[१३।१ सम्भूय-करणे ऽधिकारिणः]प्।१२९)
विश्वास-प्रस्तुतिः - १३।१
कुलीन-दक्षानलसैः
प्राज्ञैर् नाणक-वेदिभिः।
आय-व्यय-ज्ञैः शुचिभिः
शूरैः कुर्यात् सह क्रियाः ॥ १३।१ ॥
मूलम् - १३।१
कुलीन-दक्षानलसैः
प्राज्ञैर् नाणक-वेदिभिः।
आय-व्यय-ज्ञैः शुचिभिः
शूरैः कुर्यात् सह क्रियाः ॥ १३।१ ॥
विश्वास-प्रस्तुतिः - १३।२
समो ऽतिरिक्तो जीनो वा
यत्रांशो यस्य यादृशः।
क्षय-व्ययौ तथा वृद्धिस्
तस्य तत्र तथा-विधा ॥ १३।२ ॥
मूलम् - १३।२
समो ऽतिरिक्तो जीनो वा
यत्रांशो यस्य यादृशः।
क्षय-व्ययौ तथा वृद्धिस्
तस्य तत्र तथा-विधा ॥ १३।२ ॥
१३।२ अनधिकारिणः
विश्वास-प्रस्तुतिः - १३।३
अशक्तालस-रोगार्त-
मन्द-भाग्य-निराश्रयैः।
वणिज्याद्याः सहैतैस् तु
न कर्तव्या बुधैः क्रियाः ॥ १३।३ ॥
मूलम् - १३।३
अशक्तालस-रोगार्त-
मन्द-भाग्य-निराश्रयैः।
वणिज्याद्याः सहैतैस् तु
न कर्तव्या बुधैः क्रियाः ॥ १३।३ ॥
१३।३ द्रव्यानुगुण्येन लाभः
विश्वास-प्रस्तुतिः - १३।४
प्रयोगं कुर्वते ये तु
हेम-धान्य-रसादिना।
समन्यूनाधिकैर् अंशैर्
लाभस् तेषां तथा-विधः ॥ १३।४ ॥
मूलम् - १३।४
प्रयोगं कुर्वते ये तु
हेम-धान्य-रसादिना।
समन्यूनाधिकैर् अंशैर्
लाभस् तेषां तथा-विधः ॥ १३।४ ॥
विश्वास-प्रस्तुतिः - १३।५
समो न्यूनो ऽधिको वांशो
येन क्षिप्तस् तथैव सः।
व्ययं दद्यात् कर्म कुर्याल्
लाभं गृह्णीत चैव हि ॥ १३।५ ॥
मूलम् - १३।५
समो न्यूनो ऽधिको वांशो
येन क्षिप्तस् तथैव सः।
व्ययं दद्यात् कर्म कुर्याल्
लाभं गृह्णीत चैव हि ॥ १३।५ ॥
१३।४ तेषु वादे निर्णयः
विश्वास-प्रस्तुतिः - १३।६
परीक्षकाः साक्षिणश् च
त एवोक्ताः परस्परम्।
सन्दिग्धे ऽर्थे ऽवञ्चनायां
न चेद् द्वि-द्वेष-संयुताः ॥ १३।६ ॥
मूलम् - १३।६
परीक्षकाः साक्षिणश् च
त एवोक्ताः परस्परम्।
सन्दिग्धे ऽर्थे ऽवञ्चनायां
न चेद् द्वि-द्वेष-संयुताः ॥ १३।६ ॥
विश्वास-प्रस्तुतिः - १३।७
यः कश्चिद् वञ्चकस् तेषां
विज्ञातः क्रय-विक्रये।
शपथैः स विशोध्यः स्यात्
सर्व-वादे त्व् अयं विधिः ॥ १३।७ ॥
मूलम् - १३।७
यः कश्चिद् वञ्चकस् तेषां
विज्ञातः क्रय-विक्रये।
शपथैः स विशोध्यः स्यात्
सर्व-वादे त्व् अयं विधिः ॥ १३।७ ॥
१३।५ द्रव्य-हानौ निर्णयः
विश्वास-प्रस्तुतिः - १३।८
क्षय-हानिर् यदा तत्र
दैव-राज-कृताद् भवेत्।
