०६ लिखितम्

विश्वास-प्रस्तुतिः - ६।१

साक्षिणाम् एष निर्दिष्टः
सङ्ख्यालक्षणनिश्चयः।
लिखितस्याधुना वच्मि
विधानम् अनुपूर्वशः ॥ ६।१ ॥

मूलम् - ६।१

साक्षिणाम् एष निर्दिष्टः
सङ्ख्यालक्षणनिश्चयः।
लिखितस्याधुना वच्मि
विधानम् अनुपूर्वशः ॥ ६।१ ॥

विश्वास-प्रस्तुतिः - ६।२

ऋणादिके ऽपि समये
भ्रान्तिः सञ्जायते यतः।
धात्राक्षराणि सृष्टानि
पत्रारूढान्य् अतः पुरा ॥ ६।२ ॥

मूलम् - ६।२

ऋणादिके ऽपि समये
भ्रान्तिः सञ्जायते यतः।
धात्राक्षराणि सृष्टानि
पत्रारूढान्य् अतः पुरा ॥ ६।२ ॥

६।१ लेख्यलक्षणम्

विश्वास-प्रस्तुतिः - ६।३

देशाचारहुतं वर्ष-
मास-पक्षादिवृद्धिमत्।
ऋणि-साक्षि-लेखकानं
हस्ताङ्कं लेख्यम् उच्यते ॥ ६।३ ॥

मूलम् - ६।३

देशाचारहुतं वर्ष-
मास-पक्षादिवृद्धिमत्।
ऋणि-साक्षि-लेखकानं
हस्ताङ्कं लेख्यम् उच्यते ॥ ६।३ ॥

६।२ लेख्यभेदाः

विश्वास-प्रस्तुतिः - ६।४

राजलेख्यं स्थानकृतं
स्वहस्तलिखितं तथा।
लेख्यं तत् त्रिविधं प्रोक्तं
भिन्नं तद् बहुधा पुनः ॥ ६।४ ॥

मूलम् - ६।४

राजलेख्यं स्थानकृतं
स्वहस्तलिखितं तथा।
लेख्यं तत् त्रिविधं प्रोक्तं
भिन्नं तद् बहुधा पुनः ॥ ६।४ ॥

विश्वास-प्रस्तुतिः - ६।५

भाग-दान-क्रयाधिनां
संविद्दासऋणादिभिः।
सप्तधा लौकिकं लेख्यं
त्रिविधं राजशासनम् ॥ ६।५ ॥

मूलम् - ६।५

भाग-दान-क्रयाधिनां
संविद्दासऋणादिभिः।
सप्तधा लौकिकं लेख्यं
त्रिविधं राजशासनम् ॥ ६।५ ॥

विश्वास-प्रस्तुतिः - ६।६

विभागपत्रम् इत्य् एतद्
भागानां निर्णये कृतम्।
सीमाविवादे निर्णीते
सीमापत्रम् इति स्मृतम् ॥ ६।६ ॥

मूलम् - ६।६

विभागपत्रम् इत्य् एतद्
भागानां निर्णये कृतम्।
सीमाविवादे निर्णीते
सीमापत्रम् इति स्मृतम् ॥ ६।६ ॥

विश्वास-प्रस्तुतिः - ६।७

दानलेख्यं भागलेख्यं
सीमालेख्यं तथैव च।
क्रयलेख्यं दासलेख्यम्
आधिलेख्यं ततः परम् ॥ ६।७ ॥

मूलम् - ६।७

दानलेख्यं भागलेख्यं
सीमालेख्यं तथैव च।
क्रयलेख्यं दासलेख्यम्
आधिलेख्यं ततः परम् ॥ ६।७ ॥

विश्वास-प्रस्तुतिः - ६।८

संविदुद्दाम्लेख्यं च
जयपत्रकम् एव च।
सन्धिपत्रं तथैवैतत्
क्रियाभेदाद् अनेकधा ॥ ६।८ ॥

मूलम् - ६।८

संविदुद्दाम्लेख्यं च
जयपत्रकम् एव च।
सन्धिपत्रं तथैवैतत्
क्रियाभेदाद् अनेकधा ॥ ६।८ ॥

