विश्वास-प्रस्तुतिः - ७।१
धनमूलाः क्रियाः सर्वा
यत्नास् तत्साधने मताः।
वर्धनं रक्षणं भोग
इति तस्य विधिक्रमः ॥ ७।१ ॥
मूलम् - ७।१
धनमूलाः क्रियाः सर्वा
यत्नास् तत्साधने मताः।
वर्धनं रक्षणं भोग
इति तस्य विधिक्रमः ॥ ७।१ ॥
७।१ धनप्रभेदाः
विश्वास-प्रस्तुतिः - ७।२
तत् पुनस् त्रिविधं ज्ञेयं
शुक्लं शबऌअम् एव च।
कृष्णं च तत्र विज्ञेयः
प्रभेदः सप्तधा पुनः ॥ ७।२ ॥
मूलम् - ७।२
तत् पुनस् त्रिविधं ज्ञेयं
शुक्लं शबऌअम् एव च।
कृष्णं च तत्र विज्ञेयः
प्रभेदः सप्तधा पुनः ॥ ७।२ ॥
विश्वास-प्रस्तुतिः - ७।३
श्रुतशौर्यतपः कन्या-
शिष्ययाज्यान्वयागतम्।
धनं सप्तविधं शुल्कम्
उभयो ह्य् अस्य तद्विधः ॥ ७।३ ॥
मूलम् - ७।३
श्रुतशौर्यतपः कन्या-
शिष्ययाज्यान्वयागतम्।
धनं सप्तविधं शुल्कम्
उभयो ह्य् अस्य तद्विधः ॥ ७।३ ॥
विश्वास-प्रस्तुतिः - ७।४
कुसीदकृषिवाणिज्य-
शुल्कशिल्पानुवृत्तिभिः।
कृतोपकाराद् आप्तं च
शबऌअं समुदाहृतम् ॥ ७।४ ॥
मूलम् - ७।४
कुसीदकृषिवाणिज्य-
शुल्कशिल्पानुवृत्तिभिः।
कृतोपकाराद् आप्तं च
शबऌअं समुदाहृतम् ॥ ७।४ ॥
विश्वास-प्रस्तुतिः - ७।५
पाशकद्यूतदूतार्थ-
प्रतिरूपकसाहसैः।
व्याजेनोपार्जितं यच् च
तत् कृष्णं समुदाहृतम् ॥ ७।५ ॥
मूलम् - ७।५
पाशकद्यूतदूतार्थ-
प्रतिरूपकसाहसैः।
व्याजेनोपार्जितं यच् च
तत् कृष्णं समुदाहृतम् ॥ ७।५ ॥
विश्वास-प्रस्तुतिः - ७।६
तेन क्रयो विक्रयश् च
दानं ग्रहणम् एव च।
विविधाश् च प्रयुज्यन्ते
क्रियासम्भोगम् एव च ॥ ७।६ ॥
मूलम् - ७।६
तेन क्रयो विक्रयश् च
दानं ग्रहणम् एव च।
विविधाश् च प्रयुज्यन्ते
क्रियासम्भोगम् एव च ॥ ७।६ ॥
विश्वास-प्रस्तुतिः - ७।७
यथाविधेन द्रव्येण
यत् किञ् चित् कुरुते नरः।
तथाविधम् अवाप्नोति
तत्फलं प्रेत्य चेह च ॥ ७।७ ॥
मूलम् - ७।७
यथाविधेन द्रव्येण
यत् किञ् चित् कुरुते नरः।
तथाविधम् अवाप्नोति
तत्फलं प्रेत्य चेह च ॥ ७।७ ॥
विश्वास-प्रस्तुतिः - ७।८
तत् पुनर् द्वादशविधं
प्रतिवर्णाश्रयं स्मृतम्।
साधारणं स्यात् त्रिविधं
शेषं नवविधं स्मृतम् ॥ ७।८ ॥
मूलम् - ७।८
तत् पुनर् द्वादशविधं
प्रतिवर्णाश्रयं स्मृतम्।
साधारणं स्यात् त्रिविधं
शेषं नवविधं स्मृतम् ॥ ७।८ ॥
विश्वास-प्रस्तुतिः - ७।९
क्रमागतं प्रीतिदायं
प्राप्तं च सह भार्यया।
अविशेषेण सर्वेषां
वर्णानां त्रिविधं स्मृतम् ॥ ७।९ ॥
मूलम् - ७।९
क्रमागतं प्रीतिदायं
प्राप्तं च सह भार्यया।
अविशेषेण सर्वेषां
वर्णानां त्रिविधं स्मृतम् ॥ ७।९ ॥
