विश्वास-प्रस्तुतिः - ५।१
नव सप्त च पञ्च स्युश्
चत्वारस् त्रय एव वा।
उभौ वा श्रोत्रियौ ख्यातौ
नैकं पृच्छेत् कदा चन ॥ ५।१ ॥
मूलम् - ५।१
नव सप्त च पञ्च स्युश्
चत्वारस् त्रय एव वा।
उभौ वा श्रोत्रियौ ख्यातौ
नैकं पृच्छेत् कदा चन ॥ ५।१ ॥
विश्वास-प्रस्तुतिः - ५।२
द्यूतकः शटिकाग्राही
कार्यमध्यगतस् तथा।
एक एव प्रमाणं स्यान्
नृपो ऽध्यक्षस् तथैव च ॥ ५।२ ॥
मूलम् - ५।२
द्यूतकः शटिकाग्राही
कार्यमध्यगतस् तथा।
एक एव प्रमाणं स्यान्
नृपो ऽध्यक्षस् तथैव च ॥ ५।२ ॥
विश्वास-प्रस्तुतिः - ५।३
स्तेनाः साहसिकाः षण्डाः
कितवाः सूचकास् तथा।
न साक्षिणस् ते दुष्टात्वात्
तेषु साक्षियं न विद्यते ॥ ५।३ ॥
मूलम् - ५।३
स्तेनाः साहसिकाः षण्डाः
कितवाः सूचकास् तथा।
न साक्षिणस् ते दुष्टात्वात्
तेषु साक्षियं न विद्यते ॥ ५।३ ॥
५।१ साक्षिभेदाः
विश्वास-प्रस्तुतिः - ५।४
लिखितो लिखितो गूढः
स्मारितः कुल्य-दूतकौ।
यदृच्छश् चोत्तरश् चैव
कार्यमध्यगतो ऽपरः ॥ ५।४ ॥
मूलम् - ५।४
लिखितो लिखितो गूढः
स्मारितः कुल्य-दूतकौ।
यदृच्छश् चोत्तरश् चैव
कार्यमध्यगतो ऽपरः ॥ ५।४ ॥
विश्वास-प्रस्तुतिः - ५।५
नृपो ऽध्यक्षस् तथा ग्रामः
साक्षी द्वादशधा स्मृतः।
प्रभेदम् एषां वक्ष्यामि
यथावद् अनुपूर्वशः ॥ ५।५ ॥
मूलम् - ५।५
नृपो ऽध्यक्षस् तथा ग्रामः
साक्षी द्वादशधा स्मृतः।
प्रभेदम् एषां वक्ष्यामि
यथावद् अनुपूर्वशः ॥ ५।५ ॥
विश्वास-प्रस्तुतिः - ५।६
जातिनामादिलिखितं
येन स्वं पित्र्यम् एव च।
निवासश् च विज्ञेयः
साक्षी लिखितसञ्ज्ञकः ॥ ५।६ ॥
मूलम् - ५।६
जातिनामादिलिखितं
येन स्वं पित्र्यम् एव च।
निवासश् च विज्ञेयः
साक्षी लिखितसञ्ज्ञकः ॥ ५।६ ॥
विश्वास-प्रस्तुतिः - ५।७
अर्थिना च क्रिया भेदैस्
तस्य कृत्वा ऋणादिकम्।
प्रत्यक्षं लिख्यते यस् तु
लेखितः स उदाहृतः ॥ ५।७ ॥
मूलम् - ५।७
अर्थिना च क्रिया भेदैस्
तस्य कृत्वा ऋणादिकम्।
प्रत्यक्षं लिख्यते यस् तु
लेखितः स उदाहृतः ॥ ५।७ ॥
विश्वास-प्रस्तुतिः - ५।८
कुड्यव्यवहितो यस् तु
श्राव्यते ऋणभाषितम्।
विनिह्नुतो यथाभूतं
गूढः साक्षी स उच्यते ॥ ५।८ ॥
मूलम् - ५।८
कुड्यव्यवहितो यस् तु
श्राव्यते ऋणभाषितम्।
विनिह्नुतो यथाभूतं
गूढः साक्षी स उच्यते ॥ ५।८ ॥
