितृ-पति-पुत्राणां धर्माः

विश्वास-प्रस्तुतिः - २५।४

अप्रयच्छन् पिता काले
पतिश् चानुपयन्न् ऋतौ।
पुत्रश् चाभक्तदो मातुः
गार्ह्यो दण्ड्यश् च धर्मतः ॥ २५।४ ॥

मूलम् - २५।४

अप्रयच्छन् पिता काले
पतिश् चानुपयन्न् ऋतौ।
पुत्रश् चाभक्तदो मातुः
गार्ह्यो दण्ड्यश् च धर्मतः ॥ २५।४ ॥

विश्वास-प्रस्तुतिः - २५।५

यत्र स्त्रियो ऽभिपूज्यन्ते
रमन्ते तत्र देवताः।
सम्पदश् च प्रजाः शुद्धाः
क्रिया च सफला भवेत् ॥ २५।५ ॥

मूलम् - २५।५

यत्र स्त्रियो ऽभिपूज्यन्ते
रमन्ते तत्र देवताः।
सम्पदश् च प्रजाः शुद्धाः
क्रिया च सफला भवेत् ॥ २५।५ ॥

विश्वास-प्रस्तुतिः - २५।६

आयव्यये ऽन्न-संस्कारे
गृहोपस्कार-रक्षणे।
शौचे ऽग्नि-कार्ये संयोज्याः
स्त्रीणां शुद्धिर् इयं स्मृता ॥ २५।६ ॥

मूलम् - २५।६

आयव्यये ऽन्न-संस्कारे
गृहोपस्कार-रक्षणे।
शौचे ऽग्नि-कार्ये संयोज्याः
स्त्रीणां शुद्धिर् इयं स्मृता ॥ २५।६ ॥

विश्वास-प्रस्तुतिः - २५।७

भर्त्रा पत्नी समभ्यर्च्या
वस्त्रालङ्कार-भोजनैः।
उत्सवे तु पितृ-भ्रातृ-
श्वशुर्-आद्यैश् च बन्धुभिः ॥ २५।७ ॥

मूलम् - २५।७

भर्त्रा पत्नी समभ्यर्च्या
वस्त्रालङ्कार-भोजनैः।
उत्सवे तु पितृ-भ्रातृ-
श्वशुर्-आद्यैश् च बन्धुभिः ॥ २५।७ ॥

विश्वास-प्रस्तुतिः - २५।८

पतिं या नातिचरति
मनो-वाक्-काय-संयुता।
सा भर्तृ-लोकान् आप्नोति
सद्भिः साध्वीति चोच्यते ॥ २५।८ ॥

मूलम् - २५।८

पतिं या नातिचरति
मनो-वाक्-काय-संयुता।
सा भर्तृ-लोकान् आप्नोति
सद्भिः साध्वीति चोच्यते ॥ २५।८ ॥

२५।२ स्त्री-दूषणानि

विश्वास-प्रस्तुतिः - २५।९

भर्त्रा पित्रा सुतैर् न स्त्री
वियुक्तान्य-गृहे वसेत्।
असत्-सङ्गे विशेषेण
गर्ह्यताम् एति सा ध्रुवम् ॥ २५।९ ॥

मूलम् - २५।९

भर्त्रा पित्रा सुतैर् न स्त्री
वियुक्तान्य-गृहे वसेत्।
असत्-सङ्गे विशेषेण
गर्ह्यताम् एति सा ध्रुवम् ॥ २५।९ ॥

विश्वास-प्रस्तुतिः - २५।१०

पूर्वोत्थानं गुरुष्व् अर्वाग्
भोजन-व्यञ्जन-क्रिया।
जघन्यासन-शायित्वं कर्म
स्त्रीणाम् उदाहृतम् ॥ २५।१० ॥

मूलम् - २५।१०

पूर्वोत्थानं गुरुष्व् अर्वाग्
भोजन-व्यञ्जन-क्रिया।
जघन्यासन-शायित्वं कर्म
स्त्रीणाम् उदाहृतम् ॥ २५।१० ॥

विश्वास-प्रस्तुतिः - २५।११

पानाटन-दिवास्वप्नम्
अक्रिया दूषणं स्त्रियाः ॥ २५।११ ॥

मूलम् - २५।११

पानाटन-दिवास्वप्नम्
अक्रिया दूषणं स्त्रियाः ॥ २५।११ ॥

विश्वास-प्रस्तुतिः - २५।१२

आर्तार्ते मुदिते हृष्टा
प्रोषिते मलिना कृशा।
म्र्ते म्रियेत या पत्यौ
सा स्त्री ज्ञेया पतिव्रता ॥ २५।१२ ॥

मूलम् - २५।१२

आर्तार्ते मुदिते हृष्टा
प्रोषिते मलिना कृशा।
म्र्ते म्रियेत या पत्यौ
सा स्त्री ज्ञेया पतिव्रता ॥ २५।१२ ॥

विश्वास-प्रस्तुतिः - २५।१३

प्रसाधनं नृत्त-गीत-
समाजोत्सव-दर्शनम्।
मांस-मद्याभियोगं च
न कुर्यात् प्रोषिते प्रभौ ॥ २५।१३ ॥

मूलम् - २५।१३

प्रसाधनं नृत्त-गीत-
समाजोत्सव-दर्शनम्।
मांस-मद्याभियोगं च
न कुर्यात् प्रोषिते प्रभौ ॥ २५।१३ ॥

विश्वास-प्रस्तुतिः - २५।१४

शरीरार्धं स्मृता जाया
पुण्यापुण्य-फले समा।
अन्वारूढा जीवती[न्ती] च
साध्वी भर्तुर् हित्तय सा ॥ २५।१४ ॥

मूलम् - २५।१४

शरीरार्धं स्मृता जाया
पुण्यापुण्य-फले समा।
अन्वारूढा जीवती[न्ती] च
साध्वी भर्तुर् हित्तय सा ॥ २५।१४ ॥

विश्वास-प्रस्तुतिः - २५।१५

व्रतोपवास-निरता
ब्रह्मचर्ये व्यवस्थिता।
धर्म-दान-परा नित्यम्
अपुत्रापि दिवं व्रजेत् ॥ २५।१५ ॥

मूलम् - २५।१५

व्रतोपवास-निरता
ब्रह्मचर्ये व्यवस्थिता।
धर्म-दान-परा नित्यम्
अपुत्रापि दिवं व्रजेत् ॥ २५।१५ ॥

२५।३ नियोग-निसेधः

विश्वास-प्रस्तुतिः - २५।१६

उक्त्वा नियोगो मनुना
निषिद्धः स्वयम् एव तु।
युग-ह्रासाद् अशक्यो ऽयं
कर्तुं सर्वैर् विधानतः ॥ २५।१६ ॥

मूलम् - २५।१६

उक्त्वा नियोगो मनुना
निषिद्धः स्वयम् एव तु।
युग-ह्रासाद् अशक्यो ऽयं
कर्तुं सर्वैर् विधानतः ॥ २५।१६ ॥

विश्वास-प्रस्तुतिः - २५।१७

तपो-ज्ञान-समायुक्ताः
कृते त्रेता-युगे नराः।
द्वापरे च कलौ नृणां
शक्ति-हानिर् विनिर्मिता ॥ २५।१७ ॥

मूलम् - २५।१७

तपो-ज्ञान-समायुक्ताः
कृते त्रेता-युगे नराः।
द्वापरे च कलौ नृणां
शक्ति-हानिर् विनिर्मिता ॥ २५।१७ ॥