विश्वास-प्रस्तुतिः - १९।१
क्रय-विक्रयानुशये
विधिर् एष प्रदर्शितः।
ग्राम-क्षेत्र-गृहादीनां
सीमा-वादं निबोधत ॥ १९।१ ॥
मूलम् - १९।१
क्रय-विक्रयानुशये
विधिर् एष प्रदर्शितः।
ग्राम-क्षेत्र-गृहादीनां
सीमा-वादं निबोधत ॥ १९।१ ॥
१९।१ सीमा-सन्धिषु वृक्षादयः स्थाप्याः
विश्वास-प्रस्तुतिः - १९।२
सीमा-वृक्षांश् च कुर्वीरन्
न्यग्रोधाश्वत्थ-किंशुकान्।
शाल्मली-शालता[डां? लां]श् च
क्षीरिणश् चैव पादपान् ॥ १९।२ ॥
मूलम् - १९।२
सीमा-वृक्षांश् च कुर्वीरन्
न्यग्रोधाश्वत्थ-किंशुकान्।
शाल्मली-शालता[डां? लां]श् च
क्षीरिणश् चैव पादपान् ॥ १९।२ ॥
विश्वास-प्रस्तुतिः - १९।३
गुल्मान् वेणूंश् च विविधाञ्
शमी-वल्ली-स्थलानि च।
शरान् कुब्जक-गुल्मांश् च
तथा सीमा न नश्यति ॥ १९।३ ॥
मूलम् - १९।३
गुल्मान् वेणूंश् च विविधाञ्
शमी-वल्ली-स्थलानि च।
शरान् कुब्जक-गुल्मांश् च
तथा सीमा न नश्यति ॥ १९।३ ॥
विश्वास-प्रस्तुतिः - १९।४
तडागान्य् उदपानानि
॥त् प्रस्रवणानि च।
सीमा-सन्धिषु कार्याणि
देवतायतनानि च ॥ १९।४ ॥
मूलम् - १९।४
तडागान्य् उदपानानि
॥त् प्रस्रवणानि च।
सीमा-सन्धिषु कार्याणि
देवतायतनानि च ॥ १९।४ ॥
विश्वास-प्रस्तुतिः - १९।५
राजा क्षेत्रं दत्त्वा चातुर्वैद्य-वणिग्-वारिक-सर्व-ग्रामीण तन्-महत्-तर-स्वामि-पुरुषाधिष्ठितं परिच्छिन्द्यात् ॥ १९।५ ॥
मूलम् - १९।५
राजा क्षेत्रं दत्त्वा चातुर्वैद्य-वणिग्-वारिक-सर्व-ग्रामीण तन्-महत्-तर-स्वामि-पुरुषाधिष्ठितं परिच्छिन्द्यात् ॥ १९।५ ॥
विश्वास-प्रस्तुतिः - १९।६
यदि शूद्रो नेता स्यात् तं क्लैब्येनालङ्कारेण अलङ्कृत्य शव-भस्मना मुखं विलिप्याग्रेयस्य पशोः शोणितेनोरसि पञ्चाङ्गुलानि कृत्वा ग्रीवायाम् अन्त्राणि प्रतिमुच्य स्व्येन पाणिना सीमा-लोष्टं मूर्ध्नि धारयेत् ॥ १९।६ ॥
मूलम् - १९।६
यदि शूद्रो नेता स्यात् तं क्लैब्येनालङ्कारेण अलङ्कृत्य शव-भस्मना मुखं विलिप्याग्रेयस्य पशोः शोणितेनोरसि पञ्चाङ्गुलानि कृत्वा ग्रीवायाम् अन्त्राणि प्रतिमुच्य स्व्येन पाणिना सीमा-लोष्टं मूर्ध्नि धारयेत् ॥ १९।६ ॥
विश्वास-प्रस्तुतिः - १९।७
निवेश-काले कर्तव्यः
सीमा-बन्ध-विनिश्चयः।
प्रकाशोपांशु-चिह्नैश् च
लक्षितः संशयापहः ॥ १९।७ ॥
मूलम् - १९।७
निवेश-काले कर्तव्यः