विश्वास-प्रस्तुतिः - ५।९
आहूय यः कृतः साक्षी
ऋणन्यासक्रियादिके [प्।५१]।
स्मार्यते च मुहुर्यश् च
स्मारितः स उदाहृतः ॥ ५।९ ॥
मूलम् - ५।९
आहूय यः कृतः साक्षी
ऋणन्यासक्रियादिके [प्।५१]।
स्मार्यते च मुहुर्यश् च
स्मारितः स उदाहृतः ॥ ५।९ ॥
विश्वास-प्रस्तुतिः - ५।१०
विभागदाने विपणे
ज्ञातिर् यश् चोपयुज्यते।
द्वयोः समानो धर्मज्ञः
कुल्यः स परिकीर्तितः ॥ ५।१० ॥
मूलम् - ५।१०
विभागदाने विपणे
ज्ञातिर् यश् चोपयुज्यते।
द्वयोः समानो धर्मज्ञः
कुल्यः स परिकीर्तितः ॥ ५।१० ॥
विश्वास-प्रस्तुतिः - ५।११
अर्थि-प्रत्यर्थिवचनं
शृणुयात् प्रेषितस् तु यः।
उभयोः सम्मतः साधुः
दूतकः स उदाहृतः ॥ ५।११ ॥
मूलम् - ५।११
अर्थि-प्रत्यर्थिवचनं
शृणुयात् प्रेषितस् तु यः।
उभयोः सम्मतः साधुः
दूतकः स उदाहृतः ॥ ५।११ ॥
विश्वास-प्रस्तुतिः - ५।१२
क्रियमाणे तु कर्तव्ये
यः कश् चित् स्वयम् आगतः।
अत्र साक्षी त्वम् अस्माकम्
उक्तो यादृच्छिकस् तु सः ॥ ५।१२ ॥
मूलम् - ५।१२
क्रियमाणे तु कर्तव्ये
यः कश् चित् स्वयम् आगतः।
अत्र साक्षी त्वम् अस्माकम्
उक्तो यादृच्छिकस् तु सः ॥ ५।१२ ॥
विश्वास-प्रस्तुतिः - ५।१३
यत्र साक्षी दिशं गच्छेन्
मुमूर्षुर् वा यथाक्रमम्।
अन्यं संश्रावयेत् तं तु
विद्याद् उत्तरसाक्षिणम् ॥ ५।१३ ॥
मूलम् - ५।१३
यत्र साक्षी दिशं गच्छेन्
मुमूर्षुर् वा यथाक्रमम्।
अन्यं संश्रावयेत् तं तु
विद्याद् उत्तरसाक्षिणम् ॥ ५।१३ ॥
विश्वास-प्रस्तुतिः - ५।१४
साक्षिणाम् अपि यः साक्ष्यम्
उपर्य् उपरि भाषताम्।
श्रवणाच् छ्रवणाद् वापि
स साक्ष्य् उत्तरसञ्ज्ञितः ॥ ५।१४ ॥
मूलम् - ५।१४
साक्षिणाम् अपि यः साक्ष्यम्
उपर्य् उपरि भाषताम्।
श्रवणाच् छ्रवणाद् वापि
स साक्ष्य् उत्तरसञ्ज्ञितः ॥ ५।१४ ॥
विश्वास-प्रस्तुतिः - ५।१५
उभाभ्यां यस्य विश्वस्तं
कार्यं चापि निवेदितम्।
गूढधारी स विज्ञेयः
कार्यमध्यागतस् तथा ॥ ५।१५ ॥
मूलम् - ५।१५
उभाभ्यां यस्य विश्वस्तं
कार्यं चापि निवेदितम्।
गूढधारी स विज्ञेयः
कार्यमध्यागतस् तथा ॥ ५।१५ ॥
विश्वास-प्रस्तुतिः - ५।१६
अर्थि-प्रत्यर्थिनोर् वाक्यं
यच् छ्रुतं भूभृता स्वयम्।
स एव तत्र साक्षी स्याद्
विसंवादे द्वयोर् अपि ॥ ५।१६ ॥
मूलम् - ५।१६
अर्थि-प्रत्यर्थिनोर् वाक्यं