सर्वेषाम् एव सा प्रोक्ता
कल्पनीया तथांशतः ॥ १३।८ ॥
मूलम् - १३।८
क्षय-हानिर् यदा तत्र
दैव-राज-कृताद् भवेत्।
सर्वेषाम् एव सा प्रोक्ता
कल्पनीया तथांशतः ॥ १३।८ ॥
विश्वास-प्रस्तुतिः - १३।९
अनिर्दिष्टो वार्यमाणः
प्रमादाद् यस् तु नाशयेत्।
तेनैव तद् भवेद् देयं
सर्वेषां समवायिनाम् ॥ १३।९ ॥
मूलम् - १३।९
अनिर्दिष्टो वार्यमाणः
प्रमादाद् यस् तु नाशयेत्।
तेनैव तद् भवेद् देयं
सर्वेषां समवायिनाम् ॥ १३।९ ॥
विश्वास-प्रस्तुतिः - १३।१०
राज्ञे दत्त्वा तु षड्-भागं
लभेरंस् ते यतांशतः ॥ १३।१० ॥
मूलम् - १३।१०
राज्ञे दत्त्वा तु षड्-भागं
लभेरंस् ते यतांशतः ॥ १३।१० ॥
१३।६ रक्षितुः दशमांशम्
विश्वास-प्रस्तुतिः - १३।११
दैव-राज-भयाद् अस्तु
स्व-शक्त्या परिपालयेत्।
तस्य अंशं दशमं दत्त्वा
गृह्नीयुस् ते ऽंशतो ऽपरम् ॥ १३।११ ॥
मूलम् - १३।११
दैव-राज-भयाद् अस्तु
स्व-शक्त्या परिपालयेत्।
तस्य अंशं दशमं दत्त्वा
गृह्नीयुस् ते ऽंशतो ऽपरम् ॥ १३।११ ॥
१३।७ शुल्कम्
विश्वास-प्रस्तुतिः - १३।१२
शुल्क-स्थानं वणिक् प्राप्तः
शुल्कं दद्याद् यथोचितम्।
न तद् व्यभिचरेत् राज्ञां
बलिर् एष प्रकीर्तितः ॥ १३।१२ ॥
मूलम् - १३।१२
शुल्क-स्थानं वणिक् प्राप्तः
शुल्कं दद्याद् यथोचितम्।
न तद् व्यभिचरेत् राज्ञां
बलिर् एष प्रकीर्तितः ॥ १३।१२ ॥
विश्वास-प्रस्तुतिः - १३।१३
नैवं तस्कर-राजाग्नि-
व्यसने समुपस्थिते।
यस् तु स्व-शक्त्या रक्षेत् तु
तस्यांशो दशमः स्मृतः ॥ १३।१३ ॥
मूलम् - १३।१३
नैवं तस्कर-राजाग्नि-
व्यसने समुपस्थिते।
यस् तु स्व-शक्त्या रक्षेत् तु
तस्यांशो दशमः स्मृतः ॥ १३।१३ ॥
१३।८ सम्भूय-कर्म-कुर्वतां एकस्य हानौ निर्णयः
विश्वास-प्रस्तुतिः - १३।१४
यदा तत्र वणिक् कश्चित्
प्रमीयेत प्रमादतः।
तस्य भाण्डं दर्शनीयं
नियुक्तैः राज-पुरुषैः ॥ १३।१४ ॥
मूलम् - १३।१४
यदा तत्र वणिक् कश्चित्
प्रमीयेत प्रमादतः।
तस्य भाण्डं दर्शनीयं
नियुक्तैः राज-पुरुषैः ॥ १३।१४ ॥
विश्वास-प्रस्तुतिः - १३।१५
यदा कश्चित् समागच्छेत् तदा
रिक्थहरो नरः।
स्वाम्यं विभावयेद् अन्यैः
स तदा लब्धुम् अर्हति ॥ १३।१५ ॥
मूलम् - १३।१५
यदा कश्चित् समागच्छेत् तदा
रिक्थहरो नरः।
स्वाम्यं विभावयेद् अन्यैः
स तदा लब्धुम् अर्हति ॥ १३।१५ ॥
विश्वास-प्रस्तुतिः - १३।१६
राजाददीत षड्-भागं
