विश्वास-प्रस्तुतिः - १५।१
अदेयादिकम् आख्यातं
भृतानाम् उच्यते विधिः।
शुश्रूषाम् अभ्यूपेत्यैतत्
पदम् आदौ निगद्यते ॥ १५।१ ॥
मूलम् - १५।१
अदेयादिकम् आख्यातं
भृतानाम् उच्यते विधिः।
शुश्रूषाम् अभ्यूपेत्यैतत्
पदम् आदौ निगद्यते ॥ १५।१ ॥
विश्वास-प्रस्तुतिः - १५।२
अभ्युपेत्य तु शुश्रूषां
यस् तां न प्रतिपद्यते।
अशुश्रूषाभ्युपेत्यैतद्
विवाद-पदम् उच्यते ॥ १५।२ ॥
मूलम् - १५।२
अभ्युपेत्य तु शुश्रूषां
यस् तां न प्रतिपद्यते।
अशुश्रूषाभ्युपेत्यैतद्
विवाद-पदम् उच्यते ॥ १५।२ ॥
विश्वास-प्रस्तुतिः - १५।३
वेतनस्यानपाकर्म
तद्-अर्थं स्वामि-पालयोः।
क्रमशः कल्प्यते वादो
भृत-भेद-त्रयं त्व् इदम् ॥ १५।३ ॥
मूलम् - १५।३
वेतनस्यानपाकर्म
तद्-अर्थं स्वामि-पालयोः।
क्रमशः कल्प्यते वादो
भृत-भेद-त्रयं त्व् इदम् ॥ १५।३ ॥
विश्वास-प्रस्तुतिः - १५।४
अनेकधा त्व् अभिहिता
जाति-कर्मानुरूपतः।
विद्या-विज्ञान-कामार्थ-
निमित्तेन चतुर्-विधा ॥ १५।४ ॥
मूलम् - १५।४
अनेकधा त्व् अभिहिता
जाति-कर्मानुरूपतः।
विद्या-विज्ञान-कामार्थ-
निमित्तेन चतुर्-विधा ॥ १५।४ ॥
विश्वास-प्रस्तुतिः - १५।५
एकैकः पुनर् एतेषां
क्रिया-भेदात् प्रभिद्यते ॥ १५।५ ॥
मूलम् - १५।५
एकैकः पुनर् एतेषां
क्रिया-भेदात् प्रभिद्यते ॥ १५।५ ॥
विश्वास-प्रस्तुतिः - १५।६
विद्या त्रयी समाख्याता
ऋग्-यजुः-साम-लक्षणा।
तद्-अर्थं गुरु-शुश्रूषां
प्रकुर्याच् च प्रचोदिताम् ॥ १५।६ ॥
मूलम् - १५।६
विद्या त्रयी समाख्याता
ऋग्-यजुः-साम-लक्षणा।
तद्-अर्थं गुरु-शुश्रूषां
प्रकुर्याच् च प्रचोदिताम् ॥ १५।६ ॥
विश्वास-प्रस्तुतिः - १५।७
विज्ञानम् उच्यते शिल्पं
हेम-रूप्यादि-संस्कृतिः।
नृत्यादिकं च तत्-प्राप्तं
कुर्यात् कर्म गुरोर् गृहे ॥ १५।७ ॥
मूलम् - १५।७
विज्ञानम् उच्यते शिल्पं
हेम-रूप्यादि-संस्कृतिः।
नृत्यादिकं च तत्-प्राप्तं
कुर्यात् कर्म गुरोर् गृहे ॥ १५।७ ॥
विश्वास-प्रस्तुतिः - १५।८
यो भुङ्क्ते पर-दासीं तु
स ज्ञेयो वडबा-भृतः।
कर्म तत्-स्वामिनः कुर्याद्
यथान्नेन भृतो नरः ॥ १५।८ ॥
मूलम् - १५।८
यो भुङ्क्ते पर-दासीं तु
स ज्ञेयो वडबा-भृतः।
कर्म तत्-स्वामिनः कुर्याद्
यथान्नेन भृतो नरः ॥ १५।८ ॥
विश्वास-प्रस्तुतिः - १५।९
बहुधार्थ-भृतः प्रोक्तस्
तथा भाग-भृतो ऽपरः।
हीन-मध्योत्तमत्वं च
सर्वेषाम् एव चोदितम् ॥ १५।९ ॥
मूलम् - १५।९
