०८ दिव्यानि

विश्वास-प्रस्तुतिः - ८।१

स्थावरस्य तथाख्यातं
लाभ-भोगप्रसाधनम्।
प्रमाणहीने वादे तु
निर्दोषा दैविकी क्रिया ॥ ८।१ ॥

मूलम् - ८।१

स्थावरस्य तथाख्यातं
लाभ-भोगप्रसाधनम्।
प्रमाणहीने वादे तु
निर्दोषा दैविकी क्रिया ॥ ८।१ ॥

विश्वास-प्रस्तुतिः - ८।२

प्रदुष्टेष्व् अनुमानेषु
दिव्यैः कार्यं विशोधयेत्।
धटाद्या धर्मजान्ता च
दैवी नवविधा स्मृता ॥ ८।२ ॥

मूलम् - ८।२

प्रदुष्टेष्व् अनुमानेषु
दिव्यैः कार्यं विशोधयेत्।
धटाद्या धर्मजान्ता च
दैवी नवविधा स्मृता ॥ ८।२ ॥

विश्वास-प्रस्तुतिः - ८।३

धटो ऽग्निर् उदकं चैव
विषं कोशश् च पञ्चमम्।
षष्ठं च तण्डुलाः प्रोक्तं
सप्तमं तप्तमाषकः ॥ ८।३ ॥

मूलम् - ८।३

धटो ऽग्निर् उदकं चैव
विषं कोशश् च पञ्चमम्।
षष्ठं च तण्डुलाः प्रोक्तं
सप्तमं तप्तमाषकः ॥ ८।३ ॥

विश्वास-प्रस्तुतिः - ८।४

अष्टमं कालम् इत्य् उक्तं
नवमं धर्मकं तथा।
दिव्येनायाति सर्वाणि
निर्दिष्टानि स्वयम्भुवा ॥ ८।४ ॥

मूलम् - ८।४

अष्टमं कालम् इत्य् उक्तं
नवमं धर्मकं तथा।
दिव्येनायाति सर्वाणि
निर्दिष्टानि स्वयम्भुवा ॥ ८।४ ॥

८।१ दिव्यव्यवस्था

यस्माद् देवैः प्रयुक्तानि
दुष्करार्थे महात्मभिः।
अहम् उद्देशतां वच्मि
सन्दिग्धार्थविशुद्धये \
देश-कालार्थसङ्ख्याभिः # प्रयुक्तान्य् अनुपूर्वशः ॥ ८।५ ॥

विश्वास-प्रस्तुतिः - ८।६

अपराधानुपूर्व्येण
साध्व्-असाधुविवक्षया।
शास्त्रोदितेन विधिना
प्रदातव्यानि नान्यथा ॥ ८।६ ॥

मूलम् - ८।६

अपराधानुपूर्व्येण
साध्व्-असाधुविवक्षया।
शास्त्रोदितेन विधिना
प्रदातव्यानि नान्यथा ॥ ८।६ ॥

विश्वास-प्रस्तुतिः - ८।७

ऋणादिकेषु कार्येषु
विसंवादे परस्परम्।
द्रव्यसङ्ख्यान्विता देया
पुरुषापेक्षया तथा ॥ ८।७ ॥

मूलम् - ८।७

ऋणादिकेषु कार्येषु
विसंवादे परस्परम्।
द्रव्यसङ्ख्यान्विता देया
पुरुषापेक्षया तथा ॥ ८।७ ॥

विश्वास-प्रस्तुतिः - ८।८

लोके संव्यवहारार्थं
सञ्ज्ञेयं कथिता भुवि।
ताम्रकर्षकृता मुद्रा
विज्ञेयः कार्षिकः पणः ॥ ८।८ ॥

मूलम् - ८।८

लोके संव्यवहारार्थं
सञ्ज्ञेयं कथिता भुवि।
ताम्रकर्षकृता मुद्रा
विज्ञेयः कार्षिकः पणः ॥ ८।८ ॥

विश्वास-प्रस्तुतिः - ८।९

निष्कं सुवर्णाश् चत्वारः
कार्षिकस् ताम्रिकः पणः।
ताम्रकर्षकृता मुद्रा
विज्ञेयः कार्षिकः पणः ॥ ८।९ ॥

मूलम् - ८।९

निष्कं सुवर्णाश् चत्वारः
कार्षिकस् ताम्रिकः पणः।
ताम्रकर्षकृता मुद्रा
विज्ञेयः कार्षिकः पणः ॥ ८।९ ॥

विश्वास-प्रस्तुतिः - ८।१०

स एव चान्द्रिका प्रोक्ता
ताश् चतस्रस् तु धानकाः।
ता द्वादश सुवर्णस् तु
दीनाराख्यः स एव तु ॥ ८।१० ॥

मूलम् - ८।१०

स एव चान्द्रिका प्रोक्ता
ताश् चतस्रस् तु धानकाः।
ता द्वादश सुवर्णस् तु
दीनाराख्यः स एव तु ॥ ८।१० ॥

विश्वास-प्रस्तुतिः - ८।११

कार्षापणसहस्रं तु
दण्ड उत्तमसाहसः।
तदर्धं मध्यमः प्रोक्तस्
तदर्धम् अधमः स्मृतः ॥ ८।११ ॥

मूलम् - ८।११

कार्षापणसहस्रं तु
दण्ड उत्तमसाहसः।
तदर्धं मध्यमः प्रोक्तस्
तदर्धम् अधमः स्मृतः ॥ ८।११ ॥

विश्वास-प्रस्तुतिः - ८।१२

ब्राह्मणस्य धटो देयः
क्षत्रियस्य हुताशनः।
वैश्यस्य सलिलं देयं
शूद्रस्य विषम् एव तु ॥ ८।१२ ॥