विश्वास-प्रस्तुतिः - ६।९

आध्यर्थम् आधिलेख्यं स्याद्
दासार्थं दासपत्रकम् ॥ ६।९ ॥

मूलम् - ६।९

आध्यर्थम् आधिलेख्यं स्याद्
दासार्थं दासपत्रकम् ॥ ६।९ ॥

विश्वास-प्रस्तुतिः - ६।१०

समीहितार्थसिद्ध्यर्थं
ग्रामश्रेणिगणादिभिः।
शास्त्राविरोधि धर्मार्थे
कृतं संवित्तिपत्रकम् ॥ ६।१० ॥

मूलम् - ६।१०

समीहितार्थसिद्ध्यर्थं
ग्रामश्रेणिगणादिभिः।
शास्त्राविरोधि धर्मार्थे
कृतं संवित्तिपत्रकम् ॥ ६।१० ॥

विश्वास-प्रस्तुतिः - ६।११

भ्रातरः संविभक्ता ये
स्वरुच्या तु परस्परम्।
विभागपत्रं कुर्वन्ति
भागलेख्यं तद् उच्यते ॥ ६।११ ॥

मूलम् - ६।११

भ्रातरः संविभक्ता ये
स्वरुच्या तु परस्परम्।
विभागपत्रं कुर्वन्ति
भागलेख्यं तद् उच्यते ॥ ६।११ ॥

विश्वास-प्रस्तुतिः - ६।१२

भूमिं दत्त्वा यस् तु पत्रं
कुर्याच् चन्द्रार्ककालिकम् [प्।६१]।
अनाच्छेदाम् अनाहार्यं
दानलेख्यं तु तद् विधुः ॥ ६।१२ ॥

मूलम् - ६।१२

भूमिं दत्त्वा यस् तु पत्रं
कुर्याच् चन्द्रार्ककालिकम् [प्।६१]।
अनाच्छेदाम् अनाहार्यं
दानलेख्यं तु तद् विधुः ॥ ६।१२ ॥

विश्वास-प्रस्तुतिः - ६।१३

गृहक्षेत्रादिकं क्रीत्वा
तुल्यमूल्याक्षरान्वितम्।
पत्रं कारयते यत् तु
क्रयलेख्यं तद् उच्यते ॥ ६।१३ ॥

मूलम् - ६।१३

गृहक्षेत्रादिकं क्रीत्वा
तुल्यमूल्याक्षरान्वितम्।
पत्रं कारयते यत् तु
क्रयलेख्यं तद् उच्यते ॥ ६।१३ ॥

विश्वास-प्रस्तुतिः - ६।१४

जङ्गमं स्थावरम् बन्धं
दत्त्वा लेख्यं करोति यत्।
गोप्य-भोग्य-क्रियायुक्तम्
आधिलेख्यं तु तत् स्मृतम् ॥ ६।१४ ॥

मूलम् - ६।१४

जङ्गमं स्थावरम् बन्धं
दत्त्वा लेख्यं करोति यत्।
गोप्य-भोग्य-क्रियायुक्तम्
आधिलेख्यं तु तत् स्मृतम् ॥ ६।१४ ॥

विश्वास-प्रस्तुतिः - ६।१५

ग्रामो देशश् च यत् कुर्यान्
मत्तलेख्यं परस्परम्।
राजाविरोधि धर्मार्थे
संवित्पत्रं वदन्ति तत् ॥ ६।१५ ॥

मूलम् - ६।१५

ग्रामो देशश् च यत् कुर्यान्
मत्तलेख्यं परस्परम्।
राजाविरोधि धर्मार्थे
संवित्पत्रं वदन्ति तत् ॥ ६।१५ ॥

विश्वास-प्रस्तुतिः - ६।१६

वस्त्रान्नहीनः कान्तारे
लिखितं कुरुते तु यत्।
कर्माहं ते करिष्यामि
दासपत्रं तद् इष्यते ॥ ६।१६ ॥

मूलम् - ६।१६

वस्त्रान्नहीनः कान्तारे
लिखितं कुरुते तु यत्।
कर्माहं ते करिष्यामि
दासपत्रं तद् इष्यते ॥ ६।१६ ॥

विश्वास-प्रस्तुतिः - ६।१७

धनं वृध्या गृहीत्वा तु
स्वयं कुर्याच् च कारयेत्।
उद्धारपत्रं तत् प्रोक्तम्
ऋणलेख्यं मनीषिभिः ॥ ६।१७ ॥

