विश्वास-प्रस्तुतिः - १६।१
त्रि-भागं पञ्च-भागं वा
गृह्णीयात् सीर-वाहकः।
भक्ताच् छाद-भृतः सीराद्
भागं गृणीत पञ्चमम् ॥ १६।१ ॥
मूलम् - १६।१
त्रि-भागं पञ्च-भागं वा
गृह्णीयात् सीर-वाहकः।
भक्ताच् छाद-भृतः सीराद्
भागं गृणीत पञ्चमम् ॥ १६।१ ॥
विश्वास-प्रस्तुतिः - १६।२
जात-सस्यात् त्रि-भागं तु
प्रगृह्णीयाद् अथाभृतः ॥ १६।२ ॥
मूलम् - १६।२
जात-सस्यात् त्रि-भागं तु
प्रगृह्णीयाद् अथाभृतः ॥ १६।२ ॥
विश्वास-प्रस्तुतिः - १६।३
भृतकस् तु न कुर्वीत
स्वामिनः शाठ्यम् अण्व् अपि।
भृति-हानिम् अवाप्नोति
ततो वादः प्रवर्तते ॥ १६।३ ॥
मूलम् - १६।३
भृतकस् तु न कुर्वीत
स्वामिनः शाठ्यम् अण्व् अपि।
भृति-हानिम् अवाप्नोति
ततो वादः प्रवर्तते ॥ १६।३ ॥
१६।१ भृतस्य कर्माकरण-निर्णयः
विश्वास-प्रस्तुतिः - १६।४
भृतो ऽनार्तो न कुर्याद् यो
दर्पात् कर्म यथेरितम्।
स दण्ड्यः कृष्ण-लानष्टौ
न देयं चास्य वेतनम् ॥ १६।४ ॥
मूलम् - १६।४
भृतो ऽनार्तो न कुर्याद् यो
दर्पात् कर्म यथेरितम्।
स दण्ड्यः कृष्ण-लानष्टौ
न देयं चास्य वेतनम् ॥ १६।४ ॥
१६।२ गृहीत-वेतनस्य दण्डः
विश्वास-प्रस्तुतिः - १६।५
गृहीत-वेतनः कर्म
न करोति यदा भृतः।
समर्थश् चेद् दमं दाप्यो
द्वि-गुणं तच् च वेतनम् ॥ १६।५ ॥
मूलम् - १६।५
गृहीत-वेतनः कर्म
न करोति यदा भृतः।
समर्थश् चेद् दमं दाप्यो
द्वि-गुणं तच् च वेतनम् ॥ १६।५ ॥
गृहीत-वेतनः कर्म
त्यजन् द्वि-गुणम् आवहेत्।
१६।३ अगृहीत-वेतनस्य दण्डः
विश्वास-प्रस्तुतिः - १६।६
अगृहीते समं दाप्यो
भृतै रक्ष्य उपस्करः ॥ १६।६ ॥
मूलम् - १६।६
अगृहीते समं दाप्यो
भृतै रक्ष्य उपस्करः ॥ १६।६ ॥
१६।४ प्रतिश्रुत्य्-अकरणे दण्डः
विश्वास-प्रस्तुतिः - १६।७
प्रतिश्रुत्य न कुर्याद् यः
स कार्यः स्याद् बलाद् अपि।
स चेन् न कुर्यात् तत्-कर्म
प्राप्नुयाद् विंशतिं दमम् ॥ १६।७ ॥
मूलम् - १६।७
प्रतिश्रुत्य न कुर्याद् यः
स कार्यः स्याद् बलाद् अपि।
स चेन् न कुर्यात् तत्-कर्म
प्राप्नुयाद् विंशतिं दमम् ॥ १६।७ ॥
विश्वास-प्रस्तुतिः - १६।८
स दण्ड्यः कृष्णलान्य् अष्टौ
न देयं चास्य वेतनम् ॥ १६।८ ॥
मूलम् - १६।८
स दण्ड्यः कृष्णलान्य् अष्टौ
न देयं चास्य वेतनम् ॥ १६।८ ॥
१६।५ भृत्यदोषाभावः
विश्वास-प्रस्तुतिः - १६।९
प्रभुणा विनियुक्तः सन्
भृतको विदधाति यत्।
तद्-अर्थम् अशुभं कर्म
स्वामी तत्रापराध्नुयात् ॥ १६।९ ॥
मूलम् - १६।९