सीमा-बन्ध-विनिश्चयः।
प्रकाशोपांशु-चिह्नैश् च
लक्षितः संशयापहः ॥ १९।७ ॥
विश्वास-प्रस्तुतिः - १९।८
अनश्वराणि द्रव्याणि
प्रकृत्यैवाविरोधतः।
वापी-कूप-तडागानि
चैत्याराम-सुरालयाः ॥ १९।८ ॥
मूलम् - १९।८
अनश्वराणि द्रव्याणि
प्रकृत्यैवाविरोधतः।
वापी-कूप-तडागानि
चैत्याराम-सुरालयाः ॥ १९।८ ॥
विश्वास-प्रस्तुतिः - १९।९
स्थल-निम्न-नदी-स्रोतः
शर-गुल्म-नगादयः।
प्रकाश-चिह्नान्य् एतानि
सीमायां कारयेत् सदा ॥ १९।९ ॥
मूलम् - १९।९
स्थल-निम्न-नदी-स्रोतः
शर-गुल्म-नगादयः।
प्रकाश-चिह्नान्य् एतानि
सीमायां कारयेत् सदा ॥ १९।९ ॥
१९।३ सीमा-वादे साक्षिणः
विश्वास-प्रस्तुतिः - १९।१०
यदि संशय एव स्याल्
लिङ्गानाम् अपि दर्शने।
साक्षि-प्रत्यय एव स्याद्
विवादे सीम-निश्चयः ॥ १९।१० ॥
मूलम् - १९।१०
यदि संशय एव स्याल्
लिङ्गानाम् अपि दर्शने।
साक्षि-प्रत्यय एव स्याद्
विवादे सीम-निश्चयः ॥ १९।१० ॥
विश्वास-प्रस्तुतिः - १९।११
साक्ष्य-भावे च चत्वारो
ग्राम-सीमान्त-वासिनः।
सीमा-विनिर्णयं कुर्युः
प्रयता राज-सन्निधौ ॥ १९।११ ॥
मूलम् - १९।११
साक्ष्य-भावे च चत्वारो
ग्राम-सीमान्त-वासिनः।
सीमा-विनिर्णयं कुर्युः
प्रयता राज-सन्निधौ ॥ १९।११ ॥
विश्वास-प्रस्तुतिः - १९।१२
सामन्तानाम् अभावे तु
मौलानां सीम-साक्षिणाम्।
इमान् अप्य् अनुयुञ्जीत
पुरुषान् वन-गोचरान् ॥ १९।१२ ॥
मूलम् - १९।१२
सामन्तानाम् अभावे तु
मौलानां सीम-साक्षिणाम्।
इमान् अप्य् अनुयुञ्जीत
पुरुषान् वन-गोचरान् ॥ १९।१२ ॥
विश्वास-प्रस्तुतिः - १९।१३
व्याधाञ् शाकुनिकान् गोपान्
कैवर्तान् मूल-खानकान्।
व्याल-ग्राहान् उञ्छ-वृत्तीन्
अन्यांश् च वन-गोचरान् ॥ १९।१३ ॥
मूलम् - १९।१३
व्याधाञ् शाकुनिकान् गोपान्
कैवर्तान् मूल-खानकान्।
व्याल-ग्राहान् उञ्छ-वृत्तीन्
अन्यांश् च वन-गोचरान् ॥ १९।१३ ॥
विश्वास-प्रस्तुतिः - १९।१४
ते पृष्टास् तु यथा ब्रूयुः
सीमा-सन्धिषु लक्षणम्।
तत् तथा स्थापयेत् राजा
धर्मेण ग्रामयोर् द्वयोः ॥ १९।१४ ॥
मूलम् - १९।१४
ते पृष्टास् तु यथा ब्रूयुः
सीमा-सन्धिषु लक्षणम्।
तत् तथा स्थापयेत् राजा
धर्मेण ग्रामयोर् द्वयोः ॥ १९।१४ ॥
विश्वास-प्रस्तुतिः - १९।१५
शिरोभिस् ते गृहीत्वोर्वीं
स्रग्विणो रक्त-वाससः।
