विश्वास-प्रस्तुतिः - १०।१
पदांश-सहितस् त्व् एष
व्यवहारः प्रकीर्तितः।
विवाद-कारणान्यस्य
पदानि शृणुताधुना ॥ १०।१ ॥
मूलम् - १०।१
पदांश-सहितस् त्व् एष
व्यवहारः प्रकीर्तितः।
विवाद-कारणान्यस्य
पदानि शृणुताधुना ॥ १०।१ ॥
विश्वास-प्रस्तुतिः - १०।२
ऋणादान-प्रधानानि
द्यूताह्वानान्तिकानि च।
क्रमशः सम्प्रवक्ष्यामि
क्रिया-भेदांश् च तत्त्वतः ॥ १०।२ ॥
मूलम् - १०।२
ऋणादान-प्रधानानि
द्यूताह्वानान्तिकानि च।
क्रमशः सम्प्रवक्ष्यामि
क्रिया-भेदांश् च तत्त्वतः ॥ १०।२ ॥
विश्वास-प्रस्तुतिः - १०।३
ऋणं देयम् अदेयं च
येन यत्र यथा च यत्।
दान-ग्रहण-धर्मौ च
ऋणादानम् इति स्मृतम् ॥ १०।३ ॥
मूलम् - १०।३
ऋणं देयम् अदेयं च
येन यत्र यथा च यत्।
दान-ग्रहण-धर्मौ च
ऋणादानम् इति स्मृतम् ॥ १०।३ ॥
१०।१ वृद्धि-विचारः
विश्वास-प्रस्तुतिः - १०।४
अशीति-भागो वृद्धिः स्यान्
मासि मासि सबन्धके।
वर्ण-क्रमाच् छतं द्वि-त्रि-
चतुः-पञ्चकम् अन्यथा ॥ १०।४ ॥
मूलम् - १०।४
अशीति-भागो वृद्धिः स्यान्
मासि मासि सबन्धके।
वर्ण-क्रमाच् छतं द्वि-त्रि-
चतुः-पञ्चकम् अन्यथा ॥ १०।४ ॥
विश्वास-प्रस्तुतिः - १०।५
परिपूर्णं गृहीत्वाधिं
बन्धं वा साधु-लग्नकम्।
लेख्यारूढं साक्षिमद् वा
ऋणं दद्याद् धनी सदा ॥ १०।५ ॥
मूलम् - १०।५
परिपूर्णं गृहीत्वाधिं
बन्धं वा साधु-लग्नकम्।
लेख्यारूढं साक्षिमद् वा
ऋणं दद्याद् धनी सदा ॥ १०।५ ॥
विश्वास-प्रस्तुतिः - १०।६
कुत्सितात् सीदतश् चैव
निर्विशङ्कैः प्रगृह्यते।
चतुर्-गुणं वाष्ट-गुणं
कुसीदाख्यम् अतः स्मृतम् ॥ १०।६ ॥
मूलम् - १०।६
कुत्सितात् सीदतश् चैव
निर्विशङ्कैः प्रगृह्यते।
चतुर्-गुणं वाष्ट-गुणं
कुसीदाख्यम् अतः स्मृतम् ॥ १०।६ ॥
विश्वास-प्रस्तुतिः - ।
पुराणे पणम् ॥।
॥॥ ॥॥ ॥ १०।७ ॥
मूलम् - ।
पुराणे पणम् ॥।
॥॥ ॥॥ ॥ १०।७ ॥
१०।२ वृद्धि-प्रभेदाः
विश्वास-प्रस्तुतिः - १०।८
वृद्धिश् चतुर्-विधा प्रोक्ता
पञ्च-धान्यैः प्रकीर्तिता।
षड्-विधान्यैः समाख्याता
तत्त्वतस् ता निबोधत ॥ १०।८ ॥
मूलम् - १०।८
वृद्धिश् चतुर्-विधा प्रोक्ता
पञ्च-धान्यैः प्रकीर्तिता।
षड्-विधान्यैः समाख्याता
तत्त्वतस् ता निबोधत ॥ १०।८ ॥
विश्वास-प्रस्तुतिः - १०।९
कायिका कालिका चैव
चक्र-वृद्धिर् अतो ऽपरा।
कारिता च शिखा-वृद्धिर्
भोग-लाभस् तथैव च ॥ १०।९ ॥
मूलम् - १०।९
कायिका कालिका चैव
चक्र-वृद्धिर् अतो ऽपरा।
कारिता च शिखा-वृद्धिर्
भोग-लाभस् तथैव च ॥ १०।९ ॥
विश्वास-प्रस्तुतिः - १०।१०
कायिका कर्म-संयुक्ता
मासाद् ग्राह्या च कालिका।
वृद्धेर् वृद्धिश् चक्र-वृद्धिः
कारिता ऋणिना कृता ॥ १०।१० ॥
मूलम् - १०।१०
कायिका कर्म-संयुक्ता
मासाद् ग्राह्या च कालिका।
वृद्धेर् वृद्धिश् चक्र-वृद्धिः
कारिता ऋणिना कृता ॥ १०।१० ॥
विश्वास-प्रस्तुतिः - १०।११
प्रत्यहं गृह्यते या तु
शिखा-वृद्धिस् तु सा स्मृता।
शिखेव वर्धते नित्यं
शिरश्-च्छेदान् निवर्तते ॥ १०।११ ॥
मूलम् - १०।११
प्रत्यहं गृह्यते या तु
शिखा-वृद्धिस् तु सा स्मृता।
शिखेव वर्धते नित्यं
शिरश्-च्छेदान् निवर्तते ॥ १०।११ ॥
ऋणिकेन तु या वृद्धिर्
अधिका सम्प्रकल्पिता।
आपत्-काल-कृता नित्यं
दातव्या सा तु कारिता \
अन्यथा कारिता वृद्धिर् # न दातव्या कथञ् चन ॥ १०।१२ ॥
विश्वास-प्रस्तुतिः - १०।१३
शिखेव वर्धते नित्यं
शिरश्-च्छेदान् निवर्तते।
मूले दत्ते तथैवैषा
शिखा-वृद्धिस् ततः स्मृता ॥ १०।१३ ॥
मूलम् - १०।१३
शिखेव वर्धते नित्यं
शिरश्-च्छेदान् निवर्तते।
मूले दत्ते तथैवैषा
शिखा-वृद्धिस् ततः स्मृता ॥ १०।१३ ॥
विश्वास-प्रस्तुतिः - १०।१४
गृही स्तोमः शदः क्षेत्राद्
भोग-लाभः प्रकीर्तितः ॥ १०।१४ ॥
मूलम् - १०।१४
गृही स्तोमः शदः क्षेत्राद्
भोग-लाभः प्रकीर्तितः ॥ १०।१४ ॥
विश्वास-प्रस्तुतिः - १०।१५
कायिका भोग-वृद्धिं च
कारितां च शिखात्मिकाम्।
चतुष्टयीं वृद्धिम् आहुश्
चक्र-वृध्या तु पञ्चमीम् ॥ १०।१५ ॥
मूलम् - १०।१५
कायिका भोग-वृद्धिं च
कारितां च शिखात्मिकाम्।
चतुष्टयीं वृद्धिम् आहुश्
चक्र-वृध्या तु पञ्चमीम् ॥ १०।१५ ॥
विश्वास-प्रस्तुतिः - १०।१६
शिखा वृद्धिं कायिकां च
भोग-लाभं तथैव च।
धनी तावत् समादद्याद्
यावन् मूलं न शोधितम् ॥ १०।१६ ॥
मूलम् - १०।१६
शिखा वृद्धिं कायिकां च
भोग-लाभं तथैव च।
धनी तावत् समादद्याद्
यावन् मूलं न शोधितम् ॥ १०।१६ ॥
१०।३ हिरण्यधान्यादीनां वृद्धिः
विश्वास-प्रस्तुतिः - १०।१७
हिरण्ये द्वि-गुणा वृद्धिस्
त्रि-गुणा वस्त्र-कुप्यके।
धान्ये चतुर्-गुणा प्रोक्ता
शद-वाह्य-लवेषु च ॥ १०।१७ ॥
मूलम् - १०।१७
हिरण्ये द्वि-गुणा वृद्धिस्
त्रि-गुणा वस्त्र-कुप्यके।