मूलम् - ८।१२

ब्राह्मणस्य धटो देयः
क्षत्रियस्य हुताशनः।
वैश्यस्य सलिलं देयं
शूद्रस्य विषम् एव तु ॥ ८।१२ ॥

विश्वास-प्रस्तुतिः - ८।१३

साधारणः समस्तानाम्
कोशः प्रोक्तो मनीषिभिः ॥ ८।१३ ॥

मूलम् - ८।१३

साधारणः समस्तानाम्
कोशः प्रोक्तो मनीषिभिः ॥ ८।१३ ॥

विश्वास-प्रस्तुतिः - ८।१४

स्नेहात् क्रोधाल् लोभतो वा
भेदम् आयान्ति साक्षिणः।
विधिदत्तस्य दिव्यस्य
न भेदो जायते क्वचित् ॥ ८।१४ ॥

मूलम् - ८।१४

स्नेहात् क्रोधाल् लोभतो वा
भेदम् आयान्ति साक्षिणः।
विधिदत्तस्य दिव्यस्य
न भेदो जायते क्वचित् ॥ ८।१४ ॥

विश्वास-प्रस्तुतिः - ८।१५

यथोक्तविधिना देयं
दिव्यं दिव्यविशारदैः।
अयथोक्तं प्रदत्तं चेन्
न दत्तं साध्यसाधने ॥ ८।१५ ॥

मूलम् - ८।१५

यथोक्तविधिना देयं
दिव्यं दिव्यविशारदैः।
अयथोक्तं प्रदत्तं चेन्
न दत्तं साध्यसाधने ॥ ८।१५ ॥

विश्वास-प्रस्तुतिः - ८।१६

अदेश-कालदत्तानि
बहिर्वादिकृतानि च।
व्यभिचारं सदार्थेषु
कुर्वन्तीह न संशयः ॥ ८।१६ ॥

मूलम् - ८।१६

अदेश-कालदत्तानि
बहिर्वादिकृतानि च।
व्यभिचारं सदार्थेषु
कुर्वन्तीह न संशयः ॥ ८।१६ ॥

विश्वास-प्रस्तुतिः - ८।१७

अभियुक्ताय दातव्यं
दिव्यं दिव्यविशारदैः।
रुच्या चान्यतरः कुर्याद्
इतरो वर्तयेच् छिरः ॥ ८।१७ ॥

मूलम् - ८।१७

अभियुक्ताय दातव्यं
दिव्यं दिव्यविशारदैः।
रुच्या चान्यतरः कुर्याद्
इतरो वर्तयेच् छिरः ॥ ८।१७ ॥

विनापि शीर्षकं कुर्यान्
नृपद्रोहे च पातके।
दिव्यप्रदानम् उदितम्
अन्यत्र नृपशासनात् \
न कश् चिद् अभियोक्तारं # दिव्येष्व् एवं नियोजयेत् ॥ ८।१८ ॥

[८।२ दिव्यदेवताः] प्।८३

विश्वास-प्रस्तुतिः - ८।१९

धरोद्ध्रुवस् तथा सोम
आपश् चैवानिलो ऽनलः।
प्रत्यूषश् च प्रभासश् च
वसवो ऽष्टौ प्रकीर्तिताः ॥ ८।१९ ॥

मूलम् - ८।१९

धरोद्ध्रुवस् तथा सोम
आपश् चैवानिलो ऽनलः।
प्रत्यूषश् च प्रभासश् च
वसवो ऽष्टौ प्रकीर्तिताः ॥ ८।१९ ॥

विश्वास-प्रस्तुतिः - ८।२०

देवेशेशानयोर् मध्य
आदित्यानां तथायनम्।
धातार्यमा च मित्रश् च
वरुणो ऽंशो भगस् तथा ॥ ८।२० ॥

मूलम् - ८।२०

देवेशेशानयोर् मध्य
आदित्यानां तथायनम्।
धातार्यमा च मित्रश् च
वरुणो ऽंशो भगस् तथा ॥ ८।२० ॥

विश्वास-प्रस्तुतिः - ८।२१

इन्द्रो विवस्वान् पूषा च
पर्जन्यो दशमः स्मृतः।
ततस् त्वष्टा ततो विष्णुर्
अजघन्यो जघन्यजः ॥ ८।२१ ॥

मूलम् - ८।२१

इन्द्रो विवस्वान् पूषा च
पर्जन्यो दशमः स्मृतः।
ततस् त्वष्टा ततो विष्णुर्
अजघन्यो जघन्यजः ॥ ८।२१ ॥

इत्य् एते द्वादशादित्या
नामभिः परिकीर्तिताः।
अग्नेः पश्चिमभागे तु
रुद्राणाम् अयनं विदुः \
वीरभद्रश् च शम्भुश् च # गिरीशश् च महायशाः ॥ ८।२२ ॥

विश्वास-प्रस्तुतिः - ८।२३

अजेकपाद् [अजैकपाद्?] अहिर्बुध्न्या
पिनाकी चाप्राजितः ॥ ८।२३ ॥

मूलम् - ८।२३

अजेकपाद् [अजैकपाद्?] अहिर्बुध्न्या
पिनाकी चाप्राजितः ॥ ८।२३ ॥

विश्वास-प्रस्तुतिः - ८।२४

भुवनाधिश्वराश् चैव
कपाली च विशाम्पतिः।
स्थाणुर् भगश् च भगवान्
रुद्राश् चैकादश स्मृताः ॥ ८।२४ ॥

मूलम् - ८।२४

भुवनाधिश्वराश् चैव
कपाली च विशाम्पतिः।
स्थाणुर् भगश् च भगवान्
रुद्राश् चैकादश स्मृताः ॥ ८।२४ ॥

विश्वास-प्रस्तुतिः - ८।२५

प्रेतेश-रक्शसोर् मध्ये
मातृस्थानम् प्रकल्पयेत्।
ब्राह्मी माहेश्वरी चैव
कौमारी वैष्णवी तथा ॥ ८।२५ ॥