नवमं दशमं तथा।
शूद्र-विष्-क्षत्र-जातीनां
विप्राद् गृह्णीत विंशकम् ॥ १३।१६ ॥
मूलम् - १३।१६
राजाददीत षड्-भागं
नवमं दशमं तथा।
शूद्र-विष्-क्षत्र-जातीनां
विप्राद् गृह्णीत विंशकम् ॥ १३।१६ ॥
विश्वास-प्रस्तुतिः - १३।१७
त्र्य्-अब्दाद् ऊर्ध्वं तु नागच्छेद्
यत्र स्वामी कथञ्चन।
तदा गृह्णीत तद् राजा
ब्रह्मस्वं ब्राह्मणाञ् श्रयेत् ॥ १३।१७ ॥
मूलम् - १३।१७
त्र्य्-अब्दाद् ऊर्ध्वं तु नागच्छेद्
यत्र स्वामी कथञ्चन।
तदा गृह्णीत तद् राजा
ब्रह्मस्वं ब्राह्मणाञ् श्रयेत् ॥ १३।१७ ॥
विश्वास-प्रस्तुतिः - १३।१८
एवं क्रिया-प्रवृत्तानां
यदा कश्चिद् विपद्यते।
तद् बन्धुना क्रिया कार्या
सर्वेषां सहकारिभिः ॥ १३।१८ ॥
मूलम् - १३।१८
एवं क्रिया-प्रवृत्तानां
यदा कश्चिद् विपद्यते।
तद् बन्धुना क्रिया कार्या
सर्वेषां सहकारिभिः ॥ १३।१८ ॥
१३।९ ऋत्विजः
विश्वास-प्रस्तुतिः - १३।१९
रथं हरेद् यथाध्वर्युर्
ब्रह्माधाने च वाजिनम्।
होता निविद्वरं चाश्वम्
उद्गाता चाप्यनः क्रये ॥ १३।१९ ॥
मूलम् - १३।१९
रथं हरेद् यथाध्वर्युर्
ब्रह्माधाने च वाजिनम्।
होता निविद्वरं चाश्वम्
उद्गाता चाप्यनः क्रये ॥ १३।१९ ॥
विश्वास-प्रस्तुतिः - १३।२०
सर्वेषाम् अर्धिनो मुख्यास्
तद् अर्धेनाधिनो ऽपरे।
तृतीयिनस् तृतीयांशाश्
चतुर्थांशाश् च पादिनः ॥ १३।२० ॥
मूलम् - १३।२०
सर्वेषाम् अर्धिनो मुख्यास्
तद् अर्धेनाधिनो ऽपरे।
तृतीयिनस् तृतीयांशाश्
चतुर्थांशाश् च पादिनः ॥ १३।२० ॥
विश्वास-प्रस्तुतिः - १३।२१
आगन्तुकाः क्रमायातास्
तथा चैव स्वयं-कृताः।
त्रिविधास् ते समाख्याता
वर्तितव्यं तथैव तैः ॥ १३।२१ ॥
मूलम् - १३।२१
आगन्तुकाः क्रमायातास्
तथा चैव स्वयं-कृताः।
त्रिविधास् ते समाख्याता
वर्तितव्यं तथैव तैः ॥ १३।२१ ॥
१३।१० सम्भूय-कर्म-प्रकारः
विश्वास-प्रस्तुतिः - १३।२२
बहूनां सम्मतो यस् तु
दद्याद् एको धनं नरः।
करणं कारयेद् वापि
सर्वैर् एव कृतं भवेत् ॥ १३।२२ ॥
मूलम् - १३।२२
बहूनां सम्मतो यस् तु
दद्याद् एको धनं नरः।
करणं कारयेद् वापि
सर्वैर् एव कृतं भवेत् ॥ १३।२२ ॥
विश्वास-प्रस्तुतिः - १३।२३
ज्ञाति-सम्बन्धि-सुहृदाम्
ऋणं देयं सबन्धकम्।
अन्येषां लग्न-कोपेतं
लेख्य-साक्षि-युतं तथा ॥ १३।२३ ॥
मूलम् - १३।२३
ज्ञाति-सम्बन्धि-सुहृदाम्
ऋणं देयं सबन्धकम्।