धान्ये चतुर्-गुणा प्रोक्ता
शद-वाह्य-लवेषु च ॥ १०।१७ ॥
उक्त-पञ्च-गुणा शाके
बीजे ऽक्षौ षड्-गुणा स्मृता।
लवण-स्वेदम् अद्येषु
वृद्धिर् अष्ट-गुणा मता \
गुडे मधुनि चैवोक्ता # प्रयुक्ते चिर-कालिके ॥ १०।१८ ॥
विश्वास-प्रस्तुतिः - १०।१९
तैलानां चैव सर्वेषां
मद्यानां मधु-सर्पिषाम्।
वृद्धिर् अष्ट-गुणा प्रोक्ता
गुडस्य लवणस्य च ॥ १०।१९ ॥
मूलम् - १०।१९
तैलानां चैव सर्वेषां
मद्यानां मधु-सर्पिषाम्।
वृद्धिर् अष्ट-गुणा प्रोक्ता
गुडस्य लवणस्य च ॥ १०।१९ ॥
विश्वास-प्रस्तुतिः - १०।२०
स्यात् कोशानां पञ्च-गुणा
कार्पासस्य चतुर्-गुणा।
काष्ठानां चन्दनादीनां
वृद्धिर् अष्ट-गुणा भवेत् ॥ १०।२० ॥
मूलम् - १०।२०
स्यात् कोशानां पञ्च-गुणा
कार्पासस्य चतुर्-गुणा।
काष्ठानां चन्दनादीनां
वृद्धिर् अष्ट-गुणा भवेत् ॥ १०।२० ॥
विश्वास-प्रस्तुतिः - १०।२१
भागो यद् द्वि-गुणाद् ऊर्ध्वं
चक्र-वृद्धिश् च गृह्यते।
पूर्णे च सोदयं पश्चाद्
वार्द्धुष्यं तद् विगर्हितम् ॥ १०।२१ ॥
मूलम् - १०।२१
भागो यद् द्वि-गुणाद् ऊर्ध्वं
चक्र-वृद्धिश् च गृह्यते।
पूर्णे च सोदयं पश्चाद्
वार्द्धुष्यं तद् विगर्हितम् ॥ १०।२१ ॥
विश्वास-प्रस्तुतिः - १०।२२
अशीति-भागो वर्धेत
लाभे द्वि-गुणताम् इयात्।
प्रयुक्तं सप्तभिर् वर्षैस्
त्रि-भागोअनैर् न संशयः ॥ १०।२२ ॥
मूलम् - १०।२२
अशीति-भागो वर्धेत
लाभे द्वि-गुणताम् इयात्।
प्रयुक्तं सप्तभिर् वर्षैस्
त्रि-भागोअनैर् न संशयः ॥ १०।२२ ॥
विश्वास-प्रस्तुतिः - १०।२३
तृण-काष्ठेष्टका-सूत्र-
किण्व-चर्मास्थि-वर्मणाम्।
हेति-पुष्प-फलानां च
वृद्धिस् तु न निवर्तते ॥ १०।२३ ॥
मूलम् - १०।२३
तृण-काष्ठेष्टका-सूत्र-
किण्व-चर्मास्थि-वर्मणाम्।
हेति-पुष्प-फलानां च
वृद्धिस् तु न निवर्तते ॥ १०।२३ ॥
विश्वास-प्रस्तुतिः - १०।२४
हिरण्य-धान्य-वस्त्राणां
वृद्धिर् द्वि-त्रि-चतुर्-गुणा।
घृतस्याष्ट-गुणा वृद्धिस्
ताम्रादीनां चतुर्-गुणा ॥ १०।२४ ॥
मूलम् - १०।२४
हिरण्य-धान्य-वस्त्राणां
वृद्धिर् द्वि-त्रि-चतुर्-गुणा।
घृतस्याष्ट-गुणा वृद्धिस्
ताम्रादीनां चतुर्-गुणा ॥ १०।२४ ॥
विश्वास-प्रस्तुतिः - १०।२५
शिखा-वृद्धिं कायिकां च
भोगे लाभं तथैव च।
धनी तावत् समादद्याद्
यावन् मूलं न शोधितम् ॥ १०।२५ ॥
मूलम् - १०।२५
शिखा-वृद्धिं कायिकां च
भोगे लाभं तथैव च।
धनी तावत् समादद्याद्
यावन् मूलं न शोधितम् ॥ १०।२५ ॥
विश्वास-प्रस्तुतिः - १०।२६
पादोपचयात् क्रमेणेतरेषाम् ॥ १०।२६ ॥
मूलम् - १०।२६
पादोपचयात् क्रमेणेतरेषाम् ॥ १०।२६ ॥
सर्वेष्व् अर्थ-विवादेषु
वाक्-च्छले नावसीदति।
पर-स्त्री-भूमि-र्णादाने
शास्यो ऽप्य् अर्थान् न हीयते \
समवृद्धिः सदा कुर्याद् # विषमस् तु निवर्तते ॥ १०।२७ ॥
१०।४ धन-वृद्धिः
विश्वास-प्रस्तुतिः - १०।२८
वसिष्ठ-वचन-प्रोक्तां
वृद्धिं वार्द्धुषिके शृणु।
पञ्च माषास् तु विंशत्या
एवं धर्मो न हीयते ॥ १०।२८ ॥
मूलम् - १०।२८
वसिष्ठ-वचन-प्रोक्तां
वृद्धिं वार्द्धुषिके शृणु।
पञ्च माषास् तु विंशत्या
एवं धर्मो न हीयते ॥ १०।२८ ॥
विश्वास-प्रस्तुतिः - १०।२९
माषो विंशति-भागस् तु
पलस्य परिकीर्तितः ॥ १०।२९ ॥
मूलम् - १०।२९
माषो विंशति-भागस् तु
पलस्य परिकीर्तितः ॥ १०।२९ ॥
विश्वास-प्रस्तुतिः - १०।३०
तत्र त्व् इदम् उपेक्षां वा
यः कश्चित् कुरुते नरः।
चतुः-सुवर्णं षण्-णिष्कास्
तस्य दण्डो विधीयते ॥ १०।३० ॥
मूलम् - १०।३०
तत्र त्व् इदम् उपेक्षां वा
यः कश्चित् कुरुते नरः।
चतुः-सुवर्णं षण्-णिष्कास्
तस्य दण्डो विधीयते ॥ १०।३० ॥
विश्वास-प्रस्तुतिः - १०।३१
समूह-कार्य-सिध्य्-अर्थं
राजादीनां च दर्शने।
ततो लभेत यत् किञ्चित्
सर्वेषाम् एव तत् समम् ॥ १०।३१ ॥
मूलम् - १०।३१
समूह-कार्य-सिध्य्-अर्थं
राजादीनां च दर्शने।
ततो लभेत यत् किञ्चित्
सर्वेषाम् एव तत् समम् ॥ १०।३१ ॥
विश्वास-प्रस्तुतिः - १०।३२
सान्तानिकादिषु तथा
धर्म एषां सनातनः।
यत्नैः प्राप्तं रक्षितं वा
गणार्थे वा ऋणं कृतम् ॥ १०।३२ ॥
मूलम् - १०।३२
सान्तानिकादिषु तथा
धर्म एषां सनातनः।
यत्नैः प्राप्तं रक्षितं वा
गणार्थे वा ऋणं कृतम् ॥ १०।३२ ॥
१०।५ अकृत-वृद्धिः
विश्वास-प्रस्तुतिः - १०।३३
स्वदेश-स्थो ऽपि वा यस् तु
न दद्याद् याचितो ऽसकृत्।
स तत्र कारितां वृद्धिम्
अनिच्छन्न् अपि चाहरेत्[?] ॥ १०।३३ ॥
मूलम् - १०।३३
स्वदेश-स्थो ऽपि वा यस् तु
न दद्याद् याचितो ऽसकृत्।
स तत्र कारितां वृद्धिम्
अनिच्छन्न् अपि चाहरेत्[?] ॥ १०।३३ ॥
विश्वास-प्रस्तुतिः - १०।३४
षाण्-मास्यं मासिकं वापि
विभक्तव्यं यथांशतः।
देयं वा निःस्व-वृद्धार्त-
