विश्वास-प्रस्तुतिः - १४।१
एषाखिलेनाभिहिता
सम्भूयोत्थान-निष्कृतिः।
अदेय-देय-दत्तानाम्
अदत्तस्य च कथ्यते ॥ १४।१ ॥
मूलम् - १४।१
एषाखिलेनाभिहिता
सम्भूयोत्थान-निष्कृतिः।
अदेय-देय-दत्तानाम्
अदत्तस्य च कथ्यते ॥ १४।१ ॥
विश्वास-प्रस्तुतिः - १४।२
सामान्यं पुत्र-दारादि
सर्व-स्वं न्यास-याचितम्।
प्रतिश्रुतं तथान्यस्य
न देयं त्व् अष्टधा स्मृतम् ॥ १४।२ ॥
मूलम् - १४।२
सामान्यं पुत्र-दारादि
सर्व-स्वं न्यास-याचितम्।
प्रतिश्रुतं तथान्यस्य
न देयं त्व् अष्टधा स्मृतम् ॥ १४।२ ॥
विश्वास-प्रस्तुतिः - १४।३
कुटुम्ब-भक्त-वसनाद्
देयं यद् अतिरिच्यते।
मध्व्-आस्वादो विषं पश्चाद्
दातुर् धमो ऽन्यथा भवेत् ॥ १४।३ ॥
मूलम् - १४।३
कुटुम्ब-भक्त-वसनाद्
देयं यद् अतिरिच्यते।
मध्व्-आस्वादो विषं पश्चाद्
दातुर् धमो ऽन्यथा भवेत् ॥ १४।३ ॥
विश्वास-प्रस्तुतिः - १४।४
सप्तारामाद् गृह-क्षेत्राद्
यद् यत् क्षेत्रं प्रचीयते।
पित्रा वाथ स्वयं प्राप्तं
तद् दातव्यं विवक्षितम् ॥ १४।४ ॥
मूलम् - १४।४
सप्तारामाद् गृह-क्षेत्राद्
यद् यत् क्षेत्रं प्रचीयते।
पित्रा वाथ स्वयं प्राप्तं
तद् दातव्यं विवक्षितम् ॥ १४।४ ॥
विश्वास-प्रस्तुतिः - १४।५
स्वेच्छा-देयं स्वयं प्राप्तं
बन्धाचारेण बन्धकम्।
वैवाहिके क्रमायाते
सर्व-दानं न विद्यते ॥ १४।५ ॥
मूलम् - १४।५
स्वेच्छा-देयं स्वयं प्राप्तं
बन्धाचारेण बन्धकम्।
वैवाहिके क्रमायाते
सर्व-दानं न विद्यते ॥ १४।५ ॥
विश्वास-प्रस्तुतिः - १४।६
सौदायिक-क्रमायातं
शौर्य-प्राप्तं च यद् भवेत्।
स्त्री-ज्ञाति-स्वाम्य्-अनुज्ञातं
दत्तं सिद्धिम् अवाप्नुयात् ॥ १४।६ ॥
मूलम् - १४।६
सौदायिक-क्रमायातं
शौर्य-प्राप्तं च यद् भवेत्।
स्त्री-ज्ञाति-स्वाम्य्-अनुज्ञातं
दत्तं सिद्धिम् अवाप्नुयात् ॥ १४।६ ॥
विश्वास-प्रस्तुतिः - १४।७
सर्वस्व-गृह-वर्जं तु
कुटुम्ब-भरणादिकम्।
यद् द्रव्यं तत् स्वकं देयम्
अदेयं स्याद् अतो ऽन्यथा ॥ १४।७ ॥
मूलम् - १४।७
सर्वस्व-गृह-वर्जं तु
कुटुम्ब-भरणादिकम्।
यद् द्रव्यं तत् स्वकं देयम्
अदेयं स्याद् अतो ऽन्यथा ॥ १४।७ ॥
विश्वास-प्रस्तुतिः - १४।८
विभक्ता वाविभक्ता वा
दायादाः स्थावरे समाः।
एको ह्य् अनीशः सर्वत्र
दानादापन-विक्रये ॥ १४।८ ॥
मूलम् - १४।८
विभक्ता वाविभक्ता वा
दायादाः स्थावरे समाः।
एको ह्य् अनीशः सर्वत्र
दानादापन-विक्रये ॥ १४।८ ॥
विश्वास-प्रस्तुतिः - १४।९
भृतिस् तुष्ट्या पण्य-मूलं
स्त्री-शुल्कम् उपकारिणे।
श्रद्धानुग्रह-सम्प्रीत्या
दत्तम् अष्ट-विधं स्मृतम् ॥ १४।९ ॥
मूलम् - १४।९
भृतिस् तुष्ट्या पण्य-मूलं
स्त्री-शुल्कम् उपकारिणे।
