२३ साहसम्

विश्वास-प्रस्तुतिः - २३।१

स्तेनानाम् एतद् आख्यातं
सर्वेषां दण्ड-निग्रहम्।
साहसस्याधुना सम्यक्
श्रूयतां वध-शासनम् ॥ २३।१ ॥

मूलम् - २३।१

स्तेनानाम् एतद् आख्यातं
सर्वेषां दण्ड-निग्रहम्।
साहसस्याधुना सम्यक्
श्रूयतां वध-शासनम् ॥ २३।१ ॥

विश्वास-प्रस्तुतिः - २३।२

मनुष्य-मारणं चौर्यं
पर-दाराभिमर्शनम्।
पारुष्यम् उभयं चैव
साहसं तु चतुर्-विधम् ॥ २३।२ ॥

मूलम् - २३।२

मनुष्य-मारणं चौर्यं
पर-दाराभिमर्शनम्।
पारुष्यम् उभयं चैव
साहसं तु चतुर्-विधम् ॥ २३।२ ॥

विश्वास-प्रस्तुतिः - २३।३

हीन-मध्योत्तमत्वेन
त्रिविधं तत् प्रकीर्तितम्।
द्रव्यापेक्षया दमास् तत्र
प्रथमोत्तम-मध्यमाः ॥ २३।३ ॥

मूलम् - २३।३

हीन-मध्योत्तमत्वेन
त्रिविधं तत् प्रकीर्तितम्।
द्रव्यापेक्षया दमास् तत्र
प्रथमोत्तम-मध्यमाः ॥ २३।३ ॥

विश्वास-प्रस्तुतिः - २३।४

आततायि-द्विजाग्याणां
धर्म-युद्धेन हिंसनम्।
इमान् धर्मान् कलियुगे
वर्ज्यान् आहुर् मनीषिणः ॥ २३।४ ॥

मूलम् - २३।४

आततायि-द्विजाग्याणां
धर्म-युद्धेन हिंसनम्।
इमान् धर्मान् कलियुगे
वर्ज्यान् आहुर् मनीषिणः ॥ २३।४ ॥

विश्वास-प्रस्तुतिः - २३।५

क्षेत्रोपकरणं सेतुं
मूल-पुष्प-फलानि च।
विनाशयन् हरन् दण्ड्यः
शतोद्यम् अनुरूपतः ॥ २३।५ ॥

मूलम् - २३।५

क्षेत्रोपकरणं सेतुं
मूल-पुष्प-फलानि च।
विनाशयन् हरन् दण्ड्यः
शतोद्यम् अनुरूपतः ॥ २३।५ ॥

विश्वास-प्रस्तुतिः - २३।६

पशु-वस्त्रान्न-पानानि
गृहोपकरणं तथा।
हिंसयंश् चौरवद् दाप्यो
द्वि-शतोद्यं दमं तथा ॥ २३।६ ॥

मूलम् - २३।६

पशु-वस्त्रान्न-पानानि
गृहोपकरणं तथा।
हिंसयंश् चौरवद् दाप्यो
द्वि-शतोद्यं दमं तथा ॥ २३।६ ॥

विश्वास-प्रस्तुतिः - २३।७

स्त्री-पुंसौ हेम-रत्नानि
देव-विप्रधनं तथा।
कौशेयं चोत्तम-द्रव्यम्
एषां मूल्य-समो दमः ॥ २३।७ ॥

मूलम् - २३।७

स्त्री-पुंसौ हेम-रत्नानि
देव-विप्रधनं तथा।
कौशेयं चोत्तम-द्रव्यम्
एषां मूल्य-समो दमः ॥ २३।७ ॥

विश्वास-प्रस्तुतिः - २३।८

द्वि-गुणो वा कल्पनीयः
पुरुषापेक्षया नृपैः।
हन्ता वा घात-नीयः स्यात्
प्रसङ्ग-विनिवृत्तये ॥ २३।८ ॥

मूलम् - २३।८

द्वि-गुणो वा कल्पनीयः
पुरुषापेक्षया नृपैः।
हन्ता वा घात-नीयः स्यात्
प्रसङ्ग-विनिवृत्तये ॥ २३।८ ॥

विश्वास-प्रस्तुतिः - २३।९

साहसं पञ्चधा प्रोक्तं
वधस् तत्राधिकः स्मृतः।
तत्-कारिणो नार्थ-दमैः
शास्या वध्याः प्रयत्नतः ॥ २३।९ ॥