स्त्री-बालातुर-रोगिषु ॥ १०।३४ ॥
मूलम् - १०।३४
षाण्-मास्यं मासिकं वापि
विभक्तव्यं यथांशतः।
देयं वा निःस्व-वृद्धार्त-
स्त्री-बालातुर-रोगिषु ॥ १०।३४ ॥
विश्वास-प्रस्तुतिः - १०।३५
ऋतु-त्रयस्योपरिष्टाद्
धनं वृद्धिम् अवाप्नुयात्।
एवम् आदिष्व् अशीति
भाग-वृद्धिर् विवक्षिता ॥ १०।३५ ॥
मूलम् - १०।३५
ऋतु-त्रयस्योपरिष्टाद्
धनं वृद्धिम् अवाप्नुयात्।
एवम् आदिष्व् अशीति
भाग-वृद्धिर् विवक्षिता ॥ १०।३५ ॥
न निःस्रवति यत् तत् स्याद्
धनिको मूल-भाग् भवेत्।
द्वि-गुणाद् अपि चोत्कर्षे
कालिका यस्य चादिनाम् \
विवाद-न्याय-तत्त्व-ज्ञैस् # तदा राजा विनिर्णयेत् ॥ १०।३६ ॥
१०।६ आधिः
विश्वास-प्रस्तुतिः - १०।३७
आधिस् तु भुज्यते तावद्
यावत् तन् न प्रदीयते ॥ १०।३७ ॥
मूलम् - १०।३७
आधिस् तु भुज्यते तावद्
यावत् तन् न प्रदीयते ॥ १०।३७ ॥
विश्वास-प्रस्तुतिः - १०।३८
आधिर् बन्धः समाख्यातः
स च प्रोक्तश् चतुर्-विधः।
जङ्गमः स्थावरश् चैव
गोप्यो भोग्यस् तथैव च ॥ १०।३८ ॥
मूलम् - १०।३८
आधिर् बन्धः समाख्यातः
स च प्रोक्तश् चतुर्-विधः।
जङ्गमः स्थावरश् चैव
गोप्यो भोग्यस् तथैव च ॥ १०।३८ ॥
विश्वास-प्रस्तुतिः - १०।३९
यादृच्छिकः सावधिश् च
लेख्यारुढो ऽथ साक्षिमान्।
अशान्त-लाभे च ऋणे
तथा पूर्णे ऽवधौ धनी ॥ १०।३९ ॥
मूलम् - १०।३९
यादृच्छिकः सावधिश् च
लेख्यारुढो ऽथ साक्षिमान्।
अशान्त-लाभे च ऋणे
तथा पूर्णे ऽवधौ धनी ॥ १०।३९ ॥
विश्वास-प्रस्तुतिः - १०।४०
यो भुङ्क्ते बन्धकं लोभान्
न स लाभो भवेत् पुनः।
न्यासवत् परिपाल्यो ऽसौ
वृद्धिर् नश्यते हापिते ॥ १०।४० ॥
मूलम् - १०।४०
यो भुङ्क्ते बन्धकं लोभान्
न स लाभो भवेत् पुनः।
न्यासवत् परिपाल्यो ऽसौ
वृद्धिर् नश्यते हापिते ॥ १०।४० ॥
विश्वास-प्रस्तुतिः - १०।४१
दैव-राजोपघाते च
यथाधिर् नाशम् आप्नुयात्।
तत्राधिं दापयेद् दद्यात्
सोदयं धनम् अन्यथा ॥ १०।४१ ॥
मूलम् - १०।४१
दैव-राजोपघाते च
यथाधिर् नाशम् आप्नुयात्।
तत्राधिं दापयेद् दद्यात्
सोदयं धनम् अन्यथा ॥ १०।४१ ॥
विश्वास-प्रस्तुतिः - १०।४२
बन्ध-हस्तस्य यद् देयं
चित्रेण चरितेन वा।
अदत्ते ऽर्थे ऽखिलं बन्धं
नाकामो दाप्यते क्वचित् ॥ १०।४२ ॥
मूलम् - १०।४२
बन्ध-हस्तस्य यद् देयं
चित्रेण चरितेन वा।
अदत्ते ऽर्थे ऽखिलं बन्धं
नाकामो दाप्यते क्वचित् ॥ १०।४२ ॥
विश्वास-प्रस्तुतिः - १०।४३
भुक्ते चासारतां प्राप्ते
मूल-हानिः प्रजायते।
बहु-मूल्यं तत्र नष्टम्
ऋणिकं तत्र तोषयेत् ॥ १०।४३ ॥
मूलम् - १०।४३
भुक्ते चासारतां प्राप्ते
मूल-हानिः प्रजायते।
बहु-मूल्यं तत्र नष्टम्
ऋणिकं तत्र तोषयेत् ॥ १०।४३ ॥
विश्वास-प्रस्तुतिः - १०।४४
क्षेत्रम् एकं द्वयोर् बन्धे
दत्तं यत् सम-कालिकम्।
येन भुक्तं भवेत् पूर्वं
तस्य सिद्धिम् अवाप्नुयात् ॥ १०।४४ ॥
मूलम् - १०।४४
क्षेत्रम् एकं द्वयोर् बन्धे
दत्तं यत् सम-कालिकम्।
येन भुक्तं भवेत् पूर्वं
तस्य सिद्धिम् अवाप्नुयात् ॥ १०।४४ ॥
विश्वास-प्रस्तुतिः - १०।४५
तुल्य-कालोपस्थितयोर्
द्वयोर् अपि समं भवेत्।
प्रदाने विक्रये चैव
विधिः स परिकीर्तितः ॥ १०।४५ ॥
मूलम् - १०।४५
तुल्य-कालोपस्थितयोर्
द्वयोर् अपि समं भवेत्।
प्रदाने विक्रये चैव
विधिः स परिकीर्तितः ॥ १०।४५ ॥
विश्वास-प्रस्तुतिः - १०।४६
आधानं विक्रयो दानं
साक्षि-लेख्य-कृतं यदा।
एक-क्रिया-निबन्धेन
लेख्यं तत्रापहारकम् ॥ १०।४६ ॥
मूलम् - १०।४६
आधानं विक्रयो दानं
साक्षि-लेख्य-कृतं यदा।
एक-क्रिया-निबन्धेन
लेख्यं तत्रापहारकम् ॥ १०।४६ ॥
विश्वास-प्रस्तुतिः - १०।४७
अनिर्दिष्टं च निर्दिष्टं
एकत्र च विशेषितम्।
विशेष-लिखितं ज्याय
इति कात्यायनो ऽब्रवीत् ॥ १०।४७ ॥
मूलम् - १०।४७
अनिर्दिष्टं च निर्दिष्टं
एकत्र च विशेषितम्।
विशेष-लिखितं ज्याय
इति कात्यायनो ऽब्रवीत् ॥ १०।४७ ॥
विश्वास-प्रस्तुतिः - १०।४८
हिरण्यं द्विगुणीभूते
पूर्णे काले धृतावधौ।
बन्धकस्य धनी स्वामी
द्वि-सप्ताहं प्रतीक्ष्य तु ॥ १०।४८ ॥
मूलम् - १०।४८
हिरण्यं द्विगुणीभूते
पूर्णे काले धृतावधौ।
बन्धकस्य धनी स्वामी
द्वि-सप्ताहं प्रतीक्ष्य तु ॥ १०।४८ ॥
तद्-अन्तरा धनं दत्त्वा
ऋणी बन्धम् अवाप्नुयात्।
पूर्णे विधौ सान्त-लाभे
बन्ध-स्वामी ततो भवेत् \
अनिर्गते दशाहे तु # ऋणी मोक्षितुम् अर्हति ॥ १०।४९ ॥
विश्वास-प्रस्तुतिः - १०।५०
गोप्याधिर् द्वि-गुणाद् ऊर्ध्वं
कृत-कालो यथा-विधि।
श्रावयित्वा ऋणि-कुले
भोक्तव्यः समनन्तरम् ॥ १०।५० ॥
मूलम् - १०।५०
गोप्याधिर् द्वि-गुणाद् ऊर्ध्वं
कृत-कालो यथा-विधि।
श्रावयित्वा ऋणि-कुले
भोक्तव्यः समनन्तरम् ॥ १०।५० ॥
विश्वास-प्रस्तुतिः - १०।५१