मूलम् - ६।१७

धनं वृध्या गृहीत्वा तु
स्वयं कुर्याच् च कारयेत्।
उद्धारपत्रं तत् प्रोक्तम्
ऋणलेख्यं मनीषिभिः ॥ ६।१७ ॥

विश्वास-प्रस्तुतिः - ६।१८

पूगश्रेणिगणादीनां
या स्थितिः परिकीर्तिता।
तस्यास्तु साधनं लेख्यं
न दिव्यं न च साक्षिणः ॥ ६।१८ ॥

मूलम् - ६।१८

पूगश्रेणिगणादीनां
या स्थितिः परिकीर्तिता।
तस्यास्तु साधनं लेख्यं
न दिव्यं न च साक्षिणः ॥ ६।१८ ॥

विश्वास-प्रस्तुतिः - ६।१९

पूगश्रेण्यादिकानां तु
समयस्य स्थितेः कृतम्।
स्थितिपत्रं तु तत् प्रोक्तं
मन्वादिस्मृतिवेदिभिः ॥ ६।१९ ॥

मूलम् - ६।१९

पूगश्रेण्यादिकानां तु
समयस्य स्थितेः कृतम्।
स्थितिपत्रं तु तत् प्रोक्तं
मन्वादिस्मृतिवेदिभिः ॥ ६।१९ ॥

६।३ राज्ञो दानशासनम्

विश्वास-प्रस्तुतिः - ६।२०

दत्त्वा भ्य्य्म्यादिकं राजा
ताम्रपत्रे पटे ऽथ वा।
शासनं कारयेद् धर्मं
स्थानवंशादिसंयुतम् ॥ ६।२० ॥

मूलम् - ६।२०

दत्त्वा भ्य्य्म्यादिकं राजा
ताम्रपत्रे पटे ऽथ वा।
शासनं कारयेद् धर्मं
स्थानवंशादिसंयुतम् ॥ ६।२० ॥

विश्वास-प्रस्तुतिः - ६।२१

माता-पित्रोर् आत्मनश्
च पुण्यायामुकसूनवे।
दत्तं मयामुकायाद्य
दानं सब्रह्मचारिणे ॥ ६।२१ ॥

मूलम् - ६।२१

माता-पित्रोर् आत्मनश्
च पुण्यायामुकसूनवे।
दत्तं मयामुकायाद्य
दानं सब्रह्मचारिणे ॥ ६।२१ ॥

विश्वास-प्रस्तुतिः - ६।२२

अनाच्छेद्यम् अनाहार्यं
सर्वं भाव्यविवर्जितम् [प्।६३]।
चन्द्रार्कसमकालीनं
पुत्रपौत्रान्वयानुगम् ॥ ६।२२ ॥

मूलम् - ६।२२

अनाच्छेद्यम् अनाहार्यं
सर्वं भाव्यविवर्जितम् [प्।६३]।
चन्द्रार्कसमकालीनं
पुत्रपौत्रान्वयानुगम् ॥ ६।२२ ॥

विश्वास-प्रस्तुतिः - ६।२३

दातुः पालयितुः स्वर्गं
हर्तुर् नरकम् एव च।
षष्टिवर्षसहस्राणि
दानच्छेदफलं लिखेत् ॥ ६।२३ ॥

मूलम् - ६।२३

दातुः पालयितुः स्वर्गं
हर्तुर् नरकम् एव च।
षष्टिवर्षसहस्राणि
दानच्छेदफलं लिखेत् ॥ ६।२३ ॥

विश्वास-प्रस्तुतिः - ६।२४

समुद्रावर्षमासादि
धनाध्यक्षाक्षरान्वितम्।
ज्ञातं मयेति लिखितं
सन्धिविग्रहलेखकैः ॥ ६।२४ ॥

मूलम् - ६।२४

समुद्रावर्षमासादि
धनाध्यक्षाक्षरान्वितम्।
ज्ञातं मयेति लिखितं
सन्धिविग्रहलेखकैः ॥ ६।२४ ॥

एवंविधं राजकृतं
शासनं तद् उदाहृतम्।

६।४ प्रसादलिखितम्

विश्वास-प्रस्तुतिः - ६।२५

देशादिकं यस्य राजा
लिखितं तु प्रयच्छति ॥ ६।२५ ॥

मूलम् - ६।२५

देशादिकं यस्य राजा
लिखितं तु प्रयच्छति ॥ ६।२५ ॥

सेवाशौर्यादिना तुष्टः
प्रसादलिखितं हि तत्।

६।५ जयपत्रम्

पूर्वोत्तरक्रियावाद-
निर्णयान्ते यदा नृपः \
प्रदद्याज् जयिने लेख्यं # जयपत्रं तद् उच्यते ॥ ६।२६ ॥