प्रभुणा विनियुक्तः सन्
भृतको विदधाति यत्।
तद्-अर्थम् अशुभं कर्म
स्वामी तत्रापराध्नुयात् ॥ १६।९ ॥
१६।६ पालस्य दोषाभाव-समयाः
विश्वास-प्रस्तुतिः - १६।१०
दैव-राज्ञोस् तथा न्याये
तथा राष्ट्रस्य विभ्रमे।
यत् प्रणष्टं भृतं वा स्यान्
न पालस् तत्र किल्बिषी ॥ १६।१० ॥
मूलम् - १६।१०
दैव-राज्ञोस् तथा न्याये
तथा राष्ट्रस्य विभ्रमे।
यत् प्रणष्टं भृतं वा स्यान्
न पालस् तत्र किल्बिषी ॥ १६।१० ॥
१६।७ स्वामिनो दण्ड-समयः
विश्वास-प्रस्तुतिः - १६।११
कृते कर्मणि यः स्वामी
न दद्याद् वेतनं भृतेः।
राज्ञा दापयितव्यः स्याद्
विनयं चानुरूपतः ॥ १६।११ ॥
मूलम् - १६।११
कृते कर्मणि यः स्वामी
न दद्याद् वेतनं भृतेः।
राज्ञा दापयितव्यः स्याद्
विनयं चानुरूपतः ॥ १६।११ ॥
१६।८ पाल-दोष-दण्डः
विश्वास-प्रस्तुतिः - १६।१२
पाल-दोषाद् विनाशे तु
पाले दण्डो विधीयते।
अर्ध-त्रयोदश-पणः
स्वामिने द्रव्यम् एव च ॥ १६।१२ ॥
मूलम् - १६।१२
पाल-दोषाद् विनाशे तु
पाले दण्डो विधीयते।
अर्ध-त्रयोदश-पणः
स्वामिने द्रव्यम् एव च ॥ १६।१२ ॥
विश्वास-प्रस्तुतिः - १६।१३
व्याधिता सश्रमा व्यग्रा
राज-कर्म-परायणा।
आमन्त्रिता च नागच्छेत्
अवाच्या बडबा स्मृता ॥ १६।१३ ॥
मूलम् - १६।१३
व्याधिता सश्रमा व्यग्रा
राज-कर्म-परायणा।
आमन्त्रिता च नागच्छेत्
अवाच्या बडबा स्मृता ॥ १६।१३ ॥
१६।९ स्वामि-पाल-धर्माः
विश्वास-प्रस्तुतिः - १६।१४
तथा धेनु-भृतः क्षीरं
लभेतास्याष्टमे ऽखिलम्।
सायं समर्पयेत् सर्वं
॥॥ ॥॥ ॥ १६।१४ ॥
मूलम् - १६।१४
तथा धेनु-भृतः क्षीरं
लभेतास्याष्टमे ऽखिलम्।
सायं समर्पयेत् सर्वं
॥॥ ॥॥ ॥ १६।१४ ॥
विश्वास-प्रस्तुतिः - १६।१५
अव्यायच्छन्न् अविक्रोशन्
स्वामिने चानिवेदयन्।
वोढुम् अर्हति गोपस् तां
विनयं चैव राजनि ॥ १६।१५ ॥
मूलम् - १६।१५
अव्यायच्छन्न् अविक्रोशन्
स्वामिने चानिवेदयन्।
वोढुम् अर्हति गोपस् तां
विनयं चैव राजनि ॥ १६।१५ ॥
विश्वास-प्रस्तुतिः - १६।१६
कृमि-चोर-व्याघ्र-भयाद्
दरी-श्व-भ्राच् च पालयेत्।
आयच्छेच् छक्तितः क्रोशोत्-
स्वामिने वा निवेदयेत् ॥ १६।१६ ॥
मूलम् - १६।१६
कृमि-चोर-व्याघ्र-भयाद्
दरी-श्व-भ्राच् च पालयेत्।
आयच्छेच् छक्तितः क्रोशोत्-
स्वामिने वा निवेदयेत् ॥ १६।१६ ॥
सस्यान् निवारयेद् गास् तु
चीर्णे दोष-द्वयं भवेत्।
स्वामी शत-दमं दाप्यः
पालस् ताडनम् अर्हति \
शदश् च सदमं चीर्णे # समूले कार्ष-भक्षिते ॥ १६।१७ ॥