हिरण्ये द्विगुणीभूते
नष्टे चैवाधम-र्णके।
द्रव्यं तदीयं सङ्गृह्य
विक्रीणीत स-साक्षिकम् ॥ १०।५१ ॥
मूलम् - १०।५१
हिरण्ये द्विगुणीभूते
नष्टे चैवाधम-र्णके।
द्रव्यं तदीयं सङ्गृह्य
विक्रीणीत स-साक्षिकम् ॥ १०।५१ ॥
विश्वास-प्रस्तुतिः - १०।५२
रक्षेद् वा कृत-मूल्यं तु
दशाहं जन-संसदि।
ऋणानुरूपां परतो
गृहीत्वान्यं तु वर्जयेत् ॥ १०।५२ ॥
मूलम् - १०।५२
रक्षेद् वा कृत-मूल्यं तु
दशाहं जन-संसदि।
ऋणानुरूपां परतो
गृहीत्वान्यं तु वर्जयेत् ॥ १०।५२ ॥
विश्वास-प्रस्तुतिः - १०।५३
न भुङ्क्ते यः स्वम् आधानं
नादद्यान् न निवेदयेत्।
प्रमीत-साक्षी ऋणिकः
तस्य लेख्यम् अपार्थकम् ॥ १०।५३ ॥
मूलम् - १०।५३
न भुङ्क्ते यः स्वम् आधानं
नादद्यान् न निवेदयेत्।
प्रमीत-साक्षी ऋणिकः
तस्य लेख्यम् अपार्थकम् ॥ १०।५३ ॥
विश्वास-प्रस्तुतिः - १०।५४
गृह-वार्य्-आपणं धान्यं
पशु-स्त्री-वाहनानि च।
उपेक्षया विनश्यन्ति
यान्ति चासारतां तथा ॥ १०।५४ ॥
मूलम् - १०।५४
गृह-वार्य्-आपणं धान्यं
पशु-स्त्री-वाहनानि च।
उपेक्षया विनश्यन्ति
यान्ति चासारतां तथा ॥ १०।५४ ॥
विश्वास-प्रस्तुतिः - १०।५५
स्व-धनं च स्थिरी-कृत्य
गणनाकुशलैर् नृभिः।
तद्-बन्धु-ज्ञाति-विदितं
प्रगृह्णन्न् आपराध्नुयात् ॥ १०।५५ ॥
मूलम् - १०।५५
स्व-धनं च स्थिरी-कृत्य
गणनाकुशलैर् नृभिः।
तद्-बन्धु-ज्ञाति-विदितं
प्रगृह्णन्न् आपराध्नुयात् ॥ १०।५५ ॥
विश्वास-प्रस्तुतिः - १०।५६
विवादो ऽष्टा-दशोपेतः
पूर्वोत्तर-विशेषितः।
व्याख्यातस् त्व् अधुना सम्यक्-
क्रिया-भेदान् निबोधत ॥ १०।५६ ॥
मूलम् - १०।५६
विवादो ऽष्टा-दशोपेतः
पूर्वोत्तर-विशेषितः।
व्याख्यातस् त्व् अधुना सम्यक्-
क्रिया-भेदान् निबोधत ॥ १०।५६ ॥
विश्वास-प्रस्तुतिः - १०।५७
पूर्वं कृता क्रिया या तु
पालनीया तथैव सा।
अन्यथा क्रियते यत्र
क्रिया-भेदस् तदा भवेत् ॥ १०।५७ ॥
मूलम् - १०।५७
पूर्वं कृता क्रिया या तु
पालनीया तथैव सा।
अन्यथा क्रियते यत्र
क्रिया-भेदस् तदा भवेत् ॥ १०।५७ ॥
विश्वास-प्रस्तुतिः - १०।५८
विहाय करणं पूर्वं
धनिको वाधम-र्णिकः।
कुर्यान् न्यूनाधिकं तुल्यं
क्रिया-भेदः स उच्यते ॥ १०।५८ ॥
मूलम् - १०।५८
विहाय करणं पूर्वं
धनिको वाधम-र्णिकः।
कुर्यान् न्यूनाधिकं तुल्यं
क्रिया-भेदः स उच्यते ॥ १०।५८ ॥
विश्वास-प्रस्तुतिः - १०।५९
द्विकेनार्थं समादाय
प्रपन्नः पञ्चकं तु यः।
लाभं तत्र प्रमाणं स्यात्
पश्चिमं यद् धि निश्चितं ॥ १०।५९ ॥
मूलम् - १०।५९
द्विकेनार्थं समादाय
प्रपन्नः पञ्चकं तु यः।
लाभं तत्र प्रमाणं स्यात्
पश्चिमं यद् धि निश्चितं ॥ १०।५९ ॥
विश्वास-प्रस्तुतिः - १०।६०
अस्वामिना कृतो यस् तु
दायो विक्रय एव वा।
अकृतः स तु विज्ञेयो
व्यवहारे यथा-स्थितिः ॥ १०।६० ॥
मूलम् - १०।६०
अस्वामिना कृतो यस् तु
दायो विक्रय एव वा।
अकृतः स तु विज्ञेयो
व्यवहारे यथा-स्थितिः ॥ १०।६० ॥
विश्वास-प्रस्तुतिः - १०।६१
उत्तरोत्तर-बन्धेन
प्राग्-बन्धः शिथिलो भवेत्।
यः पश्चिमः क्रिया-कारः
स पूर्वाद् बलवत्तरः ॥ १०।६१ ॥
मूलम् - १०।६१
उत्तरोत्तर-बन्धेन
प्राग्-बन्धः शिथिलो भवेत्।
यः पश्चिमः क्रिया-कारः
स पूर्वाद् बलवत्तरः ॥ १०।६१ ॥
विश्वास-प्रस्तुतिः - १०।६२
न्यासं कृत्वा परत्राधिं
कृत्वा वाधिं करोति यः।
विक्रयं वा क्रिया तत्र
पश्चिमा बलवत्तरा ॥ १०।६२ ॥
मूलम् - १०।६२
न्यासं कृत्वा परत्राधिं
कृत्वा वाधिं करोति यः।
विक्रयं वा क्रिया तत्र
पश्चिमा बलवत्तरा ॥ १०।६२ ॥
विश्वास-प्रस्तुतिः - १०।६३
कृतं चेद् एक-दिवसे
विक्रयाधिप्रतिग्रहम्।
त्रयाणाम् अपि सन्दिग्धे
कथं तत्र विचारणा ॥ १०।६३ ॥
मूलम् - १०।६३
कृतं चेद् एक-दिवसे
विक्रयाधिप्रतिग्रहम्।
त्रयाणाम् अपि सन्दिग्धे
कथं तत्र विचारणा ॥ १०।६३ ॥
विश्वास-प्रस्तुतिः - १०।६४
त्रीण्य् एवात्र प्रमाणानि
विभजेयुर् यथांशतः।
उभौ चार्थानुसारेण
त्रि-भागेन प्रतिग्रही ॥ १०।६४ ॥
मूलम् - १०।६४
त्रीण्य् एवात्र प्रमाणानि
विभजेयुर् यथांशतः।
उभौ चार्थानुसारेण
त्रि-भागेन प्रतिग्रही ॥ १०।६४ ॥
विश्वास-प्रस्तुतिः - १०।६५
सामकं कर्षितं तत् स्यात्
तदा न धन-भाग्-धनी।
ऋणी च न लभेद् बन्धं
परस्पर-मतं विना ॥ १०।६५ ॥
मूलम् - १०।६५
सामकं कर्षितं तत् स्यात्
तदा न धन-भाग्-धनी।
ऋणी च न लभेद् बन्धं
परस्पर-मतं विना ॥ १०।६५ ॥
विश्वास-प्रस्तुतिः - १०।६६
धनं मूली-कृतं दत्त्वा
यद् आधिं प्रार्थयेद् ऋणी।
तदैव तस्य मोक्तव्यस् त्व्
अन्यथा दोष-भाग्-धनी ॥ १०।६६ ॥
मूलम् - १०।६६
धनं मूली-कृतं दत्त्वा
यद् आधिं प्रार्थयेद् ऋणी।
तदैव तस्य मोक्तव्यस् त्व्
अन्यथा दोष-भाग्-धनी ॥ १०।६६ ॥