यच् छ्रुतं भूभृता स्वयम्।
स एव तत्र साक्षी स्याद्
विसंवादे द्वयोर् अपि ॥ ५।१६ ॥
विश्वास-प्रस्तुतिः - ५।१७
निर्णीते व्यवहारे तु
पुनर् न्यायो यदा भवेत्।
अध्यक्षः सभ्यसहितः
साक्षी स्यात् तत्र नान्यथा ॥ ५।१७ ॥
मूलम् - ५।१७
निर्णीते व्यवहारे तु
पुनर् न्यायो यदा भवेत्।
अध्यक्षः सभ्यसहितः
साक्षी स्यात् तत्र नान्यथा ॥ ५।१७ ॥
विश्वास-प्रस्तुतिः - ५।१८
व्युषितं छादितं यत्र
सीमायां च समन्ततः [प्।५३]।
स कृत्तो ऽपि भवेत् साक्षी
ग्रामस् तत्र न संशयः ॥ ५।१८ ॥
मूलम् - ५।१८
व्युषितं छादितं यत्र
सीमायां च समन्ततः [प्।५३]।
स कृत्तो ऽपि भवेत् साक्षी
ग्रामस् तत्र न संशयः ॥ ५।१८ ॥
विश्वास-प्रस्तुतिः - ५।१९
लिखितौ द्वौ तथा गूढौ
त्रिचतुःपञ्च लेखिताः।
यदृच्छ स्मारिताः कुल्यास्
तथा चोत्तरसाक्षिणः ॥ ५।१९ ॥
मूलम् - ५।१९
लिखितौ द्वौ तथा गूढौ
त्रिचतुःपञ्च लेखिताः।
यदृच्छ स्मारिताः कुल्यास्
तथा चोत्तरसाक्षिणः ॥ ५।१९ ॥
विश्वास-प्रस्तुतिः - ५।२०
दूतकः स्वटिकाग्राही-
कार्यमध्यगतस् तथा।
एक एव प्रमाणं स्यान्
नृपो ऽध्यक्षस् तथैव च ॥ ५।२० ॥
मूलम् - ५।२०
दूतकः स्वटिकाग्राही-
कार्यमध्यगतस् तथा।
एक एव प्रमाणं स्यान्
नृपो ऽध्यक्षस् तथैव च ॥ ५।२० ॥
५।२ साक्षिदोषकथनं दुष्टानां दण्डश् च
विश्वास-प्रस्तुतिः - ५।२१
साक्षिणो ऽर्थसमुद्दिष्टान्
यस् तु दोषेण दूषयेत्।
अदुष्टं दूषयन् वादी
तत्समं दण्डम् अर्हति ॥ ५।२१ ॥
मूलम् - ५।२१
साक्षिणो ऽर्थसमुद्दिष्टान्
यस् तु दोषेण दूषयेत्।
अदुष्टं दूषयन् वादी
तत्समं दण्डम् अर्हति ॥ ५।२१ ॥
विश्वास-प्रस्तुतिः - ५।२२
लेख्यदोषास् तु ये केचित्
साक्षिणाम् चैव ये स्मृताः।
वादकाले तु वक्तव्याः
पश्चाद् उक्तान् न दूषयेत् ॥ ५।२२ ॥
मूलम् - ५।२२
लेख्यदोषास् तु ये केचित्
साक्षिणाम् चैव ये स्मृताः।
वादकाले तु वक्तव्याः
पश्चाद् उक्तान् न दूषयेत् ॥ ५।२२ ॥
विश्वास-प्रस्तुतिः - ५।२३
साक्षिदोषाः प्रयोक्तव्याः
संसदि प्रतिवादिना।
पत्रे विलिख्य तान् सर्वान्
वाच्यं प्रत्युत्तरं ततः ॥ ५।२३ ॥
मूलम् - ५।२३
साक्षिदोषाः प्रयोक्तव्याः
संसदि प्रतिवादिना।
पत्रे विलिख्य तान् सर्वान्
वाच्यं प्रत्युत्तरं ततः ॥ ५।२३ ॥
विश्वास-प्रस्तुतिः - ५।२४
प्रतिपत्तौ न साक्षित्वम्