विश्वास-प्रस्तुतिः - ६।२७

यद् वृत्तं व्यवहारे तु
पूर्वपक्षोत्तरादिकम्।
क्रियावदधारणोपेतं
जयपत्रो ऽखिलं लिखेत् ॥ ६।२७ ॥

मूलम् - ६।२७

यद् वृत्तं व्यवहारे तु
पूर्वपक्षोत्तरादिकम्।
क्रियावदधारणोपेतं
जयपत्रो ऽखिलं लिखेत् ॥ ६।२७ ॥

विश्वास-प्रस्तुतिः - ६।२८

साधयेत् साध्यम् अर्थं तु
चतुष्पादन्वितं जये।
राजमुद्रान्वितं चैव
जयपत्रकम् इष्यते ॥ ६।२८ ॥

मूलम् - ६।२८

साधयेत् साध्यम् अर्थं तु
चतुष्पादन्वितं जये।
राजमुद्रान्वितं चैव
जयपत्रकम् इष्यते ॥ ६।२८ ॥

विश्वास-प्रस्तुतिः - ६।२९

अन्यवाद्यादिहीनेभ्य
इतरेषाम् प्रदीयते।
वृत्तानुवादसंसिद्धं
तच् च स्याज् जयपत्रकम् ॥ ६।२९ ॥

मूलम् - ६।२९

अन्यवाद्यादिहीनेभ्य
इतरेषाम् प्रदीयते।
वृत्तानुवादसंसिद्धं
तच् च स्याज् जयपत्रकम् ॥ ६।२९ ॥

६।६ लेख्यदूषणानि

विश्वास-प्रस्तुतिः - ६।३०

मुमूरुषुहीनलुप्तार्थैर्
उन्मातव्यसनातुरैः।
विषोपधिबलात् कार-
कृतं लेख्यं न सिध्यति ॥ ६।३० ॥

मूलम् - ६।३०

मुमूरुषुहीनलुप्तार्थैर्
उन्मातव्यसनातुरैः।
विषोपधिबलात् कार-
कृतं लेख्यं न सिध्यति ॥ ६।३० ॥

विश्वास-प्रस्तुतिः - ६।३१

दूषितो गर्हितः साक्षी
यत्रैको विनिवेशितः [प्।६५]।
कूटलेख्यं तु तत् प्राह
लेखको वापि तादृशः ॥ ६।३१ ॥

मूलम् - ६।३१

दूषितो गर्हितः साक्षी
यत्रैको विनिवेशितः [प्।६५]।
कूटलेख्यं तु तत् प्राह
लेखको वापि तादृशः ॥ ६।३१ ॥

विश्वास-प्रस्तुतिः - ६।३२

यद् उज्वलं चिरकृतं
मलिनं स्वल्पकालिकम्।
भग्नं म्लिष्ताक्षरयुतं
लेख्यं कूटत्वम् आप्नुयात् ॥ ६।३२ ॥

मूलम् - ६।३२

यद् उज्वलं चिरकृतं
मलिनं स्वल्पकालिकम्।
भग्नं म्लिष्ताक्षरयुतं
लेख्यं कूटत्वम् आप्नुयात् ॥ ६।३२ ॥

विश्वास-प्रस्तुतिः - ६।३३

दर्पणस्थं यथा बिम्बम्
असत् सद् इव दृश्यते।
तथा लेख्यसबिम्ब् आनि
कुर्वन्ति कुशला जनाः ॥ ६।३३ ॥

मूलम् - ६।३३

दर्पणस्थं यथा बिम्बम्
असत् सद् इव दृश्यते।
तथा लेख्यसबिम्ब् आनि
कुर्वन्ति कुशला जनाः ॥ ६।३३ ॥

विश्वास-प्रस्तुतिः - ६।३४

तथ्येन हि प्रमाणं तु
दोषेणैव तु दूषणम्।
एवं दुष्टं नृपस्थाने
यस्मिंस् तद् धि विचार्यते ॥ ६।३४ ॥