विश्वास-प्रस्तुतिः - ७।१०
वैशेषिकं धनं ज्ञेयं
ब्राह्मणस्य त्रिलक्षणम् [प्।७१]।
प्रतिग्रहणलब्धं यद्
याज्यं तच् छिष्यतस् तथा ॥ ७।१० ॥
मूलम् - ७।१०
वैशेषिकं धनं ज्ञेयं
ब्राह्मणस्य त्रिलक्षणम् [प्।७१]।
प्रतिग्रहणलब्धं यद्
याज्यं तच् छिष्यतस् तथा ॥ ७।१० ॥
विश्वास-प्रस्तुतिः - ७।११
त्रिविधं क्षत्रियस्यापि
प्राहुर् वैशेषिकं धनम्।
युद्धोपलब्धं करतो
दण्डाच् च व्यवहारतः ॥ ७।११ ॥
मूलम् - ७।११
त्रिविधं क्षत्रियस्यापि
प्राहुर् वैशेषिकं धनम्।
युद्धोपलब्धं करतो
दण्डाच् च व्यवहारतः ॥ ७।११ ॥
विश्वास-प्रस्तुतिः - ७।१२
वैशेषिकं धनं ज्ञेयं
वैश्यस्यापि त्रिलक्षणम्।
कृषि-गोरक्ष-वाणिज्यं
शूद्रस्यैषाम् अनुग्रहात् ॥ ७।१२ ॥
मूलम् - ७।१२
वैशेषिकं धनं ज्ञेयं
वैश्यस्यापि त्रिलक्षणम्।
कृषि-गोरक्ष-वाणिज्यं
शूद्रस्यैषाम् अनुग्रहात् ॥ ७।१२ ॥
विश्वास-प्रस्तुतिः - ७।१३
सर्वेषाम् एव वर्णानाम्
एवं धर्म्यो धनागमः।
विपर्ययाद् अधर्मः स्यान्
न चेद् आपद् गरीयसी ॥ ७।१३ ॥
मूलम् - ७।१३
सर्वेषाम् एव वर्णानाम्
एवं धर्म्यो धनागमः।
विपर्ययाद् अधर्मः स्यान्
न चेद् आपद् गरीयसी ॥ ७।१३ ॥
विश्वास-प्रस्तुतिः - ७।१४
आपत्स्व् अनन्तरावृत्तिर्
ब्राह्मणस्य विधीयते।
वैश्यवृत्तिश् च तस्योक्ता
न जघन्या कथं चन ॥ ७।१४ ॥
मूलम् - ७।१४
आपत्स्व् अनन्तरावृत्तिर्
ब्राह्मणस्य विधीयते।
वैश्यवृत्तिश् च तस्योक्ता
न जघन्या कथं चन ॥ ७।१४ ॥
विश्वास-प्रस्तुतिः - ७।१५
कथं चन न कुर्वीत
ब्राह्मणः कर्म वार्षलम्।
वृषलः कर्म न ब्राह्मं
पतनीये हि ते तयोः ॥ ७।१५ ॥
मूलम् - ७।१५
कथं चन न कुर्वीत
ब्राह्मणः कर्म वार्षलम्।
वृषलः कर्म न ब्राह्मं
पतनीये हि ते तयोः ॥ ७।१५ ॥
विश्वास-प्रस्तुतिः - ७।१६
उत्कृष्टं चापकृष्टं
तयोः कर्म न विद्यते।
मध्यमे कर्मणी हित्वा
सर्वसाधारणी हि ते ॥ ७।१६ ॥
मूलम् - ७।१६
उत्कृष्टं चापकृष्टं
तयोः कर्म न विद्यते।
मध्यमे कर्मणी हित्वा
सर्वसाधारणी हि ते ॥ ७।१६ ॥
विश्वास-प्रस्तुतिः - ७।१७
आपदं ब्राह्मणस् तीर्त्वा
क्षत्रवृत्त्या भृते जने।
उत्सृजेत् क्षेत्रवृत्तिं तां
कृत्वा पावनम् आत्मनः ॥ ७।१७ ॥
मूलम् - ७।१७
आपदं ब्राह्मणस् तीर्त्वा
क्षत्रवृत्त्या भृते जने।
उत्सृजेत् क्षेत्रवृत्तिं तां
कृत्वा पावनम् आत्मनः ॥ ७।१७ ॥
विश्वास-प्रस्तुतिः - ७।१८
तस्याम् एव तु यो भुक्तौ
ब्राह्मणो रमते रसात्।
काण्डपृष्ठश् च्युतो मार्गाद्
अङ्कितो ऽयं प्रकीर्तितः ॥ ७।१८ ॥
मूलम् - ७।१८
