विश्वास-प्रस्तुतिः - १७।१
एषा हि स्वामि-भृत्यानां
वै क्रिया परिकीर्तिता।
संविद्-विधानम् अधुना
समासेन निबोधत ॥ १७।१ ॥
मूलम् - १७।१
एषा हि स्वामि-भृत्यानां
वै क्रिया परिकीर्तिता।
संविद्-विधानम् अधुना
समासेन निबोधत ॥ १७।१ ॥
१७।१ सद्-ब्राह्मण-स्थापनं कृत्यं च
विश्वास-प्रस्तुतिः - १७।२
वेद-विद्या-विदो विप्राञ्
श्रोत्रियान् अग्निहोत्रिणः।
आहृत्य स्थापयेत् तत्र
तेषां वृत्तिं प्रकल्पयेत् ॥ १७।२ ॥
मूलम् - १७।२
वेद-विद्या-विदो विप्राञ्
श्रोत्रियान् अग्निहोत्रिणः।
आहृत्य स्थापयेत् तत्र
तेषां वृत्तिं प्रकल्पयेत् ॥ १७।२ ॥
विश्वास-प्रस्तुतिः - १७।३
अनाच्छेद्य-करास् तेषां
प्रदद्याद् गृह-भूमिकाः।
मुक्ता भाव्याश् च नृपतिर्
लेखयित्वा स्व-शासनैः ॥ १७।३ ॥
मूलम् - १७।३
अनाच्छेद्य-करास् तेषां
प्रदद्याद् गृह-भूमिकाः।
मुक्ता भाव्याश् च नृपतिर्
लेखयित्वा स्व-शासनैः ॥ १७।३ ॥
विश्वास-प्रस्तुतिः - १७।४
नित्यं नैमित्तिकं काम्यं
शान्तिकं पौष्टिकं तथा।
पौराणां कर्म कुर्युस् ते
सन्दिग्धे निर्णयं तथा ॥ १७।४ ॥
मूलम् - १७।४
नित्यं नैमित्तिकं काम्यं
शान्तिकं पौष्टिकं तथा।
पौराणां कर्म कुर्युस् ते
सन्दिग्धे निर्णयं तथा ॥ १७।४ ॥
१७।२ सम्भूय धर्म-कार्य-करणम्
विश्वास-प्रस्तुतिः - १७।५
ग्राम-श्रेणि-गणार्थं तु
सङ्केत-समय-क्रिया।
बाधा-काले तु सा कार्या
धर्म-कार्ये तथैव च ॥ १७।५ ॥
मूलम् - १७।५
ग्राम-श्रेणि-गणार्थं तु
सङ्केत-समय-क्रिया।
बाधा-काले तु सा कार्या
धर्म-कार्ये तथैव च ॥ १७।५ ॥
विश्वास-प्रस्तुतिः - १७।६
चाट-चोर-भयं बाधा
सर्व-साधारणा स्मृता।
तत्रोपशमनं कार्यं
सर्वैर् नैकेन केन चित् ॥ १७।६ ॥
मूलम् - १७।६
चाट-चोर-भयं बाधा
सर्व-साधारणा स्मृता।
तत्रोपशमनं कार्यं
सर्वैर् नैकेन केन चित् ॥ १७।६ ॥
१७।३ विश्वासोत्पादनम्
विश्वास-प्रस्तुतिः - १७।७
कोशेन लेख्य-क्रियया
मध्य-स्थैर् वा परस्परम्।
विश्वासं प्रथमं कृत्वा
कुर्युः कार्याण्य् अनन्तरम् ॥ १७।७ ॥
मूलम् - १७।७
कोशेन लेख्य-क्रियया
मध्य-स्थैर् वा परस्परम्।
विश्वासं प्रथमं कृत्वा
कुर्युः कार्याण्य् अनन्तरम् ॥ १७।७ ॥
विद्वेषिणो व्यसनिनः
शाली-नाल-सभीरवः।
१७।४ नियोज्यानियोज्याः
विश्वास-प्रस्तुतिः - १७।८
लुब्धातिवृद्ध-बालाश् च
न कार्याः कार्य-चिन्तकाः ॥ १७।८ ॥
मूलम् - १७।८
लुब्धातिवृद्ध-बालाश् च
न कार्याः कार्य-चिन्तकाः ॥ १७।८ ॥