अन्येषां लग्न-कोपेतं
लेख्य-साक्षि-युतं तथा ॥ १३।२३ ॥
विश्वास-प्रस्तुतिः - १३।२४
स्वेच्छादेयं हिरण्यं तु
रस-धान्यं तु सावधि।
देश-स्थित्या प्रदातव्यं
गृहीतव्यं तथैव तत् ॥ १३।२४ ॥
मूलम् - १३।२४
स्वेच्छादेयं हिरण्यं तु
रस-धान्यं तु सावधि।
देश-स्थित्या प्रदातव्यं
गृहीतव्यं तथैव तत् ॥ १३।२४ ॥
विश्वास-प्रस्तुतिः - १३।२५
समवेतैस् तु यद् दत्तं
प्रार्थनीयं तथैव तत्।
न याचते च यः कश्चिल्
लाभात् स परिहीयते ॥ १३।२५ ॥
मूलम् - १३।२५
समवेतैस् तु यद् दत्तं
प्रार्थनीयं तथैव तत्।
न याचते च यः कश्चिल्
लाभात् स परिहीयते ॥ १३।२५ ॥
१३।११ सम्भूय कृषि-कर्म
विश्वास-प्रस्तुतिः - १३।२६
श्रूयतां कर्षकादीनां
विधानम् इदम् उच्यते ॥ १३।२६ ॥
मूलम् - १३।२६
श्रूयतां कर्षकादीनां
विधानम् इदम् उच्यते ॥ १३।२६ ॥
विश्वास-प्रस्तुतिः - १३।२७
वाह्य-वाहक-बीजाद्यैः
क्षेत्रोपकरणेन च।
ये समाः स्युस् तु तैः सार्धं
कृषिः कार्या विजानता ॥ १३।२७ ॥
मूलम् - १३।२७
वाह्य-वाहक-बीजाद्यैः
क्षेत्रोपकरणेन च।
ये समाः स्युस् तु तैः सार्धं
कृषिः कार्या विजानता ॥ १३।२७ ॥
विश्वास-प्रस्तुतिः - १३।२८
बाह्य-बीजात्ययाद् यत्र
क्षेत्र-हानिः प्रजायते।
तेनैव सा प्रदातव्या
सर्वेषां कृषि-जीविनाम् ॥ १३।२८ ॥
मूलम् - १३।२८
बाह्य-बीजात्ययाद् यत्र
क्षेत्र-हानिः प्रजायते।
तेनैव सा प्रदातव्या
सर्वेषां कृषि-जीविनाम् ॥ १३।२८ ॥
विश्वास-प्रस्तुतिः - १३।२९
पर्वते नगराभ्यासे
तथा राज-पथस्य च।
उषरं मूषिक-व्याप्तं
क्षेत्रं यत्नेन वर्जयेत् ॥ १३।२९ ॥
मूलम् - १३।२९
पर्वते नगराभ्यासे
तथा राज-पथस्य च।
उषरं मूषिक-व्याप्तं
क्षेत्रं यत्नेन वर्जयेत् ॥ १३।२९ ॥
विश्वास-प्रस्तुतिः - १३।३०
गर्तानूपं सु-सेकं च
समन्तात् क्षेत्र-संयुतम्।
प्रकृष्टं च कृतं काले
वापयन् फलम् अश्नुते ॥ १३।३० ॥
मूलम् - १३।३०
गर्तानूपं सु-सेकं च
समन्तात् क्षेत्र-संयुतम्।
प्रकृष्टं च कृतं काले
वापयन् फलम् अश्नुते ॥ १३।३० ॥
विश्वास-प्रस्तुतिः - १३।३१
कृशातिवृद्धं क्षूद्रं च
रोगिणं प्रपलायिनम्।
काणं खञ्जं विनादद्यात्
बाह्यं प्राज्ञः कृषी-वलः ॥ १३।३१ ॥
मूलम् - १३।३१
कृशातिवृद्धं क्षूद्रं च
रोगिणं प्रपलायिनम्।
काणं खञ्जं विनादद्यात्
बाह्यं प्राज्ञः कृषी-वलः ॥ १३।३१ ॥