बहुधार्थ-भृतः प्रोक्तस्
तथा भाग-भृतो ऽपरः।
हीन-मध्योत्तमत्वं च
सर्वेषाम् एव चोदितम् ॥ १५।९ ॥
विश्वास-प्रस्तुतिः - १५।१०
दिन-मासार्ध-षण्-मास-
त्रि-मासाब्द-भृतस् तथा।
कर्म कुर्यात् प्रतिज्ञातं
लभते परिभाषितम् ॥ १५।१० ॥
मूलम् - १५।१०
दिन-मासार्ध-षण्-मास-
त्रि-मासाब्द-भृतस् तथा।
कर्म कुर्यात् प्रतिज्ञातं
लभते परिभाषितम् ॥ १५।१० ॥
विश्वास-प्रस्तुतिः - १५।११
भृतकस् त्रिविधो ज्ञेय
उत्तमो मध्यमो ऽधमः।
शक्ति-भक्त्य्-अनुरूपैः स्याद्
एषां कर्माश्रया भृतिः ॥ १५।११ ॥
मूलम् - १५।११
भृतकस् त्रिविधो ज्ञेय
उत्तमो मध्यमो ऽधमः।
शक्ति-भक्त्य्-अनुरूपैः स्याद्
एषां कर्माश्रया भृतिः ॥ १५।११ ॥
विश्वास-प्रस्तुतिः - १५।१२
उत्तमस् त्व् आयुधीयो ऽत्र
मध्यमस् तु कृषीवलः।
अधमो भार-वाहः स्याद्
इत्य् एष त्रि-विधो भृतः ॥ १५।१२ ॥
मूलम् - १५।१२
उत्तमस् त्व् आयुधीयो ऽत्र
मध्यमस् तु कृषीवलः।
अधमो भार-वाहः स्याद्
इत्य् एष त्रि-विधो भृतः ॥ १५।१२ ॥
विश्वास-प्रस्तुतिः - १५।१३
आयुधी तूत्तमः प्रोक्तो
मध्यमस् तु कृषीवलः।
भार-वाहो ऽधमः प्रोक्तस्
तथा च गृह-कर्म-कृत् ॥ १५।१३ ॥
मूलम् - १५।१३
आयुधी तूत्तमः प्रोक्तो
मध्यमस् तु कृषीवलः।
भार-वाहो ऽधमः प्रोक्तस्
तथा च गृह-कर्म-कृत् ॥ १५।१३ ॥
विश्वास-प्रस्तुतिः - १५।१४
द्वि-प्रकारो भोग-भृतः
कृषि-गोजीविनां स्मृतः।
जात-सस्यात् तथा क्षीरात्
स लभेत न संशयः ॥ १५।१४ ॥
मूलम् - १५।१४
द्वि-प्रकारो भोग-भृतः
कृषि-गोजीविनां स्मृतः।
जात-सस्यात् तथा क्षीरात्
स लभेत न संशयः ॥ १५।१४ ॥
शुभ-कर्म-करा ह्य् एते
चत्वारः समुदाहृताः।
[चत्वारः शिष्यो ऽन्तेवासी
भृतकः कर्म-करश् च] \
जधन्य-कर्म-भाजस् तु # शेषा दासा-स्त्रि-पञ्चकाः ॥ १५।१५ ॥
विश्वास-प्रस्तुतिः - १५।१६
कर्मापि द्वि-विधं प्रोक्तम्
अशुभं शुभम् एव च।
अशुभं दास-कर्मोक्तं
शुभं कर्म-करे स्मृतम् ॥ १५।१६ ॥
मूलम् - १५।१६
कर्मापि द्वि-विधं प्रोक्तम्
अशुभं शुभम् एव च।
अशुभं दास-कर्मोक्तं
शुभं कर्म-करे स्मृतम् ॥ १५।१६ ॥
विश्वास-प्रस्तुतिः - १५।१७
गृह-द्वाराशुचि-स्थान-
रथ्यावस्कर-शोधनम्।
गृह्याङ्ग-स्पर्शनोच्छिष्ट-
विण्मूत्र-ग्रहणोज्झनम् ॥ १५।१७ ॥
मूलम् - १५।१७
गृह-द्वाराशुचि-स्थान-
रथ्यावस्कर-शोधनम्।
गृह्याङ्ग-स्पर्शनोच्छिष्ट-
विण्मूत्र-ग्रहणोज्झनम् ॥ १५।१७ ॥
विश्वास-प्रस्तुतिः - १५।१८
गच्छतः स्वामिनः स्वाङ्गैर्