सुकृतैः शापिताः स्वैः स्वैः
ब्रूयुस् ते तु समञ्जसम् ॥ १९।१५ ॥
मूलम् - १९।१५
शिरोभिस् ते गृहीत्वोर्वीं
स्रग्विणो रक्त-वाससः।
सुकृतैः शापिताः स्वैः स्वैः
ब्रूयुस् ते तु समञ्जसम् ॥ १९।१५ ॥
विश्वास-प्रस्तुतिः - १९।१६
निबध्नीयात् तथा सीमां
सवींस् तांश् चैव नामतः।
प्रकाश-चिह्नान्य् एतानि
सीमायां कारयेत् सदा ॥ १९।१६ ॥
मूलम् - १९।१६
निबध्नीयात् तथा सीमां
सवींस् तांश् चैव नामतः।
प्रकाश-चिह्नान्य् एतानि
सीमायां कारयेत् सदा ॥ १९।१६ ॥
१९।४ अप्रकाश-चिह्नानि
विश्वास-प्रस्तुतिः - १९।१७
निहितानि तथान्यानि
यानि भूमिर् न भक्षयेत्।
उपच्छत्रानि चान्यानि
सीमा-लिङ्गानि कारयेत् ॥ १९।१७ ॥
मूलम् - १९।१७
निहितानि तथान्यानि
यानि भूमिर् न भक्षयेत्।
उपच्छत्रानि चान्यानि
सीमा-लिङ्गानि कारयेत् ॥ १९।१७ ॥
विश्वास-प्रस्तुतिः - १९।१८
सीमा-ज्ञाने तृनं वीक्ष्य
लोके नित्य-विपर्ययम्।
श्मशानो ऽस्थीनि गो-बालास्
तथा भस्म-कपालिकाः ॥ १९।१८ ॥
मूलम् - १९।१८
सीमा-ज्ञाने तृनं वीक्ष्य
लोके नित्य-विपर्ययम्।
श्मशानो ऽस्थीनि गो-बालास्
तथा भस्म-कपालिकाः ॥ १९।१८ ॥
विश्वास-प्रस्तुतिः - १९।१९
करीषम् इष्टकाङ्गार-
शर्करा बालुकांस् तथा।
तानि सन्धिषु सीमाया
अप्रकाशानि कारयेत् ॥ १९।१९ ॥
मूलम् - १९।१९
करीषम् इष्टकाङ्गार-
शर्करा बालुकांस् तथा।
तानि सन्धिषु सीमाया
अप्रकाशानि कारयेत् ॥ १९।१९ ॥
विश्वास-प्रस्तुतिः - १९।२०
करीषास्थि-तुषाङ्गार-
शर्करा-श्म-कपालिकाः।
सिकतेष्टक-गोबाल-
कार्पासास्थीनि भस्म च ॥ १९।२० ॥
मूलम् - १९।२०
करीषास्थि-तुषाङ्गार-
शर्करा-श्म-कपालिकाः।
सिकतेष्टक-गोबाल-
कार्पासास्थीनि भस्म च ॥ १९।२० ॥
प्रक्षिप्य कुम्भेष्व् एतानि
सीमान्तेषु निधापयेत्।
१९।५ प्रयत्न-दर्शितव्य-चिह्नानि
विश्वास-प्रस्तुतिः - १९।२१
ततः पौगण्ड-बालानां
प्रयत्नेन प्रदर्शयेत् ॥ १९।२१ ॥
मूलम् - १९।२१
ततः पौगण्ड-बालानां
प्रयत्नेन प्रदर्शयेत् ॥ १९।२१ ॥
विश्वास-प्रस्तुतिः - १९।२२
वार्धके च शिशूनां ते
दर्शयेयुस् तथैव च।
एवं परम्पराज्ञाने
सीमा-भ्रान्तिर् न जायते ॥ १९।२२ ॥
मूलम् - १९।२२
वार्धके च शिशूनां ते
दर्शयेयुस् तथैव च।
एवं परम्पराज्ञाने
सीमा-भ्रान्तिर् न जायते ॥ १९।२२ ॥
विश्वास-प्रस्तुतिः - १९।२३
