२२ स्तेयम्

विश्वास-प्रस्तुतिः - २२।१

प्रकाशाश् चाप्रकाशाश् च
तस्करा द्वि-विधा स्मृताः।
प्रज्ञा-सामर्थ्यम् आयाभिः
प्रभिन्नास् ते सहस्रधा ॥ २२।१ ॥

मूलम् - २२।१

प्रकाशाश् चाप्रकाशाश् च
तस्करा द्वि-विधा स्मृताः।
प्रज्ञा-सामर्थ्यम् आयाभिः
प्रभिन्नास् ते सहस्रधा ॥ २२।१ ॥

२२।१ प्रकाशाप्रकाश-तस्कराः

विश्वास-प्रस्तुतिः - २२।२

नैगमा वैद्य-कितवाः
सभ्योत्कोचक-वञ्चकाः।
दैवोत्पात-विदो भद्राः
शिल्प-ज्ञाः प्रतिरूपकाः ॥ २२।२ ॥

मूलम् - २२।२

नैगमा वैद्य-कितवाः
सभ्योत्कोचक-वञ्चकाः।
दैवोत्पात-विदो भद्राः
शिल्प-ज्ञाः प्रतिरूपकाः ॥ २२।२ ॥

विश्वास-प्रस्तुतिः - २२।३

अक्रिया-कारिणश् चैव
मध्य-स्थाः कूट-साक्षिणः।
प्रकाश-तस्करा ह्य् एते
तथा कुहक-जीविनः ॥ २२।३ ॥

मूलम् - २२।३

अक्रिया-कारिणश् चैव
मध्य-स्थाः कूट-साक्षिणः।
प्रकाश-तस्करा ह्य् एते
तथा कुहक-जीविनः ॥ २२।३ ॥

विश्वास-प्रस्तुतिः - २२।४

सन्धि-च्छिदः पान्थ-मुषो
द्वि-चतुष्-पद-हारिणः।
उत्क्षेपकाः सस्य-हराः
ज्ञेयाः प्रच्छन्न-तस्कराः ॥ २२।४ ॥

मूलम् - २२।४

सन्धि-च्छिदः पान्थ-मुषो
द्वि-चतुष्-पद-हारिणः।
उत्क्षेपकाः सस्य-हराः
ज्ञेयाः प्रच्छन्न-तस्कराः ॥ २२।४ ॥

२२।२ तेषां दण्डः

विश्वास-प्रस्तुतिः - २२।५

संसर्ग-चिह्न-रूपैश् च
विज्ञाता राज-पूरुषैः।
प्रदाप्यापहृतं दण्ड्या
दमैः शास्त्र-प्रचोदितैः ॥ २२।५ ॥

मूलम् - २२।५

संसर्ग-चिह्न-रूपैश् च
विज्ञाता राज-पूरुषैः।
प्रदाप्यापहृतं दण्ड्या
दमैः शास्त्र-प्रचोदितैः ॥ २२।५ ॥

विश्वास-प्रस्तुतिः - २२।६

उत्क्षेपकस् तु सन्दंशैर्
भेत्तव्यो राज-पूरुषैः।
धान्य-हर्ता दश-गुणं
दाप्यः स्याद् द्वि-गुणं दमम् ॥ २२।६ ॥

मूलम् - २२।६

उत्क्षेपकस् तु सन्दंशैर्
भेत्तव्यो राज-पूरुषैः।
धान्य-हर्ता दश-गुणं
दाप्यः स्याद् द्वि-गुणं दमम् ॥ २२।६ ॥

विश्वास-प्रस्तुतिः - २२।७

एकस्मिन् यत्र निधनं
प्रापिते दुष्ट-चारिणि।
बहूनां भवति क्षेमः
तस्य पुण्य-प्रदो वधः ॥ २२।७ ॥

मूलम् - २२।७

एकस्मिन् यत्र निधनं
प्रापिते दुष्ट-चारिणि।
बहूनां भवति क्षेमः
तस्य पुण्य-प्रदो वधः ॥ २२।७ ॥

विश्वास-प्रस्तुतिः - २२।८

तथा पान्थम् उषो वृक्षे
गले बध्वावलम्बयेत् ॥ २२।८ ॥

मूलम् - २२।८

तथा पान्थम् उषो वृक्षे
गले बध्वावलम्बयेत् ॥ २२।८ ॥

विश्वास-प्रस्तुतिः - २२।९

अङ्गुली-ग्रन्थि-भेदस्य
छेदयेत् प्रथमे ग्रहे।
द्वितीये हस्त-चरणौ
तृतीये वधम् अर्हति ॥ २२।९ ॥