तस्याम् एव तु यो भुक्तौ
ब्राह्मणो रमते रसात्।
काण्डपृष्ठश् च्युतो मार्गाद्
अङ्कितो ऽयं प्रकीर्तितः ॥ ७।१८ ॥
विश्वास-प्रस्तुतिः - ७।१९
स्वकुलं पृष्ठतः कृत्वा
यो वै परकुलं व्रजेत्।
तेन दुश्चरितेनासौ
काण्डपृष्ठ इति स्मृतः ॥ ७।१९ ॥
मूलम् - ७।१९
स्वकुलं पृष्ठतः कृत्वा
यो वै परकुलं व्रजेत्।
तेन दुश्चरितेनासौ
काण्डपृष्ठ इति स्मृतः ॥ ७।१९ ॥
विश्वास-प्रस्तुतिः - ७।२०
दिवाकृते कार्यविधौ
ग्रामेषु नगरेषु च।
सम्भवे साक्षिणां चैव
न दिव्या भवति क्रिया ॥ ७।२० ॥
मूलम् - ७।२०
दिवाकृते कार्यविधौ
ग्रामेषु नगरेषु च।
सम्भवे साक्षिणां चैव
न दिव्या भवति क्रिया ॥ ७।२० ॥
विश्वास-प्रस्तुतिः - ७।२१
द्वारमार्गक्रियाभोग-
जलवाहादिके तथा।
भुक्तिर् एव तु गुर्वो स्यान्
न लेख्यं न च साक्षिणः ॥ ७।२१ ॥
मूलम् - ७।२१
द्वारमार्गक्रियाभोग-
जलवाहादिके तथा।
भुक्तिर् एव तु गुर्वो स्यान्
न लेख्यं न च साक्षिणः ॥ ७।२१ ॥
विश्वास-प्रस्तुतिः - ७।२२
एतद् विधानम् आख्यातं
साक्षिणां लिखितस्य च।
सम्प्रति स्थावरप्राप्तेर्
भुक्तेश् च विधिर् उच्यते ॥ ७।२२ ॥
मूलम् - ७।२२
एतद् विधानम् आख्यातं
साक्षिणां लिखितस्य च।
सम्प्रति स्थावरप्राप्तेर्
भुक्तेश् च विधिर् उच्यते ॥ ७।२२ ॥
विश्वास-प्रस्तुतिः - ७।२३
विद्यया क्रयबन्धेन
शौर्यभागान्वयागतम्।
सपिण्डस्याप्रजस्यांशं
स्थावरं स्पतधाप्यते ॥ ७।२३ ॥
मूलम् - ७।२३
विद्यया क्रयबन्धेन
शौर्यभागान्वयागतम्।
सपिण्डस्याप्रजस्यांशं
स्थावरं स्पतधाप्यते ॥ ७।२३ ॥
७।२ भोगाः सप्तविधः
विश्वास-प्रस्तुतिः - ७।२४
पित्र्ये लभ्दक्रयाधाने
रिक्थशौर्यप्रवेदनात्।
प्राप्ते सप्तविधे भोगः
सागमः सिद्धिम् आप्नुयात् ॥ ७।२४ ॥
मूलम् - ७।२४
पित्र्ये लभ्दक्रयाधाने
रिक्थशौर्यप्रवेदनात्।
प्राप्ते सप्तविधे भोगः
सागमः सिद्धिम् आप्नुयात् ॥ ७।२४ ॥
विश्वास-प्रस्तुतिः - ७।२५
क्रमागतः शासनिकः
क्रयाधानसमन्वितः।
एवंविधस् तु यो भोगः
स तु सिद्धिम् अवाप्नुयात् ॥ ७।२५ ॥
मूलम् - ७।२५
क्रमागतः शासनिकः
क्रयाधानसमन्वितः।
एवंविधस् तु यो भोगः
स तु सिद्धिम् अवाप्नुयात् ॥ ७।२५ ॥
विश्वास-प्रस्तुतिः - ७।२६
संविभागक्रयप्राप्तं
पित्र्यं लब्धं च राजतः [प्।७३]।
स्थावरं सिद्धिम् आप्नोति
भुक्त्वा हानिम् उपेक्षया ॥ ७।२६ ॥
मूलम् - ७।२६
संविभागक्रयप्राप्तं
पित्र्यं लब्धं च राजतः [प्।७३]।
स्थावरं सिद्धिम् आप्नोति
भुक्त्वा हानिम् उपेक्षया ॥ ७।२६ ॥
विश्वास-प्रस्तुतिः - ७।२७