मूलम् - ६।३४

तथ्येन हि प्रमाणं तु
दोषेणैव तु दूषणम्।
एवं दुष्टं नृपस्थाने
यस्मिंस् तद् धि विचार्यते ॥ ६।३४ ॥

विश्वास-प्रस्तुतिः - ६।३५

विमृश्य ब्राह्मणैः सार्धं
वक्तृदोषं निरूपयेत् ॥ ६।३५ ॥

मूलम् - ६।३५

विमृश्य ब्राह्मणैः सार्धं
वक्तृदोषं निरूपयेत् ॥ ६।३५ ॥

विश्वास-प्रस्तुतिः - ६।३६

येन ते कूटतां यान्ति
साक्षिलेखककारकाः।
तेन दुष्टं भवेल् लेख्यं
शुद्धैः शुद्धं विनिर्दिशेत् ॥ ६।३६ ॥

मूलम् - ६।३६

येन ते कूटतां यान्ति
साक्षिलेखककारकाः।
तेन दुष्टं भवेल् लेख्यं
शुद्धैः शुद्धं विनिर्दिशेत् ॥ ६।३६ ॥

विश्वास-प्रस्तुतिः - ६।३७

दत्तं लेख्ये स्वहस्तं तु
ऋणिको यदि निह्नुते।
पत्रस्थैः साक्षिभिर् वाचा
लेखकस्य मतेन च ॥ ६।३७ ॥

मूलम् - ६।३७

दत्तं लेख्ये स्वहस्तं तु
ऋणिको यदि निह्नुते।
पत्रस्थैः साक्षिभिर् वाचा
लेखकस्य मतेन च ॥ ६।३७ ॥

विश्वास-प्रस्तुतिः - ६।३८

स्थानभ्रष्टास् त्व् अकान्तिस्थाः
सन्दिग्धा लक्षणच्युताः।
यत्रैवं स्युः स्थिता वर्णा
लेख्यं दुष्टं तदा भृगुः ॥ ६।३८ ॥

मूलम् - ६।३८

स्थानभ्रष्टास् त्व् अकान्तिस्थाः
सन्दिग्धा लक्षणच्युताः।
यत्रैवं स्युः स्थिता वर्णा
लेख्यं दुष्टं तदा भृगुः ॥ ६।३८ ॥

विश्वास-प्रस्तुतिः - ६।३९

उद्धरेल् लेख्यम् आहर्ता
तत्पुत्रो भुक्तिम् एव तु।
अभियुक्तः प्रमीतश् चेत्
तत्पुत्रस् तत् समुद्धरेत् ॥ ६।३९ ॥

मूलम् - ६।३९

उद्धरेल् लेख्यम् आहर्ता
तत्पुत्रो भुक्तिम् एव तु।
अभियुक्तः प्रमीतश् चेत्
तत्पुत्रस् तत् समुद्धरेत् ॥ ६।३९ ॥

विश्वास-प्रस्तुतिः - ६।४०

ज्ञात्वा कार्यं देशकाल-
कुशलाः कूटकारकाः।
कुर्वन्तिसदृशं लेख्यं
तद् यत्नेन विचारयेत् ॥ ६।४० ॥

मूलम् - ६।४०

ज्ञात्वा कार्यं देशकाल-
कुशलाः कूटकारकाः।
कुर्वन्तिसदृशं लेख्यं
तद् यत्नेन विचारयेत् ॥ ६।४० ॥

विश्वास-प्रस्तुतिः - ६।४१

लेख्यम् आलेख्यवत् केचिल्
लिखन्ति कुशला जनाः।
तस्मान् न लेख्यसामर्थ्यात्
सिद्धिर् ऐकान्तिकी मता ॥ ६।४१ ॥

मूलम् - ६।४१

लेख्यम् आलेख्यवत् केचिल्
लिखन्ति कुशला जनाः।
तस्मान् न लेख्यसामर्थ्यात्
सिद्धिर् ऐकान्तिकी मता ॥ ६।४१ ॥

विश्वास-प्रस्तुतिः - ६।४२

स्त्रीबालार्तान् लिप्यविज्ञान्
वञ्चयन्ति स्वबान्धवाः।
लेख्यं कृत्वा स्वनामाङ्कं
ज्ञेयं युक्त्यागमैस् तु तत् ॥ ६।४२ ॥