विश्वास-प्रस्तुतिः - १३।३२
एष धर्मः समाख्यातः
कीनाशानां पुरातनः ॥ १३।३२ ॥
मूलम् - १३।३२
एष धर्मः समाख्यातः
कीनाशानां पुरातनः ॥ १३।३२ ॥
१३।१२ शिल्पिनः
विश्वास-प्रस्तुतिः - १३।३३
हिरण्य-कुप्य-सूत्राणां
काष्ठ-पाषाण-चर्मणाम्।
संस्कर्ता तु कलाभिज्ञः
शिल्पी प्रोक्तो मनीषिभिः ॥ १३।३३ ॥
मूलम् - १३।३३
हिरण्य-कुप्य-सूत्राणां
काष्ठ-पाषाण-चर्मणाम्।
संस्कर्ता तु कलाभिज्ञः
शिल्पी प्रोक्तो मनीषिभिः ॥ १३।३३ ॥
विश्वास-प्रस्तुतिः - १३।३४
हेम-कारादयो यत्र
शिल्पं सम्भूय कुर्वते।
कर्मानुरूपं निर्वेश
लभेरंस् ते यथांशतः ॥ १३।३४ ॥
मूलम् - १३।३४
हेम-कारादयो यत्र
शिल्पं सम्भूय कुर्वते।
कर्मानुरूपं निर्वेश
लभेरंस् ते यथांशतः ॥ १३।३४ ॥
विश्वास-प्रस्तुतिः - १३।३५
शिक्षकाभिज्ञ-कुशला
आचार्याश् चेति शिल्पिनः।
एक-द्वि-त्रि-चतुर्-भागान्
लभेयुस् ते यथोत्तरम् ॥ १३।३५ ॥
मूलम् - १३।३५
शिक्षकाभिज्ञ-कुशला
आचार्याश् चेति शिल्पिनः।
एक-द्वि-त्रि-चतुर्-भागान्
लभेयुस् ते यथोत्तरम् ॥ १३।३५ ॥
विश्वास-प्रस्तुतिः - १३।३६
हर्म्यं देव-गृहं वापि
धार्मिकोपस्कराणि च।
सम्भूय कुर्वतां चैषां
प्रमुखो द्व्य्-अंशम् अर्हति ॥ १३।३६ ॥
मूलम् - १३।३६
हर्म्यं देव-गृहं वापि
धार्मिकोपस्कराणि च।
सम्भूय कुर्वतां चैषां
प्रमुखो द्व्य्-अंशम् अर्हति ॥ १३।३६ ॥
विश्वास-प्रस्तुतिः - १३।३७
नर्तकानाम् एष एव
धर्मः सद्भिर् उदाहृतः।
ताल-ज्ञो लभते ऽध्यर्धं
गायनास् तु समांशिनः ॥ १३।३७ ॥
मूलम् - १३।३७
नर्तकानाम् एष एव
धर्मः सद्भिर् उदाहृतः।
ताल-ज्ञो लभते ऽध्यर्धं
गायनास् तु समांशिनः ॥ १३।३७ ॥
१३।१३ चोराणां लाभ-विभागः
विश्वास-प्रस्तुतिः - १३।३८
स्वाम्य्-आज्ञया तु यश् चौरैः
पर-देशात् समाहृतम्।
राज्ञे दत्त्वा तु षड्-भागं
भजेयुस् ते यथांशतः ॥ १३।३८ ॥
मूलम् - १३।३८
स्वाम्य्-आज्ञया तु यश् चौरैः
पर-देशात् समाहृतम्।
राज्ञे दत्त्वा तु षड्-भागं
भजेयुस् ते यथांशतः ॥ १३।३८ ॥
विश्वास-प्रस्तुतिः - १३।३९
चतुरो ऽंशांस् ततो मुख्यः
शूर-स्त्र्य्-अंशं समाप्नुयात्।
समर्थस् तु हरेद् द्व्य्-अंशं
शेषाः सर्वे समांशिनः ॥ १३।३९ ॥
मूलम् - १३।३९
चतुरो ऽंशांस् ततो मुख्यः
शूर-स्त्र्य्-अंशं समाप्नुयात्।
समर्थस् तु हरेद् द्व्य्-अंशं
शेषाः सर्वे समांशिनः ॥ १३।३९ ॥