विश्वास-प्रस्तुतिः - ४।१
शोधिते लिखिते सम्यग्
इति निर्दोष उत्तरे।
प्रत्यर्थिनो ऽर्थिनो वापि
क्रिया कारणम् इष्यते ॥ ४।१ ॥
मूलम् - ४।१
शोधिते लिखिते सम्यग्
इति निर्दोष उत्तरे।
प्रत्यर्थिनो ऽर्थिनो वापि
क्रिया कारणम् इष्यते ॥ ४।१ ॥
विश्वास-प्रस्तुतिः - ४।२
ये तु तिष्ठन्ति करणे
तेषाम् सभ्यैर् विभावना।
कथयित्वोत्तरं सम्यग्
दातव्यैकस्य वादिनः ॥ ४।२ ॥
मूलम् - ४।२
ये तु तिष्ठन्ति करणे
तेषाम् सभ्यैर् विभावना।
कथयित्वोत्तरं सम्यग्
दातव्यैकस्य वादिनः ॥ ४।२ ॥
४।१ प्रमाणानां बलाबलम्
विश्वास-प्रस्तुतिः - ४।३
प्रतिज्ञां भावयेद् वादी
प्रत्यर्थी कारणं तथा।
प्राग्वृत्तवादी विजयं
जयपत्त्रेण भावयेत् ॥ ४।३ ॥
मूलम् - ४।३
प्रतिज्ञां भावयेद् वादी
प्रत्यर्थी कारणं तथा।
प्राग्वृत्तवादी विजयं
जयपत्त्रेण भावयेत् ॥ ४।३ ॥
विश्वास-प्रस्तुतिः - ४।४
पूर्वपादे विलिखितं
यथाक्षरम् अशेषतः।
अर्थी तृतीयपादे तु
क्रियया प्रतिपादयेत् ॥ ४।४ ॥
मूलम् - ४।४
पूर्वपादे विलिखितं
यथाक्षरम् अशेषतः।
अर्थी तृतीयपादे तु
क्रियया प्रतिपादयेत् ॥ ४।४ ॥
विश्वास-प्रस्तुतिः - ४।५
श्रुत्वा पूर्वोत्तरं सभ्यैर्
निर्दिष्टा यस्य भावना।
विभावयेत् प्रतिज्ञातं
सो ऽखिलं लिखितादिना ॥ ४।५ ॥
मूलम् - ४।५
श्रुत्वा पूर्वोत्तरं सभ्यैर्
निर्दिष्टा यस्य भावना।
विभावयेत् प्रतिज्ञातं
सो ऽखिलं लिखितादिना ॥ ४।५ ॥
विश्वास-प्रस्तुतिः - ४।६
द्विप्रकारा क्रिया प्रोक्ता
मानुषीइ दैविकी तथा।
एकैकानेकधा भिन्ना
ऋषिभिस् तत्त्ववेदिभिः ॥ ४।६ ॥
मूलम् - ४।६
द्विप्रकारा क्रिया प्रोक्ता
मानुषीइ दैविकी तथा।
एकैकानेकधा भिन्ना
ऋषिभिस् तत्त्ववेदिभिः ॥ ४।६ ॥
विश्वास-प्रस्तुतिः - ४।७
साक्षिणो लिखितं भुक्तिर्
मानुषं त्रिविधं स्मृतम्।
धटाद् या धर्मजान्ता तु
दैवी नवविधा क्रिया ॥ ४।७ ॥
मूलम् - ४।७
साक्षिणो लिखितं भुक्तिर्
मानुषं त्रिविधं स्मृतम्।
धटाद् या धर्मजान्ता तु
दैवी नवविधा क्रिया ॥ ४।७ ॥
विश्वास-प्रस्तुतिः - ४।८
साक्षिलेख्यानुमानं च
मानुषी त्रिविधा क्रिया।
साक्षी द्वादश भेदस् तु
लिखितं त्व् अष्टधा स्मृतम् ॥ ४।८ ॥
मूलम् - ४।८
साक्षिलेख्यानुमानं च
मानुषी त्रिविधा क्रिया।
साक्षी द्वादश भेदस् तु