मूलम् - २३।९

साहसं पञ्चधा प्रोक्तं
वधस् तत्राधिकः स्मृतः।
तत्-कारिणो नार्थ-दमैः
शास्या वध्याः प्रयत्नतः ॥ २३।९ ॥

विश्वास-प्रस्तुतिः - २३।१०

प्रकाश-घातका ये तु
तथा चोपांशु-घातकाः।
ज्ञात्वा सम्यग्-धनं हृत्वा
हन्तव्याः विविधैर् वधैः ॥ २३।१० ॥

मूलम् - २३।१०

प्रकाश-घातका ये तु
तथा चोपांशु-घातकाः।
ज्ञात्वा सम्यग्-धनं हृत्वा
हन्तव्याः विविधैर् वधैः ॥ २३।१० ॥

२३।१ साहसिकाः दण्ड्याः

विश्वास-प्रस्तुतिः - २३।११

मित्र-प्राप्त्य्-अर्थ-लाभे वा
राज्ञा लोक-हितैषिणा।
न मोक्तव्याः साहसिकाः
सर्व-लोक-भयावहाः ॥ २३।११ ॥

मूलम् - २३।११

मित्र-प्राप्त्य्-अर्थ-लाभे वा
राज्ञा लोक-हितैषिणा।
न मोक्तव्याः साहसिकाः
सर्व-लोक-भयावहाः ॥ २३।११ ॥

विश्वास-प्रस्तुतिः - २३।१२

लोभाद् भयाद् वा यो राजा
न हन्त्य् अन्याय-कारिणः।
तस्य प्रक्षुभ्यते राष्ट्रं
राज्याच् च परिहीयते ॥ २३।१२ ॥

मूलम् - २३।१२

लोभाद् भयाद् वा यो राजा
न हन्त्य् अन्याय-कारिणः।
तस्य प्रक्षुभ्यते राष्ट्रं
राज्याच् च परिहीयते ॥ २३।१२ ॥

विश्वास-प्रस्तुतिः - २३।१३

बन्धाग्नि-विष-शस्त्रेण
परान् यस् तु प्रमापयेत्।
क्रोधादिना निमित्तेन
नरः साहसिकस् तु सः ॥ २३।१३ ॥

मूलम् - २३।१३

बन्धाग्नि-विष-शस्त्रेण
परान् यस् तु प्रमापयेत्।
क्रोधादिना निमित्तेन
नरः साहसिकस् तु सः ॥ २३।१३ ॥

२३।२ सम्भूय-प्रहरण-निर्णयः

विश्वास-प्रस्तुतिः - २३।१४

एकस्य बहवो यत्र
प्रहरन्ति रुषान्विताः।
मर्म-प्रहारदो यस् तु
घातकः स उदाहृतः ॥ २३।१४ ॥

मूलम् - २३।१४

एकस्य बहवो यत्र
प्रहरन्ति रुषान्विताः।
मर्म-प्रहारदो यस् तु
घातकः स उदाहृतः ॥ २३।१४ ॥

मर्म-घाती तु यस् तेषां
यथोक्तं दापयेद् दमम्।
आरम्भ-कृत्सहायश् च
तथा मार्गानुदेशकः \
आश्रयः शस्त्र-दाता च # भक्त-दाता विकर्मिणाम् ॥ २३।१५ ॥

विश्वास-प्रस्तुतिः - २३।१६

युद्धोपदेशकश् चैव
तद्-विनाश-प्रदर्शकः।
उपेक्षी कार्य-युक्तश् च
दोष-वक्तानुमोदकः ॥ २३।१६ ॥

मूलम् - २३।१६

युद्धोपदेशकश् चैव
तद्-विनाश-प्रदर्शकः।
उपेक्षी कार्य-युक्तश् च
दोष-वक्तानुमोदकः ॥ २३।१६ ॥

२३।३ आततायि-वधः

विश्वास-प्रस्तुतिः - २३।१७

नाततायि-वधे हन्ता
किल्विषं प्राप्नुयात् क्वचित्।
विनाशार्थिनम् आयान्तं
घातयन्न् आपराध्नुयात् ॥ २३।१७ ॥

मूलम् - २३।१७

नाततायि-वधे हन्ता
किल्विषं प्राप्नुयात् क्वचित्।
विनाशार्थिनम् आयान्तं
घातयन्न् आपराध्नुयात् ॥ २३।१७ ॥