विश्वास-प्रस्तुतिः - १०।६७
क्षेत्रादिकं यदा भुक्तम्
उत्पन्नम् अधिकं ततः।
मूलोदयं प्रविष्टं चेत्
तद् आधिं प्राप्नुयाद् ऋणी ॥ १०।६७ ॥
मूलम् - १०।६७
क्षेत्रादिकं यदा भुक्तम्
उत्पन्नम् अधिकं ततः।
मूलोदयं प्रविष्टं चेत्
तद् आधिं प्राप्नुयाद् ऋणी ॥ १०।६७ ॥
प्रयोजके ऽसति धनं
मूले न्यस्याधिम् आप्नुयात्।
परिभाष्य यदा क्षेत्रं
दद्यात् तु धनिने ऋणी \
तदा तच् छान्त-लाभे ऽर्थे # मोक्तव्यम् इति निश्चयः ॥ १०।६८ ॥
विश्वास-प्रस्तुतिः - १०।६९
आधिस् तु सोदये द्रव्ये
प्रदातव्यं त्वया मम।
कुसीदाधिविधिस् त्व् एष
धर्म्यः सम्परिकीर्तितः ॥ १०।६९ ॥
मूलम् - १०।६९
आधिस् तु सोदये द्रव्ये
प्रदातव्यं त्वया मम।
कुसीदाधिविधिस् त्व् एष
धर्म्यः सम्परिकीर्तितः ॥ १०।६९ ॥
विश्वास-प्रस्तुतिः - १०।७०
यत्राधिकं गृह-क्षेत्रं
भोगेन प्रकर्षान्वितम्।
तत्र र्णी चाप्नुयाद् बन्धं
धनी चैव ऋणं तथा ॥ १०।७० ॥
मूलम् - १०।७०
यत्राधिकं गृह-क्षेत्रं
भोगेन प्रकर्षान्वितम्।
तत्र र्णी चाप्नुयाद् बन्धं
धनी चैव ऋणं तथा ॥ १०।७० ॥
विश्वास-प्रस्तुतिः - १०।७१
पूर्णे प्रकर्षे तत्-साम्यम्
उभयोः परिकीर्तितम्।
अपूर्णे तु प्रकुर्यातां
प्रस्पर-मतेन तौ ॥ १०।७१ ॥
मूलम् - १०।७१
पूर्णे प्रकर्षे तत्-साम्यम्
उभयोः परिकीर्तितम्।
अपूर्णे तु प्रकुर्यातां
प्रस्पर-मतेन तौ ॥ १०।७१ ॥
विश्वास-प्रस्तुतिः - १०।७२
यदि प्रकर्षितं तत् स्यात्
तदा न धन-भाग्-धनी।
ऋणी न लभते बन्धं
परस्पर-मतं विना ॥ १०।७२ ॥
मूलम् - १०।७२
यदि प्रकर्षितं तत् स्यात्
तदा न धन-भाग्-धनी।
ऋणी न लभते बन्धं
परस्पर-मतं विना ॥ १०।७२ ॥
१०।७। प्रतिभूः
विश्वास-प्रस्तुतिः - १०।७३
दर्शने प्रत्यये दाने
ऋणि-द्रव्यार्पणे तथा।
चतुष्-प्रकारः प्रतिभूः
शास्त्रे दृष्टो मनीषिभिः ॥ १०।७३ ॥
मूलम् - १०।७३
दर्शने प्रत्यये दाने
ऋणि-द्रव्यार्पणे तथा।
चतुष्-प्रकारः प्रतिभूः
शास्त्रे दृष्टो मनीषिभिः ॥ १०।७३ ॥
विश्वास-प्रस्तुतिः - १०।७४
आहैको दर्शयामीति
साधुर् एषो ऽपरो ऽब्रवीत्।
दाताहम् एतद् द्रविणम्
अर्पताम्य् अपरो वदेत् ॥ १०।७४ ॥
मूलम् - १०।७४
आहैको दर्शयामीति
साधुर् एषो ऽपरो ऽब्रवीत्।
दाताहम् एतद् द्रविणम्
अर्पताम्य् अपरो वदेत् ॥ १०।७४ ॥
विश्वास-प्रस्तुतिः - १०।७५
दर्शन-प्रतिभूर्यस् तु
देशे काले च दर्शयेत्।
निबन्धं वावहेत् तत्र
दैव-राज-कृताद् ऋते ॥ १०।७५ ॥
मूलम् - १०।७५
दर्शन-प्रतिभूर्यस् तु
देशे काले च दर्शयेत्।
निबन्धं वावहेत् तत्र
दैव-राज-कृताद् ऋते ॥ १०।७५ ॥
विश्वास-प्रस्तुतिः - १०।७६
नष्टस्यान्वेषणे कालं
दद्यात् प्रतिभुवे धनी।
देशाध्व-रूपतः पक्षं
मासं सार्धम् अथापि वा ॥ १०।७६ ॥
मूलम् - १०।७६
नष्टस्यान्वेषणे कालं
दद्यात् प्रतिभुवे धनी।
देशाध्व-रूपतः पक्षं
मासं सार्धम् अथापि वा ॥ १०।७६ ॥
विश्वास-प्रस्तुतिः - १०।७७
यो यस्य प्रतिभूस् तिष्ठेद्
दर्शनायेह मानवः।
अदर्शयं स तं तस्मै
प्रयच्छेत् स्व-धनाद् ऋणम् ॥ १०।७७ ॥
मूलम् - १०।७७
यो यस्य प्रतिभूस् तिष्ठेद्
दर्शनायेह मानवः।
अदर्शयं स तं तस्मै
प्रयच्छेत् स्व-धनाद् ऋणम् ॥ १०।७७ ॥
विश्वास-प्रस्तुतिः - १०।७८
आद्यौ तु वितथे दाप्यौ
तत्-कालावेदितं धनम्।
उत्तरौ तु विसंवादे
तौ विना तत्-सुतौ तथा ॥ १०।७८ ॥
मूलम् - १०।७८
आद्यौ तु वितथे दाप्यौ
तत्-कालावेदितं धनम्।
उत्तरौ तु विसंवादे
तौ विना तत्-सुतौ तथा ॥ १०।७८ ॥
विश्वास-प्रस्तुतिः - १०।७९
स्वामी-रिपु-निरुद्धाधिकृत-दण्डित-संशयाः ।
रिक्थि-मात्र[मित्र]-अन्तावसायि[अन्तेवासि]-राजवृत्त-वीतराग-
व्रति-दरिद्र-बाल-वृद्ध-स्त्री-रुग्णा न प्रतिभुवः ॥ १०।७९ ॥
मूलम् - १०।७९
स्वामी-रिपु-निरुद्धाधिकृत-दण्डित-संशयाः ।
रिक्थि-मात्र[मित्र]-अन्तावसायि[अन्तेवासि]-राजवृत्त-वीतराग-
व्रति-दरिद्र-बाल-वृद्ध-स्त्री-रुग्णा न प्रतिभुवः ॥ १०।७९ ॥
विश्वास-प्रस्तुतिः - १०।८०
उपस्थाप्य-विपत्तौ उपस्थाप्यस्य पुनः प्रतिभूः दाप्यः ॥ १०।८० ॥
मूलम् - १०।८०
उपस्थाप्य-विपत्तौ उपस्थाप्यस्य पुनः प्रतिभूः दाप्यः ॥ १०।८० ॥
विश्वास-प्रस्तुतिः - १०।८१
पुत्रेणापि समं देयम्
ऋणं सर्वं तु पैतृकम् ॥ १०।८१ ॥
मूलम् - १०।८१
पुत्रेणापि समं देयम्
ऋणं सर्वं तु पैतृकम् ॥ १०।८१ ॥
विश्वास-प्रस्तुतिः - १०।८२
प्रतिभाव्यं तु यो दद्यात्
पीडितः प्रतिभावितः।
त्रि-पक्षात् परतः सो ऽर्थं
द्वि-गुणं लब्धुम् अर्हति ॥ १०।८२ ॥
मूलम् - १०।८२
प्रतिभाव्यं तु यो दद्यात्
पीडितः प्रतिभावितः।
त्रि-पक्षात् परतः सो ऽर्थं
द्वि-गुणं लब्धुम् अर्हति ॥ १०।८२ ॥
विश्वास-प्रस्तुतिः - १०।८३