अर्हन्ति तु कदा चन।
अतो ऽन्यथा भावनीयाः
क्रियायां प्रतिवादिना ॥ ५।२४ ॥
मूलम् - ५।२४
प्रतिपत्तौ न साक्षित्वम्
अर्हन्ति तु कदा चन।
अतो ऽन्यथा भावनीयाः
क्रियायां प्रतिवादिना ॥ ५।२४ ॥
विश्वास-प्रस्तुतिः - ५।२५
अभावयन् दमं दाप्यः
प्रत्यर्थी साक्षिणा स्फुटम्।
भाविताः साक्षिणः सर्वे
साक्षिधर्मनिराकृताः ॥ ५।२५ ॥
मूलम् - ५।२५
अभावयन् दमं दाप्यः
प्रत्यर्थी साक्षिणा स्फुटम्।
भाविताः साक्षिणः सर्वे
साक्षिधर्मनिराकृताः ॥ ५।२५ ॥
विश्वास-प्रस्तुतिः - ५।२६
प्रत्यर्थिनो ऽर्थिनो वापि
साक्षिदूषणसाधने।
प्रस्तुतार्थोपयोगेन
व्यवहारान्तरं न च ॥ ५।२६ ॥
मूलम् - ५।२६
प्रत्यर्थिनो ऽर्थिनो वापि
साक्षिदूषणसाधने।
प्रस्तुतार्थोपयोगेन
व्यवहारान्तरं न च ॥ ५।२६ ॥
विश्वास-प्रस्तुतिः - ५।२७
जितः स विनयं दाप्यः
शास्त्रदृष्टेन कर्मणा।
यदि वादी निराकाङ्क्षः
साक्षी सत्ये व्यवस्थितः ॥ ५।२७ ॥
मूलम् - ५।२७
जितः स विनयं दाप्यः
शास्त्रदृष्टेन कर्मणा।
यदि वादी निराकाङ्क्षः
साक्षी सत्ये व्यवस्थितः ॥ ५।२७ ॥
विश्वास-प्रस्तुतिः - ५।२८
उक्ते ऽर्थे साक्षिणो यस् तु
दूषयन् प्रागदूषितान्।
न च तत्कारणं ब्रूयात्
प्राप्नुयात् पूर्वसाहसम् ॥ ५।२८ ॥
मूलम् - ५।२८
उक्ते ऽर्थे साक्षिणो यस् तु
दूषयन् प्रागदूषितान्।
न च तत्कारणं ब्रूयात्
प्राप्नुयात् पूर्वसाहसम् ॥ ५।२८ ॥
विश्वास-प्रस्तुतिः - ५।२९
लेख्यं वा साक्षिणो वापि
विवादे यस्य दूषिताः।
तस्य कार्यं न शोध्यं तु
यावत् तन् न विशोधयेत् ॥ ५।२९ ॥
मूलम् - ५।२९
लेख्यं वा साक्षिणो वापि
विवादे यस्य दूषिताः।
तस्य कार्यं न शोध्यं तु
यावत् तन् न विशोधयेत् ॥ ५।२९ ॥
विश्वास-प्रस्तुतिः - ५।३०
साक्षिभिर् गदितैः सभ्यैः
प्रक्रान्ते निर्णये तु यः।
पुनर्विवादं कुरुते
राजा तत्र विचारयेत् ॥ ५।३० ॥
मूलम् - ५।३०
साक्षिभिर् गदितैः सभ्यैः
प्रक्रान्ते निर्णये तु यः।
पुनर्विवादं कुरुते
राजा तत्र विचारयेत् ॥ ५।३० ॥
विश्वास-प्रस्तुतिः - ५।३१
साक्षिसन्दूषणे कार्यं
पूर्वं साक्षिविशोधनम् [प्।५५]।
शुद्धेषु साक्षिषु ततः
पश्चात् कार्यं विशोधयेत् ॥ ५।३१ ॥
मूलम् - ५।३१
साक्षिसन्दूषणे कार्यं
पूर्वं साक्षिविशोधनम् [प्।५५]।
शुद्धेषु साक्षिषु ततः
