विश्वास-प्रस्तुतिः - ९।१
धर्मेण व्यवहारेण
चारित्रेण नृपाज्ञया।
चतुष्प्रकारो ऽभिहितः
सन्दिग्धे ऽर्थे विनिर्णयः ॥ ९।१ ॥
मूलम् - ९।१
धर्मेण व्यवहारेण
चारित्रेण नृपाज्ञया।
चतुष्प्रकारो ऽभिहितः
सन्दिग्धे ऽर्थे विनिर्णयः ॥ ९।१ ॥
विश्वास-प्रस्तुतिः - ९।२
एकैको द्विविधः प्रोक्तः
क्रियाभेदान् मनीषिभिः।
अपराधानुरूपं तु
दण्डं च परिकल्पयेत् ॥ ९।२ ॥
मूलम् - ९।२
एकैको द्विविधः प्रोक्तः
क्रियाभेदान् मनीषिभिः।
अपराधानुरूपं तु
दण्डं च परिकल्पयेत् ॥ ९।२ ॥
विश्वास-प्रस्तुतिः - ९।३
सम्यग् विचार्य कार्यं तु
युक्त्या सम्परिकल्प्तम्।
परीक्षितं तु शपथैः
स ज्ञेयो धर्मनिर्णयः ॥ ९।३ ॥
मूलम् - ९।३
सम्यग् विचार्य कार्यं तु
युक्त्या सम्परिकल्प्तम्।
परीक्षितं तु शपथैः
स ज्ञेयो धर्मनिर्णयः ॥ ९।३ ॥
विश्वास-प्रस्तुतिः - ९।४
प्रतिवादी प्रपद्येद्
यत्र धर्मः स निर्णयः।
दिव्यैर् विशोधितः सम्यङ्-
निर्णयः समुदाहृतः ॥ ९।४ ॥
मूलम् - ९।४
प्रतिवादी प्रपद्येद्
यत्र धर्मः स निर्णयः।
दिव्यैर् विशोधितः सम्यङ्-
निर्णयः समुदाहृतः ॥ ९।४ ॥
विश्वास-प्रस्तुतिः - ९।५
प्रमाणनिश्चितो यस् तु
व्यवहारः स उच्यते।
वाक्छलानुत्तरत्वेन
द्वितीयः परिकीर्तितः ॥ ९।५ ॥
मूलम् - ९।५
प्रमाणनिश्चितो यस् तु
व्यवहारः स उच्यते।
वाक्छलानुत्तरत्वेन
द्वितीयः परिकीर्तितः ॥ ९।५ ॥
विश्वास-प्रस्तुतिः - ९।६
अनुमानेन निर्णीतं
चारित्रम् इति कथ्यते।
देशस्थित्या तृतीयस् तु
शास्त्रविद्भिर् उदाहृतः ॥ ९।६ ॥
मूलम् - ९।६
अनुमानेन निर्णीतं
चारित्रम् इति कथ्यते।
देशस्थित्या तृतीयस् तु
शास्त्रविद्भिर् उदाहृतः ॥ ९।६ ॥
विश्वास-प्रस्तुतिः - ९।७
प्रमाणसमतायां तु
राजाज्ञा निर्णयः स्मृतः [प्।९५]।
शास्त्रसभ्याविरोधेन
चतुर्थः परिकीर्तितः ॥ ९।७ ॥
मूलम् - ९।७
प्रमाणसमतायां तु
राजाज्ञा निर्णयः स्मृतः [प्।९५]।
शास्त्रसभ्याविरोधेन
चतुर्थः परिकीर्तितः ॥ ९।७ ॥
विश्वास-प्रस्तुतिः - ९।८
धर्मशास्त्रविरोधे तु
युक्तियुक्तो विधिः स्मृतः ॥ ९।८ ॥
मूलम् - ९।८
धर्मशास्त्रविरोधे तु
युक्तियुक्तो विधिः स्मृतः ॥ ९।८ ॥
विश्वास-प्रस्तुतिः - ९।९
वधादृते ब्राह्मणस्य
दण्डो भवति कर्हि चित्।
अवध्या ब्राह्मणा गावो
लोके ऽस्मिन् वैदिकी स्मृतिः ॥ ९।९ ॥
मूलम् - ९।९
वधादृते ब्राह्मणस्य
