२१ दण्ड-पारुष्यम्

विश्वास-प्रस्तुतिः - २१।१

हस्त-पाषाण-लगुडैर्
भस्म-कर्दम-पांसुभिः।
आयुधैश् च प्रहरणैर्
दण्ड-पारुष्यम् उच्यते ॥ २१।१ ॥

मूलम् - २१।१

हस्त-पाषाण-लगुडैर्
भस्म-कर्दम-पांसुभिः।
आयुधैश् च प्रहरणैर्
दण्ड-पारुष्यम् उच्यते ॥ २१।१ ॥

विश्वास-प्रस्तुतिः - २१।२

वाक्-पारुष्ये कृते यस्य
यथा दण्डो विधीयते।
तस्यैव द्वि-गुणं दण्डं
कारयेन् मरणाद् ऋते ॥ २१।२ ॥

मूलम् - २१।२

वाक्-पारुष्ये कृते यस्य
यथा दण्डो विधीयते।
तस्यैव द्वि-गुणं दण्डं
कारयेन् मरणाद् ऋते ॥ २१।२ ॥

विश्वास-प्रस्तुतिः - २१।३

द्वयोः प्रहरतोर् दण्डः
समयोस् तु समः स्मृतः।
आरम्भको ऽनुबन्धी च
दाप्यः स्याद् अधिकं दमम् ॥ २१।३ ॥

मूलम् - २१।३

द्वयोः प्रहरतोर् दण्डः
समयोस् तु समः स्मृतः।
आरम्भको ऽनुबन्धी च
दाप्यः स्याद् अधिकं दमम् ॥ २१।३ ॥

विश्वास-प्रस्तुतिः - २१।४

पूर्वाक्रुष्टः समाक्रोशंस्
ताडितः प्रतिताडयन्।
हत्वाततायिनं चैव
नापराधी भवेन् नरः ॥ २१।४ ॥

मूलम् - २१।४

पूर्वाक्रुष्टः समाक्रोशंस्
ताडितः प्रतिताडयन्।
हत्वाततायिनं चैव
नापराधी भवेन् नरः ॥ २१।४ ॥

विश्वास-प्रस्तुतिः - २१।५

वाक्-पारुष्यादिना नीचो
यः सन्तम् अभिलङ्घयेत्।
स एव ताडयंस् तस्य
नान्वेष्टव्यो मही-भुजा ॥ २१।५ ॥

मूलम् - २१।५

वाक्-पारुष्यादिना नीचो
यः सन्तम् अभिलङ्घयेत्।
स एव ताडयंस् तस्य
नान्वेष्टव्यो मही-भुजा ॥ २१।५ ॥

२१।१ प्रथमं दण्ड-पारुष्यम्

विश्वास-प्रस्तुतिः - २१।६

भस्मादीनां प्रक्षिपणं
ताडनं च करादिना।
प्रथमं दण्ड-पारुष्यं
दमः कार्यो ऽत्र माषिकः ॥ २१।६ ॥

मूलम् - २१।६

भस्मादीनां प्रक्षिपणं
ताडनं च करादिना।
प्रथमं दण्ड-पारुष्यं
दमः कार्यो ऽत्र माषिकः ॥ २१।६ ॥

विश्वास-प्रस्तुतिः - २१।७

एष दण्डः समेषूक्तः
पर-स्त्रीष्व् अधिकेषु च।
द्वि-गुणस् त्रि-गुणो ज्ञेयः
प्राधान्यापेक्षया बुद्धैः ॥ २१।७ ॥

मूलम् - २१।७

एष दण्डः समेषूक्तः
पर-स्त्रीष्व् अधिकेषु च।
द्वि-गुणस् त्रि-गुणो ज्ञेयः
प्राधान्यापेक्षया बुद्धैः ॥ २१।७ ॥