पश्चात् कार्यं विशोधयेत् ॥ ५।३१ ॥
विश्वास-प्रस्तुतिः - ५।३२
सत्यप्रशंसावचनैर्
अनृतस्यापवर्जनैः।
सभ्यैः सम्बोधनीयास् तु
धर्मशास्त्रार्थवेदिभिः ॥ ५।३२ ॥
मूलम् - ५।३२
सत्यप्रशंसावचनैर्
अनृतस्यापवर्जनैः।
सभ्यैः सम्बोधनीयास् तु
धर्मशास्त्रार्थवेदिभिः ॥ ५।३२ ॥
विश्वास-प्रस्तुतिः - ५।३३
आ जन्मनश् चा मरणात्
सुकृतं यत् त्वयार्जितम्।
तत् सर्वं नाशम् आयाति
वितथस्याभिशंसनात् ॥ ५।३३ ॥
मूलम् - ५।३३
आ जन्मनश् चा मरणात्
सुकृतं यत् त्वयार्जितम्।
तत् सर्वं नाशम् आयाति
वितथस्याभिशंसनात् ॥ ५।३३ ॥
विश्वास-प्रस्तुतिः - ५।३४
कूटसब् ह्यः कूटसाक्षी
ब्रह्महा च समाः स्मृताः।
भ्रूणहा मित्रहा चैषां
नाधिकः समुदाहृतः ॥ ५।३४ ॥
मूलम् - ५।३४
कूटसब् ह्यः कूटसाक्षी
ब्रह्महा च समाः स्मृताः।
भ्रूणहा मित्रहा चैषां
नाधिकः समुदाहृतः ॥ ५।३४ ॥
विश्वास-प्रस्तुतिः - ५।३५
एवं विदित्वा यः साक्षी
स यथार्थं वदेत् ततः।
तेनेह कीर्तिम् आप्नोति
परत्र च शुभां गतिम् ॥ ५।३५ ॥
मूलम् - ५।३५
एवं विदित्वा यः साक्षी
स यथार्थं वदेत् ततः।
तेनेह कीर्तिम् आप्नोति
परत्र च शुभां गतिम् ॥ ५।३५ ॥
विश्वास-प्रस्तुतिः - ५।३६
पुरुषाः सन्ति लोभाद् ये
कार्यं प्रब्रूयुर् अन्यथा।
सन्ति चान्ये दुरात्मान्ः
कूटलेख्यकृतो नराः ॥ ५।३६ ॥
मूलम् - ५।३६
पुरुषाः सन्ति लोभाद् ये
कार्यं प्रब्रूयुर् अन्यथा।
सन्ति चान्ये दुरात्मान्ः
कूटलेख्यकृतो नराः ॥ ५।३६ ॥
विश्वास-प्रस्तुतिः - ५।३७
प्रष्टव्याः साक्षिणो ये तु
वर्ज्याश् चैव नराधमाः।
तान् अहं कथयिष्यामि
साम्प्रतं शास्त्रचोतितान् ॥ ५।३७ ॥
मूलम् - ५।३७
प्रष्टव्याः साक्षिणो ये तु
वर्ज्याश् चैव नराधमाः।
तान् अहं कथयिष्यामि
साम्प्रतं शास्त्रचोतितान् ॥ ५।३७ ॥
विश्वास-प्रस्तुतिः - ५।३८
श्रौत-स्मार्तक्रियायुक्ताः
लोभद्वेषविवर्जिताः।
कुलीनाः साक्षिणो ऽनिन्द्यास्
तपो-दान-दयान्विताः ॥ ५।३८ ॥
मूलम् - ५।३८
श्रौत-स्मार्तक्रियायुक्ताः
लोभद्वेषविवर्जिताः।
कुलीनाः साक्षिणो ऽनिन्द्यास्
तपो-दान-दयान्विताः ॥ ५।३८ ॥
५।३ असाक्षिणः
विश्वास-प्रस्तुतिः - ५।३९
मातुः पिता पितृव्यश् च
भार्याया भ्रातृमातरौ।
भ्राता सखा च जामाता
सर्ववादेष्व् असाक्षिणः ॥ ५।३९ ॥
मूलम् - ५।३९
मातुः पिता पितृव्यश् च