दण्डो भवति कर्हि चित्।
अवध्या ब्राह्मणा गावो
लोके ऽस्मिन् वैदिकी स्मृतिः ॥ ९।९ ॥
विश्वास-प्रस्तुतिः - ९।१०
महापातकयुक्तो ऽपि
न विप्रो वधम् अर्हति।
निर्वासनाङ्कने मौण्ड्यं
तस्य कुर्यान् नराधिपः ॥ ९।१० ॥
मूलम् - ९।१०
महापातकयुक्तो ऽपि
न विप्रो वधम् अर्हति।
निर्वासनाङ्कने मौण्ड्यं
तस्य कुर्यान् नराधिपः ॥ ९।१० ॥
विश्वास-प्रस्तुतिः - ९।११
महापराधयुक्तांश् च
वधदण्डेन शासयेत् ॥ ९।११ ॥
मूलम् - ९।११
महापराधयुक्तांश् च
वधदण्डेन शासयेत् ॥ ९।११ ॥
विश्वास-प्रस्तुतिः - ९।१२
स्वल्पे ऽपराधे वाग्दण्डो
धिग्दण्डः पूर्वसाहसे।
मध्योत्तमे ऽर्धदण्डस् तु
राजद्रोहे च बन्धनम् ॥ ९।१२ ॥
मूलम् - ९।१२
स्वल्पे ऽपराधे वाग्दण्डो
धिग्दण्डः पूर्वसाहसे।
मध्योत्तमे ऽर्धदण्डस् तु
राजद्रोहे च बन्धनम् ॥ ९।१२ ॥
विश्वास-प्रस्तुतिः - ९।१३
निर्वासनं वधो वापि
कार्यम् आत्महितैषिणा।
व्यस्ताः समस्ता एकस्य
महापातककारिणे ॥ ९।१३ ॥
मूलम् - ९।१३
निर्वासनं वधो वापि
कार्यम् आत्महितैषिणा।
व्यस्ताः समस्ता एकस्य
महापातककारिणे ॥ ९।१३ ॥
विश्वास-प्रस्तुतिः - ९।१४
मित्रादिषु प्रयुञ्जीत
वाग्दण्डं धिक् तपस्विनाम्।
विवादिनो नरांश् चापि
द्वेषिणो ऽर्थेन दण्डयेत् ॥ ९।१४ ॥
मूलम् - ९।१४
मित्रादिषु प्रयुञ्जीत
वाग्दण्डं धिक् तपस्विनाम्।
विवादिनो नरांश् चापि
द्वेषिणो ऽर्थेन दण्डयेत् ॥ ९।१४ ॥
विश्वास-प्रस्तुतिः - ९।१५
पिताचार्यः सुहृन् माता
भार्या पुत्रः पुरोहितः।
नादण्ड्यो नाम राज्ञो ऽस्ति
धर्माद् विचलितः स्वकात् ॥ ९।१५ ॥
मूलम् - ९।१५
पिताचार्यः सुहृन् माता
भार्या पुत्रः पुरोहितः।
नादण्ड्यो नाम राज्ञो ऽस्ति
धर्माद् विचलितः स्वकात् ॥ ९।१५ ॥
विश्वास-प्रस्तुतिः - ९।१६
ऋत्विक्-पुरोहितामात्याः
पुत्राः सम्बन्धि-बान्धवाः।
धर्माद् विचलिता दण्ड्या
निर्वास्या राजभिः पुरात् ॥ ९।१६ ॥
मूलम् - ९।१६
ऋत्विक्-पुरोहितामात्याः
पुत्राः सम्बन्धि-बान्धवाः।
धर्माद् विचलिता दण्ड्या
निर्वास्या राजभिः पुरात् ॥ ९।१६ ॥
विश्वास-प्रस्तुतिः - ९।१७
गुरून् पुरोहितान् पूज्यान्
वाग्दण्डेनैव दण्डयेत्।
विवादिनो नरांश् चान्यान्
धिग्धनाभ्यां च दण्डयेत् ॥ ९।१७ ॥
मूलम् - ९।१७
गुरून् पुरोहितान् पूज्यान्
वाग्दण्डेनैव दण्डयेत्।
विवादिनो नरांश् चान्यान्
