[१२।]प्।१२५)
विश्वास-प्रस्तुतिः - १२।१
निक्षेपानन्तरं प्रोक्तो
भृगुणास्वामि-विक्रयः।
श्रूयतां तं प्रयत्नेन
सविशेषं ब्रवीम्य् अहम् ॥ १२।१ ॥
मूलम् - १२।१
निक्षेपानन्तरं प्रोक्तो
भृगुणास्वामि-विक्रयः।
श्रूयतां तं प्रयत्नेन
सविशेषं ब्रवीम्य् अहम् ॥ १२।१ ॥
१२।१ अस्वामि-लक्षणम्
विश्वास-प्रस्तुतिः - १२।२
निक्षेपान्वाहित-न्यास-
हृत-याचित-बन्धकम्।
उपांशु-जन-विक्रीतम्
अस्वामी सो ऽभिधीयते ॥ १२।२ ॥
मूलम् - १२।२
निक्षेपान्वाहित-न्यास-
हृत-याचित-बन्धकम्।
उपांशु-जन-विक्रीतम्
अस्वामी सो ऽभिधीयते ॥ १२।२ ॥
१२।२ अध्यक्ष-निवेदित-क्रयेण दोषः
विश्वास-प्रस्तुतिः - १२।३
येन क्रीतं तु मूल्येन
प्राग्-अध्यक्ष-निवेदितम्।
न विद्यते तत्र दोषः
स्तेन स्याद् उपधिक्रयात् ॥ १२।३ ॥
मूलम् - १२।३
येन क्रीतं तु मूल्येन
प्राग्-अध्यक्ष-निवेदितम्।
न विद्यते तत्र दोषः
स्तेन स्याद् उपधिक्रयात् ॥ १२।३ ॥
१२।३ उपविक्रय-लक्षणम्
विश्वास-प्रस्तुतिः - १२।४
अन्तर् गृहे बहिर् ग्रामान्
निशायाम् असतो जनात्।
हीन-मूल्यं च यत् क्रीतं
ज्ञेयो ऽसाव् उपविक्रयः ॥ १२।४ ॥
मूलम् - १२।४
अन्तर् गृहे बहिर् ग्रामान्
निशायाम् असतो जनात्।
हीन-मूल्यं च यत् क्रीतं
ज्ञेयो ऽसाव् उपविक्रयः ॥ १२।४ ॥
१२।४ तत्र क्रेतृ-शुद्धि-निर्णयः
विश्वास-प्रस्तुतिः - १२।५
पूर्व-स्वामी तु तद् द्रव्यं
यद् आगत्य विचारयेत्।
तत्र मूल्यं दर्शनीयं
क्रेतुः शुद्धिस् ततो भवेत् ॥ १२।५ ॥
मूलम् - १२।५
पूर्व-स्वामी तु तद् द्रव्यं
यद् आगत्य विचारयेत्।
तत्र मूल्यं दर्शनीयं
क्रेतुः शुद्धिस् ततो भवेत् ॥ १२।५ ॥
विश्वास-प्रस्तुतिः - १२।६
मूले समाहृते क्रेता
नाभियोज्यः कथञ्चन।
मूलेन सह वादस् तु
नाष्टकस्य विहीयते ॥ १२।६ ॥
मूलम् - १२।६
मूले समाहृते क्रेता
नाभियोज्यः कथञ्चन।
मूलेन सह वादस् तु
नाष्टकस्य विहीयते ॥ १२।६ ॥
विश्वास-प्रस्तुतिः - १२।७
विक्रेता दर्शितो यत्र
हीयते व्यवहारतः।
क्रेत्रे राज्ञे मूल्य-दण्डौ
प्रदद्यात् स्वामिने धनम् ॥ १२।७ ॥
मूलम् - १२।७
विक्रेता दर्शितो यत्र
हीयते व्यवहारतः।
क्रेत्रे राज्ञे मूल्य-दण्डौ
प्रदद्यात् स्वामिने धनम् ॥ १२।७ ॥
विश्वास-प्रस्तुतिः - १२।८
पर-द्रव्ये ऽभिलषति
यो ऽस्वामी लोभ-संयुतः।
अभावयंस् ततः पश्चाद्
दाप्यः स्याद् द्विगुणं दमम् ॥ १२।८ ॥
मूलम् - १२।८