मूलम् - ८।२५

प्रेतेश-रक्शसोर् मध्ये
मातृस्थानम् प्रकल्पयेत्।
ब्राह्मी माहेश्वरी चैव
कौमारी वैष्णवी तथा ॥ ८।२५ ॥

विश्वास-प्रस्तुतिः - ८।२६

वाराही चैव माहेन्द्री
चामुण्डा गणसंयुता।
निरृतेर् उत्तरे भागे
गणेशायतनं विदुः ॥ ८।२६ ॥

मूलम् - ८।२६

वाराही चैव माहेन्द्री
चामुण्डा गणसंयुता।
निरृतेर् उत्तरे भागे
गणेशायतनं विदुः ॥ ८।२६ ॥

विश्वास-प्रस्तुतिः - ८।२७

वरुणस्योत्तरे भागे
मरुतां स्थानम् उच्यते।
श्वसनः स्पर्शनो वायुर्
अनिलो मारुतस् तथा ॥ ८।२७ ॥

मूलम् - ८।२७

वरुणस्योत्तरे भागे
मरुतां स्थानम् उच्यते।
श्वसनः स्पर्शनो वायुर्
अनिलो मारुतस् तथा ॥ ८।२७ ॥

८।३ द्रव्यसङ्ख्यया दिव्यानि

विश्वास-प्रस्तुतिः - ८।२८

सङ्ख्या रश्मिर् अजोमूला
मनुना समुदाहृता।
कार्षापणान्ता सा दिव्ये
नियोज्या विनयेत् तथा ॥ ८।२८ ॥

मूलम् - ८।२८

सङ्ख्या रश्मिर् अजोमूला
मनुना समुदाहृता।
कार्षापणान्ता सा दिव्ये
नियोज्या विनयेत् तथा ॥ ८।२८ ॥

विश्वास-प्रस्तुतिः - ८।२९

विषम् सहस्रे ऽपहृते
पादोने च हुताशनः।
त्रिपादोने च सलिलम्
अर्धे देयो धटः सदा ॥ ८।२९ ॥

मूलम् - ८।२९

विषम् सहस्रे ऽपहृते
पादोने च हुताशनः।
त्रिपादोने च सलिलम्
अर्धे देयो धटः सदा ॥ ८।२९ ॥

विश्वास-प्रस्तुतिः - ८।३०

चतुःशताभियोगे च
दातव्यस् तप्तमाषकः।
त्रिशते तण्डुला देयाः
कोशश् चैव तदर्धके ॥ ८।३० ॥

मूलम् - ८।३०

चतुःशताभियोगे च
दातव्यस् तप्तमाषकः।
त्रिशते तण्डुला देयाः
कोशश् चैव तदर्धके ॥ ८।३० ॥

विश्वास-प्रस्तुतिः - ८।३१

शते हृते ऽपहृते च
दातव्यं धर्मशोधनम्।
गोचौरस्य प्रदातव्यं
सभ्यैः फालः प्रयत्नतः ॥ ८।३१ ॥

मूलम् - ८।३१

शते हृते ऽपहृते च
दातव्यं धर्मशोधनम्।
गोचौरस्य प्रदातव्यं
सभ्यैः फालः प्रयत्नतः ॥ ८।३१ ॥

विश्वास-प्रस्तुतिः - ८।३२

यवार्धिकस्य वा नाशे
तदर्धस्य च तण्डुलाः [प्।८५]।
ततो ऽर्धार्धार्धनाशे च
लौकिकी च क्रिया मता ॥ ८।३२ ॥

मूलम् - ८।३२

यवार्धिकस्य वा नाशे
तदर्धस्य च तण्डुलाः [प्।८५]।
ततो ऽर्धार्धार्धनाशे च
लौकिकी च क्रिया मता ॥ ८।३२ ॥

८।४ शपथविधिः

विश्वास-प्रस्तुतिः - ८।३३

सतां वाहनशस्त्राणि
गोबीजकनकानि च।
देव-ब्राह्मणपादाश् च
पुत्र-दारशिरांसि च ॥ ८।३३ ॥

मूलम् - ८।३३

सतां वाहनशस्त्राणि
गोबीजकनकानि च।
देव-ब्राह्मणपादाश् च
पुत्र-दारशिरांसि च ॥ ८।३३ ॥

विश्वास-प्रस्तुतिः - ८।३४

एते च शपथाः प्रोक्ताः
अल्पार्थे सुकराः सदा।
साहसेष्व् अभिशापेषु
दिव्यान्य् आहुर् विशोधनम् ॥ ८।३४ ॥

मूलम् - ८।३४

एते च शपथाः प्रोक्ताः
अल्पार्थे सुकराः सदा।
साहसेष्व् अभिशापेषु
दिव्यान्य् आहुर् विशोधनम् ॥ ८।३४ ॥

विश्वास-प्रस्तुतिः - ८।३५

ब्रूहीति ब्राह्मणं ब्रूयात्
सत्यं ब्रूहीति पार्थिवम्।
गोबीजकाञ्चनैर् वैश्यं
शूद्रं सर्वैश् च पातकैः ॥ ८।३५ ॥

मूलम् - ८।३५

ब्रूहीति ब्राह्मणं ब्रूयात्
सत्यं ब्रूहीति पार्थिवम्।
गोबीजकाञ्चनैर् वैश्यं
शूद्रं सर्वैश् च पातकैः ॥ ८।३५ ॥

सत्येन शापयेद् विप्रं
क्षत्रियं वाहनायुधैः।
गोरक्षकान् वाणिजकांस्
तथाकारुकुशीलवान् \
प्रेष्यान् वार्धुषिकांश् चैव # विप्राञ् शूद्रवद् आचरेत् ॥ ८।३६ ॥