कुरुते दान-हरणं
भाग्याभाग्य-वशान् नृणाम्।
एकत्र कूल-पातं तु
भूमेर् अन्यत्र संस्थितिः ॥ १९।२३ ॥
मूलम् - १९।२३
कुरुते दान-हरणं
भाग्याभाग्य-वशान् नृणाम्।
एकत्र कूल-पातं तु
भूमेर् अन्यत्र संस्थितिः ॥ १९।२३ ॥
विश्वास-प्रस्तुतिः - १९।२४
नदी-तीरं प्रकुरुते
तस्यैतां न विचालयेत्।
क्षेत्रं ससस्यम् उल्लङ्घ्य
भूमिश् च्छिन्ना यदा भवेत् ॥ १९।२४ ॥
मूलम् - १९।२४
नदी-तीरं प्रकुरुते
तस्यैतां न विचालयेत्।
क्षेत्रं ससस्यम् उल्लङ्घ्य
भूमिश् च्छिन्ना यदा भवेत् ॥ १९।२४ ॥
विश्वास-प्रस्तुतिः - १९।२५
नदी-स्रोतः-प्रवाहेण
क्षेत्र-स्वामी लभेत ताम्।
या राज्ञा क्रोध-लोभेन
बलान् न्यायेन वा हृता ॥ १९।२५ ॥
मूलम् - १९।२५
नदी-स्रोतः-प्रवाहेण
क्षेत्र-स्वामी लभेत ताम्।
या राज्ञा क्रोध-लोभेन
बलान् न्यायेन वा हृता ॥ १९।२५ ॥
१९।६ गृह-क्षेत्र-विवाद-साक्षि-निर्णयः
विश्वास-प्रस्तुतिः - १९।२६
गृह-क्षेत्र-विवादेषु
सामन्तेभ्यो विनिर्णयः।
नगर-ग्राम-गणिनो
ये च वृद्ध-तमा नराः ॥ १९।२६ ॥
मूलम् - १९।२६
गृह-क्षेत्र-विवादेषु
सामन्तेभ्यो विनिर्णयः।
नगर-ग्राम-गणिनो
ये च वृद्ध-तमा नराः ॥ १९।२६ ॥
विश्वास-प्रस्तुतिः - १९।२७
कीनाश-शिल्पि-भृतका
गोप-व्याधोञ्छ-जीविनः।
मूल-खानक-कैवर्त-
कुल्या भेदक-बाधकाः ॥ १९।२७ ॥
मूलम् - १९।२७
कीनाश-शिल्पि-भृतका
गोप-व्याधोञ्छ-जीविनः।
मूल-खानक-कैवर्त-
कुल्या भेदक-बाधकाः ॥ १९।२७ ॥
विश्वास-प्रस्तुतिः - १९।२८
आगमं च प्रमाणं च
भोगं कामं च नाम च।
भू-भाग-लक्षणं चैव
ये विदुस् ते ऽत्र साक्षिणः ॥ १९।२८ ॥
मूलम् - १९।२८
आगमं च प्रमाणं च
भोगं कामं च नाम च।
भू-भाग-लक्षणं चैव
ये विदुस् ते ऽत्र साक्षिणः ॥ १९।२८ ॥
विश्वास-प्रस्तुतिः - १९।२९
प्रदत्तान्यस्य तुष्टेन
न सा सिद्धिम् अवाप्नुयात्।
[या राज्ञा क्रोध-लोभेन
छलान् न्यायेन वा हृता] ॥ १९।२९ ॥
मूलम् - १९।२९
प्रदत्तान्यस्य तुष्टेन
न सा सिद्धिम् अवाप्नुयात्।
[या राज्ञा क्रोध-लोभेन
छलान् न्यायेन वा हृता] ॥ १९।२९ ॥
विश्वास-प्रस्तुतिः - १९।३०
प्रमाण-रहितां भूमिं
भुञ्जतो यस्य या हृता।
गुणाधिकस्य दत्ता वा
तस्य तां नैव चालयेत् ॥ १९।३० ॥
मूलम् - १९।३०
प्रमाण-रहितां भूमिं
भुञ्जतो यस्य या हृता।
गुणाधिकस्य दत्ता वा