साधुत्वाच् चेन् मन्दधिय
ऋणं दद्युर् अभाविताः।
यद् अर्थं दापितास् तस्मान्
न लभेरन् कथञ् चन ॥ १०।८३ ॥
मूलम् - १०।८३
साधुत्वाच् चेन् मन्दधिय
ऋणं दद्युर् अभाविताः।
यद् अर्थं दापितास् तस्मान्
न लभेरन् कथञ् चन ॥ १०।८३ ॥
विश्वास-प्रस्तुतिः - १०।८४
नात्यन्तं पीडनीयाः स्युर्
ऋणं दाप्याः शनैः शनैः।
स्व-साक्ष्येण[-ए न] नियोज्याः स्युर्
विधिः प्रतिभुवाम् अयम् ॥ १०।८४ ॥
मूलम् - १०।८४
नात्यन्तं पीडनीयाः स्युर्
ऋणं दाप्याः शनैः शनैः।
स्व-साक्ष्येण[-ए न] नियोज्याः स्युर्
विधिः प्रतिभुवाम् अयम् ॥ १०।८४ ॥
विश्वास-प्रस्तुतिः - १०।८५
नष्टे मृते वा ऋणिके
धनी पत्रं प्रदर्शयेत्।
तत्-कालावधिसंयुक्तं
स्थान-लेख्यं च कारयेत् ॥ १०।८५ ॥
मूलम् - १०।८५
नष्टे मृते वा ऋणिके
धनी पत्रं प्रदर्शयेत्।
तत्-कालावधिसंयुक्तं
स्थान-लेख्यं च कारयेत् ॥ १०।८५ ॥
विश्वास-प्रस्तुतिः - १०।८६
प्रतिभुवा तु यद् दत्तम्
अपृष्टम् ऋणिके धनम्।
द्वि-गुणं न प्रतिभुवे
प्रदेयम् ऋणिकेन तु ॥ १०।८६ ॥
मूलम् - १०।८६
प्रतिभुवा तु यद् दत्तम्
अपृष्टम् ऋणिके धनम्।
द्वि-गुणं न प्रतिभुवे
प्रदेयम् ऋणिकेन तु ॥ १०।८६ ॥
धर्मोपधि-बलात् कारैर्
गृह-संरोधनेन च।
प्रतिपन्नम् ऋणं दाप्यः
सामादिभिर् उपक्रमैः \
धर्मोपधि-बलात् कारैर् # गृह-संरोधनेन च ॥ १०।८७ ॥
विश्वास-प्रस्तुतिः - १०।८८
सुहृत्-सम्बन्धि-सन्दिष्टैः
सामोक्त्यानुगमेन च।
प्रायेण धनिने दाप्यो
धर्म एष उदाहृतः ॥ १०।८८ ॥
मूलम् - १०।८८
सुहृत्-सम्बन्धि-सन्दिष्टैः
सामोक्त्यानुगमेन च।
प्रायेण धनिने दाप्यो
धर्म एष उदाहृतः ॥ १०।८८ ॥
विश्वास-प्रस्तुतिः - १०।८९
ब्राह्मणस् तु परिक्षीणः
शनैर् दाप्यो यथोदयम् ॥ १०।८९ ॥
मूलम् - १०।८९
ब्राह्मणस् तु परिक्षीणः
शनैर् दाप्यो यथोदयम् ॥ १०।८९ ॥
विश्वास-प्रस्तुतिः - १०।९०
छद्मना याचितं चार्थम्
आनीय ऋणिकाद् धनी।
अन्वाहितादि वाहृत्य
दाप्यते यत्र सोपधिः ॥ १०।९० ॥
मूलम् - १०।९०
छद्मना याचितं चार्थम्
आनीय ऋणिकाद् धनी।
अन्वाहितादि वाहृत्य
दाप्यते यत्र सोपधिः ॥ १०।९० ॥
विश्वास-प्रस्तुतिः - १०।९१
यदा स्व-गृहम् आनीय
ताडनाद्यैर् उपक्रमैः।
ऋणिको दाप्यते यत्र
बलात् कारः स कीर्तितः ॥ १०।९१ ॥
मूलम् - १०।९१
यदा स्व-गृहम् आनीय
ताडनाद्यैर् उपक्रमैः।
ऋणिको दाप्यते यत्र
बलात् कारः स कीर्तितः ॥ १०।९१ ॥
विश्वास-प्रस्तुतिः - १०।९२
कर्मणापि समं कुर्याद्
धनिकं वाधम-र्णिकः।
समो ऽपकृष्ट-जातिश् च
दद्याच् छेयांस् तु तच्-छनैः ॥ १०।९२ ॥
मूलम् - १०।९२
कर्मणापि समं कुर्याद्
धनिकं वाधम-र्णिकः।
समो ऽपकृष्ट-जातिश् च
दद्याच् छेयांस् तु तच्-छनैः ॥ १०।९२ ॥
विश्वास-प्रस्तुतिः - १०।९३
हीन-जातिं परिक्षीणम्
ऋणार्थे कर्म कारयेत्।
ब्राह्मणस् तु परिक्षीणः
शनैर् दाप्यो यथोदयम् ॥ १०।९३ ॥
मूलम् - १०।९३
हीन-जातिं परिक्षीणम्
ऋणार्थे कर्म कारयेत्।
ब्राह्मणस् तु परिक्षीणः
शनैर् दाप्यो यथोदयम् ॥ १०।९३ ॥
विश्वास-प्रस्तुतिः - १०।९४
दार-पुत्र-पशून् बध्वा
कृत्वा द्वारोपवेशनम्।
यत्र-र्णी दाप्यते ऽर्थं स्वं
तद् आचरितम् उच्यते ॥ १०।९४ ॥
मूलम् - १०।९४
दार-पुत्र-पशून् बध्वा
कृत्वा द्वारोपवेशनम्।
यत्र-र्णी दाप्यते ऽर्थं स्वं
तद् आचरितम् उच्यते ॥ १०।९४ ॥
विश्वास-प्रस्तुतिः - १०।९५
प्रतिपन्नस्य धर्मो ऽयं
व्यपलापी तु संसदि।
लेख्येन साक्षिभिर् वापि
भावयित्वा प्रदाप्यते ॥ १०।९५ ॥
मूलम् - १०।९५
प्रतिपन्नस्य धर्मो ऽयं
व्यपलापी तु संसदि।
लेख्येन साक्षिभिर् वापि
भावयित्वा प्रदाप्यते ॥ १०।९५ ॥
विश्वास-प्रस्तुतिः - १०।९६
प्रदातव्यं यद् भवति
न्यायतस् तद् ददाम्य् अहम्।
एवं यत्र-र्णिको ब्रूते
क्रिया-वादी स उच्यते ॥ १०।९६ ॥
मूलम् - १०।९६
प्रदातव्यं यद् भवति
न्यायतस् तद् ददाम्य् अहम्।
एवं यत्र-र्णिको ब्रूते
क्रिया-वादी स उच्यते ॥ १०।९६ ॥
विश्वास-प्रस्तुतिः - १०।९७
न रोद्धव्यः क्रिया-वादी
सन्दिग्धे ऽर्थे कथञ् चन।
आसेधयंस् त्व् अनासेध्यं
दण्ड्यो भवति धर्मतः ॥ १०।९७ ॥
मूलम् - १०।९७
न रोद्धव्यः क्रिया-वादी
सन्दिग्धे ऽर्थे कथञ् चन।
आसेधयंस् त्व् अनासेध्यं
दण्ड्यो भवति धर्मतः ॥ १०।९७ ॥
विश्वास-प्रस्तुतिः - १०।९८
रूप-सङ्ख्यादि-लाभेषु
यत्र भ्रान्तिर् द्वयोर् भवेत्।
देयानादेययोर् वापि
सन्दिग्धो ऽर्थः स कीर्तितः ॥ १०।९८ ॥
मूलम् - १०।९८
रूप-सङ्ख्यादि-लाभेषु
यत्र भ्रान्तिर् द्वयोर् भवेत्।
देयानादेययोर् वापि
सन्दिग्धो ऽर्थः स कीर्तितः ॥ १०।९८ ॥
विश्वास-प्रस्तुतिः - १०।९९
पूर्णावधौ शान्त-लाभे
ऋणाम् उद्ग्राहयेद् धनी।
धारयेद् वा ऋणी लेख्यं
चक्र-वृद्धि-व्यवस्थया ॥ १०।९९ ॥