विश्वास-प्रस्तुतिः - १७।९
शुचयो वेद-धर्म-ज्ञा
दक्षा दान्ताः कुलोद्भवाः।
सर्व-कार्य-प्रवीणाश् च
कर्तव्यास् तु महत् तमाः ॥ १७।९ ॥
मूलम् - १७।९
शुचयो वेद-धर्म-ज्ञा
दक्षा दान्ताः कुलोद्भवाः।
सर्व-कार्य-प्रवीणाश् च
कर्तव्यास् तु महत् तमाः ॥ १७।९ ॥
विश्वास-प्रस्तुतिः - १७।१०
द्वौ त्रयः पञ्च वा कार्याः
समूह-हित-वादिनः।
कर्तव्यं वचनं तेषां
ग्राम-श्रेणि-गणादिभिः ॥ १७।१० ॥
मूलम् - १७।१०
द्वौ त्रयः पञ्च वा कार्याः
समूह-हित-वादिनः।
कर्तव्यं वचनं तेषां
ग्राम-श्रेणि-गणादिभिः ॥ १७।१० ॥
१७।५ समय-क्रिया
विश्वास-प्रस्तुतिः - १७।११
सभा-प्रपा-देवगृह-
तडाकाराम-संस्कृतिः।
तथानाथ-दरिद्राणां
संस्कारो योजन-क्रिया ॥ १७।११ ॥
मूलम् - १७।११
सभा-प्रपा-देवगृह-
तडाकाराम-संस्कृतिः।
तथानाथ-दरिद्राणां
संस्कारो योजन-क्रिया ॥ १७।११ ॥
विश्वास-प्रस्तुतिः - १७।१२
कुलायनं निरोधश् च
कार्यम् अस्माभिर् अंशतः।
यत् त्व् एवं लिखितं पत्रं
धर्म्या सा समय-क्रिया ॥ १७।१२ ॥
मूलम् - १७।१२
कुलायनं निरोधश् च
कार्यम् अस्माभिर् अंशतः।
यत् त्व् एवं लिखितं पत्रं
धर्म्या सा समय-क्रिया ॥ १७।१२ ॥
विश्वास-प्रस्तुतिः - १७।१३
पालनीयाः समर्थैस् तु
यः समर्थो विसंवदेत्।
सर्वस्व-हरणं दण्डस्
तस्य निर्वासनं पुरात् ॥ १७।१३ ॥
मूलम् - १७।१३
पालनीयाः समर्थैस् तु
यः समर्थो विसंवदेत्।
सर्वस्व-हरणं दण्डस्
तस्य निर्वासनं पुरात् ॥ १७।१३ ॥
विश्वास-प्रस्तुतिः - १७।१४
तत्र भेदम् उपेक्षां वा
यः कश्चित् कुरुते नरः।
चतुः-सुवर्णाः षण्-णिष्कास्
तस्य दण्डो विधीयते ॥ १७।१४ ॥
मूलम् - १७।१४
तत्र भेदम् उपेक्षां वा
यः कश्चित् कुरुते नरः।
चतुः-सुवर्णाः षण्-णिष्कास्
तस्य दण्डो विधीयते ॥ १७।१४ ॥
विश्वास-प्रस्तुतिः - १७।१५
यस् तु साधारणं हिंस्यात्
क्षिपेत् त्रैविद्यम् एव वा।
संवित्-क्रियां विहन्याच् च
स निर्वास्यः पुरात् ततः ॥ १७।१५ ॥
मूलम् - १७।१५
यस् तु साधारणं हिंस्यात्
क्षिपेत् त्रैविद्यम् एव वा।
संवित्-क्रियां विहन्याच् च
स निर्वास्यः पुरात् ततः ॥ १७।१५ ॥
विश्वास-प्रस्तुतिः - १७।१६
अरुन्तुदः सूचकश् च
भेद-कृत्-साहसी तथा।
श्रेणि-पूग-नृप-द्विष्टः
क्षिप्रं निर्वास्यते ततः ॥ १७।१६ ॥
मूलम् - १७।१६
अरुन्तुदः सूचकश् च
भेद-कृत्-साहसी तथा।
श्रेणि-पूग-नृप-द्विष्टः
क्षिप्रं निर्वास्यते ततः ॥ १७।१६ ॥
विश्वास-प्रस्तुतिः - १७।१७
कुल-श्रेणि-गनाध्यक्षाः