मूलम् - ६।४२

स्त्रीबालार्तान् लिप्यविज्ञान्
वञ्चयन्ति स्वबान्धवाः।
लेख्यं कृत्वा स्वनामाङ्कं
ज्ञेयं युक्त्यागमैस् तु तत् ॥ ६।४२ ॥

विश्वास-प्रस्तुतिः - ६।४३

त्रिविधस्यास्य लेख्यस्य
भ्रान्तिः सञ्जायते यदा।
ऋणि-साक्षि-लेखकानां
हस्तोक्त्या शोधयेत् ततः ॥ ६।४३ ॥

मूलम् - ६।४३

त्रिविधस्यास्य लेख्यस्य
भ्रान्तिः सञ्जायते यदा।
ऋणि-साक्षि-लेखकानां
हस्तोक्त्या शोधयेत् ततः ॥ ६।४३ ॥

विश्वास-प्रस्तुतिः - ६।४४

उद्यामम् उदयादानाद्
आधानं फलसङ्ग्रहात् [प्।६७]।
प्रतियोगिधनाढ्यत्वाज्
ज्ञेयं यत्रोपधिः कृतः ॥ ६।४४ ॥

मूलम् - ६।४४

उद्यामम् उदयादानाद्
आधानं फलसङ्ग्रहात् [प्।६७]।
प्रतियोगिधनाढ्यत्वाज्
ज्ञेयं यत्रोपधिः कृतः ॥ ६।४४ ॥

विश्वास-प्रस्तुतिः - ६।४५

दर्शितं प्रतिकालं यच्
छ्रावितं स्मारितं च यत्।
लेख्यं सिध्यति सर्वत्र
मृतेष्व् अपि हि साक्षिषु ॥ ६।४५ ॥

मूलम् - ६।४५

दर्शितं प्रतिकालं यच्
छ्रावितं स्मारितं च यत्।
लेख्यं सिध्यति सर्वत्र
मृतेष्व् अपि हि साक्षिषु ॥ ६।४५ ॥

विश्वास-प्रस्तुतिः - ६।४६

वाचकैर् यत्र सामर्थ्यम्
अक्षराणां विहन्यते।
क्रियाणां सर्वनाशः स्याद्
अनवस्था च जायते ॥ ६।४६ ॥

मूलम् - ६।४६

वाचकैर् यत्र सामर्थ्यम्
अक्षराणां विहन्यते।
क्रियाणां सर्वनाशः स्याद्
अनवस्था च जायते ॥ ६।४६ ॥

विश्वास-प्रस्तुतिः - ६।४७

लेख्यं त्रिंशत् समातीतम्
अदृष्टाश्रावितं च यत्।
न तत्सिद्धिम् अवाप्नोति
तिष्ठत्स्व् अपि हि साक्षिषु ॥ ६।४७ ॥

मूलम् - ६।४७

लेख्यं त्रिंशत् समातीतम्
अदृष्टाश्रावितं च यत्।
न तत्सिद्धिम् अवाप्नोति
तिष्ठत्स्व् अपि हि साक्षिषु ॥ ६।४७ ॥

विश्वास-प्रस्तुतिः - ६।४८

प्रयुक्ते शान्तलाभे तु
लिखितं यो न दर्शयेत्।
न याचते च ऋणिकं
तत् सन्देहम् अवाप्नुयात् ॥ ६।४८ ॥

मूलम् - ६।४८

प्रयुक्ते शान्तलाभे तु
लिखितं यो न दर्शयेत्।
न याचते च ऋणिकं
तत् सन्देहम् अवाप्नुयात् ॥ ६।४८ ॥

विश्वास-प्रस्तुतिः - ६।४९

कुलश्रेणिगणादीनां
यथाकालं प्रदर्शितम्।
श्रावयेत् स्मारयेच् चैव
तथा स्याद् बलवत्तरम् ॥ ६।४९ ॥

मूलम् - ६।४९

कुलश्रेणिगणादीनां
यथाकालं प्रदर्शितम्।
श्रावयेत् स्मारयेच् चैव
तथा स्याद् बलवत्तरम् ॥ ६।४९ ॥

विश्वास-प्रस्तुतिः - ६।५०

यदि लब्धं भवेत् किञ् चित्
प्रज्ञप्तिर् वा तथा भवेत्।
प्रमाणम् एव लिखितं
मृता यद्य् अपि साक्षिणः ॥ ६।५० ॥