मूलम् - २२।९

अङ्गुली-ग्रन्थि-भेदस्य
छेदयेत् प्रथमे ग्रहे।
द्वितीये हस्त-चरणौ
तृतीये वधम् अर्हति ॥ २२।९ ॥

विश्वास-प्रस्तुतिः - २२।१०

अज्ञातौषधि-मन्त्रस् तु
यश् च व्याधेर् अतत्त्ववित्।
रोगिभ्यो ऽर्थं समादत्ते
स दण्ड्यश् चोरवद् भिषक् ॥ २२।१० ॥

मूलम् - २२।१०

अज्ञातौषधि-मन्त्रस् तु
यश् च व्याधेर् अतत्त्ववित्।
रोगिभ्यो ऽर्थं समादत्ते
स दण्ड्यश् चोरवद् भिषक् ॥ २२।१० ॥

विश्वास-प्रस्तुतिः - २२।११

ग्लहः प्रकाशः कर्तव्यो
निर्वास्याः कूट-देविनः ॥ २२।११ ॥

मूलम् - २२।११

ग्लहः प्रकाशः कर्तव्यो
निर्वास्याः कूट-देविनः ॥ २२।११ ॥

विश्वास-प्रस्तुतिः - २२।१२

कूटाक्ष-देविनः क्षुद्रा
राज-भार्याहराश् च ये।
गणका वञ्चकाश् चैव
दण्ड्यास् ते कितवा स्मृताः ॥ २२।१२ ॥

मूलम् - २२।१२

कूटाक्ष-देविनः क्षुद्रा
राज-भार्याहराश् च ये।
गणका वञ्चकाश् चैव
दण्ड्यास् ते कितवा स्मृताः ॥ २२।१२ ॥

विश्वास-प्रस्तुतिः - २२।१३

प्रच्छन्न-दोष-व्यामिश्रं
पुनः संस्कृत-विक्रयी।
पण्ये तद् द्वि-गुणं दाप्यो
वणिग्-दण्डं च तत्-समम् ॥ २२।१३ ॥

मूलम् - २२।१३

प्रच्छन्न-दोष-व्यामिश्रं
पुनः संस्कृत-विक्रयी।
पण्ये तद् द्वि-गुणं दाप्यो
वणिग्-दण्डं च तत्-समम् ॥ २२।१३ ॥

विश्वास-प्रस्तुतिः - २२।१४

अन्याय-वादिनः सभ्यास्
तथैवोत्कोच-जीविनः।
विश्वस्त-वञ्चकाश् चैव
निर्वास्याः सर्व एव ते ॥ २२।१४ ॥

मूलम् - २२।१४

अन्याय-वादिनः सभ्यास्
तथैवोत्कोच-जीविनः।
विश्वस्त-वञ्चकाश् चैव
निर्वास्याः सर्व एव ते ॥ २२।१४ ॥

विश्वास-प्रस्तुतिः - २२।१५

ज्योतिर् ज्ञानं तथोत्पातम्
अविदित्वा तु ये नृणाम्।
श्रावयन्त्य् अर्थ-लोभेन
विनेयास् ते प्रयत्नतः ॥ २२।१५ ॥

मूलम् - २२।१५

ज्योतिर् ज्ञानं तथोत्पातम्
अविदित्वा तु ये नृणाम्।
श्रावयन्त्य् अर्थ-लोभेन
विनेयास् ते प्रयत्नतः ॥ २२।१५ ॥

विश्वास-प्रस्तुतिः - २२।१६

दण्डाजिनादिभिर् युक्तम्
आत्मानं दर्शयन्ति ये।
हिंसन्तश् च्छद्मना नृणां
वध्यास् ते राज-पूरुषैः ॥ २२।१६ ॥

मूलम् - २२।१६

दण्डाजिनादिभिर् युक्तम्
आत्मानं दर्शयन्ति ये।
हिंसन्तश् च्छद्मना नृणां
वध्यास् ते राज-पूरुषैः ॥ २२।१६ ॥

विश्वास-प्रस्तुतिः - २२।१७

अल्प-मूल्यं तु संस्कृत्य
नयन्ति बहु-मूल्यताम्।
स्त्री-बालकान् वञ्चयन्ति
दण्ड्यास् ते ऽर्थानुरूपतः ॥ २२।१७ ॥

मूलम् - २२।१७

अल्प-मूल्यं तु संस्कृत्य
नयन्ति बहु-मूल्यताम्।
स्त्री-बालकान् वञ्चयन्ति
दण्ड्यास् ते ऽर्थानुरूपतः ॥ २२।१७ ॥

विश्वास-प्रस्तुतिः - २२।१८

हेम-मुक्ता-प्रबालाद्यं
कृत्रिमं कुर्वते तु ये।
क्रेत्रे मूल्यं प्रदाप्यास् ते
राज्ञा तद् द्वि-गुणं दमम् ॥ २२।१८ ॥