प्राप्तमात्रं येन भुक्तं
स्वीकृत्यापरिपन्थितम्।
तस्य तत्सिद्धिम् आप्नोति
हानिं चोपेक्षया यथा ॥ ७।२७ ॥
मूलम् - ७।२७
प्राप्तमात्रं येन भुक्तं
स्वीकृत्यापरिपन्थितम्।
तस्य तत्सिद्धिम् आप्नोति
हानिं चोपेक्षया यथा ॥ ७।२७ ॥
विश्वास-प्रस्तुतिः - ७।२८
अध्यासनात् समारभ्य
भुक्तिर् यस्याविघातिनी।
त्रिंशद्वर्षाण्य् अविच्छिन्ना
तस्य तां न विचालयेत् ॥ ७।२८ ॥
मूलम् - ७।२८
अध्यासनात् समारभ्य
भुक्तिर् यस्याविघातिनी।
त्रिंशद्वर्षाण्य् अविच्छिन्ना
तस्य तां न विचालयेत् ॥ ७।२८ ॥
विश्वास-प्रस्तुतिः - ७।२९
न स्त्रीणाम् उपभोगः स्याद्
विना लेख्यं कथं चन।
राजश्रोत्रियवित्ते च
जडबालधनेन च ॥ ७।२९ ॥
मूलम् - ७।२९
न स्त्रीणाम् उपभोगः स्याद्
विना लेख्यं कथं चन।
राजश्रोत्रियवित्ते च
जडबालधनेन च ॥ ७।२९ ॥
विश्वास-प्रस्तुतिः - ७।३०
भुक्त्या केवलया नैव
भुक्तिः सिद्धिम् अवाप्नुयात्।
आगमेनापि शुद्धेन
द्वाभ्यां सिध्यति नान्यथा ॥ ७।३० ॥
मूलम् - ७।३०
भुक्त्या केवलया नैव
भुक्तिः सिद्धिम् अवाप्नुयात्।
आगमेनापि शुद्धेन
द्वाभ्यां सिध्यति नान्यथा ॥ ७।३० ॥
विश्वास-प्रस्तुतिः - ७।३१
बालश्रोत्रियवित्ते च
प्राप्ते च पितृतः क्रमात्।
नोपभोगे बलं कार्यम्
आहर्त्रा तत्सुतेन वा ॥ ७।३१ ॥
मूलम् - ७।३१
बालश्रोत्रियवित्ते च
प्राप्ते च पितृतः क्रमात्।
नोपभोगे बलं कार्यम्
आहर्त्रा तत्सुतेन वा ॥ ७।३१ ॥
विश्वास-प्रस्तुतिः - ७।३२
पशुस्त्रीपुरुषादीनाम्
इति धर्मो व्यवस्थितः।
यद्य् एकशासने ग्राम-
क्षेत्रारामाश् च लेखिताः ॥ ७।३२ ॥
मूलम् - ७।३२
पशुस्त्रीपुरुषादीनाम्
इति धर्मो व्यवस्थितः।
यद्य् एकशासने ग्राम-
क्षेत्रारामाश् च लेखिताः ॥ ७।३२ ॥
विश्वास-प्रस्तुतिः - ७।३३
एकदेशोपभोगे ऽपि
सर्वे भुक्ता भवन्ति ते।
आगमो ऽपि बलं नैव
भुक्तिः स्तोकापि यत्र नो ॥ ७।३३ ॥
मूलम् - ७।३३
एकदेशोपभोगे ऽपि
सर्वे भुक्ता भवन्ति ते।
आगमो ऽपि बलं नैव
भुक्तिः स्तोकापि यत्र नो ॥ ७।३३ ॥
विश्वास-प्रस्तुतिः - ७।३४
अनुमानाद् वरः साक्षी
साक्षिभ्यो लिखितं गुरु।
अव्याहता त्रिपुरुषी
भुक्तिर् एभ्यो गरीयसी ॥ ७।३४ ॥
मूलम् - ७।३४
अनुमानाद् वरः साक्षी
साक्षिभ्यो लिखितं गुरु।
अव्याहता त्रिपुरुषी
भुक्तिर् एभ्यो गरीयसी ॥ ७।३४ ॥
विश्वास-प्रस्तुतिः - ७।३५
अनुमानं वसत्य् अत्र
साक्षी चामरणाद् भवेत्।
अव्याहतं लेखभोगं
प्रमाणं तु त्रिपौरुषम् ॥ ७।३५ ॥
मूलम् - ७।३५
अनुमानं वसत्य् अत्र
साक्षी चामरणाद् भवेत्।