विश्वास-प्रस्तुतिः - ८।३७

ये ऽप्य् अपेताः स्वधर्मेभ्यः
परपिण्डोपजीविनः।
द्विजत्वम् अभिकाङ्क्षन्ते
तांश् च शूद्रवद् आचरेत् ॥ ८।३७ ॥

मूलम् - ८।३७

ये ऽप्य् अपेताः स्वधर्मेभ्यः
परपिण्डोपजीविनः।
द्विजत्वम् अभिकाङ्क्षन्ते
तांश् च शूद्रवद् आचरेत् ॥ ८।३७ ॥

विश्वास-प्रस्तुतिः - ८।३८

वर्णानुरूपैः शपथैः
शपनीयं पृथक् पृथक् ॥ ८।३८ ॥

मूलम् - ८।३८

वर्णानुरूपैः शपथैः
शपनीयं पृथक् पृथक् ॥ ८।३८ ॥

विश्वास-प्रस्तुतिः - ८।३९

कामिनीषु विवाहेषु
गवां भुक्ते तथेन्धने।
ब्राह्मणाभ्यवपत्तौ च
शपथे नास्ति पातक्ः ॥ ८।३९ ॥

मूलम् - ८।३९

कामिनीषु विवाहेषु
गवां भुक्ते तथेन्धने।
ब्राह्मणाभ्यवपत्तौ च
शपथे नास्ति पातक्ः ॥ ८।३९ ॥

विश्वास-प्रस्तुतिः - ८।४०

सभान्तर्स्थैर् वक्तव्यं
साक्स्यं नान्यत्र साक्षिभिः।
सर्वसाक्ष्येष्व् अयं धर्मो ह्य्
अन्यत्र स्थावरेषु च ॥ ८।४० ॥

मूलम् - ८।४०

सभान्तर्स्थैर् वक्तव्यं
साक्स्यं नान्यत्र साक्षिभिः।
सर्वसाक्ष्येष्व् अयं धर्मो ह्य्
अन्यत्र स्थावरेषु च ॥ ८।४० ॥

विश्वास-प्रस्तुतिः - ८।४१

वधे चेत् प्राणिनाम् साक्स्यं
वादयेच् छवसन्निधौ।
तदभावे तु चिह्नस्य
नान्यथैव विवादयेत् ॥ ८।४१ ॥

मूलम् - ८।४१

वधे चेत् प्राणिनाम् साक्स्यं
वादयेच् छवसन्निधौ।
तदभावे तु चिह्नस्य
नान्यथैव विवादयेत् ॥ ८।४१ ॥

विश्वास-प्रस्तुतिः - ८।४२

नापृष्टैर् अनियुक्तैर् वा
समं सत्यं प्रयत्नतः।
वक्तव्यं साक्षिभिः साक्ष्यं
विवादस्थानम् आगतैः ॥ ८।४२ ॥

मूलम् - ८।४२

नापृष्टैर् अनियुक्तैर् वा
समं सत्यं प्रयत्नतः।
वक्तव्यं साक्षिभिः साक्ष्यं
विवादस्थानम् आगतैः ॥ ८।४२ ॥

विश्वास-प्रस्तुतिः - ८।४३

स्वभावोक्तं वचस् तेषां
ग्राह्यं यद् दोषवर्जितम्।
उक्ते तु साक्षिणो राज्ञा
न पृष्टव्याः पुनः पुनः ॥ ८।४३ ॥

मूलम् - ८।४३

स्वभावोक्तं वचस् तेषां
ग्राह्यं यद् दोषवर्जितम्।
उक्ते तु साक्षिणो राज्ञा
न पृष्टव्याः पुनः पुनः ॥ ८।४३ ॥

विश्वास-प्रस्तुतिः - ८।४४

साक्षि-सभ्यावसन्नानां
नैव पौनर्भावो विधिः ॥ ८।४४ ॥

मूलम् - ८।४४

साक्षि-सभ्यावसन्नानां
नैव पौनर्भावो विधिः ॥ ८।४४ ॥

विश्वास-प्रस्तुतिः - ८।४५

सप्तर्षयस् तथेन्द्राद्याः
पुष्करर्थे तपोधनाः।
शेपुः शपथम् अव्यग्राः
परस्परविशुद्धये ॥ ८।४५ ॥

मूलम् - ८।४५

सप्तर्षयस् तथेन्द्राद्याः
पुष्करर्थे तपोधनाः।
शेपुः शपथम् अव्यग्राः
परस्परविशुद्धये ॥ ८।४५ ॥

विश्वास-प्रस्तुतिः - ८।४६

सप्ताहे वा द्विसप्ताहे
न विपद्राजदैविकी।
बान्ध्ववेषु सपिण्डेषु
धनेषु शपथैः शुचिः ॥ ८।४६ ॥

मूलम् - ८।४६

सप्ताहे वा द्विसप्ताहे
न विपद्राजदैविकी।
बान्ध्ववेषु सपिण्डेषु
धनेषु शपथैः शुचिः ॥ ८।४६ ॥

विश्वास-प्रस्तुतिः - ८।४७

अशेषमानुषाभावे
दिव्येनैव विनिर्णयः।
सम्भवे साक्षिणां प्राज्ञो
दैविकीं तु विवर्जयेत् ॥ ८।४७ ॥

मूलम् - ८।४७

अशेषमानुषाभावे
दिव्येनैव विनिर्णयः।
सम्भवे साक्षिणां प्राज्ञो
दैविकीं तु विवर्जयेत् ॥ ८।४७ ॥

विश्वास-प्रस्तुतिः - ८।४८

एवम् सङ्ख्या निकृष्टानाम्
मध्यानां द्विगुणा स्मृता।
चतुर्गुणोत्तमानां तु
कल्पनीया परीक्षकैः ॥ ८।४८ ॥