धिग्धनाभ्यां च दण्डयेत् ॥ ९।१७ ॥
विश्वास-प्रस्तुतिः - ९।१८
प्रतिलोमास् तथा चान्त्याः
पुरुषाणां मलाः स्मृताः।
ब्राह्मणातिक्रमे वध्या
न दातव्या दमं क्व चित् ॥ ९।१८ ॥
मूलम् - ९।१८
प्रतिलोमास् तथा चान्त्याः
पुरुषाणां मलाः स्मृताः।
ब्राह्मणातिक्रमे वध्या
न दातव्या दमं क्व चित् ॥ ९।१८ ॥
विश्वास-प्रस्तुतिः - ९।१९
वधार्हकः स्वर्णशतं
दमं दाप्यस् तु पूरुषः।
अङ्गच्छेदार्हकस् त्व् अर्धं
सदंशशश् तदर्धकम् ॥ ९।१९ ॥
मूलम् - ९।१९
वधार्हकः स्वर्णशतं
दमं दाप्यस् तु पूरुषः।
अङ्गच्छेदार्हकस् त्व् अर्धं
सदंशशश् तदर्धकम् ॥ ९।१९ ॥
विश्वास-प्रस्तुतिः - ९।२०
ताडनं बन्धनं चैव
तथैव च विडन्नकम् [प्।९७]।
एष दण्डो हि शूद्रस्य
नार्थदण्डो बृहस्पतिः ॥ ९।२० ॥
मूलम् - ९।२०
ताडनं बन्धनं चैव
तथैव च विडन्नकम् [प्।९७]।
एष दण्डो हि शूद्रस्य
नार्थदण्डो बृहस्पतिः ॥ ९।२० ॥
विश्वास-प्रस्तुतिः - ९।२१
प्रतिज्ञा भावनाद् वादी
प्राड्विवाकादिपूजनात्।
जयपत्त्रस्य चादनाज्
जयी लोके निगद्यते ॥ ९।२१ ॥
मूलम् - ९।२१
प्रतिज्ञा भावनाद् वादी
प्राड्विवाकादिपूजनात्।
जयपत्त्रस्य चादनाज्
जयी लोके निगद्यते ॥ ९।२१ ॥
विश्वास-प्रस्तुतिः - ९।२२
पलायनाद् अनुत्तराद्
अन्यपक्षाश्रयेण च।
हीनस्य गृह्यते वादो
न स्ववाक्यजितस्य च ॥ ९।२२ ॥
मूलम् - ९।२२
पलायनाद् अनुत्तराद्
अन्यपक्षाश्रयेण च।
हीनस्य गृह्यते वादो
न स्ववाक्यजितस्य च ॥ ९।२२ ॥
विश्वास-प्रस्तुतिः - ९।२३
कुलादिभिर् निश्चिते ऽपि
न सन्तोषं गतस् तु यः।
विचार्य तत्कृतं राजा
कुकृतं पुनर् उद्धरेत् ॥ ९।२३ ॥
मूलम् - ९।२३
कुलादिभिर् निश्चिते ऽपि
न सन्तोषं गतस् तु यः।
विचार्य तत्कृतं राजा
कुकृतं पुनर् उद्धरेत् ॥ ९।२३ ॥
विश्वास-प्रस्तुतिः - ९।२४
निश्चित्य बहुभिः सार्धं
ब्राह्मणैः शास्त्रपारगैः।
दण्डयेज् जयिना साकं
पूर्वसभ्यांस् तु दोषिणः ॥ ९।२४ ॥
मूलम् - ९।२४
निश्चित्य बहुभिः सार्धं
ब्राह्मणैः शास्त्रपारगैः।
दण्डयेज् जयिना साकं
पूर्वसभ्यांस् तु दोषिणः ॥ ९।२४ ॥
विश्वास-प्रस्तुतिः - ९।२५
अपराधानुरूपश् च
दण्डो ऽत्र परिकल्पितः।
साक्षिलेख्यानुमानेन
सम्यग् दिव्येन वा जितः ॥ ९।२५ ॥
मूलम् - ९।२५
अपराधानुरूपश् च
दण्डो ऽत्र परिकल्पितः।
साक्षिलेख्यानुमानेन
सम्यग् दिव्येन वा जितः ॥ ९।२५ ॥
विश्वास-प्रस्तुतिः - ९।२६