तस्य तां नैव चालयेत् ॥ १९।३० ॥
विश्वास-प्रस्तुतिः - १९।३१
शापथैः शापिताः स्वैः स्वैः
ब्रूयुः सीम्नि विनिश्चयम्।
दर्शयेयुर् निधानानि
तत् प्रमाणम् इति स्थितिः ॥ १९।३१ ॥
मूलम् - १९।३१
शापथैः शापिताः स्वैः स्वैः
ब्रूयुः सीम्नि विनिश्चयम्।
दर्शयेयुर् निधानानि
तत् प्रमाणम् इति स्थितिः ॥ १९।३१ ॥
विश्वास-प्रस्तुतिः - १९।३२
सत्येन शापयेद् विप्रं
क्षत्रियं वाहनायुधैः [=म्न्_८।११३अ] ॥ १९।३२ ॥
मूलम् - १९।३२
सत्येन शापयेद् विप्रं
क्षत्रियं वाहनायुधैः [=म्न्_८।११३अ] ॥ १९।३२ ॥
विश्वास-प्रस्तुतिः - १९।३३
ज्ञातृ-चिह्नैर् विना साधुर्
एको ऽप्य् उभय-सम्मतः।
रक्त-माल्याम्बर-धरो
मृदम् आदाय मूर्धनि ॥ १९।३३ ॥
मूलम् - १९।३३
ज्ञातृ-चिह्नैर् विना साधुर्
एको ऽप्य् उभय-सम्मतः।
रक्त-माल्याम्बर-धरो
मृदम् आदाय मूर्धनि ॥ १९।३३ ॥
विश्वास-प्रस्तुतिः - १९।३४
सत्य-व्रतः सोपवासः
सीमान्तं दर्शयेन् नरः ॥ १९।३४ ॥
मूलम् - १९।३४
सत्य-व्रतः सोपवासः
सीमान्तं दर्शयेन् नरः ॥ १९।३४ ॥
[सामन्ताश् चेन् मृषा ब्रूयुः
विश्वास-प्रस्तुतिः - १९।३५
सेतौ विवदतां नृणाम्]।
[सर्वे च ते पृथग्-दण्ड्या
राज्ञा मध्यम् असाहसम्] ॥ १९।३५ ॥
मूलम् - १९।३५
सेतौ विवदतां नृणाम्]।
[सर्वे च ते पृथग्-दण्ड्या
राज्ञा मध्यम् असाहसम्] ॥ १९।३५ ॥
[यथोक्तेन नयन्तस् ते
विश्वास-प्रस्तुतिः - १९।३६
पूयन्ते सत्य-साक्षिणः]।
[विपरीतं नयन्तस् तु
दाप्याः स्युर् द्विशतं दमम्] ॥ १९।३६ ॥
मूलम् - १९।३६
पूयन्ते सत्य-साक्षिणः]।
[विपरीतं नयन्तस् तु
दाप्याः स्युर् द्विशतं दमम्] ॥ १९।३६ ॥
विश्वास-प्रस्तुतिः - १९।३७
सर्वस्मिन् स्थावरे वादे
विधिर् एष प्रकीर्तितः ॥ १९।३७ ॥
मूलम् - १९।३७
सर्वस्मिन् स्थावरे वादे
विधिर् एष प्रकीर्तितः ॥ १९।३७ ॥
विश्वास-प्रस्तुतिः - १९।३८
तद्-उत्पन्नाश् च सामन्ता
ये ऽन्य-देशे व्यवस्थिताः।
मौलास् ते तु समुद्दिष्टाः
प्रष्टव्याः कार्य-निर्णये ॥ १९।३८ ॥
मूलम् - १९।३८
तद्-उत्पन्नाश् च सामन्ता
ये ऽन्य-देशे व्यवस्थिताः।
मौलास् ते तु समुद्दिष्टाः
प्रष्टव्याः कार्य-निर्णये ॥ १९।३८ ॥
विश्वास-प्रस्तुतिः - १९।३९
अदुष्टास् ते तु यद् ब्रूयुः
सन्दिग्धौ समवृत्तयः।
तत् प्रमाणं तु कर्तव्यम्
एवं धर्मो न हीयते ॥ १९।३९ ॥