मूलम् - २२।१८

हेम-मुक्ता-प्रबालाद्यं
कृत्रिमं कुर्वते तु ये।
क्रेत्रे मूल्यं प्रदाप्यास् ते
राज्ञा तद् द्वि-गुणं दमम् ॥ २२।१८ ॥

विश्वास-प्रस्तुतिः - २२।१९

मध्य-स्था वञ्चयन्त्य्
एकं स्नेह-लोभादिना यदा।
साक्षिणश् चान्यथा ब्रूयुर्
दाप्यास् ते द्वि-गुणं दमम् ॥ २२।१९ ॥

मूलम् - २२।१९

मध्य-स्था वञ्चयन्त्य्
एकं स्नेह-लोभादिना यदा।
साक्षिणश् चान्यथा ब्रूयुर्
दाप्यास् ते द्वि-गुणं दमम् ॥ २२।१९ ॥

विश्वास-प्रस्तुतिः - २२।२०

मन्त्रौषधि-बलात् किञ्चित्
सम्भ्रान्तिं दर्शयन्ति ये।
मूल-कर्म च कुर्वन्ति
निर्वास्यास् ते मही-भुजा ॥ २२।२० ॥

मूलम् - २२।२०

मन्त्रौषधि-बलात् किञ्चित्
सम्भ्रान्तिं दर्शयन्ति ये।
मूल-कर्म च कुर्वन्ति
निर्वास्यास् ते मही-भुजा ॥ २२।२० ॥

विश्वास-प्रस्तुतिः - २२।२१

सन्धि-च्छेदो हृतं त्याज्याः
शूलम् आरोपयेत् ततः।
तथा पान्थम् उषो वृक्षे
गले बद्ध्वावलम्बयेत् ॥ २२।२१ ॥

मूलम् - २२।२१

सन्धि-च्छेदो हृतं त्याज्याः
शूलम् आरोपयेत् ततः।
तथा पान्थम् उषो वृक्षे
गले बद्ध्वावलम्बयेत् ॥ २२।२१ ॥

विश्वास-प्रस्तुतिः - २२।२२

मनुष्य-हारिणो राज्ञा
दग्धव्यास् ते कटाग्निना।
गोहर्तुर् नासिकां छिन्द्यात्
बध्वा वाम्भसि मज्जयेत् ॥ २२।२२ ॥

मूलम् - २२।२२

मनुष्य-हारिणो राज्ञा
दग्धव्यास् ते कटाग्निना।
गोहर्तुर् नासिकां छिन्द्यात्
बध्वा वाम्भसि मज्जयेत् ॥ २२।२२ ॥

विश्वास-प्रस्तुतिः - २२।२३

धान्यं दशभ्यः कुम्भेभ्यो
हरणे ऽभ्यधिकं वधः।
शेषेष्व् एकादश-गुणं
दाप्यस् तस्य च तद्-धनम् ॥ २२।२३ ॥

मूलम् - २२।२३

धान्यं दशभ्यः कुम्भेभ्यो
हरणे ऽभ्यधिकं वधः।
शेषेष्व् एकादश-गुणं
दाप्यस् तस्य च तद्-धनम् ॥ २२।२३ ॥

विश्वास-प्रस्तुतिः - २२।२४

धान्य-हारी दश-गुणं
दाप्यस् तद् द्वि-गुणं दमम् ॥ २२।२४ ॥

मूलम् - २२।२४

धान्य-हारी दश-गुणं
दाप्यस् तद् द्वि-गुणं दमम् ॥ २२।२४ ॥

विश्वास-प्रस्तुतिः - २२।२५

तृणं वा यदि वा काष्ठं
पुष्पं वा यदि वा फलम्।
अनापृच्छ्य तु गृह्णानो
हस्त-च्छेदनम् अर्हति ॥ २२।२५ ॥

मूलम् - २२।२५

तृणं वा यदि वा काष्ठं
पुष्पं वा यदि वा फलम्।
अनापृच्छ्य तु गृह्णानो
हस्त-च्छेदनम् अर्हति ॥ २२।२५ ॥

विश्वास-प्रस्तुतिः - २२।२६

वृत्त-स्वाध्यायवान् स्तेयी
बन्धने क्लेश्यते चिरम्।
स्वामिने तद् धनं दाप्यः
प्रायश्चित्तं न कार्यते ॥ २२।२६ ॥

मूलम् - २२।२६

वृत्त-स्वाध्यायवान् स्तेयी
बन्धने क्लेश्यते चिरम्।
स्वामिने तद् धनं दाप्यः
प्रायश्चित्तं न कार्यते ॥ २२।२६ ॥