मूलम् - ८।४८

एवम् सङ्ख्या निकृष्टानाम्
मध्यानां द्विगुणा स्मृता।
चतुर्गुणोत्तमानां तु
कल्पनीया परीक्षकैः ॥ ८।४८ ॥

८।५ घटविधिः] [प्।८७

विश्वास-प्रस्तुतिः - ८।४९

धटे ऽभियुक्तस् तुलितो
हीनश् चेद् धानि आप्नुयात्।
तत्समस् तु पुनस् तुल्यो
वर्धितो विजयी भवेत् ॥ ८।४९ ॥

मूलम् - ८।४९

धटे ऽभियुक्तस् तुलितो
हीनश् चेद् धानि आप्नुयात्।
तत्समस् तु पुनस् तुल्यो
वर्धितो विजयी भवेत् ॥ ८।४९ ॥

विश्वास-प्रस्तुतिः - ८।५०

शिक्यच्छेदे ऽक्षभङ्गे वा
दयाच् छिक्यं पुनर् नृपः।
साक्षिणो ब्राह्मणाः श्रेष्ठा
यथादृष्टार्थवादिनः ॥ ८।५० ॥

मूलम् - ८।५०

शिक्यच्छेदे ऽक्षभङ्गे वा
दयाच् छिक्यं पुनर् नृपः।
साक्षिणो ब्राह्मणाः श्रेष्ठा
यथादृष्टार्थवादिनः ॥ ८।५० ॥

विश्वास-प्रस्तुतिः - ८।५१

ज्ञातिनः शुचयो लुब्धाः
नियोक्तव्या नृपेण तु।
तेषां वचनतो गम्यः
शुध्यशुद्धिविनिर्णयः ॥ ८।५१ ॥

मूलम् - ८।५१

ज्ञातिनः शुचयो लुब्धाः
नियोक्तव्या नृपेण तु।
तेषां वचनतो गम्यः
शुध्यशुद्धिविनिर्णयः ॥ ८।५१ ॥

विश्वास-प्रस्तुतिः - ८।५२

कक्षच्छेदे तुलाभङ्गे
धट-कर्कटयोस् तथा।
रज्जु-च्छेदे ऽक्षभङ्गे वा
तथैवाशुद्धिम् आप्नुयात् ॥ ८।५२ ॥

मूलम् - ८।५२

कक्षच्छेदे तुलाभङ्गे
धट-कर्कटयोस् तथा।
रज्जु-च्छेदे ऽक्षभङ्गे वा
तथैवाशुद्धिम् आप्नुयात् ॥ ८।५२ ॥

८।६ अग्निविधिः

विश्वास-प्रस्तुतिः - ८।५३

अग्नेर् विधिं प्रवक्ष्यामि
यथावद् विधिचोदितम्।
कारयेन् मण्डलान्य् अष्टौ
पुरस्तान् नवमे तथा ॥ ८।५३ ॥

मूलम् - ८।५३

अग्नेर् विधिं प्रवक्ष्यामि
यथावद् विधिचोदितम्।
कारयेन् मण्डलान्य् अष्टौ
पुरस्तान् नवमे तथा ॥ ८।५३ ॥

विश्वास-प्रस्तुतिः - ८।५४

आग्नेयं मण्डलं त्व् आद्यं
द्वितीयं वारुणं स्मृतम्।
तृतीयं वायुदैवत्यं
चतुर्थं यमदैवतम् ॥ ८।५४ ॥

मूलम् - ८।५४

आग्नेयं मण्डलं त्व् आद्यं
द्वितीयं वारुणं स्मृतम्।
तृतीयं वायुदैवत्यं
चतुर्थं यमदैवतम् ॥ ८।५४ ॥

विश्वास-प्रस्तुतिः - ८।५५

पञ्चमं त्व् इन्द्रदैवत्यं
षष्ठं कौबेरम् उच्यते।
सप्तमं सोमदैवत्यम्
अस्टमं सर्व[सूर्य?]दैवतम् ॥ ८।५५ ॥

मूलम् - ८।५५

पञ्चमं त्व् इन्द्रदैवत्यं
षष्ठं कौबेरम् उच्यते।
सप्तमं सोमदैवत्यम्
अस्टमं सर्व[सूर्य?]दैवतम् ॥ ८।५५ ॥

विश्वास-प्रस्तुतिः - ८।५६

पुरस्तान् नवमं यत् तु
तन् महत् पार्थिवम् विदुः।
गोमयेन कृतानि स्युर्
अद्भिः पर्युषितानि च ॥ ८।५६ ॥

मूलम् - ८।५६

पुरस्तान् नवमं यत् तु
तन् महत् पार्थिवम् विदुः।
गोमयेन कृतानि स्युर्
अद्भिः पर्युषितानि च ॥ ८।५६ ॥

विश्वास-प्रस्तुतिः - ८।५७

द्वात्रिंशद् अङ्गुलान्य् आहुर्
मण्डलान् मण्डलान्तरम्।
कर्तुः समपदं कार्यं
मण्डलं तु प्रमाणतः ॥ ८।५७ ॥

मूलम् - ८।५७

द्वात्रिंशद् अङ्गुलान्य् आहुर्
मण्डलान् मण्डलान्तरम्।
कर्तुः समपदं कार्यं
मण्डलं तु प्रमाणतः ॥ ८।५७ ॥

८।७ तोयविधिः

विश्वास-प्रस्तुतिः - ८।५८

शरप्रक्षेपणस्थानाद्
युवा जवसमन्वितः।
गच्छेत् परमया शक्त्या
यत्रासौ मध्यमः शरः ॥ ८।५८ ॥

