[११।]प्।१२०)
विश्वास-प्रस्तुतिः - ११।१
ऋणादानं प्रयोगादि-
दापनान्तं प्रकीर्तितम्।
निक्षेपस्याधुना सम्यग्-
विधानं श्रूयताम् इति ॥ ११।१ ॥
मूलम् - ११।१
ऋणादानं प्रयोगादि-
दापनान्तं प्रकीर्तितम्।
निक्षेपस्याधुना सम्यग्-
विधानं श्रूयताम् इति ॥ ११।१ ॥
[११।१ औपनिधिकम्]प्।१२०)
विश्वास-प्रस्तुतिः - ११।२
अनाख्यातं व्यवहितम्
असङ्ख्यातम् अदर्शितम्।
मुद्राङ्कितं च यद् दत्तं
तदोपनिधिकं स्मृतम् ॥ ११।२ ॥
मूलम् - ११।२
अनाख्यातं व्यवहितम्
असङ्ख्यातम् अदर्शितम्।
मुद्राङ्कितं च यद् दत्तं
तदोपनिधिकं स्मृतम् ॥ ११।२ ॥
११।२ न्यास-स्वरूपम्
विश्वास-प्रस्तुतिः - ११।३
राज-चौराराति-भयाद्
दायादानां च वञ्चनात्।
स्थाप्यते ऽन्य-गृहे द्रव्यं
न्यासस् तत् परिकीर्तितम् ॥ ११।३ ॥
मूलम् - ११।३
राज-चौराराति-भयाद्
दायादानां च वञ्चनात्।
स्थाप्यते ऽन्य-गृहे द्रव्यं
न्यासस् तत् परिकीर्तितम् ॥ ११।३ ॥
११।३ स्थापन-प्रकारः
विश्वास-प्रस्तुतिः - ११।४
स्थानं गृहं स्थलं चैव
तद् ऋणं विविधान् गुणान्।
सत्यं शौचं बन्धु-जनं
परीक्ष्य स्थापयेन् निधिम् ॥ ११।४ ॥
मूलम् - ११।४
स्थानं गृहं स्थलं चैव
तद् ऋणं विविधान् गुणान्।
सत्यं शौचं बन्धु-जनं
परीक्ष्य स्थापयेन् निधिम् ॥ ११।४ ॥
११।४ तस्य द्वैविध्यम्
विश्वास-प्रस्तुतिः - ११।५
स पुनर् द्विविधः प्रोक्तः
साक्षि-मानितरस् तथा।
प्रतिदानं तथैवास्य
प्रत्ययः स्याद् विपर्यये ॥ ११।५ ॥
मूलम् - ११।५
स पुनर् द्विविधः प्रोक्तः
साक्षि-मानितरस् तथा।
प्रतिदानं तथैवास्य
प्रत्ययः स्याद् विपर्यये ॥ ११।५ ॥
विश्वास-प्रस्तुतिः - ११।६
समाक्षिकं रहो-दत्तं
द्विविधं तद् उदाहृतम्।
पुत्रवत् परिपाल्यं तु
विनश्यत्य् अनवेक्षया ॥ ११।६ ॥
मूलम् - ११।६
समाक्षिकं रहो-दत्तं
द्विविधं तद् उदाहृतम्।
पुत्रवत् परिपाल्यं तु
विनश्यत्य् अनवेक्षया ॥ ११।६ ॥
११।५ निक्षेपादि-रक्षणं यत्नेन कर्तव्यम्
विश्वास-प्रस्तुतिः - ११।७
ददतो यद् भवेत् पुण्यं
हेम-कुप्याम्बरादिकम्।
तत् स्यात् पालयतो न्यासं
तथा च शरणागतम् ॥ ११।७ ॥
मूलम् - ११।७
ददतो यद् भवेत् पुण्यं
हेम-कुप्याम्बरादिकम्।
तत् स्यात् पालयतो न्यासं
तथा च शरणागतम् ॥ ११।७ ॥
विश्वास-प्रस्तुतिः - ११।८
भर्तुर् द्रोहे यथा नार्याः
पुंसः पुत्र-सुहृद्-वधे।
दोषो भवेत् तथा न्यासे
भक्षितोपेक्षिते नृणाम् ॥ ११।८ ॥
मूलम् - ११।८
भर्तुर् द्रोहे यथा नार्याः
पुंसः पुत्र-सुहृद्-वधे।
दोषो भवेत् तथा न्यासे
भक्षितोपेक्षिते नृणाम् ॥ ११।८ ॥
विश्वास-प्रस्तुतिः - ११।९
न्यास-द्रव्यं न गृह्णीयात्
तन्-नाशस् त्व् अयशः-करः।
गृहीतं पालयेद् यत्नात्
सकृद्-याचितम् अर्पयेत् ॥ ११।९ ॥
मूलम् - ११।९
न्यास-द्रव्यं न गृह्णीयात्
तन्-नाशस् त्व् अयशः-करः।
गृहीतं पालयेद् यत्नात्
सकृद्-याचितम् अर्पयेत् ॥ ११।९ ॥
विश्वास-प्रस्तुतिः - ११।१०
स्थापितं येन विधिना
येन यच् च विभावितम्।
तथैव तस्य दातव्यम्
