विश्वास-प्रस्तुतिः - १८।१
समासेनोदितस् त्व् एष
समयाचार-निश्चयः।
क्रय-विक्रय-सञ्जातो
विवादः श्रूयताम् अयम् ॥ १८।१ ॥
मूलम् - १८।१
समासेनोदितस् त्व् एष
समयाचार-निश्चयः।
क्रय-विक्रय-सञ्जातो
विवादः श्रूयताम् अयम् ॥ १८।१ ॥
१८।१ पण्यम्
विश्वास-प्रस्तुतिः - १८।२
जङ्गमं स्थावरं चैव
द्रव्ये द्वे समुदाहृते।
क्रय-काले पण्य-शब्द
उभयोर् अपि च स्मृतः ॥ १८।२ ॥
मूलम् - १८।२
जङ्गमं स्थावरं चैव
द्रव्ये द्वे समुदाहृते।
क्रय-काले पण्य-शब्द
उभयोर् अपि च स्मृतः ॥ १८।२ ॥
१८।२ सदोष-पण्य-क्रये दण्डः
विश्वास-प्रस्तुतिः - १८।३
ज्ञात्वा सदोषं यः पण्यं
विक्रीणात्यविचक्षणः।
तद् एव द्वि-गुणं दाप्यस्
तत्-समं विनयं तथा ॥ १८।३ ॥
मूलम् - १८।३
ज्ञात्वा सदोषं यः पण्यं
विक्रीणात्यविचक्षणः।
तद् एव द्वि-गुणं दाप्यस्
तत्-समं विनयं तथा ॥ १८।३ ॥
१८।३ त्याज्यानि
विश्वास-प्रस्तुतिः - १८।४
मत्तोन्मत्तेन विक्रीयं
हीनम् ऊल्यं भयेन वा।
अस्वतन्त्रेण मूढेन
त्याज्यं तस्य पुनर् भवेत् ॥ १८।४ ॥
मूलम् - १८।४
मत्तोन्मत्तेन विक्रीयं
हीनम् ऊल्यं भयेन वा।
अस्वतन्त्रेण मूढेन
त्याज्यं तस्य पुनर् भवेत् ॥ १८।४ ॥
विश्वास-प्रस्तुतिः - १८।५
यो ऽन्य-हस्ते तु विक्रीय
अन्यस्मै तत् प्रयच्छति।
सो ऽपि तद् द्वि-गुणं दाप्यो
विनयं तावद् एव तु ॥ १८।५ ॥
मूलम् - १८।५
यो ऽन्य-हस्ते तु विक्रीय
अन्यस्मै तत् प्रयच्छति।
सो ऽपि तद् द्वि-गुणं दाप्यो
विनयं तावद् एव तु ॥ १८।५ ॥
१८।४ परीक्षण-कालाः
विश्वास-प्रस्तुतिः - १८।६
दशैक-पञ्च-सप्ताह-
मास-त्र्य्-अहार्ध-मासिकम् [=य्व्_२।१७७अ]।
बीजायो-वाह्य-रत्न-स्त्री-
दोह्य-पुंसां परीक्षणम् [=य्व्_२।१७७ब्] ॥ १८।६ ॥
मूलम् - १८।६
दशैक-पञ्च-सप्ताह-
मास-त्र्य्-अहार्ध-मासिकम् [=य्व्_२।१७७अ]।
बीजायो-वाह्य-रत्न-स्त्री-
दोह्य-पुंसां परीक्षणम् [=य्व्_२।१७७ब्] ॥ १८।६ ॥
विश्वास-प्रस्तुतिः - १८।७
अतो ऽर्वाक् पुण्य-दोषस् तु
यदि सञ्जायते क्वचित्।
विक्रेतुः प्रतिदेयं तत्
क्रेता मूल्यम् अवाप्नुयात् ॥ १८।७ ॥
मूलम् - १८।७
अतो ऽर्वाक् पुण्य-दोषस् तु
यदि सञ्जायते क्वचित्।
विक्रेतुः प्रतिदेयं तत्