अव्याहतं लेखभोगं
प्रमाणं तु त्रिपौरुषम् ॥ ७।३५ ॥
विश्वास-प्रस्तुतिः - ७।३६
पितापितामहो यस्य
जीवेच् च प्रपितामहः।
त्रिंशत् समा तु या भुक्ता
भूमिर् अव्याहता परैः ॥ ७।३६ ॥
मूलम् - ७।३६
पितापितामहो यस्य
जीवेच् च प्रपितामहः।
त्रिंशत् समा तु या भुक्ता
भूमिर् अव्याहता परैः ॥ ७।३६ ॥
विश्वास-प्रस्तुतिः - ७।३७
भुक्तिः सा पौरुषी ज्ञेया
द्विगुणा च द्विपुरुषी।
त्रिपूरुषी च त्रिगुणा
परतः स्याच् चिरन्तना ॥ ७।३७ ॥
मूलम् - ७।३७
भुक्तिः सा पौरुषी ज्ञेया
द्विगुणा च द्विपुरुषी।
त्रिपूरुषी च त्रिगुणा
परतः स्याच् चिरन्तना ॥ ७।३७ ॥
विश्वास-प्रस्तुतिः - ७।३८
यत्राहर्ताभियुक्तः स्याल्
लेख्यं साक्षी तदा गुरुः।
तद्-अभावे तु पुत्राणां
भुक्तिर् एका गरीयसी ॥ ७।३८ ॥
मूलम् - ७।३८
यत्राहर्ताभियुक्तः स्याल्
लेख्यं साक्षी तदा गुरुः।
तद्-अभावे तु पुत्राणां
भुक्तिर् एका गरीयसी ॥ ७।३८ ॥
विश्वास-प्रस्तुतिः - ७।३९
आहर्ता शोधयेद् भुक्तिम्
आगमं वापि संसदि [प्।७५]।
तत्पुत्रो भुक्तिम् एवैकां
पौत्रादिस् तु न किञ्चन ॥ ७।३९ ॥
मूलम् - ७।३९
आहर्ता शोधयेद् भुक्तिम्
आगमं वापि संसदि [प्।७५]।
तत्पुत्रो भुक्तिम् एवैकां
पौत्रादिस् तु न किञ्चन ॥ ७।३९ ॥
विश्वास-प्रस्तुतिः - ७।४०
रिक्थभिर् वा परैर् द्रव्यं
समक्षं यस्य दीयते।
अन्यस्य भुञ्जतः पश्चान्
न स तल् लब्धुम् अर्हति ॥ ७।४० ॥
मूलम् - ७।४०
रिक्थभिर् वा परैर् द्रव्यं
समक्षं यस्य दीयते।
अन्यस्य भुञ्जतः पश्चान्
न स तल् लब्धुम् अर्हति ॥ ७।४० ॥
विश्वास-प्रस्तुतिः - ७।४१
पश्यन्न् अन्यस्य ददतः
क्षितिं यो न निवारयेत्।
सतापि लेख्येन भुवं
न पुनर् ताम् अवाप्नुयात् ॥ ७।४१ ॥
मूलम् - ७।४१
पश्यन्न् अन्यस्य ददतः
क्षितिं यो न निवारयेत्।
सतापि लेख्येन भुवं
न पुनर् ताम् अवाप्नुयात् ॥ ७।४१ ॥
विश्वास-प्रस्तुतिः - ७।४२
ऋक्थिभिर् वापरैर् वापि
दत्तं तेनैव तद् भृगुः ॥ ७।४२ ॥
मूलम् - ७।४२
ऋक्थिभिर् वापरैर् वापि
दत्तं तेनैव तद् भृगुः ॥ ७।४२ ॥
विश्वास-प्रस्तुतिः - ७।४३
भुक्तिस् त्रिपुरुषी सिध्येत्
परेषां नात्र संशयः।
अनिवृत्ते सपिण्डत्वे
सकुल्यानां न सिध्यति ॥ ७।४३ ॥
मूलम् - ७।४३
भुक्तिस् त्रिपुरुषी सिध्येत्
परेषां नात्र संशयः।
अनिवृत्ते सपिण्डत्वे
सकुल्यानां न सिध्यति ॥ ७।४३ ॥
विश्वास-प्रस्तुतिः - ७।४४
अस्वामिना तु यद् भुक्तं
गृहक्षेत्रापणादिकम्।
सुहृद्-बन्धु-सकुल्यस्य
न तद्भोगेन हीयते ॥ ७।४४ ॥
मूलम् - ७।४४