मूलम् - ८।५८

शरप्रक्षेपणस्थानाद्
युवा जवसमन्वितः।
गच्छेत् परमया शक्त्या
यत्रासौ मध्यमः शरः ॥ ८।५८ ॥

विश्वास-प्रस्तुतिः - ८।५९

मध्यमं शरम् आदाय
पुरुषो ऽन्यस् तथाविधः।
प्रत्यागच्छेत् तु वेगेन
यतः स पुरुषो गतः ॥ ८।५९ ॥

मूलम् - ८।५९

मध्यमं शरम् आदाय
पुरुषो ऽन्यस् तथाविधः।
प्रत्यागच्छेत् तु वेगेन
यतः स पुरुषो गतः ॥ ८।५९ ॥

विश्वास-प्रस्तुतिः - ८।६०

आगन्तस् तु शरग्राही
न पश्यति यदा जले।
अन्तर्जलगतं सम्यक्
तदा शुद्धिम् विनिर्दिशेत् ॥ ८।६० ॥

मूलम् - ८।६०

आगन्तस् तु शरग्राही
न पश्यति यदा जले।
अन्तर्जलगतं सम्यक्
तदा शुद्धिम् विनिर्दिशेत् ॥ ८।६० ॥

आनीते मध्यमे बाणे
मग्नाङ्गः शुचिताम् इयात्।
अन्यथा न विशुद्धः स्याद्
एकाङ्गस्यापि दर्शनात् \
स्थानाद् वान्यत्र गमनाद् # यस्मिन् पूर्वं निवेशयेत् ॥ ८।६१ ॥

विश्वास-प्रस्तुतिः - ८।६२

अप्सु प्रवेश्य पुरुसं
प्रेषयेत् सायकत्रयम्।
इषूउन् न निक्षिपेद् विद्वान्
मारुते वाति वै भृशम् ॥ ८।६२ ॥

मूलम् - ८।६२

अप्सु प्रवेश्य पुरुसं
प्रेषयेत् सायकत्रयम्।
इषूउन् न निक्षिपेद् विद्वान्
मारुते वाति वै भृशम् ॥ ८।६२ ॥

विश्वास-प्रस्तुतिः - ८।६३

विषमे भूप्रदेशे च
वृक्षस्थाणुसमाकुले [प्।८९]।
तृण-गुल्म-लता-वल्ली-
पङ्क-पाषाणसंयुते ॥ ८।६३ ॥

मूलम् - ८।६३

विषमे भूप्रदेशे च
वृक्षस्थाणुसमाकुले [प्।८९]।
तृण-गुल्म-लता-वल्ली-
पङ्क-पाषाणसंयुते ॥ ८।६३ ॥

विश्वास-प्रस्तुतिः - ८।६४

विधिदत्तं विषं येन
जीर्णं मन्त्रौषधं विना।
स शुद्धः स्याद् अन्यथा तु
दण्ड्यो दाप्यश् च तद्धनम् ॥ ८।६४ ॥

मूलम् - ८।६४

विधिदत्तं विषं येन
जीर्णं मन्त्रौषधं विना।
स शुद्धः स्याद् अन्यथा तु
दण्ड्यो दाप्यश् च तद्धनम् ॥ ८।६४ ॥

विश्वास-प्रस्तुतिः - ८।६५

सप्ताहाद् वा द्विसप्ताहाद्
यस्य हानिर् न जायते।
पुत्र-दारधनानां च
स शुद्धः स्यान् न संशयः ॥ ८।६५ ॥

मूलम् - ८।६५

सप्ताहाद् वा द्विसप्ताहाद्
यस्य हानिर् न जायते।
पुत्र-दारधनानां च
स शुद्धः स्यान् न संशयः ॥ ८।६५ ॥

८।८ कोशविधिः

विश्वास-प्रस्तुतिः - ८।६६

यद् भक्तः सो ऽभियुक्तः स्यात्
तद् एवायुधमण्डलम्।
प्रक्षाल्य पाययेत् तस्माज्
जलात् तु प्रसृतित्रयम् ॥ ८।६६ ॥

मूलम् - ८।६६

यद् भक्तः सो ऽभियुक्तः स्यात्
तद् एवायुधमण्डलम्।
प्रक्षाल्य पाययेत् तस्माज्
जलात् तु प्रसृतित्रयम् ॥ ८।६६ ॥

विश्वास-प्रस्तुतिः - ८।६७

त्रिरात्रं पञ्चरात्रम् वा
पुरुषैः स्वैर् अधिष्थितम्।
निरुद्धं चारयेत् तत्र
कुहकाशङ्कया नृपः ॥ ८।६७ ॥

मूलम् - ८।६७

त्रिरात्रं पञ्चरात्रम् वा
पुरुषैः स्वैर् अधिष्थितम्।
निरुद्धं चारयेत् तत्र
कुहकाशङ्कया नृपः ॥ ८।६७ ॥

विश्वास-प्रस्तुतिः - ८।६८

महाभियोगे निर्धर्मे
कृतघ्ने क्लीबकुत्सिते।
नास्तिके दृष्टदोषे च
कोशपानं विसर्जयेत् ॥ ८।६८ ॥

मूलम् - ८।६८

महाभियोगे निर्धर्मे
कृतघ्ने क्लीबकुत्सिते।
नास्तिके दृष्टदोषे च
कोशपानं विसर्जयेत् ॥ ८।६८ ॥

दिव्यानि वर्जयेन् नित्यम्
आर्तानां तु गदैर् नृणाम्।

८।९ तण्डुलविधिः

विश्वास-प्रस्तुतिः - ८।६९

तण्डुलैर् नाभियुञ्जीत
प्रजानां मुखरोगिणाम् ॥ ८।६९ ॥

मूलम् - ८।६९

तण्डुलैर् नाभियुञ्जीत
प्रजानां मुखरोगिणाम् ॥ ८।६९ ॥

विश्वास-प्रस्तुतिः - ८।७०

सोपवासः सूर्यग्रहे
तण्डुलान् भक्षयेच् छुचिः।
शुद्धः स्याच् छुक्लनिष्ट्ःईवे
विपरीते तु दोषभाक् ॥ ८।७० ॥