विश्वास-प्रस्तुतिः - २१।८

उद्यते ऽश्म-शिला-काष्ठे
कर्तव्यः प्रथमो दमः।
परस्परं हस्त-पादे
दशविंशतिकस् तथा ॥ २१।८ ॥

मूलम् - २१।८

उद्यते ऽश्म-शिला-काष्ठे
कर्तव्यः प्रथमो दमः।
परस्परं हस्त-पादे
दशविंशतिकस् तथा ॥ २१।८ ॥

२१।२ मध्यमम्

विश्वास-प्रस्तुतिः - २१।९

मध्यमः शस्त्र-सन्धाने
संयोज्यः क्षुब्धयोर् द्वयोः।
कार्यः कृतानुरूपस् तु
लग्ने घाते दमो बुधैः ॥ २१।९ ॥

मूलम् - २१।९

मध्यमः शस्त्र-सन्धाने
संयोज्यः क्षुब्धयोर् द्वयोः।
कार्यः कृतानुरूपस् तु
लग्ने घाते दमो बुधैः ॥ २१।९ ॥

विश्वास-प्रस्तुतिः - २१।१०

इष्ट-कोपल-काष्ठैश् च
ताडने तु द्वि-माषिकः।
द्वि-गुणः शोणितोद्भेदे
दण्डः कार्यो मनीषिभिः ॥ २१।१० ॥

मूलम् - २१।१०

इष्ट-कोपल-काष्ठैश् च
ताडने तु द्वि-माषिकः।
द्वि-गुणः शोणितोद्भेदे
दण्डः कार्यो मनीषिभिः ॥ २१।१० ॥

त्वग्-भेदे प्रथमो दण्डो
मांस-भेदे तु मध्यमः।

२१।३ उत्तमम्

विश्वास-प्रस्तुतिः - २१।११

उत्तमस् त्व् अस्थि-भेदे स्याद्
धातेन तु प्रमापणम् ॥ २१।११ ॥

मूलम् - २१।११

उत्तमस् त्व् अस्थि-भेदे स्याद्
धातेन तु प्रमापणम् ॥ २१।११ ॥

विश्वास-प्रस्तुतिः - २१।१२

कर्ण-नासा-कर-च्छेदे
दन्त-भङ्गे ऽस्थि-भेदने।
कर्तव्यो मध्यमो दण्डो
द्वि-गुणः पतितेषु तु ॥ २१।१२ ॥

मूलम् - २१।१२

कर्ण-नासा-कर-च्छेदे
दन्त-भङ्गे ऽस्थि-भेदने।
कर्तव्यो मध्यमो दण्डो
द्वि-गुणः पतितेषु तु ॥ २१।१२ ॥

विश्वास-प्रस्तुतिः - २१।१३

कर्णौष्ठ-घ्राण-पादाक्षि-
जिह्वा-शिश्न-करस्य च।
छेदने चोत्तमो दण्डो
भेदने मध्यमो गुरुः ॥ २१।१३ ॥

मूलम् - २१।१३

कर्णौष्ठ-घ्राण-पादाक्षि-
जिह्वा-शिश्न-करस्य च।
छेदने चोत्तमो दण्डो
भेदने मध्यमो गुरुः ॥ २१।१३ ॥

विश्वास-प्रस्तुतिः - २१।१४

दण्डस् त्व् अभिहितायैव
दण्ड-पारुष्य-कल्पितः।
हृते तद् द्वि-गुणं चान्यद्-
राज-दण्डस् ततो ऽधिकः ॥ २१।१४ ॥

मूलम् - २१।१४

दण्डस् त्व् अभिहितायैव
दण्ड-पारुष्य-कल्पितः।
हृते तद् द्वि-गुणं चान्यद्-
राज-दण्डस् ततो ऽधिकः ॥ २१।१४ ॥