मूलम् - १९।३९
अदुष्टास् ते तु यद् ब्रूयुः
सन्दिग्धौ समवृत्तयः।
तत् प्रमाणं तु कर्तव्यम्
एवं धर्मो न हीयते ॥ १९।३९ ॥
विश्वास-प्रस्तुतिः - १९।४०
अन्य-ग्रामात् समाहृत्य
दत्तान्यस्य यदा मही।
अन्यथा तु भवेल् लाभो
नराणां राज-दैविकः ॥ १९।४० ॥
मूलम् - १९।४०
अन्य-ग्रामात् समाहृत्य
दत्तान्यस्य यदा मही।
अन्यथा तु भवेल् लाभो
नराणां राज-दैविकः ॥ १९।४० ॥
महानद्याथवा राज्ञा
कथं तत्र विचारणा।
नद्योत्सृष्टा राज-दत्ता
यस्य तस्यैव सा मही \
अन्यथा तु भवेल् लाभो # नराणां राज-दैविकः ॥ १९।४१ ॥
विश्वास-प्रस्तुतिः - १९।४२
क्षयोदयौ जीवनं च
दैव-राज-वशान् नृणाम्।
तस्मात् सर्वेषु कालेषु
तत्-कृतं न विचालयेत् ॥ १९।४२ ॥
मूलम् - १९।४२
क्षयोदयौ जीवनं च
दैव-राज-वशान् नृणाम्।
तस्मात् सर्वेषु कालेषु
तत्-कृतं न विचालयेत् ॥ १९।४२ ॥
ग्रामयोर् उभयोर् यत्र
मर्यादा कल्पिता नदी।
कुरुते दान-हरणं
भाग्याभाग्य-वशान् नृणाम् \
क्षयोदयेन चाल्पा च # चालयन् दण्डम् अर्हति ॥ १९।४३ ॥
विश्वास-प्रस्तुतिः - १९।४४
दश-ग्राम-शत-ग्राम-
सहस्र-ग्राम-लक्षणाम्।
विषमां नृपतिः कुर्याच्
चिह्नैः सीमां विनिश्चिताम् ॥ १९।४४ ॥
मूलम् - १९।४४
दश-ग्राम-शत-ग्राम-
सहस्र-ग्राम-लक्षणाम्।
विषमां नृपतिः कुर्याच्
चिह्नैः सीमां विनिश्चिताम् ॥ १९।४४ ॥
विश्वास-प्रस्तुतिः - १९।४५
निवेश-कालाद् आरभ्य
गृह-वर्य्-आपणादिकम्।
येन यावद् यथा भुक्तं
तस्य तन् न विचालयेत् ॥ १९।४५ ॥
मूलम् - १९।४५
निवेश-कालाद् आरभ्य
गृह-वर्य्-आपणादिकम्।
येन यावद् यथा भुक्तं
तस्य तन् न विचालयेत् ॥ १९।४५ ॥
विश्वास-प्रस्तुतिः - १९।४६
वातायन-प्रणालीस् तु
तथा निर्यूह-वेदिकाः।
चतुः-शाल-स्यन्दनिकाः
प्राङ्-निविष्टा न चालयेत् ॥ १९।४६ ॥
मूलम् - १९।४६
वातायन-प्रणालीस् तु
तथा निर्यूह-वेदिकाः।
चतुः-शाल-स्यन्दनिकाः
प्राङ्-निविष्टा न चालयेत् ॥ १९।४६ ॥
विश्वास-प्रस्तुतिः - १९।४७
मेखला-भ्रम-निष्कास-
गवाक्षान् नोपरोधयेत्।
प्रणालीं गृहवास्तुं च
पीडयन् दण्ड-भाग् भवेत् ॥ १९।४७ ॥
मूलम् - १९।४७
मेखला-भ्रम-निष्कास-
गवाक्षान् नोपरोधयेत्।
प्रणालीं गृहवास्तुं च
पीडयन् दण्ड-भाग् भवेत् ॥ १९।४७ ॥
निवेश-समयाद् ऊर्ध्वं
नैते योज्याः कथञ्चन।