मूलम् - ८।७०

सोपवासः सूर्यग्रहे
तण्डुलान् भक्षयेच् छुचिः।
शुद्धः स्याच् छुक्लनिष्ट्ःईवे
विपरीते तु दोषभाक् ॥ ८।७० ॥

विश्वास-प्रस्तुतिः - ८।७१

शोणितं दृश्यते यत्र
हनुस् तालु च शीर्यतः।
गात्रं च कम्पते यस्य
तम् अशुद्धम् विनिर्दिशेत् ॥ ८।७१ ॥

मूलम् - ८।७१

शोणितं दृश्यते यत्र
हनुस् तालु च शीर्यतः।
गात्रं च कम्पते यस्य
तम् अशुद्धम् विनिर्दिशेत् ॥ ८।७१ ॥

८।१० तप्तमाषविधिः

विश्वास-प्रस्तुतिः - ८।७२

समुद्धरेत् तैल्घृतात्
सुतप्तात् तप्तमाषकम्।
अङ्गुष्ठाङ्गुलियोगेन
सत्यम् आमन्त्र्य वीतभीः ॥ ८।७२ ॥

मूलम् - ८।७२

समुद्धरेत् तैल्घृतात्
सुतप्तात् तप्तमाषकम्।
अङ्गुष्ठाङ्गुलियोगेन
सत्यम् आमन्त्र्य वीतभीः ॥ ८।७२ ॥

विश्वास-प्रस्तुतिः - ८।७३

सौवर्णे राजते ताम्रे
आयसे मृण्मये ऽपि वा।
गव्यं घृतम् उपादाय
तद् अग्नौ तापयेच् छुचिः ॥ ८।७३ ॥

मूलम् - ८।७३

सौवर्णे राजते ताम्रे
आयसे मृण्मये ऽपि वा।
गव्यं घृतम् उपादाय
तद् अग्नौ तापयेच् छुचिः ॥ ८।७३ ॥

विश्वास-प्रस्तुतिः - ८।७४

सौवर्णीं राज्तीं ताम्रीम्
आयसीं वा सुशोभनाम्।
सलिलेन सकृद्धौतां
प्रक्षिपेत् तत्र मुद्रिकाम् ॥ ८।७४ ॥

मूलम् - ८।७४

सौवर्णीं राज्तीं ताम्रीम्
आयसीं वा सुशोभनाम्।
सलिलेन सकृद्धौतां
प्रक्षिपेत् तत्र मुद्रिकाम् ॥ ८।७४ ॥

विश्वास-प्रस्तुतिः - ८।७५

भ्रमद्वीरीतरङ्गाढ्ये ह्य्
अनखस्पर्शगोचरे।
परीक्षेद् आर्द्रपर्णेन
चरुकारं स-घोषकम् ॥ ८।७५ ॥

मूलम् - ८।७५

भ्रमद्वीरीतरङ्गाढ्ये ह्य्
अनखस्पर्शगोचरे।
परीक्षेद् आर्द्रपर्णेन
चरुकारं स-घोषकम् ॥ ८।७५ ॥

विश्वास-प्रस्तुतिः - ८।७६

८।७६अ।ततश् चानेन मन्त्रेण सकृत् तद् अभिमन्त्रयेत् [प्।९१]
परं पवित्रम् अमृतं घृत त्वं यज्ञकर्मसु ॥ ८।७६ ॥

मूलम् - ८।७६

८।७६अ।ततश् चानेन मन्त्रेण सकृत् तद् अभिमन्त्रयेत् [प्।९१]
परं पवित्रम् अमृतं घृत त्वं यज्ञकर्मसु ॥ ८।७६ ॥

दह पावक पापं त्वं
हिमशी[तो?]तः शुचौ भव।
उपोषितं ततः स्नातम्
आर्द्रवाससम् आगतम् \
ग्राहयेन् मुद्रिकां तां तु # घृतमध्यगतां तथा ॥ ८।७७ ॥

प्रदेशिनीं च तस्याथ
परीक्षेयुः परीक्षकाः।
कराग्रं यो नु धुनुयात्
विस्फोटो वा न जायते \
शुद्धो भवति धर्मेण # पितामहवचो यथा ॥ ८।७८ ॥

८।११ फालविधिः

विश्वास-प्रस्तुतिः - ८।७९

आयसं द्वादशपलं
घटितं फालम् उच्यते।
अदग्धश् चेच् छुद्धिम् इयाद्
अन्यथा त्व् अपहीयते ॥ ८।७९ ॥

मूलम् - ८।७९

आयसं द्वादशपलं
घटितं फालम् उच्यते।
अदग्धश् चेच् छुद्धिम् इयाद्
अन्यथा त्व् अपहीयते ॥ ८।७९ ॥

अष्टाङ्गुलं भवेद् दीर्घं
चतुरङ्गुलविस्तृतम्।
अग्निवर्णं तु तच् चोरो
जिह्वया लेलिहेत् सकृत् \
न दग्धश् चेच् छुद्धिम् इयाद् # अन्यथा तु स हीयते ॥ ८।८० ॥

विश्वास-प्रस्तुतिः - ८।८१

गोचरस्य प्रदातव्यं
सभ्यैः फालं प्रयत्नतः।
महाभियोगेष्व् एतानि
शीर्सकस्थे ऽभियोक्तरि ॥ ८।८१ ॥

मूलम् - ८।८१

गोचरस्य प्रदातव्यं
सभ्यैः फालं प्रयत्नतः।
महाभियोगेष्व् एतानि
शीर्सकस्थे ऽभियोक्तरि ॥ ८।८१ ॥