पर-द्रव्ये ऽभिलषति
यो ऽस्वामी लोभ-संयुतः।
अभावयंस् ततः पश्चाद्
दाप्यः स्याद् द्विगुणं दमम् ॥ १२।८ ॥
विश्वास-प्रस्तुतिः - १२।९
प्रमाण-हीने वादे तु
पुरुषापेक्षया नृपः।
समन्यूनाधिकत्वेन
स्वयं कुर्याद् विनिर्णयम् ॥ १२।९ ॥
मूलम् - १२।९
प्रमाण-हीने वादे तु
पुरुषापेक्षया नृपः।
समन्यूनाधिकत्वेन
स्वयं कुर्याद् विनिर्णयम् ॥ १२।९ ॥
विश्वास-प्रस्तुतिः - १२।१०
वणिग्-वीथी-परिगतं
विज्ञातं राज-पूरुषैः।
अविज्ञाताश्रयात् क्रीतं
विक्रेता यत्र वा मृतः ॥ १२।१० ॥
मूलम् - १२।१०
वणिग्-वीथी-परिगतं
विज्ञातं राज-पूरुषैः।
अविज्ञाताश्रयात् क्रीतं
विक्रेता यत्र वा मृतः ॥ १२।१० ॥
विश्वास-प्रस्तुतिः - १२।११
स्वामी दत्त्वार्ध-मूल्यं तु
प्रकृह्णीत स्वकं धनम्।
अर्धं द्वयोर् अपि हृतं
तत्र स्याद् व्यवहारतः ॥ १२।११ ॥
मूलम् - १२।११
स्वामी दत्त्वार्ध-मूल्यं तु
प्रकृह्णीत स्वकं धनम्।
अर्धं द्वयोर् अपि हृतं
तत्र स्याद् व्यवहारतः ॥ १२।११ ॥
विश्वास-प्रस्तुतिः - १२।१२
अविज्ञात-क्रयो दोषस्
तथा चापरिपालनम्।
एतद् द्वयं समाख्यातं
द्रव्य-हानिकरं बुद्धैः ॥ १२।१२ ॥
मूलम् - १२।१२
अविज्ञात-क्रयो दोषस्
तथा चापरिपालनम्।
एतद् द्वयं समाख्यातं
द्रव्य-हानिकरं बुद्धैः ॥ १२।१२ ॥
विश्वास-प्रस्तुतिः - १२।१३
वणिग्-वीथी-परिगतं
विज्ञातं राज-पूरुषैः।
दिवा गृहीतं सत्-क्रेता
समृद्धो लभते धनम् ॥ १२।१३ ॥
मूलम् - १२।१३
वणिग्-वीथी-परिगतं
विज्ञातं राज-पूरुषैः।
दिवा गृहीतं सत्-क्रेता
समृद्धो लभते धनम् ॥ १२।१३ ॥
विश्वास-प्रस्तुतिः - १२।१४
विक्रीयोर्वीं तु यत् क्रेतुर्
भुक्तिं यो न [च] साधयेत्।
स तस्मै तद् धनं दद्याद्
अन्यथा चोर-दण्ड-भाक् ॥ १२।१४ ॥
मूलम् - १२।१४
विक्रीयोर्वीं तु यत् क्रेतुर्
भुक्तिं यो न [च] साधयेत्।
स तस्मै तद् धनं दद्याद्
अन्यथा चोर-दण्ड-भाक् ॥ १२।१४ ॥
विश्वास-प्रस्तुतिः - १२।१५
एतद् द्वयं समाख्यातं
द्रव्य-हानि-करं बुद्धैः।
अविज्ञात-विशेषत्वाद् यत्र
मूल्यं न लभ्यते ॥ १२।१५ ॥
मूलम् - १२।१५
एतद् द्वयं समाख्यातं
द्रव्य-हानि-करं बुद्धैः।
अविज्ञात-विशेषत्वाद् यत्र
मूल्यं न लभ्यते ॥ १२।१५ ॥
विश्वास-प्रस्तुतिः - १२।१६
हानिस् तत्र समा कल्प्या
क्रेतृ-नास्तिकयोर् द्वयोः ॥ १२।१६ ॥
मूलम् - १२।१६
हानिस् तत्र समा कल्प्या
क्रेतृ-नास्तिकयोर् द्वयोः ॥ १२।१६ ॥