मूलम् - १०।९९
पूर्णावधौ शान्त-लाभे
ऋणाम् उद्ग्राहयेद् धनी।
धारयेद् वा ऋणी लेख्यं
चक्र-वृद्धि-व्यवस्थया ॥ १०।९९ ॥
विश्वास-प्रस्तुतिः - १०।१००
द्वि-गुणस्योपरि यदा
चक्र-वृद्धिः प्रगृह्यते।
भोग-लाभस् तदा तत्र
मूलं स्यात् सोदयं नृणाम् ॥ १०।१०० ॥
मूलम् - १०।१००
द्वि-गुणस्योपरि यदा
चक्र-वृद्धिः प्रगृह्यते।
भोग-लाभस् तदा तत्र
मूलं स्यात् सोदयं नृणाम् ॥ १०।१०० ॥
विश्वास-प्रस्तुतिः - १०।१०१
अनावेद्य तु राज्ञे यः
सन्दिग्धे ऽर्थे प्रवर्तते।
प्रसह्य स विनेयः स्यात्
स चाप्य् अर्थो न सिध्यति ॥ १०।१०१ ॥
मूलम् - १०।१०१
अनावेद्य तु राज्ञे यः
सन्दिग्धे ऽर्थे प्रवर्तते।
प्रसह्य स विनेयः स्यात्
स चाप्य् अर्थो न सिध्यति ॥ १०।१०१ ॥
विश्वास-प्रस्तुतिः - १०।१०२
पर-हस्ताद् गृहीतं यत्
कुषीद-विधिना ऋणम्।
येन यत्र यथा देयम्
अदेयं चोच्यते ऽधुना ॥ १०।१०२ ॥
मूलम् - १०।१०२
पर-हस्ताद् गृहीतं यत्
कुषीद-विधिना ऋणम्।
येन यत्र यथा देयम्
अदेयं चोच्यते ऽधुना ॥ १०।१०२ ॥
विश्वास-प्रस्तुतिः - १०।१०३
याचमानाय दातव्यम्
अल्प-कालम् ऋणं कृतम्।
पूर्णे ऽवधौ शान्त-लाभम्
अभावे च पितुः सुतैः ॥ १०।१०३ ॥
मूलम् - १०।१०३
याचमानाय दातव्यम्
अल्प-कालम् ऋणं कृतम्।
पूर्णे ऽवधौ शान्त-लाभम्
अभावे च पितुः सुतैः ॥ १०।१०३ ॥
विश्वास-प्रस्तुतिः - १०।१०४
तपस्वी चाग्निहोत्री च
ऋणवान् म्रियते यदि।
तपस्या चाग्निहोत्रं च
सर्वं तद् धनिनो भवेत् ॥ १०।१०४ ॥
मूलम् - १०।१०४
तपस्वी चाग्निहोत्री च
ऋणवान् म्रियते यदि।
तपस्या चाग्निहोत्रं च
सर्वं तद् धनिनो भवेत् ॥ १०।१०४ ॥
विश्वास-प्रस्तुतिः - १०।१०५
निर्धनम् ऋणिनं कर्म
गृहमानीय कारयेत्।
शौण्डिकाद्यं ब्राह्मणस् तु
दापनीयः शनैः शनैः ॥ १०।१०५ ॥
मूलम् - १०।१०५
निर्धनम् ऋणिनं कर्म
गृहमानीय कारयेत्।
शौण्डिकाद्यं ब्राह्मणस् तु
दापनीयः शनैः शनैः ॥ १०।१०५ ॥
विश्वास-प्रस्तुतिः - १०।१०६
धन-स्त्री-हारि-पुत्राणां पूर्वी-भावे यथोत्तरं आधमर्ण्यं ॥ १०।१०६ ॥
मूलम् - १०।१०६
धन-स्त्री-हारि-पुत्राणां पूर्वी-भावे यथोत्तरं आधमर्ण्यं ॥ १०।१०६ ॥
विश्वास-प्रस्तुतिः - १०।१०७
तद्-अभावे क्रमशो ऽन्येषां रिक्थ-भाजाम् ॥ १०।१०७ ॥
मूलम् - १०।१०७
तद्-अभावे क्रमशो ऽन्येषां रिक्थ-भाजाम् ॥ १०।१०७ ॥
१०।८। देयानि ऋणानि
विश्वास-प्रस्तुतिः - १०।१०८
ऋणं धर्मादितो ग्राह्यं
यस् तूपरि न लेखयेत्।
न चैवोपगतं दद्यात्
तस्य तद्-वृद्धिम् आप्नुयात् ॥ १०।१०८ ॥
मूलम् - १०।१०८
ऋणं धर्मादितो ग्राह्यं
यस् तूपरि न लेखयेत्।
न चैवोपगतं दद्यात्
तस्य तद्-वृद्धिम् आप्नुयात् ॥ १०।१०८ ॥
विश्वास-प्रस्तुतिः - १०।१०९
व्याधितोन्मत्त-वृद्धानां
तथा दीर्घ-प्रवासिनाम्।
ऋणम् एवं-विधं पुत्रान्
जीवताम् अपि दापयेत् ॥ १०।१०९ ॥
मूलम् - १०।१०९
व्याधितोन्मत्त-वृद्धानां
तथा दीर्घ-प्रवासिनाम्।
ऋणम् एवं-विधं पुत्रान्
जीवताम् अपि दापयेत् ॥ १०।१०९ ॥
विश्वास-प्रस्तुतिः - १०।११०
सान्निध्ये ऽपि पितुः पुत्रैर्
ऋणं देयं विभावितम्।
जात्यन्ध-पतितोन्मत्त
क्षय-श्वित्रादि-रोगिणः ॥ १०।११० ॥
मूलम् - १०।११०
सान्निध्ये ऽपि पितुः पुत्रैर्
ऋणं देयं विभावितम्।
जात्यन्ध-पतितोन्मत्त
क्षय-श्वित्रादि-रोगिणः ॥ १०।११० ॥
विश्वास-प्रस्तुतिः - १०।१११
एक-च्छाया-प्रविष्टानां
दाप्यो यस् तत्र दृश्यते।
प्रोषितस्य सुतः सर्वं
पित्र्यम् अंशं मृतस्य तु ॥ १०।१११ ॥
मूलम् - १०।१११
एक-च्छाया-प्रविष्टानां
दाप्यो यस् तत्र दृश्यते।
प्रोषितस्य सुतः सर्वं
पित्र्यम् अंशं मृतस्य तु ॥ १०।१११ ॥
विश्वास-प्रस्तुतिः - १०।११२
एक-च्छाया-कृतं सर्वं
दद्यात् तु प्रेषिते सुतः।
मृते पितरि पितृ-अंशं
पर-र्णं न कदाचन ॥ १०।११२ ॥
मूलम् - १०।११२
एक-च्छाया-कृतं सर्वं
दद्यात् तु प्रेषिते सुतः।
मृते पितरि पितृ-अंशं
पर-र्णं न कदाचन ॥ १०।११२ ॥
विश्वास-प्रस्तुतिः - १०।११३
पित्र्यम् एवाग्रतो देयं
पश्चाद् आत्मीयम् एव च।
तयोः पैतामहं पूर्वं
देयम् एवम् ऋणं सदा ॥ १०।११३ ॥
मूलम् - १०।११३
पित्र्यम् एवाग्रतो देयं
पश्चाद् आत्मीयम् एव च।
तयोः पैतामहं पूर्वं
देयम् एवम् ऋणं सदा ॥ १०।११३ ॥
विश्वास-प्रस्तुतिः - १०।११४
ऋणम् आत्मीयवत् पित्र्यं
पुत्रैर् देयं विभावितम्।
पैतामहं समं देयम्
अदेयं तत् सुतस्य तु ॥ १०।११४ ॥
मूलम् - १०।११४
ऋणम् आत्मीयवत् पित्र्यं
पुत्रैर् देयं विभावितम्।
पैतामहं समं देयम्
अदेयं तत् सुतस्य तु ॥ १०।११४ ॥
विश्वास-प्रस्तुतिः - १०।११५
कुटुम्बार्थे ऽध्यधीनो ऽपि
व्यवहारं समाचरेत्।
स्व-देशे वा विदेशे वा
तं विद्वान् न विचालयेत् ॥ १०।११५ ॥