श्रद्धानुग्रह-सम्प्रीत्या
दत्तम् अष्ट-विधं स्मृतम् ॥ १४।९ ॥
विश्वास-प्रस्तुतिः - १४।१०
शूद्रे सम-गुणं दानं
वैश्ये तद् द्वि-गुणं स्मृतम्।
क्षत्रिये त्रि-गुणं दानं
ब्राह्मणे षड्-गुणं स्मृतम् ॥ १४।१० ॥
मूलम् - १४।१०
शूद्रे सम-गुणं दानं
वैश्ये तद् द्वि-गुणं स्मृतम्।
क्षत्रिये त्रि-गुणं दानं
ब्राह्मणे षड्-गुणं स्मृतम् ॥ १४।१० ॥
विश्वास-प्रस्तुतिः - १४।११
श्रोत्रिये चैव साहस्रम्
उपाध्याये तु तद् द्वयम्।
आचार्ये त्रि-गुणं ज्ञेयम्
आहिताग्निषु तद् द्वयम् ॥ १४।११ ॥
मूलम् - १४।११
श्रोत्रिये चैव साहस्रम्
उपाध्याये तु तद् द्वयम्।
आचार्ये त्रि-गुणं ज्ञेयम्
आहिताग्निषु तद् द्वयम् ॥ १४।११ ॥
विश्वास-प्रस्तुतिः - १४।१२
आत्मिके ज्ञात-साहस्रम्
अनन्तं त्व् अग्निहोत्रिणि।
सोम-पे शत-साहस्रम्
अनन्तं ब्रह्मवादिनि ॥ १४।१२ ॥
मूलम् - १४।१२
आत्मिके ज्ञात-साहस्रम्
अनन्तं त्व् अग्निहोत्रिणि।
सोम-पे शत-साहस्रम्
अनन्तं ब्रह्मवादिनि ॥ १४।१२ ॥
विश्वास-प्रस्तुतिः - १४।१३
स्त्री-धनं स्त्री स्व-कुल्येभ्यः
प्रयच्च्छेत्तं तु वर्जयेत्।
कुल्याभावे तु बन्धुभ्यः
तद्-अभावे द्विजातिषु ॥ १४।१३ ॥
मूलम् - १४।१३
स्त्री-धनं स्त्री स्व-कुल्येभ्यः
प्रयच्च्छेत्तं तु वर्जयेत्।
कुल्याभावे तु बन्धुभ्यः
तद्-अभावे द्विजातिषु ॥ १४।१३ ॥
विश्वास-प्रस्तुतिः - १४।१४
मद्-ऊर्ध्वम् इति यद् दत्तं
न तत् सत्त्वावहं भवेत्।
तेनेदानीम् अदत्तत्वान्
मृते रिक्थिनम् आपतेत् ॥ १४।१४ ॥
मूलम् - १४।१४
मद्-ऊर्ध्वम् इति यद् दत्तं
न तत् सत्त्वावहं भवेत्।
तेनेदानीम् अदत्तत्वान्
मृते रिक्थिनम् आपतेत् ॥ १४।१४ ॥
विश्वास-प्रस्तुतिः - १४।१५
क्रुद्ध-हृष्ट-प्रमत्तार्त-
बालोन्मत्त-भयातुरैः।
मत्तातिवृद्ध-निर्धूतैः
संऊढैः शोकवेगिभिः ॥ १४।१५ ॥
मूलम् - १४।१५
क्रुद्ध-हृष्ट-प्रमत्तार्त-
बालोन्मत्त-भयातुरैः।
मत्तातिवृद्ध-निर्धूतैः
संऊढैः शोकवेगिभिः ॥ १४।१५ ॥
विश्वास-प्रस्तुतिः - १४।१६
नन्द-दत्तं तथैतैर् यत्
तद् अदत्तं प्रकीर्तितम् ॥ १४।१६ ॥
मूलम् - १४।१६
नन्द-दत्तं तथैतैर् यत्
तद् अदत्तं प्रकीर्तितम् ॥ १४।१६ ॥
विश्वास-प्रस्तुतिः - १४।१७
प्रतिलाभेच्छया दत्तम्
अपात्रे पात्र-शङ्कया।
कार्ये वाधर्म-संयुक्ते
स्वामी तत् पुनर् आप्नुयात् ॥ १४।१७ ॥
मूलम् - १४।१७
प्रतिलाभेच्छया दत्तम्
अपात्रे पात्र-शङ्कया।
कार्ये वाधर्म-संयुक्ते
स्वामी तत् पुनर् आप्नुयात् ॥ १४।१७ ॥
विश्वास-प्रस्तुतिः - १४।१८
अदत्त-भोक्ता दण्ड्यः स्यात्
तथादेय-प्रदायकः ॥ १४।१८ ॥
मूलम् - १४।१८
अदत्त-भोक्ता दण्ड्यः स्यात्
तथादेय-प्रदायकः ॥ १४।१८ ॥