भार्याया भ्रातृमातरौ।
भ्राता सखा च जामाता
सर्ववादेष्व् असाक्षिणः ॥ ५।३९ ॥
विश्वास-प्रस्तुतिः - ५।४०
परस्त्रीपानसक्ताश् च
कितवाः पूर्वदूषिताः।
उन्मत्तार्ताः साहसिका
नास्तिकाश् च न साक्षिणः ॥ ५।४० ॥
मूलम् - ५।४०
परस्त्रीपानसक्ताश् च
कितवाः पूर्वदूषिताः।
उन्मत्तार्ताः साहसिका
नास्तिकाश् च न साक्षिणः ॥ ५।४० ॥
विश्वास-प्रस्तुतिः - ५।४१
सन्तो ऽपि न प्रमाणं स्युर्
मृते धनिनि साक्षिणः।
पुत्रे तु श्राविता ये स्युः
स्वयम् आसन्नमृत्युना ॥ ५।४१ ॥
मूलम् - ५।४१
सन्तो ऽपि न प्रमाणं स्युर्
मृते धनिनि साक्षिणः।
पुत्रे तु श्राविता ये स्युः
स्वयम् आसन्नमृत्युना ॥ ५।४१ ॥
विश्वास-प्रस्तुतिः - ५।४२
विहायोपानद्-उष्णीषं
दक्षिणं पाणिम् उद्धरेत्।
हिरण्यं गोशकृद् दर्भान्
समादाय ऋतं वदेत् ॥ ५।४२ ॥
मूलम् - ५।४२
विहायोपानद्-उष्णीषं
दक्षिणं पाणिम् उद्धरेत्।
हिरण्यं गोशकृद् दर्भान्
समादाय ऋतं वदेत् ॥ ५।४२ ॥
उपस्थिताः परीक्ष्याः स्युः
स्वर्वर्णेङ्गितादिभिः।
सकृत् प्रमादापराधि-
विप्रं व्यापदि पीडितम् \
भटादिभिर् वध्यमानं # रक्षेद् उक्त्वानृतान्य् अपि ॥ ५।४३ ॥
विश्वास-प्रस्तुतिः - ५।४४
यस्याशेषः प्रतिज्ञार्थः
साक्षिभिः प्रतिवर्णितः [प्।५७]।
स जयी स्याद् अन्यथा तु
साध्यार्थं न समाप्नुयात् ॥ ५।४४ ॥
मूलम् - ५।४४
यस्याशेषः प्रतिज्ञार्थः
साक्षिभिः प्रतिवर्णितः [प्।५७]।
स जयी स्याद् अन्यथा तु
साध्यार्थं न समाप्नुयात् ॥ ५।४४ ॥
विश्वास-प्रस्तुतिः - ५।४५
आहूतो यत्र नागच्छेत्
साक्षी रोगविवर्जितः।
ऋणं दमं च दाप्यः स्यात्
त्रिपक्षात् परतस् तु सः ॥ ५।४५ ॥
मूलम् - ५।४५
आहूतो यत्र नागच्छेत्
साक्षी रोगविवर्जितः।
ऋणं दमं च दाप्यः स्यात्
त्रिपक्षात् परतस् तु सः ॥ ५।४५ ॥
५।४ साक्ष्युक्तिबलाब्लविचारः
विश्वास-प्रस्तुतिः - ५।४६
साक्षिद्वैधे प्रभूताः स्युर्
ग्राह्याः साम्ये गुणान्विताः।
गुणिद्वैधे क्रियायुक्तास्
तत्साम्ये शुचिमत्तराः ॥ ५।४६ ॥
मूलम् - ५।४६
साक्षिद्वैधे प्रभूताः स्युर्
ग्राह्याः साम्ये गुणान्विताः।
गुणिद्वैधे क्रियायुक्तास्
तत्साम्ये शुचिमत्तराः ॥ ५।४६ ॥
विश्वास-प्रस्तुतिः - ५।४७
अपृष्टाः सत्यवचने
प्रश्नस्याकथने तथा।
साक्षिणः सन् निरोद्ध्व्या