क्रेता मूल्यम् अवाप्नुयात् ॥ १८।७ ॥
विश्वास-प्रस्तुतिः - १८।८
अविज्ञातं तु यत् क्रीतं
दुष्टं पश्चाद् विभावितम्।
क्रीतं तत् स्वामिने देयं
पण्यं काले ऽन्यथा न तु ॥ १८।८ ॥
मूलम् - १८।८
अविज्ञातं तु यत् क्रीतं
दुष्टं पश्चाद् विभावितम्।
क्रीतं तत् स्वामिने देयं
पण्यं काले ऽन्यथा न तु ॥ १८।८ ॥
विश्वास-प्रस्तुतिः - १८।९
परीक्षेत स्वयं पण्यम्
अन्येषां च प्रदर्शयेत्।
परीक्सितं बहु-मतं
गृहीत्वा न पुनस् त्यजेत् ॥ १८।९ ॥
मूलम् - १८।९
परीक्षेत स्वयं पण्यम्
अन्येषां च प्रदर्शयेत्।
परीक्सितं बहु-मतं
गृहीत्वा न पुनस् त्यजेत् ॥ १८।९ ॥
विश्वास-प्रस्तुतिः - १८।१०
अश्व-रूप्य-हिरण्यानां
धान्य-लोहाज-वाससाम्।
चर्म-काष्ठ-विकाराणाम्
एकाहं स्यात् परीक्षणम् ॥ १८।१० ॥
मूलम् - १८।१०
अश्व-रूप्य-हिरण्यानां
धान्य-लोहाज-वाससाम्।
चर्म-काष्ठ-विकाराणाम्
एकाहं स्यात् परीक्षणम् ॥ १८।१० ॥
विश्वास-प्रस्तुतिः - १८।११
मर्णी-भाश्वाश्व-तरिणाम्
आगमैर् मूल्य-कल्पना।
नृपाज्ञयापण-स्थानां
गो-भूम्योर् उभयेच्छया ॥ १८।११ ॥
मूलम् - १८।११
मर्णी-भाश्वाश्व-तरिणाम्
आगमैर् मूल्य-कल्पना।
नृपाज्ञयापण-स्थानां
गो-भूम्योर् उभयेच्छया ॥ १८।११ ॥
विश्वास-प्रस्तुतिः - १८।१२
संविभागे विनिमये
क्षेत्रयोर् उभयोर् अपि।
अनुस्मृति-कृता ताभ्यां
कार्य-सिद्धिर् भविष्यति ॥ १८।१२ ॥
मूलम् - १८।१२
संविभागे विनिमये
क्षेत्रयोर् उभयोर् अपि।
अनुस्मृति-कृता ताभ्यां
कार्य-सिद्धिर् भविष्यति ॥ १८।१२ ॥
विश्वास-प्रस्तुतिः - १८।१३
प्रष्टव्याः सन्निधि-स्थाश् चेत्
क्रेत्रा ज्ञात्य्-आदयः स्मृताः।
अन्यथा चेत् कृतं कर्म
ज्ञातीच्छां दर्शयेत् ततः ॥ १८।१३ ॥
मूलम् - १८।१३
प्रष्टव्याः सन्निधि-स्थाश् चेत्
क्रेत्रा ज्ञात्य्-आदयः स्मृताः।
अन्यथा चेत् कृतं कर्म
ज्ञातीच्छां दर्शयेत् ततः ॥ १८।१३ ॥
विश्वास-प्रस्तुतिः - १८।१४
ज्ञात्य्-आदि-प्रत्ययेनैव
स्थावर-क्रय इष्यते।
अन्यथा चेत् क्रयो यः स्याद्
अन्य-ग्रामे त्रि-पक्षकम् ॥ १८।१४ ॥
मूलम् - १८।१४
ज्ञात्य्-आदि-प्रत्ययेनैव
स्थावर-क्रय इष्यते।
अन्यथा चेत् क्रयो यः स्याद्
अन्य-ग्रामे त्रि-पक्षकम् ॥ १८।१४ ॥