अस्वामिना तु यद् भुक्तं
गृहक्षेत्रापणादिकम्।
सुहृद्-बन्धु-सकुल्यस्य
न तद्भोगेन हीयते ॥ ७।४४ ॥
विश्वास-प्रस्तुतिः - ७।४५
धर्मो ऽक्षयः श्रोत्रियस्य
अभयं राजपूरुषे।
स्नेहः सुहृद्-बान्धवेषु
भुक्तम् एतैर् न हीयते ॥ ७।४५ ॥
मूलम् - ७।४५
धर्मो ऽक्षयः श्रोत्रियस्य
अभयं राजपूरुषे।
स्नेहः सुहृद्-बान्धवेषु
भुक्तम् एतैर् न हीयते ॥ ७।४५ ॥
विश्वास-प्रस्तुतिः - ७।४६
वैवाह्य श्रोत्रियैर् भुक्तं
राज्ञामात्यैस् तथैव च।
सुदीर्घेनापि कालेन
तेषां सिध्यति तन् न तु ॥ ७।४६ ॥
मूलम् - ७।४६
वैवाह्य श्रोत्रियैर् भुक्तं
राज्ञामात्यैस् तथैव च।
सुदीर्घेनापि कालेन
तेषां सिध्यति तन् न तु ॥ ७।४६ ॥
विश्वास-प्रस्तुतिः - ७।४७
अशक्तालस-रोगार्त-
बाल-भीत-प्रवासिनाम्।
शासनारूढम् अन्येन
भुक्तं भुक्त्या न हीयते ॥ ७।४७ ॥
मूलम् - ७।४७
अशक्तालस-रोगार्त-
बाल-भीत-प्रवासिनाम्।
शासनारूढम् अन्येन
भुक्तं भुक्त्या न हीयते ॥ ७।४७ ॥
विश्वास-प्रस्तुतिः - ७।४८
छिन्नभोगे गृहे क्षेत्रे
सन्दिग्धं यत्र जायते।
लेख्येन भोगविद्भिर् वा
साक्षिभिः शुद्धिम् आहरेत् ॥ ७।४८ ॥
मूलम् - ७।४८
छिन्नभोगे गृहे क्षेत्रे
सन्दिग्धं यत्र जायते।
लेख्येन भोगविद्भिर् वा
साक्षिभिः शुद्धिम् आहरेत् ॥ ७।४८ ॥
विश्वास-प्रस्तुतिः - ७।४९
नामघाटागमं सङ्ख्यां
कालं दिग्भागम् एव च।
भोगच्छेदनिमित्तं च
ये विदुस् तत्र साक्षिणः ॥ ७।४९ ॥
मूलम् - ७।४९
नामघाटागमं सङ्ख्यां
कालं दिग्भागम् एव च।
भोगच्छेदनिमित्तं च
ये विदुस् तत्र साक्षिणः ॥ ७।४९ ॥
विश्वास-प्रस्तुतिः - ७।५०
उत्पन्नाश् चात्यासन्ना ये
ये च देशान्तरस्थिताः।
मौलास् ते तु समुद्दिष्टाः
प्रष्टव्याः कार्यनिर्णये ॥ ७।५० ॥
मूलम् - ७।५०
उत्पन्नाश् चात्यासन्ना ये
ये च देशान्तरस्थिताः।
मौलास् ते तु समुद्दिष्टाः
प्रष्टव्याः कार्यनिर्णये ॥ ७।५० ॥
विश्वास-प्रस्तुतिः - ७।५१
अदुष्टास् ते तु यद् ब्रूयुः
सन्दिग्धे समदृष्टयः।
तत्प्रमाणं प्रकर्तव्यम्
एवं धर्मो न हीयते [प्।७७] ॥ ७।५१ ॥
मूलम् - ७।५१
अदुष्टास् ते तु यद् ब्रूयुः
सन्दिग्धे समदृष्टयः।
तत्प्रमाणं प्रकर्तव्यम्
एवं धर्मो न हीयते [प्।७७] ॥ ७।५१ ॥
विश्वास-प्रस्तुतिः - ७।५२
स्थावरेषु तद् आख्यातं
लाभभोगप्रसाधनम्।
प्रमाणहीनवादे तु
निर्देश्या दैविकी क्रिया ॥ ७।५२ ॥
मूलम् - ७।५२
स्थावरेषु तद् आख्यातं
लाभभोगप्रसाधनम्।
प्रमाणहीनवादे तु
निर्देश्या दैविकी क्रिया ॥ ७।५२ ॥
विश्वास-प्रस्तुतिः - ७।५३