पुर-दुर्ग-निवासिनः।
वाग्-धिग्-दमं परित्यागं
प्रकुर्युः पाप-कारिणाम् ॥ १७।१७ ॥
मूलम् - १७।१७
कुल-श्रेणि-गनाध्यक्षाः
पुर-दुर्ग-निवासिनः।
वाग्-धिग्-दमं परित्यागं
प्रकुर्युः पाप-कारिणाम् ॥ १७।१७ ॥
विश्वास-प्रस्तुतिः - १७।१८
तैः कृतं च स्व-धर्मेण
निग्रहानुग्रहं नृणाम्।
तद्-राज्ञो ऽप्य् अनुमन्तव्यं
निसृष्टार्था हि ते स्मृताः ॥ १७।१८ ॥
मूलम् - १७।१८
तैः कृतं च स्व-धर्मेण
निग्रहानुग्रहं नृणाम्।
तद्-राज्ञो ऽप्य् अनुमन्तव्यं
निसृष्टार्था हि ते स्मृताः ॥ १७।१८ ॥
विश्वास-प्रस्तुतिः - १७।१९
बाधां कुर्युर् यद् एकस्य
सम्भूता द्वेष-संयुताः ॥ १७।१९ ॥
मूलम् - १७।१९
बाधां कुर्युर् यद् एकस्य
सम्भूता द्वेष-संयुताः ॥ १७।१९ ॥
विश्वास-प्रस्तुतिः - १७।२०
मुख्यैः सह समूहानां
विसंवादो यदा भवेत्।
तदा विचारयेत् राजा
स्व-मार्गे स्थापयेच् च तान् ॥ १७।२० ॥
मूलम् - १७।२०
मुख्यैः सह समूहानां
विसंवादो यदा भवेत्।
तदा विचारयेत् राजा
स्व-मार्गे स्थापयेच् च तान् ॥ १७।२० ॥
विश्वास-प्रस्तुतिः - १७।२१
॥॥ ॥॥
यः समर्थो विसंवदेत्।
सर्वस्व-हरणं दण्डस्
तस्य निर्वासनं पुरात् ॥ १७।२१ ॥
मूलम् - १७।२१
॥॥ ॥॥
यः समर्थो विसंवदेत्।
सर्वस्व-हरणं दण्डस्
तस्य निर्वासनं पुरात् ॥ १७।२१ ॥
विश्वास-प्रस्तुतिः - १७।२२
सम्भूयैकतमं कृत्वा
राज-भाव्यं हरन्ति ये।
ते तद्-अष्ट-गुणं दाप्या
वणिजश् च पलायिनः ॥ १७।२२ ॥
मूलम् - १७।२२
सम्भूयैकतमं कृत्वा
राज-भाव्यं हरन्ति ये।
ते तद्-अष्ट-गुणं दाप्या
वणिजश् च पलायिनः ॥ १७।२२ ॥
विश्वास-प्रस्तुतिः - १७।२३
ततो लभेत यत् किञ्चित्
सर्वेषाम् एव तत् समम्।
षाण्मासिकं मासिकं वा
विभक्तव्यं यथांशतः ॥ १७।२३ ॥
मूलम् - १७।२३
ततो लभेत यत् किञ्चित्
सर्वेषाम् एव तत् समम्।
षाण्मासिकं मासिकं वा
विभक्तव्यं यथांशतः ॥ १७।२३ ॥
विश्वास-प्रस्तुतिः - १७।२४
देयं वा निःस्व-वृद्दान्ध-
स्त्री-बालातुर-रोगिषु।
सान्तानिकादिषु तथा
धर्म एष सनातनः ॥ १७।२४ ॥
मूलम् - १७।२४
देयं वा निःस्व-वृद्दान्ध-
स्त्री-बालातुर-रोगिषु।
सान्तानिकादिषु तथा
धर्म एष सनातनः ॥ १७।२४ ॥
विश्वास-प्रस्तुतिः - १७।२५
यत्नैः प्राप्तं रक्षितं वा
गणार्थे वा पणं कृतम्।
राज-प्रसाद-लब्धं वा
सर्वेषाम् एव तत्-समम् ॥ १७।२५ ॥
मूलम् - १७।२५
यत्नैः प्राप्तं रक्षितं वा
गणार्थे वा पणं कृतम्।
राज-प्रसाद-लब्धं वा
सर्वेषाम् एव तत्-समम् ॥ १७।२५ ॥