विश्वास-प्रस्तुतिः - २३।१८

आततायिनम् उत्कृष्टं
वृत्त-स्वाध्याय-संयुतम्।
यो न हन्याद् वध-प्राप्तं
सो ऽश्वमेध-फलं लभेत् ॥ २३।१८ ॥

मूलम् - २३।१८

आततायिनम् उत्कृष्टं
वृत्त-स्वाध्याय-संयुतम्।
यो न हन्याद् वध-प्राप्तं
सो ऽश्वमेध-फलं लभेत् ॥ २३।१८ ॥

विश्वास-प्रस्तुतिः - २३।१९

स्वाध्यायिनं कुले जातं
यो हन्याद् आततायिनम्।
अहत्वा भ्रूणहा स स्यान्
न हत्वा भ्रूणहा भवेत् ॥ २३।१९ ॥

मूलम् - २३।१९

स्वाध्यायिनं कुले जातं
यो हन्याद् आततायिनम्।
अहत्वा भ्रूणहा स स्यान्
न हत्वा भ्रूणहा भवेत् ॥ २३।१९ ॥

साम्प्रतं साहसं स्तेयं
श्रूयतां क्रोध-लोभजम्।

२३।४ घातकादर्शने निर्णयः

क्षतस्याल्पम् अहत्वं च
मर्म-स्थानं च यत्नतः \
सामर्थ्यं चानुबन्धं च # ज्ञात्वा चिह्नैः प्रसादयेत् ॥ २३।२० ॥

विश्वास-प्रस्तुतिः - २३।२१

हतस् तु दृश्यते यत्र
घातकश् च न दृश्यते।
पूर्व-वैरानुसारेण
ज्ञातव्यः स महीभुजा ॥ २३।२१ ॥

मूलम् - २३।२१

हतस् तु दृश्यते यत्र
घातकश् च न दृश्यते।
पूर्व-वैरानुसारेण
ज्ञातव्यः स महीभुजा ॥ २३।२१ ॥

विश्वास-प्रस्तुतिः - २३।२२

समघाती तु यस् तेषां
यथोक्तं दापयेद् दमम्।
आरम्भ-कृत्सहायश् च
दोष-भाजस् तद् अर्धतः ॥ २३।२२ ॥

मूलम् - २३।२२

समघाती तु यस् तेषां
यथोक्तं दापयेद् दमम्।
आरम्भ-कृत्सहायश् च
दोष-भाजस् तद् अर्धतः ॥ २३।२२ ॥

विश्वास-प्रस्तुतिः - २३।२३

प्रतिवेश्यानुवेश्यौ च
तस्य मित्रारि-बान्धवाः।
प्रष्टव्या राज-पुरुषैः
सामादिभिर् उपक्रमैः ॥ २३।२३ ॥

मूलम् - २३।२३

प्रतिवेश्यानुवेश्यौ च
तस्य मित्रारि-बान्धवाः।
प्रष्टव्या राज-पुरुषैः
सामादिभिर् उपक्रमैः ॥ २३।२३ ॥

विश्वास-प्रस्तुतिः - २३।२४

विज्ञेयो ऽसाधु-संसर्गाच्
चिह्न-होढेन वा नरैः।
एषोदिता घातकानां
तस्कराणां च भावना ॥ २३।२४ ॥

मूलम् - २३।२४

विज्ञेयो ऽसाधु-संसर्गाच्
चिह्न-होढेन वा नरैः।
एषोदिता घातकानां
तस्कराणां च भावना ॥ २३।२४ ॥

विश्वास-प्रस्तुतिः - २३।२५

गृहीतः शङ्कया यस् तु
न तत् कार्यं प्रपद्यते।
शपथेन विशोद्धव्यः
सर्व-वादेष्व् अयं विधिः ॥ २३।२५ ॥

मूलम् - २३।२५

गृहीतः शङ्कया यस् तु
न तत् कार्यं प्रपद्यते।
शपथेन विशोद्धव्यः
सर्व-वादेष्व् अयं विधिः ॥ २३।२५ ॥

विश्वास-प्रस्तुतिः - २३।२६

दिव्यैर् विशुद्धो मेध्यः स्याद्
अशुद्धो वधम् अर्हति।
निग्रहानुग्रहैर् राज्ञः
कीर्तिर् धर्मश् च वर्धते ॥ २३।२६ ॥

मूलम् - २३।२६

दिव्यैर् विशुद्धो मेध्यः स्याद्
अशुद्धो वधम् अर्हति।
निग्रहानुग्रहैर् राज्ञः
कीर्तिर् धर्मश् च वर्धते ॥ २३।२६ ॥