विश्वास-प्रस्तुतिः - २१।१५

अङ्गावभेदने चैव
पीडने छेदने तथा।
समुत्थान-व्ययं दाप्यः
कलहापहृतं च यत् ॥ २१।१५ ॥

मूलम् - २१।१५

अङ्गावभेदने चैव
पीडने छेदने तथा।
समुत्थान-व्ययं दाप्यः
कलहापहृतं च यत् ॥ २१।१५ ॥

विश्वास-प्रस्तुतिः - २१।१६

विविक्ते ताडितो यस् तु
हतो दृश्येत वा भवेत्।
हन्ता तद् अनुमानेन
विज्ञेयः शपथेन वा ॥ २१।१६ ॥

मूलम् - २१।१६

विविक्ते ताडितो यस् तु
हतो दृश्येत वा भवेत्।
हन्ता तद् अनुमानेन
विज्ञेयः शपथेन वा ॥ २१।१६ ॥

विश्वास-प्रस्तुतिः - २१।१७

अन्तर्-वेश्मन्य् अरण्ये वा
निशायां यत्र ताडितः।
शोणितं तत्र दृश्येत
न पृच्छेत् तत्र साक्षिणः ॥ २१।१७ ॥

मूलम् - २१।१७

अन्तर्-वेश्मन्य् अरण्ये वा
निशायां यत्र ताडितः।
शोणितं तत्र दृश्येत
न पृच्छेत् तत्र साक्षिणः ॥ २१।१७ ॥

विश्वास-प्रस्तुतिः - २१।१८

कश्चित् कृत्वात्मनश् चिह्नं
द्वेषात् परम् अभिद्रवेत्।
हेत्व्-अर्थम् अतिसामर्थ्यैस्
तत्र युक्तं परीक्षणम् ॥ २१।१८ ॥

मूलम् - २१।१८

कश्चित् कृत्वात्मनश् चिह्नं
द्वेषात् परम् अभिद्रवेत्।
हेत्व्-अर्थम् अतिसामर्थ्यैस्
तत्र युक्तं परीक्षणम् ॥ २१।१८ ॥

विश्वास-प्रस्तुतिः - २१।१९

आक्रुष्टस् तु समाक्रोशंस्
ताडितः प्रतिताडयन्।
हत्वापराधिनं चैव
नापराधी भवेन् नरः ॥ २१।१९ ॥

मूलम् - २१।१९

आक्रुष्टस् तु समाक्रोशंस्
ताडितः प्रतिताडयन्।
हत्वापराधिनं चैव
नापराधी भवेन् नरः ॥ २१।१९ ॥

विश्वास-प्रस्तुतिः - २१।२०

प्रातिलोम्यास् तथा चान्त्याः
पुरुषाणां मलाः स्मृताः।
ब्राह्मणातिक्रमे वध्या
न दातव्या धनं क्वचित् ॥ २१।२० ॥

मूलम् - २१।२०

प्रातिलोम्यास् तथा चान्त्याः
पुरुषाणां मलाः स्मृताः।
ब्राह्मणातिक्रमे वध्या
न दातव्या धनं क्वचित् ॥ २१।२० ॥

विश्वास-प्रस्तुतिः - २१।२१

श्रान्तान् क्षुधार्तान् तृषितान्
अकाले वाहयेत् तु यः।
स गो-घ्नो निष्कृतिं कार्यो
दाप्यो वाप्य् अथवा दमम् ॥ २१।२१ ॥

मूलम् - २१।२१

श्रान्तान् क्षुधार्तान् तृषितान्
अकाले वाहयेत् तु यः।
स गो-घ्नो निष्कृतिं कार्यो
दाप्यो वाप्य् अथवा दमम् ॥ २१।२१ ॥

समुत्थान-व्ययं दाप्यः
कलहाय कृतं च यत्।
येनाङ्गेन द्वि-जातीनां
शूद्रः प्रहरते रुषा \
छेत्तव्यं तद् भवेत् तस्य # मनुना समुदाहृतम् ॥ २१।२२ ॥