गर्ह्या दण्ड्याश् च धर्मतः ॥ ५।४७ ॥
मूलम् - ५।४७
अपृष्टाः सत्यवचने
प्रश्नस्याकथने तथा।
साक्षिणः सन् निरोद्ध्व्या
गर्ह्या दण्ड्याश् च धर्मतः ॥ ५।४७ ॥
विश्वास-प्रस्तुतिः - ५।४८
देश-काल-वयो-द्रव्य-
सञ्ज्ञा-जाति-प्रमाणतः।
अन्यूनं चेन् निगदितं
सिद्धं साध्यं विनिर्दिशेत् ॥ ५।४८ ॥
मूलम् - ५।४८
देश-काल-वयो-द्रव्य-
सञ्ज्ञा-जाति-प्रमाणतः।
अन्यूनं चेन् निगदितं
सिद्धं साध्यं विनिर्दिशेत् ॥ ५।४८ ॥
विश्वास-प्रस्तुतिः - ५।४९
देश-काल-वयो-द्रव्य-
प्रमाणाकृति-जातिषु।
यत्र विप्रतिपत्तिः स्यात्
साक्ष्यं तद् अपि नान्यथा ॥ ५।४९ ॥
मूलम् - ५।४९
देश-काल-वयो-द्रव्य-
प्रमाणाकृति-जातिषु।
यत्र विप्रतिपत्तिः स्यात्
साक्ष्यं तद् अपि नान्यथा ॥ ५।४९ ॥
विश्वास-प्रस्तुतिः - ५।५०
निर्दिष्टेष्व् अर्थजातेषु
साक्षी चेत् साक्ष्य आगते।
न ब्रूयाद् अक्षस्रसमं
न तन् निगदितं भवेत् ॥ ५।५० ॥
मूलम् - ५।५०
निर्दिष्टेष्व् अर्थजातेषु
साक्षी चेत् साक्ष्य आगते।
न ब्रूयाद् अक्षस्रसमं
न तन् निगदितं भवेत् ॥ ५।५० ॥
विश्वास-प्रस्तुतिः - ५।५१
पूर्वपक्षे प्रतिज्ञातम्
अशेषं प्रतिभावयेत्।
ऊनाधिकं तु यत्रोक्तं
न तन् निगदितं भवेत् ॥ ५।५१ ॥
मूलम् - ५।५१
पूर्वपक्षे प्रतिज्ञातम्
अशेषं प्रतिभावयेत्।
ऊनाधिकं तु यत्रोक्तं
न तन् निगदितं भवेत् ॥ ५।५१ ॥
विश्वास-प्रस्तुतिः - ५।५२
ऊनम् अभ्यधिकं वार्थम्
विब्रूयुर् यत्र साक्षिणः।
तदर्थानुक्तविज्ञेयम्
एष साक्षिविधिः स्मृतः ॥ ५।५२ ॥
मूलम् - ५।५२
ऊनम् अभ्यधिकं वार्थम्
विब्रूयुर् यत्र साक्षिणः।
तदर्थानुक्तविज्ञेयम्
एष साक्षिविधिः स्मृतः ॥ ५।५२ ॥
विश्वास-प्रस्तुतिः - ५।५३
साध्यार्थांशे निगदिते
साक्षिभिः सकलं भवेत्।
स्त्रीसङ्गे साहसे चौर्ये
यत् साध्यं परिकल्प्यते ॥ ५।५३ ॥
मूलम् - ५।५३
साध्यार्थांशे निगदिते
साक्षिभिः सकलं भवेत्।
स्त्रीसङ्गे साहसे चौर्ये
यत् साध्यं परिकल्प्यते ॥ ५।५३ ॥
विश्वास-प्रस्तुतिः - ५।५४
ऊनाधिकं तु यत्र स्यात्
साक्ष्यं तत्र विवर्जयेत्।
साक्षी तत्र न दण्ड्यः स्याद्
अब्रुवन् दण्डम् अर्हति ॥ ५।५४ ॥
मूलम् - ५।५४
ऊनाधिकं तु यत्र स्यात्
साक्ष्यं तत्र विवर्जयेत्।
साक्षी तत्र न दण्ड्यः स्याद्
अब्रुवन् दण्डम् अर्हति ॥ ५।५४ ॥