मूलम् - १०।११५
कुटुम्बार्थे ऽध्यधीनो ऽपि
व्यवहारं समाचरेत्।
स्व-देशे वा विदेशे वा
तं विद्वान् न विचालयेत् ॥ १०।११५ ॥
विश्वास-प्रस्तुतिः - १०।११६
अतः पुत्रेन जातेन
स्वार्थम् उत्सृज्य यत्नतः।
ऋणात् पिता मोचनीयो
यथा न नरकं व्रजेत् ॥ १०।११६ ॥
मूलम् - १०।११६
अतः पुत्रेन जातेन
स्वार्थम् उत्सृज्य यत्नतः।
ऋणात् पिता मोचनीयो
यथा न नरकं व्रजेत् ॥ १०।११६ ॥
विश्वास-प्रस्तुतिः - १०।११७
पितर्य् उपरते पुत्रा
ऋणं दद्युर् यथांशतः।
विभक्ता अविभक्ता वा
यो वा ताम् उद्वहेद् धुरम् ॥ १०।११७ ॥
मूलम् - १०।११७
पितर्य् उपरते पुत्रा
ऋणं दद्युर् यथांशतः।
विभक्ता अविभक्ता वा
यो वा ताम् उद्वहेद् धुरम् ॥ १०।११७ ॥
विश्वास-प्रस्तुतिः - १०।११८
सौराक्षिकं वृथा दानं
काम-क्रोध-प्रतिश्रुतम्।
प्रातिभाव्यं दण्ड-शुल्क-
शेषं पुत्रं न दापयेत् ॥ १०।११८ ॥
मूलम् - १०।११८
सौराक्षिकं वृथा दानं
काम-क्रोध-प्रतिश्रुतम्।
प्रातिभाव्यं दण्ड-शुल्क-
शेषं पुत्रं न दापयेत् ॥ १०।११८ ॥
विश्वास-प्रस्तुतिः - १०।११९
शौण्डिक-व्याध-रजक-
गोप-नापित[नाविक]-योषिताम्।
अधिष्ठाता ऋणं दाप्यस्
तासां भर्तृ-क्रियासु तत् ॥ १०।११९ ॥
मूलम् - १०।११९
शौण्डिक-व्याध-रजक-
गोप-नापित[नाविक]-योषिताम्।
अधिष्ठाता ऋणं दाप्यस्
तासां भर्तृ-क्रियासु तत् ॥ १०।११९ ॥
विश्वास-प्रस्तुतिः - १०।१२०
ऋण-भाग्-द्रव्य-हारी च
यदि सोपद्रवः सुतः।
स्त्री-हारी तु तथैव स्याद्
अभावे धन-हारिणः ॥ १०।१२० ॥
मूलम् - १०।१२०
ऋण-भाग्-द्रव्य-हारी च
यदि सोपद्रवः सुतः।
स्त्री-हारी तु तथैव स्याद्
अभावे धन-हारिणः ॥ १०।१२० ॥
विश्वास-प्रस्तुतिः - १०।१२१
पितृव्य भ्रातृ-पुत्र-स्त्री-
दास-शिष्यानुजीविभिः।
यद् गृहीतं कुटुम्बार्थे
तद् गृही दातुम् अर्हति ॥ १०।१२१ ॥
मूलम् - १०।१२१
पितृव्य भ्रातृ-पुत्र-स्त्री-
दास-शिष्यानुजीविभिः।
यद् गृहीतं कुटुम्बार्थे
तद् गृही दातुम् अर्हति ॥ १०।१२१ ॥
विश्वास-प्रस्तुतिः - १०।१२२
यः स्वामिना नियुक्तस् तु
धनायव्यय-पालने।
कुसीद-कृषि-वाणिज्ये
निसृष्टार्थस् तु स स्मृतः ॥ १०।१२२ ॥
मूलम् - १०।१२२
यः स्वामिना नियुक्तस् तु
धनायव्यय-पालने।
कुसीद-कृषि-वाणिज्ये
निसृष्टार्थस् तु स स्मृतः ॥ १०।१२२ ॥
विश्वास-प्रस्तुतिः - १०।१२३
उज्जामादिकम् आदाय
स्वामिने न ददाति यः।
स तस्य दासः पुत्रः स्त्री
पशुवी जायते गृहे ॥ १०।१२३ ॥
मूलम् - १०।१२३
उज्जामादिकम् आदाय
स्वामिने न ददाति यः।
स तस्य दासः पुत्रः स्त्री
पशुवी जायते गृहे ॥ १०।१२३ ॥
विश्वास-प्रस्तुतिः - १०।१२४
ऋणं पुत्र-कृतं पित्रा
शोध्यं यद् अनुमोदितम्।
सुत-स्नेहेन वा दद्यान्
नान्यथा दातुम् अर्हति ॥ १०।१२४ ॥
मूलम् - १०।१२४
ऋणं पुत्र-कृतं पित्रा
शोध्यं यद् अनुमोदितम्।
सुत-स्नेहेन वा दद्यान्
नान्यथा दातुम् अर्हति ॥ १०।१२४ ॥
विश्वास-प्रस्तुतिः - १०।१२५
॥॥ ॥॥
ऋणी बन्धम् अवाप्नुयात्।
फल-भोग्यं पूर्ण-कालं
दत्त्वा द्रव्यं तु सामकम् ॥ १०।१२५ ॥
मूलम् - १०।१२५
॥॥ ॥॥
ऋणी बन्धम् अवाप्नुयात्।
फल-भोग्यं पूर्ण-कालं
दत्त्वा द्रव्यं तु सामकम् ॥ १०।१२५ ॥
विश्वास-प्रस्तुतिः - १०।१२६
यदि प्रकर्षितं तत् स्यात्
तदा न धन-भाग्-धनी।
ऋणी च न लभेत् बन्धं
परस्पर-मतं विना ॥ १०।१२६ ॥
मूलम् - १०।१२६
यदि प्रकर्षितं तत् स्यात्
तदा न धन-भाग्-धनी।
ऋणी च न लभेत् बन्धं
परस्पर-मतं विना ॥ १०।१२६ ॥
विश्वास-प्रस्तुतिः - १०।१२७
अधम-र्णो ऽर्थ-सिध्य्-अर्थम्
उत्तम-र्णेन वादितः।
दापयेद् धनिकस्यार्थम्
अधम-र्ण-विभावितम् ॥ १०।१२७ ॥
मूलम् - १०।१२७
अधम-र्णो ऽर्थ-सिध्य्-अर्थम्
उत्तम-र्णेन वादितः।
दापयेद् धनिकस्यार्थम्
अधम-र्ण-विभावितम् ॥ १०।१२७ ॥
विश्वास-प्रस्तुतिः - १०।१२८
अर्थे ऽपव्ययमानं तु
करणेन विभावितम्।
दापयेद् धनिकस्यार्थं
दण्ड-केशं च शक्तितः ॥ १०।१२८ ॥
मूलम् - १०।१२८
अर्थे ऽपव्ययमानं तु
करणेन विभावितम्।
दापयेद् धनिकस्यार्थं
दण्ड-केशं च शक्तितः ॥ १०।१२८ ॥
विश्वास-प्रस्तुतिः - १०।१२९
यो यावन् निह्नुवीतार्थं
मिथ्या यावति वादयेत्।
तौ नृपेण ह्य् अधर्म-ज्ञौ
दाप्यौ तद् द्वि-गुणं दमम् ॥ १०।१२९ ॥
मूलम् - १०।१२९
यो यावन् निह्नुवीतार्थं
मिथ्या यावति वादयेत्।
तौ नृपेण ह्य् अधर्म-ज्ञौ
दाप्यौ तद् द्वि-गुणं दमम् ॥ १०।१२९ ॥
विश्वास-प्रस्तुतिः - १०।१३०
धर्म्यादिनोद्ग्राह्य धनं
यस् तूपरि न लेखयेत्।
न चैवोपगतं दद्यात्
तस्य तद् वृद्धिम् आप्नुयात् ॥ १०।१३० ॥
मूलम् - १०।१३०
धर्म्यादिनोद्ग्राह्य धनं
यस् तूपरि न लेखयेत्।
न चैवोपगतं दद्यात्
तस्य तद् वृद्धिम् आप्नुयात् ॥ १०।१३० ॥