राजान्तरैस् त्रिभिर् भुक्तं
प्रमाणेन विनापि यत्।
ब्रह्मदेयं न हर्तव्यं
राज्ञा तस्य कदा चन ॥ ७।५३ ॥
मूलम् - ७।५३
राजान्तरैस् त्रिभिर् भुक्तं
प्रमाणेन विनापि यत्।
ब्रह्मदेयं न हर्तव्यं
राज्ञा तस्य कदा चन ॥ ७।५३ ॥
विश्वास-प्रस्तुतिः - ७।५४
भुक्तिस् त्रैपुरुषी यत्र
चतुर्थे सम्प्रवर्तिता।
तद्भोगः स्थिरतां याति
न पृच्छेद् आगमां क्व चित् ॥ ७।५४ ॥
मूलम् - ७।५४
भुक्तिस् त्रैपुरुषी यत्र
चतुर्थे सम्प्रवर्तिता।
तद्भोगः स्थिरतां याति
न पृच्छेद् आगमां क्व चित् ॥ ७।५४ ॥
विश्वास-प्रस्तुतिः - ७।५५
अनिषिद्धेन यद् भुक्तं
पुरुषैस् त्रिभिर् एव तु।
तत्र नैवागमः कार्यो
भुक्तिस् तत्र गरीयसी ॥ ७।५५ ॥
मूलम् - ७।५५
अनिषिद्धेन यद् भुक्तं
पुरुषैस् त्रिभिर् एव तु।
तत्र नैवागमः कार्यो
भुक्तिस् तत्र गरीयसी ॥ ७।५५ ॥
विश्वास-प्रस्तुतिः - ७।५६
स्थावरेषु विवादेषु
भुक्तिस् त्रिपुरुषी च या।
स्वतन्त्रैव हि सा ज्ञेया
प्रमाणम् साध्यनिर्णये ॥ ७।५६ ॥
मूलम् - ७।५६
स्थावरेषु विवादेषु
भुक्तिस् त्रिपुरुषी च या।
स्वतन्त्रैव हि सा ज्ञेया
प्रमाणम् साध्यनिर्णये ॥ ७।५६ ॥
विश्वास-प्रस्तुतिः - ७।५७
यस्य त्रिपुरुषा भुक्तिः
सम्यग्लेख्यसमन्विता।
एवंविधा ब्रह्मदेया
हर्तुं तस्य न शक्यते ॥ ७।५७ ॥
मूलम् - ७।५७
यस्य त्रिपुरुषा भुक्तिः
सम्यग्लेख्यसमन्विता।
एवंविधा ब्रह्मदेया
हर्तुं तस्य न शक्यते ॥ ७।५७ ॥
विश्वास-प्रस्तुतिः - ७।५८
यस्य त्रिपुरुषा भुक्तिः
पारम्पर्यक्रमागता।
न सा चालयितुं शक्या
पूर्वकाच् छासनाद् ऋते ॥ ७।५८ ॥
मूलम् - ७।५८
यस्य त्रिपुरुषा भुक्तिः
पारम्पर्यक्रमागता।
न सा चालयितुं शक्या
पूर्वकाच् छासनाद् ऋते ॥ ७।५८ ॥
विश्वास-प्रस्तुतिः - ७।५९
त्रिपुरुषं भुज्यते येन
समक्षं भूरवारिता।
तस्य सा नापहर्तव्या
क्षमालिङ्गं न चेद् वदेत् ॥ ७।५९ ॥
मूलम् - ७।५९
त्रिपुरुषं भुज्यते येन
समक्षं भूरवारिता।
तस्य सा नापहर्तव्या
क्षमालिङ्गं न चेद् वदेत् ॥ ७।५९ ॥
विश्वास-प्रस्तुतिः - ७।६०
भुक्तिर् बलवती शास्त्रे ह्य्
अविच्छिन्ना चिरन्तनी।
विच्छिन्नापि हि स ज्ञेया
या तु पूर्वं प्रसाधिता ॥ ७।६० ॥
मूलम् - ७।६०
भुक्तिर् बलवती शास्त्रे ह्य्
अविच्छिन्ना चिरन्तनी।
विच्छिन्नापि हि स ज्ञेया
या तु पूर्वं प्रसाधिता ॥ ७।६० ॥
विश्वास-प्रस्तुतिः - ७।६१
पित्रा भुक्तं तु यद् द्रव्यं
भुक्त्याचारेण धर्मतः।
तस्मिन् प्रेते ऽपि तत्प्राप्तं
भुक्त्या प्राप्तं तु तस्य तत् ॥ ७।६१ ॥
मूलम् - ७।६१