उपस्थानम् अथान्ततः।
अशुभं कर्म विज्ञेयं
शुभम् अन्यद् अतः परम् ॥ १५।१८ ॥
मूलम् - १५।१८
गच्छतः स्वामिनः स्वाङ्गैर्
उपस्थानम् अथान्ततः।
अशुभं कर्म विज्ञेयं
शुभम् अन्यद् अतः परम् ॥ १५।१८ ॥
विश्वास-प्रस्तुतिः - १५।१९
ततः प्रभृति वक्तव्यः
स्वाम्य्-अनुग्रह-पालितः।
भोज्यान्नो ऽथ प्रतिग्राह्यो
भवत्य् अभिमतः सताम् ॥ १५।१९ ॥
मूलम् - १५।१९
ततः प्रभृति वक्तव्यः
स्वाम्य्-अनुग्रह-पालितः।
भोज्यान्नो ऽथ प्रतिग्राह्यो
भवत्य् अभिमतः सताम् ॥ १५।१९ ॥
विश्वास-प्रस्तुतिः - १५।२०
आविद्या-ग्रहणाच् शिष्यः
शुश्रूषेत् प्रयतो गुरुम्।
तद् वृत्तिर् गुरु-दारेषु
गुरु-पुत्रे तथैव च ॥ १५।२० ॥
मूलम् - १५।२०
आविद्या-ग्रहणाच् शिष्यः
शुश्रूषेत् प्रयतो गुरुम्।
तद् वृत्तिर् गुरु-दारेषु
गुरु-पुत्रे तथैव च ॥ १५।२० ॥
विश्वास-प्रस्तुतिः - १५।२१
समावृत्तश् च गुरवे
प्रदाय गुरु-दक्षिणाम्।
प्रतियाति गृहान् एषा
शिष्य-वृत्तिर् उदाहृतः ॥ १५।२१ ॥
मूलम् - १५।२१
समावृत्तश् च गुरवे
प्रदाय गुरु-दक्षिणाम्।
प्रतियाति गृहान् एषा
शिष्य-वृत्तिर् उदाहृतः ॥ १५।२१ ॥
विश्वास-प्रस्तुतिः - १५।२२
अत्र पुर्वश् चतुर्-वर्गो
दासत्वान् न विमुच्यते।
प्रसादात् स्वामिनो ऽन्यत्र
दास्यम् एषां क्रमागतम् ॥ १५।२२ ॥
मूलम् - १५।२२
अत्र पुर्वश् चतुर्-वर्गो
दासत्वान् न विमुच्यते।
प्रसादात् स्वामिनो ऽन्यत्र
दास्यम् एषां क्रमागतम् ॥ १५।२२ ॥
विश्वास-प्रस्तुतिः - १५।२३
विक्रीणीते स्वतन्त्रो यः
समात्मानं नराधमः।
स जघन्यतमस् त्व् एषां
सो ऽपि दास्यान् न मुच्यते ॥ १५।२३ ॥
मूलम् - १५।२३
विक्रीणीते स्वतन्त्रो यः
समात्मानं नराधमः।
स जघन्यतमस् त्व् एषां
सो ऽपि दास्यान् न मुच्यते ॥ १५।२३ ॥
विश्वास-प्रस्तुतिः - १५।२४
दासेनोढा त्व[स्व]-दासी या
सो ऽपि दासीत्वम् आप्नुयात्।
यस्माद् भर्ता प्रभुस् तस्याः
स्वाम्य्-अधीन-प्रभुर् यतः ॥ १५।२४ ॥
मूलम् - १५।२४
दासेनोढा त्व[स्व]-दासी या
सो ऽपि दासीत्वम् आप्नुयात्।
यस्माद् भर्ता प्रभुस् तस्याः
स्वाम्य्-अधीन-प्रभुर् यतः ॥ १५।२४ ॥
विश्वास-प्रस्तुतिः - १५।२५
दासी-सुताश् च ये जाताः
तस्याः पत्या परेण वा।
उत्पादको यदि स्वामी
न दासीं कारयेत् प्रभुः ॥ १५।२५ ॥
मूलम् - १५।२५
दासी-सुताश् च ये जाताः
तस्याः पत्या परेण वा।
उत्पादको यदि स्वामी
न दासीं कारयेत् प्रभुः ॥ १५।२५ ॥