यो न दद्याद् देयदमं
स निर्वास्यस् ततः पुरात् ॥ ९।२६ ॥
मूलम् - ९।२६
यो न दद्याद् देयदमं
स निर्वास्यस् ततः पुरात् ॥ ९।२६ ॥
ललाटाङ्कं ब्राह्मणस्य
नान्यो दण्डो विधीयते।
महापातकयुक्तो ऽपि
न विप्रो वधम् अर्हति \
निर्वासनाङ्ककरणे # मौण्ड्यं कुर्यान् नराधिपः ॥ ९।२७ ॥
विश्वास-प्रस्तुतिः - ९।२८
प्रमाणं तत्कृतं सर्वं
लाभालाभ-व्ययोदयम्।
स्वदेशे वा विदेशे वा
न स्वातन्त्र्यं विसंवदेत् ॥ ९।२८ ॥
मूलम् - ९।२८
प्रमाणं तत्कृतं सर्वं
लाभालाभ-व्ययोदयम्।
स्वदेशे वा विदेशे वा
न स्वातन्त्र्यं विसंवदेत् ॥ ९।२८ ॥
विश्वास-प्रस्तुतिः - ९।२९
यः स्वामिना नियुक्तस् तु
धनायस्यापलापने।
कुसीद-कृषि-वाणिज्ये
निसृष्टार्थस् तु स स्मृतः ॥ ९।२९ ॥
मूलम् - ९।२९
यः स्वामिना नियुक्तस् तु
धनायस्यापलापने।
कुसीद-कृषि-वाणिज्ये
निसृष्टार्थस् तु स स्मृतः ॥ ९।२९ ॥
विश्वास-प्रस्तुतिः - ९।३०
राज्ञा यत्नेन कर्तव्यं
सन्दिग्धार्थविचारणम्।
त्रयस् तत्रोपचीयन्ते
हानिर् एकस्य जायते ॥ ९।३० ॥
मूलम् - ९।३०
राज्ञा यत्नेन कर्तव्यं
सन्दिग्धार्थविचारणम्।
त्रयस् तत्रोपचीयन्ते
हानिर् एकस्य जायते ॥ ९।३० ॥
विश्वास-प्रस्तुतिः - ९।३१
जेताप्नोति धनं पूजां
जितो विनयनिग्रहम्।
जयं दानं दमं राजा
सभ्याः पुण्यम् अवाप्नुयुः ॥ ९।३१ ॥
मूलम् - ९।३१
जेताप्नोति धनं पूजां
जितो विनयनिग्रहम्।
जयं दानं दमं राजा
सभ्याः पुण्यम् अवाप्नुयुः ॥ ९।३१ ॥
विश्वास-प्रस्तुतिः - ९।३२
एवं शास्त्रोदितं राजा
कुर्वन् निर्णयपालनम्।
वितत्येह यशो लोके
महेन्द्रसदृशो भवेत् ॥ ९।३२ ॥
मूलम् - ९।३२
एवं शास्त्रोदितं राजा
कुर्वन् निर्णयपालनम्।
वितत्येह यशो लोके
महेन्द्रसदृशो भवेत् ॥ ९।३२ ॥
विश्वास-प्रस्तुतिः - ९।३३
साक्षिलेख्यानुमानेन
प्रकुर्वन् कार्यनिर्णयम्।
वितत्येह यशो राजा
ब्रध्नस्याप्नोति विष्टपम् ॥ ९।३३ ॥
मूलम् - ९।३३
साक्षिलेख्यानुमानेन
प्रकुर्वन् कार्यनिर्णयम्।
वितत्येह यशो राजा
ब्रध्नस्याप्नोति विष्टपम् ॥ ९।३३ ॥
विश्वास-प्रस्तुतिः - ९।३४
यत्रैवं वेत्ति नृपतिः
निर्णयं तु बताध्वरम्।
सो ऽस्मिन् लोके यशः प्राप्य
याति शक्रसलोकताम् ॥ ९।३४ ॥
मूलम् - ९।३४
यत्रैवं वेत्ति नृपतिः
निर्णयं तु बताध्वरम्।
सो ऽस्मिन् लोके यशः प्राप्य
याति शक्रसलोकताम् ॥ ९।३४ ॥