१९।७ गृह-निर्माणे ऽकार्याणि
विश्वास-प्रस्तुतिः - १९।४८
दृष्टि-पातं प्रणालीं च
न कुर्यात् पर-वेश्मनि ॥ १९।४८ ॥
मूलम् - १९।४८
दृष्टि-पातं प्रणालीं च
न कुर्यात् पर-वेश्मनि ॥ १९।४८ ॥
विश्वास-प्रस्तुतिः - १९।४९
वर्च-स्थानं वह्निम् अयं
गर्तोच्छिष्टाम्बु-सेचनम्।
अत्यारात् पर-कुड्यस्य
न कर्तव्यं कदाचन ॥ १९।४९ ॥
मूलम् - १९।४९
वर्च-स्थानं वह्निम् अयं
गर्तोच्छिष्टाम्बु-सेचनम्।
अत्यारात् पर-कुड्यस्य
न कर्तव्यं कदाचन ॥ १९।४९ ॥
विश्वास-प्रस्तुतिः - १९।५०
विण्मूत्रोदक-वप्रांश् च
वह्नि-श्वभ्र-निवेशनम्।
अरत्नि-द्वयम् उत्सृज्य
पर-कुड्यां निवेशयेत् ॥ १९।५० ॥
मूलम् - १९।५०
विण्मूत्रोदक-वप्रांश् च
वह्नि-श्वभ्र-निवेशनम्।
अरत्नि-द्वयम् उत्सृज्य
पर-कुड्यां निवेशयेत् ॥ १९।५० ॥
विश्वास-प्रस्तुतिः - १९।५१
यान्त्य् आयान्ति जना येन
पशवश् चानिवारिताः।
तद् उच्यते संसरणं
न रोद्धव्यं तु केनचित् ॥ १९।५१ ॥
मूलम् - १९।५१
यान्त्य् आयान्ति जना येन
पशवश् चानिवारिताः।
तद् उच्यते संसरणं
न रोद्धव्यं तु केनचित् ॥ १९।५१ ॥
विश्वास-प्रस्तुतिः - १९।५२
यस् तत्र सङ्करं श्वभ्रं
वृक्षारोपणम् एव च।
कामात् पुरीषं कुर्याच् च
तस्य दण्डस् तु माषकः ॥ १९।५२ ॥
मूलम् - १९।५२
यस् तत्र सङ्करं श्वभ्रं
वृक्षारोपणम् एव च।
कामात् पुरीषं कुर्याच् च
तस्य दण्डस् तु माषकः ॥ १९।५२ ॥
विश्वास-प्रस्तुतिः - १९।५३
गृहीत्वा वाहयेत् काले
वाप-गोपन-सङ्ग्रहान्।
अकुर्वन् स्वामिने दाप्यो
मध्यं कृष्ट-शदं तु सः ॥ १९।५३ ॥
मूलम् - १९।५३
गृहीत्वा वाहयेत् काले
वाप-गोपन-सङ्ग्रहान्।
अकुर्वन् स्वामिने दाप्यो
मध्यं कृष्ट-शदं तु सः ॥ १९।५३ ॥
विश्वास-प्रस्तुतिः - १९।५४
क्षेत्रं गृहीत्वा यः कश्चिन्
न कुर्यान् न च कारयेत्।
स्वामिने स शदं दाप्यो
राज्ञे दण्डं च तत्-समम् ॥ १९।५४ ॥
मूलम् - १९।५४
क्षेत्रं गृहीत्वा यः कश्चिन्
न कुर्यान् न च कारयेत्।
स्वामिने स शदं दाप्यो
राज्ञे दण्डं च तत्-समम् ॥ १९।५४ ॥
विश्वास-प्रस्तुतिः - १९।५५
चिरावसन्ने दशमं
कृष्यमाणे तथाष्टमम्।
सुसंस्कृते तु षष्ठं स्यात्
परिकल्प्य यथा-विधि ॥ १९।५५ ॥
मूलम् - १९।५५
चिरावसन्ने दशमं
कृष्यमाणे तथाष्टमम्।
सुसंस्कृते तु षष्ठं स्यात्
परिकल्प्य यथा-विधि ॥ १९।५५ ॥