विश्वास-प्रस्तुतिः - २०।१
अप्रियोक्तिस् ताडनं च
पारुष्यं द्विविधं स्मृतम्।
एकैकं तु त्रिधा भिन्नं
दमश् चोक्तस् त्रि-लक्षणः ॥ २०।१ ॥
मूलम् - २०।१
अप्रियोक्तिस् ताडनं च
पारुष्यं द्विविधं स्मृतम्।
एकैकं तु त्रिधा भिन्नं
दमश् चोक्तस् त्रि-लक्षणः ॥ २०।१ ॥
२०।१ वाक्-पारुष्ये त्रैविधम्
विश्वास-प्रस्तुतिः - २०।२
देश-धर्म-कुलादीनां
क्षेपः पापेन योजनम्।
द्रव्यं विना तु प्रथमं
वाक्-पारुष्यं तद् उच्यते ॥ २०।२ ॥
मूलम् - २०।२
देश-धर्म-कुलादीनां
क्षेपः पापेन योजनम्।
द्रव्यं विना तु प्रथमं
वाक्-पारुष्यं तद् उच्यते ॥ २०।२ ॥
विश्वास-प्रस्तुतिः - २०।३
भगिनी-भ्रातृ-सम्बद्धम्
उपपातक-शंसनम्।
पारुष्यं मध्यमं प्रोक्तं
वाचिकं शास्त्र-वेदिभिः ॥ २०।३ ॥
मूलम् - २०।३
भगिनी-भ्रातृ-सम्बद्धम्
उपपातक-शंसनम्।
पारुष्यं मध्यमं प्रोक्तं
वाचिकं शास्त्र-वेदिभिः ॥ २०।३ ॥
विश्वास-प्रस्तुतिः - २०।४
अभक्ष्यापेय-कथनं
महा-पातक-दूषणम्।
पारुष्यम् उत्तमं प्रोक्तं
तीव्रम् अर्माभिपातनम् ॥ २०।४ ॥
मूलम् - २०।४
अभक्ष्यापेय-कथनं
महा-पातक-दूषणम्।
पारुष्यम् उत्तमं प्रोक्तं
तीव्रम् अर्माभिपातनम् ॥ २०।४ ॥
२०।२ दण्डः
विश्वास-प्रस्तुतिः - २०।५
सम-जाति-गुणानां तु
वाक्-पारुष्ये परस्परम्।
विनयो ऽभिहितः शास्त्रे
पणस् त्व् अर्ध-त्रयोदशः ॥ २०।५ ॥
मूलम् - २०।५
सम-जाति-गुणानां तु
वाक्-पारुष्ये परस्परम्।
विनयो ऽभिहितः शास्त्रे
पणस् त्व् अर्ध-त्रयोदशः ॥ २०।५ ॥
विश्वास-प्रस्तुतिः - २०।६
दण्डः काण-खञ्जादीनां तथा-विधान् अपि कार्षापण-द्वयम् ॥ २०।६ ॥
मूलम् - २०।६
दण्डः काण-खञ्जादीनां तथा-विधान् अपि कार्षापण-द्वयम् ॥ २०।६ ॥
विश्वास-प्रस्तुतिः - २०।७
सवर्णाक्रोशने सार्ध-द्वादश-पणो दण्डः ।
हीन-वर्णे काकिण्य्-अधिक-षट्-पणो दण्डः ॥ २०।७ ॥
मूलम् - २०।७
सवर्णाक्रोशने सार्ध-द्वादश-पणो दण्डः ।
हीन-वर्णे काकिण्य्-अधिक-षट्-पणो दण्डः ॥ २०।७ ॥
काण-खञ्जादीनां तथा
विश्वास-प्रस्तुतिः - २०।८
समानयोः समो दण्डो
न्यूनस्य द्वि-गुणस् तु सः।
उत्तमस्याधिकः प्रोक्तो
वाक्-पारुष्ये परस्परम् ॥ २०।८ ॥
मूलम् - २०।८
समानयोः समो दण्डो
न्यूनस्य द्वि-गुणस् तु सः।
उत्तमस्याधिकः प्रोक्तो
वाक्-पारुष्ये परस्परम् ॥ २०।८ ॥
विश्वास-प्रस्तुतिः - २०।९
क्षिपन् स्वस्रादिकं दद्यात्
पञ्चाशत्-पणिकं दमम्।
गुण-हीनस्य पारुष्ये
ब्राह्मणो नापराध्नुयात् ॥ २०।९ ॥
मूलम् - २०।९
क्षिपन् स्वस्रादिकं दद्यात्
पञ्चाशत्-पणिकं दमम्।
गुण-हीनस्य पारुष्ये
ब्राह्मणो नापराध्नुयात् ॥ २०।९ ॥
विश्वास-प्रस्तुतिः - २०।१०
पतितं पतितेत्य् उक्त्वा
चोरं चोरेति वा पुनः।
वचनात् तुल्य-दोषः स्यात्
॥॥ ॥॥ ॥ २०।१० ॥
मूलम् - २०।१०
पतितं पतितेत्य् उक्त्वा
