विश्वास-प्रस्तुतिः - २४।१
पारुष्यं द्विविधं प्रोक्तं
साहसं च द्वि-लक्षणम्।
पाप-मूलं सङ्ग्रहणं
त्रि-प्रकारं निबोधत ॥ २४।१ ॥
मूलम् - २४।१
पारुष्यं द्विविधं प्रोक्तं
साहसं च द्वि-लक्षणम्।
पाप-मूलं सङ्ग्रहणं
त्रि-प्रकारं निबोधत ॥ २४।१ ॥
विश्वास-प्रस्तुतिः - २४।२
बलोपाधि-कृते द्वे तु
तृतीयम् अनुरागजम्।
तत् पुनस् त्रिविधं प्रोक्तं
प्रथमं मध्यमोत्तमम् ॥ २४।२ ॥
मूलम् - २४।२
बलोपाधि-कृते द्वे तु
तृतीयम् अनुरागजम्।
तत् पुनस् त्रिविधं प्रोक्तं
प्रथमं मध्यमोत्तमम् ॥ २४।२ ॥
विश्वास-प्रस्तुतिः - २४।३
अनिच्छन्त्या यत् क्रियते
सुप्तोन्मत्त-प्रमत्तया।
प्रलपन्त्या वा रहसि
बलात् कार-कृतं तु तत् ॥ २४।३ ॥
मूलम् - २४।३
अनिच्छन्त्या यत् क्रियते
सुप्तोन्मत्त-प्रमत्तया।
प्रलपन्त्या वा रहसि
बलात् कार-कृतं तु तत् ॥ २४।३ ॥
विश्वास-प्रस्तुतिः - २४।४
छद्मना गृहम् आनीय
दत्त्वा वा मद्य-कार्मणम्।
संयोगः क्रियते यस्यास्
तद्-उपाधि-कृतं विदुः ॥ २४।४ ॥
मूलम् - २४।४
छद्मना गृहम् आनीय
दत्त्वा वा मद्य-कार्मणम्।
संयोगः क्रियते यस्यास्
तद्-उपाधि-कृतं विदुः ॥ २४।४ ॥
विश्वास-प्रस्तुतिः - २४।५
अन्योन्य-चक्षूरागेण
दूती-सम्प्रेषणेन च।
कृतं रूपार्थ-लोभेन
ज्ञेयं तद्-अनुराग-जम् ॥ २४।५ ॥
मूलम् - २४।५
अन्योन्य-चक्षूरागेण
दूती-सम्प्रेषणेन च।
कृतं रूपार्थ-लोभेन
ज्ञेयं तद्-अनुराग-जम् ॥ २४।५ ॥
तत् पुनस् त्रिविधं प्रोक्तं
प्रथमं मध्यमोत्तमम्।
अपाङ्ग-प्रेक्षणं हास्यं
दूती-सम्प्रेषणं तथा \
स्पर्शो भूषण-वस्त्राणां # सङ्ग्रहः प्रथमः स्मृतः ॥ २४।६ ॥
विश्वास-प्रस्तुतिः - २४।७
प्रेषणं गन्ध-माल्यानां
धूपम् अध्वन्न् अवाससाम्।
सम्भाषणं च रहसि
मध्यमं सङ्ग्रहं विदुः ॥ २४।७ ॥
मूलम् - २४।७
प्रेषणं गन्ध-माल्यानां
धूपम् अध्वन्न् अवाससाम्।
सम्भाषणं च रहसि
मध्यमं सङ्ग्रहं विदुः ॥ २४।७ ॥
विश्वास-प्रस्तुतिः - २४।८
एक-शाय्यासनं क्रीडा
चुम्बना-लिङ्गनं तथा।
एतत् सङ्ग्रहणं प्रोक्तम्
उत्तमं शास्त्र-वेदिभिः ॥ २४।८ ॥
मूलम् - २४।८
एक-शाय्यासनं क्रीडा
चुम्बना-लिङ्गनं तथा।
एतत् सङ्ग्रहणं प्रोक्तम्
उत्तमं शास्त्र-वेदिभिः ॥ २४।८ ॥
विश्वास-प्रस्तुतिः - २४।९
प्रेषणं गन्ध-माल्यानां
धूप-भूषण-वाससाम्।
प्रलोभनं चान्न-पानैर्
मध्यमः सङ्ग्रहः स्मृतः ॥ २४।९ ॥
मूलम् - २४।९
प्रेषणं गन्ध-माल्यानां
धूप-भूषण-वाससाम्।
प्रलोभनं चान्न-पानैर्
मध्यमः सङ्ग्रहः स्मृतः ॥ २४।९ ॥
विश्वास-प्रस्तुतिः - २४।१०
प्रेषणं गन्ध-माल्यानां
फल-मद्यान्न-वाससाम्।
सम्भाषणं च रहसि
मध्यमं सङ्ग्रहं विदुः ॥ २४।१० ॥
मूलम् - २४।१०
प्रेषणं गन्ध-माल्यानां
फल-मद्यान्न-वाससाम्।