अदेयं प्रत्यनन्तरम् ॥ ११।१० ॥
मूलम् - ११।१०
स्थापितं येन विधिना
येन यच् च विभावितम्।
तथैव तस्य दातव्यम्
अदेयं प्रत्यनन्तरम् ॥ ११।१० ॥
११।६ निक्षेप-नाशे व्यवस्था
विश्वास-प्रस्तुतिः - ११।११
देव-राजोपघातेन
यदि तन् नाशम् आप्नुयात्।
ग्रहीतृ-द्रव्य-सहितं
तत्र दोषो न विद्यते ॥ ११।११ ॥
मूलम् - ११।११
देव-राजोपघातेन
यदि तन् नाशम् आप्नुयात्।
ग्रहीतृ-द्रव्य-सहितं
तत्र दोषो न विद्यते ॥ ११।११ ॥
विश्वास-प्रस्तुतिः - ११।१२
भेदेनोपेक्षया न्यासं
ग्रहीता यदि नाशयेत्।
याच्यमानो न दद्याद् वा
दाप्यस् तत् सोदयं भवेत् ॥ ११।१२ ॥
मूलम् - ११।१२
भेदेनोपेक्षया न्यासं
ग्रहीता यदि नाशयेत्।
याच्यमानो न दद्याद् वा
दाप्यस् तत् सोदयं भवेत् ॥ ११।१२ ॥
११।७ तस्य भोग-दण्डः
विश्वास-प्रस्तुतिः - ११।१३
न्यास-द्रव्येण यः कश्चित्
साधयेत् कार्यम् आत्मनः।
दण्ड्यः स राज्ञो भवति
दाप्यस् तच् चापि सोदयम् ॥ ११।१३ ॥
मूलम् - ११।१३
न्यास-द्रव्येण यः कश्चित्
साधयेत् कार्यम् आत्मनः।
दण्ड्यः स राज्ञो भवति
दाप्यस् तच् चापि सोदयम् ॥ ११।१३ ॥
११।८ अपह्नवे निर्णयः
विश्वास-प्रस्तुतिः - ११।१४
गृहीत्वापह्नुते यश् च
साक्षिभिः शपथेन वा।
विभाव्य दापयेन् न्यासं
तत् समं विनयं तथा ॥ ११।१४ ॥
मूलम् - ११।१४
गृहीत्वापह्नुते यश् च
साक्षिभिः शपथेन वा।
विभाव्य दापयेन् न्यासं
तत् समं विनयं तथा ॥ ११।१४ ॥
विश्वास-प्रस्तुतिः - ११।१५
रहो दत्ते निधौ यत्र
विसंवादः प्रजायते।
विभावकं तत्र दिव्यम्
उभयोर् अपि च स्मृतम् ॥ ११।१५ ॥
मूलम् - ११।१५
रहो दत्ते निधौ यत्र
विसंवादः प्रजायते।
विभावकं तत्र दिव्यम्
उभयोर् अपि च स्मृतम् ॥ ११।१५ ॥
विश्वास-प्रस्तुतिः - ११।१६
मिथो दायः कृतो येन
गृहीतो मिथ एव वा।
मिथ एव प्रदातव्यो
यथा दायस् तथा ग्रहः ॥ ११।१६ ॥
मूलम् - ११।१६
मिथो दायः कृतो येन
गृहीतो मिथ एव वा।
मिथ एव प्रदातव्यो
यथा दायस् तथा ग्रहः ॥ ११।१६ ॥
विश्वास-प्रस्तुतिः - ११।१७
समुद्रे नाप्नुयात् किञ्चिद्
यदि तस्मान् न संहरेत् ॥ ११।१७ ॥
मूलम् - ११।१७
समुद्रे नाप्नुयात् किञ्चिद्
यदि तस्मान् न संहरेत् ॥ ११।१७ ॥
विश्वास-प्रस्तुतिः - ११।१८
अन्वाहिते याचितके
शिल्पि-न्यासे सबन्धके।
एष एवोदितो धर्मस्
तथा च शरणागते ॥ ११।१८ ॥
मूलम् - ११।१८
अन्वाहिते याचितके
शिल्पि-न्यासे सबन्धके।
एष एवोदितो धर्मस्
तथा च शरणागते ॥ ११।१८ ॥
विश्वास-प्रस्तुतिः - ११।१९
यस् तु संस्क्रियते न्यासो
दिवसैः परिनिष्ठितैः।
तद् ऊर्ध्व स्थापयञ् शिल्पी
दाप्यो दैव-हतो ऽपि तत् ॥ ११।१९ ॥
मूलम् - ११।१९
यस् तु संस्क्रियते न्यासो
दिवसैः परिनिष्ठितैः।
तद् ऊर्ध्व स्थापयञ् शिल्पी
दाप्यो दैव-हतो ऽपि तत् ॥ ११।१९ ॥
विश्वास-प्रस्तुतिः - ११।२०
याचितं स्वाम्य्-अनुज्ञातं
प्रददन् नापराध्नुयात् ॥ ११।२० ॥
मूलम् - ११।२०
याचितं स्वाम्य्-अनुज्ञातं
प्रददन् नापराध्नुयात् ॥ ११।२० ॥