मूलम् - ६।५०

यदि लब्धं भवेत् किञ् चित्
प्रज्ञप्तिर् वा तथा भवेत्।
प्रमाणम् एव लिखितं
मृता यद्य् अपि साक्षिणः ॥ ६।५० ॥

विश्वास-प्रस्तुतिः - ६।५१

आढ्यस्य निकटस्थस्य
यच् छक्तेन न याचितम्।
शुद्धर्णाशङ्कया तत्र
लेख्यं दुर्बलताम् इयात् ॥ ६।५१ ॥

मूलम् - ६।५१

आढ्यस्य निकटस्थस्य
यच् छक्तेन न याचितम्।
शुद्धर्णाशङ्कया तत्र
लेख्यं दुर्बलताम् इयात् ॥ ६।५१ ॥

विश्वास-प्रस्तुतिः - ६।५२

उन्मत्त-जड-बलानां
राजभीतप्रवासिनाम्।
अप्रगल्भभयार्तानां
न लेख्यं हानिम् आप्नुयात् ॥ ६।५२ ॥

मूलम् - ६।५२

उन्मत्त-जड-बलानां
राजभीतप्रवासिनाम्।
अप्रगल्भभयार्तानां
न लेख्यं हानिम् आप्नुयात् ॥ ६।५२ ॥

विश्वास-प्रस्तुतिः - ६।५३

अथ पञ्चत्वम् आपन्नो
लेखकः साक्षिभिः सह।
तत् स्वहस्तादिभिस् तेषाम्
विशुध्यते न संशयः ॥ ६।५३ ॥

मूलम् - ६।५३

अथ पञ्चत्वम् आपन्नो
लेखकः साक्षिभिः सह।
तत् स्वहस्तादिभिस् तेषाम्
विशुध्यते न संशयः ॥ ६।५३ ॥

विश्वास-प्रस्तुतिः - ६।५४

ऋणिस्वहस्तसन्देहे
जीवतो वा मृतस्य वा।
तत्स्वहस्तकृतैर् अन्यैः
पत्रैस् तल्-लेख्यनिऋणयः ॥ ६।५४ ॥

मूलम् - ६।५४

ऋणिस्वहस्तसन्देहे
जीवतो वा मृतस्य वा।
तत्स्वहस्तकृतैर् अन्यैः
पत्रैस् तल्-लेख्यनिऋणयः ॥ ६।५४ ॥

विश्वास-प्रस्तुतिः - ६।५५

लेख्ये संशयम् आपन्ने
साक्षिलेखककर्तृभिः।
दुष्टेषु तेषु तद्धस्त-
कृतपूर्वाक्षरादिभिः ॥ ६।५५ ॥

मूलम् - ६।५५

लेख्ये संशयम् आपन्ने
साक्षिलेखककर्तृभिः।
दुष्टेषु तेषु तद्धस्त-
कृतपूर्वाक्षरादिभिः ॥ ६।५५ ॥

विश्वास-प्रस्तुतिः - ६।५६

न जातु हीयते लेख्यं
साक्षिभिः शपथेन वा।
अदर्शनाश्राविताभ्यां
हानिं प्राप्नोत्य् उपेक्षया ॥ ६।५६ ॥

मूलम् - ६।५६

न जातु हीयते लेख्यं
साक्षिभिः शपथेन वा।
अदर्शनाश्राविताभ्यां
हानिं प्राप्नोत्य् उपेक्षया ॥ ६।५६ ॥

विश्वास-प्रस्तुतिः - ६।५७

अतः परीक्ष्यम् उभयम्
एतद् राज्ञा विशेषतः।
एकम् एव भवेल् लेख्यम्
एकस्यार्थस्य सिद्धये ॥ ६।५७ ॥

मूलम् - ६।५७

अतः परीक्ष्यम् उभयम्
एतद् राज्ञा विशेषतः।
एकम् एव भवेल् लेख्यम्
एकस्यार्थस्य सिद्धये ॥ ६।५७ ॥

अनेकेषु तु लेख्येषु
दोषम् उत्पादयेद् अपि।
देशाचारविरुद्धं यत्
सन्दिग्धं क्रमवर्जितम् \
कृतम् अस्वामिना यच् च # साध्यहीनं च दुष्यति ॥ ६।५८ ॥