सम्भाषणं च रहसि
मध्यमं सङ्ग्रहं विदुः ॥ २४।१० ॥
विश्वास-प्रस्तुतिः - २४।११
त्रयाणाम् अपि चैतेषां
प्रथमो मध्य उत्तमः।
विनयः कल्पनीयः स्याद्
अधिको द्रविणाधिके ॥ २४।११ ॥
मूलम् - २४।११
त्रयाणाम् अपि चैतेषां
प्रथमो मध्य उत्तमः।
विनयः कल्पनीयः स्याद्
अधिको द्रविणाधिके ॥ २४।११ ॥
विश्वास-प्रस्तुतिः - २४।१२
परपत्न्या तु पुरुषः
सम्भाषां योजयन् रहः।
पूर्वम् आक्षारितो दोषैः
प्राप्नुयात् पूर्व-साहसम् ॥ २४।१२ ॥
मूलम् - २४।१२
परपत्न्या तु पुरुषः
सम्भाषां योजयन् रहः।
पूर्वम् आक्षारितो दोषैः
प्राप्नुयात् पूर्व-साहसम् ॥ २४।१२ ॥
विश्वास-प्रस्तुतिः - २४।१३
सहमायः कामयते
धनं तस्याखिलं हरेत्।
उत्कृत्य लिङ्ग-वृषणौ
भ्रामयेद् गर्दभेन तु ॥ २४।१३ ॥
मूलम् - २४।१३
सहमायः कामयते
धनं तस्याखिलं हरेत्।
उत्कृत्य लिङ्ग-वृषणौ
भ्रामयेद् गर्दभेन तु ॥ २४।१३ ॥
विश्वास-प्रस्तुतिः - २४।१४
छद्मना कामयेद् यस् तु
तस्य सर्व-हरो दमः।
अङ्कयित्वा भगाङ्गेन
पुरान् निर्वासयेत् ततः ॥ २४।१४ ॥
मूलम् - २४।१४
छद्मना कामयेद् यस् तु
तस्य सर्व-हरो दमः।
अङ्कयित्वा भगाङ्गेन
पुरान् निर्वासयेत् ततः ॥ २४।१४ ॥
विश्वास-प्रस्तुतिः - २४।१५
दमो नेयः सभायां यो
हीनायाम् अधिकस् ततः।
पुंसः कार्यो ऽधिकायां तु
गमने सम्प्रमापणम् ॥ २४।१५ ॥
मूलम् - २४।१५
दमो नेयः सभायां यो
हीनायाम् अधिकस् ततः।
पुंसः कार्यो ऽधिकायां तु
गमने सम्प्रमापणम् ॥ २४।१५ ॥
विश्वास-प्रस्तुतिः - २४।१६
गृहम् आगत्य या नारी
प्रलोभ्य स्पर्शनादिना।
कामयेत् तत्र सा दण्ड्या
नरस्यार्ध-दमः स्मृतः ॥ २४।१६ ॥
मूलम् - २४।१६
गृहम् आगत्य या नारी
प्रलोभ्य स्पर्शनादिना।
कामयेत् तत्र सा दण्ड्या
नरस्यार्ध-दमः स्मृतः ॥ २४।१६ ॥
विश्वास-प्रस्तुतिः - २४।१७
छिन्न-नासौष्ठ-कर्णानां
परिभ्राम्याप्सु मज्जयेत्।
खादयेद् वा सारमेयैः
संस्थाने बहु-संस्थिते ॥ २४।१७ ॥
मूलम् - २४।१७
छिन्न-नासौष्ठ-कर्णानां
परिभ्राम्याप्सु मज्जयेत्।
खादयेद् वा सारमेयैः
संस्थाने बहु-संस्थिते ॥ २४।१७ ॥
विश्वास-प्रस्तुतिः - २४।१८
अनिच्छन्ती तु या भुक्ता
गुप्तां तां वासयेद् गृहे।
मलिनाङ्गीम् अधः शय्यां
पिण्ड-मात्रोपजीविनीम् ॥ २४।१८ ॥
मूलम् - २४।१८
अनिच्छन्ती तु या भुक्ता
गुप्तां तां वासयेद् गृहे।
मलिनाङ्गीम् अधः शय्यां
पिण्ड-मात्रोपजीविनीम् ॥ २४।१८ ॥
विश्वास-प्रस्तुतिः - २४।१९
कारयेन् निष्कृतिं कृच्छ्रं
पराकं वा समे गताम्।
हीन-वर्णोपभुक्ता या
त्याज्या वध्याथ वा भवेत् ॥ २४।१९ ॥
मूलम् - २४।१९
कारयेन् निष्कृतिं कृच्छ्रं
पराकं वा समे गताम्।
हीन-वर्णोपभुक्ता या
त्याज्या वध्याथ वा भवेत् ॥ २४।१९ ॥