पित्रा भुक्तं तु यद् द्रव्यं
भुक्त्याचारेण धर्मतः।
तस्मिन् प्रेते ऽपि तत्प्राप्तं
भुक्त्या प्राप्तं तु तस्य तत् ॥ ७।६१ ॥
विश्वास-प्रस्तुतिः - ७।६२
त्रिभिर् एव तु या भुक्ता
पुरुषैर् भूर् यथाविधि।
लेख्याभावे तु तां तत्र
चतुर्थः समवाप्नुयात् ॥ ७।६२ ॥
मूलम् - ७।६२
त्रिभिर् एव तु या भुक्ता
पुरुषैर् भूर् यथाविधि।
लेख्याभावे तु तां तत्र
चतुर्थः समवाप्नुयात् ॥ ७।६२ ॥
विश्वास-प्रस्तुतिः - ७।६३
सनाभिभिर् बान्धवैश् च
भुक्तं यत् स्वजनैस् तथा।
भोगात् तत्र न सिद्धिः स्याद्
भोगम् अन्येषु कल्पयेत् ॥ ७।६३ ॥
मूलम् - ७।६३
सनाभिभिर् बान्धवैश् च
भुक्तं यत् स्वजनैस् तथा।
भोगात् तत्र न सिद्धिः स्याद्
भोगम् अन्येषु कल्पयेत् ॥ ७।६३ ॥
विश्वास-प्रस्तुतिः - ७।६४
सागमो दीर्घकालश् च
निच्छिद्रोपरवो धनम्।
प्रत्यर्थिसन्निधानं च
परिभोगो ऽपि पञ्चधा ॥ ७।६४ ॥
मूलम् - ७।६४
सागमो दीर्घकालश् च
निच्छिद्रोपरवो धनम्।
प्रत्यर्थिसन्निधानं च
परिभोगो ऽपि पञ्चधा ॥ ७।६४ ॥
विश्वास-प्रस्तुतिः - ७।६५
चतुष्पाद् धनधान्यादि
वर्षाद् धानिम् अवाप्नुयात् ॥ ७।६५ ॥
मूलम् - ७।६५
चतुष्पाद् धनधान्यादि
वर्षाद् धानिम् अवाप्नुयात् ॥ ७।६५ ॥
विश्वास-प्रस्तुतिः - ७।६६
भूमेर् अभुक्तिर् लेख्यस्य
यथाकालम् अदर्शनम्।
साक्ष्यस्यास्मरणं चैव
स्वार्थहानिकराणि तु ॥ ७।६६ ॥
मूलम् - ७।६६
भूमेर् अभुक्तिर् लेख्यस्य
यथाकालम् अदर्शनम्।
साक्ष्यस्यास्मरणं चैव
स्वार्थहानिकराणि तु ॥ ७।६६ ॥
विश्वास-प्रस्तुतिः - ७।६७
तस्माद् यत्नेन कर्तव्यं
प्रमाणपरिपालनम्।
तेन कार्याणि सिध्यन्ति
स्थावराणि चराणि च ॥ ७।६७ ॥
मूलम् - ७।६७
तस्माद् यत्नेन कर्तव्यं
प्रमाणपरिपालनम्।
तेन कार्याणि सिध्यन्ति
स्थावराणि चराणि च ॥ ७।६७ ॥
विश्वास-प्रस्तुतिः - ७।६८
असाक्षिके चिरकृते
पृच्छेद् उत्तरसाक्षिणः।
शपथैर् वानुयुञ्जीत
उपधां वा प्रयोजयेत् ॥ ७।६८ ॥
मूलम् - ७।६८
असाक्षिके चिरकृते
पृच्छेद् उत्तरसाक्षिणः।
शपथैर् वानुयुञ्जीत
उपधां वा प्रयोजयेत् ॥ ७।६८ ॥
विश्वास-प्रस्तुतिः - ७।६९
देशनाप्रतिघातं च
युक्तिलेशस् तथैव च ॥ ७।६९ ॥
मूलम् - ७।६९
देशनाप्रतिघातं च
युक्तिलेशस् तथैव च ॥ ७।६९ ॥
विश्वास-प्रस्तुतिः - ७।७०
चोरापहृतं तु सर्वेभ्यो ऽन्विष्य अर्पणीयं ।
अलाभे स्वकोशाद् वा अददच् चोरकिल्बिषी स्यात् ॥ ७।७० ॥
मूलम् - ७।७०
चोरापहृतं तु सर्वेभ्यो ऽन्विष्य अर्पणीयं ।
अलाभे स्वकोशाद् वा अददच् चोरकिल्बिषी स्यात् ॥ ७।७० ॥