चोरं चोरेति वा पुनः।
वचनात् तुल्य-दोषः स्यात्
॥॥ ॥॥ ॥ २०।१० ॥
२०।३ वर्ण-भेदेन दण्ड-भेदः
विश्वास-प्रस्तुतिः - २०।११
धर्मोपदेशं धर्मेण
विप्राणाम् अस्य कुर्वतः।
तप्तम् आसिञ्चयेत् तैलं
वक्त्रे श्रोत्रे च पार्थिवः ॥ २०।११ ॥
मूलम् - २०।११
धर्मोपदेशं धर्मेण
विप्राणाम् अस्य कुर्वतः।
तप्तम् आसिञ्चयेत् तैलं
वक्त्रे श्रोत्रे च पार्थिवः ॥ २०।११ ॥
विश्वास-प्रस्तुतिः - २०।१२
विप्रे शतार्धं दण्डस् तु
क्षत्रियस्याभिशंसने।
विशस् तथार्ध-पञ्चाशच्-
छूद्रस्यार्ध-त्रयोदश ॥ २०।१२ ॥
मूलम् - २०।१२
विप्रे शतार्धं दण्डस् तु
क्षत्रियस्याभिशंसने।
विशस् तथार्ध-पञ्चाशच्-
छूद्रस्यार्ध-त्रयोदश ॥ २०।१२ ॥
विश्वास-प्रस्तुतिः - २०।१३
सच्-छूद्रस्यायम् उद्दिष्टो
विनयो ऽनपराधिनः।
गुण-हीनस्य पारुष्ये
ब्राह्मणो नापराध्नुयात् ॥ २०।१३ ॥
मूलम् - २०।१३
सच्-छूद्रस्यायम् उद्दिष्टो
विनयो ऽनपराधिनः।
गुण-हीनस्य पारुष्ये
ब्राह्मणो नापराध्नुयात् ॥ २०।१३ ॥
विश्वास-प्रस्तुतिः - २०।१४
वैश्यस्य क्षत्रियाक्रोशे
दण्डनीयः प्रदो भवेत्।
तद्-अर्धं क्षत्रियो वैश्यं
क्षिपन् विनयम् अर्हति ॥ २०।१४ ॥
मूलम् - २०।१४
वैश्यस्य क्षत्रियाक्रोशे
दण्डनीयः प्रदो भवेत्।
तद्-अर्धं क्षत्रियो वैश्यं
क्षिपन् विनयम् अर्हति ॥ २०।१४ ॥
विश्वास-प्रस्तुतिः - २०।१५
शूद्राक्रोशे क्षत्रियस्य
पञ्चविंशतिको दमः।
बृहत्वे द्वि-गुणं तत्र
शास्त्र-विद्भिर् उदाहृतम् ॥ २०।१५ ॥
मूलम् - २०।१५
शूद्राक्रोशे क्षत्रियस्य
पञ्चविंशतिको दमः।
बृहत्वे द्वि-गुणं तत्र
शास्त्र-विद्भिर् उदाहृतम् ॥ २०।१५ ॥
विश्वास-प्रस्तुतिः - २०।१६
वैश्यम् आक्षारयञ् शूद्रो
दाप्यः स्यात् प्रथमं दमम्।
क्षत्रियं मध्यमं चैव
विप्रम् उत्तम-साहसम् ॥ २०।१६ ॥
मूलम् - २०।१६
वैश्यम् आक्षारयञ् शूद्रो
दाप्यः स्यात् प्रथमं दमम्।
क्षत्रियं मध्यमं चैव
विप्रम् उत्तम-साहसम् ॥ २०।१६ ॥
विश्वास-प्रस्तुतिः - २०।१७
देशादिकं क्षिपन् दाप्यः
पणान् अर्धत्रयोदश।
पापेन योजयन् दर्पाद्
दाप्यः प्रथम-साहसम् ॥ २०।१७ ॥
मूलम् - २०।१७
देशादिकं क्षिपन् दाप्यः
पणान् अर्धत्रयोदश।
पापेन योजयन् दर्पाद्
दाप्यः प्रथम-साहसम् ॥ २०।१७ ॥
विश्वास-प्रस्तुतिः - २०।१८
धर्मोपदेश-कर्ता च
वेदोदाहरणान्वितः।
आक्रोशकस् तु विप्राणां
जिह्वाच् छेदेन दण्ड्यते ॥ २०।१८ ॥
मूलम् - २०।१८
धर्मोपदेश-कर्ता च
वेदोदाहरणान्वितः।
आक्रोशकस् तु विप्राणां
जिह्वाच् छेदेन दण्ड्यते ॥ २०।१८ ॥
विश्वास-प्रस्तुतिः - २०।१९
एष दण्डः समाख्यातः
पुरुषापेक्षया मया।
सम-न्यूनाधिकत्वेन
कल्पनीयो मनीषिभिः ॥ २०।१९ ॥
मूलम् - २०।१९
एष दण्डः समाख्यातः
पुरुषापेक्षया मया।
सम-न्यूनाधिकत्वेन
कल्पनीयो मनीषिभिः ॥ २०।१९ ॥