विश्वास-प्रस्तुतिः - १८।१५
सोदराश् च स-पिण्डाश् च
सोदकाश् च स-गोत्रिणः।
सामन्ता धनिका ग्राह्याः
सप्तैते योनयो मताः ॥ १८।१५ ॥
मूलम् - १८।१५
सोदराश् च स-पिण्डाश् च
सोदकाश् च स-गोत्रिणः।
सामन्ता धनिका ग्राह्याः
सप्तैते योनयो मताः ॥ १८।१५ ॥
विश्वास-प्रस्तुतिः - १८।१६
मूल्यं दत्त्वाधिकं न्यूनं
मूल्यस्यानुचितं स्मृतम्।
क्रय-सिद्धेस् तु नैव स्याद्
वत्सराणां शतैर् अपि ॥ १८।१६ ॥
मूलम् - १८।१६
मूल्यं दत्त्वाधिकं न्यूनं
मूल्यस्यानुचितं स्मृतम्।
क्रय-सिद्धेस् तु नैव स्याद्
वत्सराणां शतैर् अपि ॥ १८।१६ ॥
१८।५ क्षेत्र-क्रये विशेषः
विश्वास-प्रस्तुतिः - १८।१७
विक्रयेषु च सर्वेषु
कूप-वृक्षादि लेखयेत्।
जल-मार्गादि यत् किञ्चिद्
अन्यैश् चैव बृहस्पतिः ॥ १८।१७ ॥
मूलम् - १८।१७
विक्रयेषु च सर्वेषु
कूप-वृक्षादि लेखयेत्।
जल-मार्गादि यत् किञ्चिद्
अन्यैश् चैव बृहस्पतिः ॥ १८।१७ ॥
विश्वास-प्रस्तुतिः - १८।१८
क्षेत्राद्य्-उपेतं परिपक्व-सस्यं
वृक्षं फलं वाप्य् उपभोग-योग्यम्।
कूपं तडाकं गृहम् उन्नतं च
क्रेत्रे च विक्रेतुर् इदं वदन्ति ॥ १८।१८ ॥
मूलम् - १८।१८
क्षेत्राद्य्-उपेतं परिपक्व-सस्यं
वृक्षं फलं वाप्य् उपभोग-योग्यम्।
कूपं तडाकं गृहम् उन्नतं च
क्रेत्रे च विक्रेतुर् इदं वदन्ति ॥ १८।१८ ॥
विश्वास-प्रस्तुतिः - १८।१९
मत्त-मूढानभिज्ञार्त-
मूढैर् विनिमयः कृतः।
यच् चानुचित-मूल्यं स्यात्
तत् सर्वं विनिवर्तयेत् ॥ १८।१९ ॥
मूलम् - १८।१९
मत्त-मूढानभिज्ञार्त-
मूढैर् विनिमयः कृतः।
यच् चानुचित-मूल्यं स्यात्
तत् सर्वं विनिवर्तयेत् ॥ १८।१९ ॥
विश्वास-प्रस्तुतिः - १८।२०
ज्ञाति-सामन्त-धनिकाः
क्रये ग्रामात् बहिर् गताः।
नार्हन्ति ते प्रतिक्रोष्टुं
क्रान्तं पक्ष-त्रये क्रमात् ॥ १८।२० ॥
मूलम् - १८।२०
ज्ञाति-सामन्त-धनिकाः
क्रये ग्रामात् बहिर् गताः।
नार्हन्ति ते प्रतिक्रोष्टुं
क्रान्तं पक्ष-त्रये क्रमात् ॥ १८।२० ॥
विश्वास-प्रस्तुतिः - १८।२१
त्रि-पक्षाद् अथ वा मासात्
त्रितयात् तु तद् आप्नुयात् ॥ १८।२१ ॥
मूलम् - १८।२१
त्रि-पक्षाद् अथ वा मासात्
त्रितयात् तु तद् आप्नुयात् ॥ १८।२१ ॥