८।१२ धर्मकविधिः

विश्वास-प्रस्तुतिः - ८।८२

पत्त्रद्वये लेखनीयौ
धर्माधर्मौ सितासितौ।
जीवदानादिभिर् मन्त्रैः
गायत्र्याद्यैश् च सामभिः ॥ ८।८२ ॥

मूलम् - ८।८२

पत्त्रद्वये लेखनीयौ
धर्माधर्मौ सितासितौ।
जीवदानादिभिर् मन्त्रैः
गायत्र्याद्यैश् च सामभिः ॥ ८।८२ ॥

विश्वास-प्रस्तुतिः - ८।८३

आमन्त्र्य पूजयेद् गन्धैः
कुसुमैश् च सितासितैः।
अभ्युक्ष्य पञ्चगव्येन
मृत्पिण्डान्तरितौ ततः ॥ ८।८३ ॥

मूलम् - ८।८३

आमन्त्र्य पूजयेद् गन्धैः
कुसुमैश् च सितासितैः।
अभ्युक्ष्य पञ्चगव्येन
मृत्पिण्डान्तरितौ ततः ॥ ८।८३ ॥

विश्वास-प्रस्तुतिः - ८।८४

समौ कृत्वा तु तौ कुम्भे
स्थाप्यौ चानुपलक्षितौ।
ततः कुम्भात् पिण्डम् एकं
प्रगृह्णीताविलम्बितः ॥ ८।८४ ॥

मूलम् - ८।८४

समौ कृत्वा तु तौ कुम्भे
स्थाप्यौ चानुपलक्षितौ।
ततः कुम्भात् पिण्डम् एकं
प्रगृह्णीताविलम्बितः ॥ ८।८४ ॥

विश्वास-प्रस्तुतिः - ८।८५

धर्मे गृहीते शुद्धः स्यात्
स पूज्यश् च परीक्षकैः।
अधर्मे सङ्गृहीते तु
दण्ड्यो निर्वास्य एव वा [प्।९३] ॥ ८।८५ ॥

मूलम् - ८।८५

धर्मे गृहीते शुद्धः स्यात्
स पूज्यश् च परीक्षकैः।
अधर्मे सङ्गृहीते तु
दण्ड्यो निर्वास्य एव वा [प्।९३] ॥ ८।८५ ॥

विश्वास-प्रस्तुतिः - ८।८६

लिखेद् भूर्जपटे वापि
धर्माधर्मौ सितासितौ।
अभ्युक्ष्य पञ्चगव्येन
गन्धमाल्यैः समर्चयेत् ॥ ८।८६ ॥

मूलम् - ८।८६

लिखेद् भूर्जपटे वापि
धर्माधर्मौ सितासितौ।
अभ्युक्ष्य पञ्चगव्येन
गन्धमाल्यैः समर्चयेत् ॥ ८।८६ ॥

विश्वास-प्रस्तुतिः - ८।८७

सितपुष्पस् तु धर्मः स्याद्
अधर्मो ऽसितपुष्पधृत्।
एवं विधायोपलिप्य
पिण्डयोस् तानि धापयेत् ॥ ८।८७ ॥

मूलम् - ८।८७

सितपुष्पस् तु धर्मः स्याद्
अधर्मो ऽसितपुष्पधृत्।
एवं विधायोपलिप्य
पिण्डयोस् तानि धापयेत् ॥ ८।८७ ॥

विश्वास-प्रस्तुतिः - ८।८८

गोमयेन मृदा वापि
पिण्डौ कार्यौ समौ ततः।
मृद्भाणके ऽनुपहते
स्थाप्यौ चानुपलक्षितौ ॥ ८।८८ ॥

मूलम् - ८।८८

गोमयेन मृदा वापि
पिण्डौ कार्यौ समौ ततः।
मृद्भाणके ऽनुपहते
स्थाप्यौ चानुपलक्षितौ ॥ ८।८८ ॥

विश्वास-प्रस्तुतिः - ८।८९

उपलिप्ते शुचौ देशे
देवब्राह्मणसन्निधौ।
समर्चयेत् ततो देवान्
लोकपालांश् च पूर्ववत् ॥ ८।८९ ॥

मूलम् - ८।८९

उपलिप्ते शुचौ देशे
देवब्राह्मणसन्निधौ।
समर्चयेत् ततो देवान्
लोकपालांश् च पूर्ववत् ॥ ८।८९ ॥

विश्वास-प्रस्तुतिः - ८।९०

धर्मावाहनपूर्वं तु
प्रतिज्ञापत्त्रकं लिखेत्।
यदि पापविमुक्तो ऽहं
धर्मश् चायातु मे करे ॥ ८।९० ॥

मूलम् - ८।९०

धर्मावाहनपूर्वं तु
प्रतिज्ञापत्त्रकं लिखेत्।
यदि पापविमुक्तो ऽहं
धर्मश् चायातु मे करे ॥ ८।९० ॥

विश्वास-प्रस्तुतिः - ८।९१

अभिशस्तस् तयोश् चैकं
प्रगृह्णीताविलम्बितः।
धर्मे गृहीते शुद्धिः स्याद्
अधर्मे तु स हीयते ॥ ८।९१ ॥

मूलम् - ८।९१

अभिशस्तस् तयोश् चैकं
प्रगृह्णीताविलम्बितः।
धर्मे गृहीते शुद्धिः स्याद्
अधर्मे तु स हीयते ॥ ८।९१ ॥

विश्वास-प्रस्तुतिः - ८।९२

एवं विचारयन् राजा
धर्मार्थाभ्यां न हीयते ॥ ८।९२ ॥

मूलम् - ८।९२

एवं विचारयन् राजा
धर्मार्थाभ्यां न हीयते ॥ ८।९२ ॥