लिखितं त्व् अष्टधा स्मृतम् ॥ ४।८ ॥
विश्वास-प्रस्तुतिः - ४।९
अनुमानं त्रिधा प्रोक्तं
नवधा दैविकी क्रिया।
प्रथमे वा तृतीये वा
प्रमाणं दैवमानुषम् ॥ ४।९ ॥
मूलम् - ४।९
अनुमानं त्रिधा प्रोक्तं
नवधा दैविकी क्रिया।
प्रथमे वा तृतीये वा
प्रमाणं दैवमानुषम् ॥ ४।९ ॥
विश्वास-प्रस्तुतिः - ४।१०
उत्तरे स्याच् चतुर्थे तु
ससाक्षिजयपत्रकम्।
ऋणादिकेषु कार्येषु
कल्पयेन् मानुषीं क्रियाम् ॥ ४।१० ॥
मूलम् - ४।१०
उत्तरे स्याच् चतुर्थे तु
ससाक्षिजयपत्रकम्।
ऋणादिकेषु कार्येषु
कल्पयेन् मानुषीं क्रियाम् ॥ ४।१० ॥
विश्वास-प्रस्तुतिः - ४।११
प्राङ्न्याये प्रत्यवस्कन्दे
प्रत्यर्थी साधयेत् स्वयम्।
उत्तरार्थं प्रतिज्ञार्थं
अर्थी मिथ्योत्तरे पुनः ॥ ४।११ ॥
मूलम् - ४।११
प्राङ्न्याये प्रत्यवस्कन्दे
प्रत्यर्थी साधयेत् स्वयम्।
उत्तरार्थं प्रतिज्ञार्थं
अर्थी मिथ्योत्तरे पुनः ॥ ४।११ ॥
विश्वास-प्रस्तुतिः - ४।१२
क्रिया न दैविकी प्रोक्ता
विद्यमानेषु साक्षिषु [प्।४७]।
लेख्ये च सति वादेषु
न स्याद् दिव्यं न साक्षिणः ॥ ४।१२ ॥
मूलम् - ४।१२
क्रिया न दैविकी प्रोक्ता
विद्यमानेषु साक्षिषु [प्।४७]।
लेख्ये च सति वादेषु
न स्याद् दिव्यं न साक्षिणः ॥ ४।१२ ॥
विश्वास-प्रस्तुतिः - ४।१३
वाक्पारुष्ये महीवादे
निषिद्धा दैविकी क्रिया।
प्रदातव्या प्रयत्नेन
साहसेषु चतुर्ष्व् अपि ॥ ४।१३ ॥
मूलम् - ४।१३
वाक्पारुष्ये महीवादे
निषिद्धा दैविकी क्रिया।
प्रदातव्या प्रयत्नेन
साहसेषु चतुर्ष्व् अपि ॥ ४।१३ ॥
विश्वास-प्रस्तुतिः - ४।१४
नृपद्रोहे साहसे च
कल्पयेद् दैविकीं क्रियाम् ॥ ४।१४ ॥
मूलम् - ४।१४
नृपद्रोहे साहसे च
कल्पयेद् दैविकीं क्रियाम् ॥ ४।१४ ॥
विश्वास-प्रस्तुतिः - ४।१५
मणिमुक्ताप्रवालानां
कूटहृत्पाशहारकः।
हिंसको ऽन्याङ्गनासेवी
परीक्ष्यः शपथैः सदा ॥ ४।१५ ॥
मूलम् - ४।१५
मणिमुक्ताप्रवालानां
कूटहृत्पाशहारकः।
हिंसको ऽन्याङ्गनासेवी
परीक्ष्यः शपथैः सदा ॥ ४।१५ ॥
विश्वास-प्रस्तुतिः - ४।१६
महापापाभिशापेषु
निक्षेपे हरणे तथा।
दिव्यैः कार्यं परीक्षेत
राजा सत्स्व् अपि साक्षिषु ॥ ४।१६ ॥
मूलम् - ४।१६
महापापाभिशापेषु
निक्षेपे हरणे तथा।
दिव्यैः कार्यं परीक्षेत
राजा सत्स्व् अपि साक्षिषु ॥ ४।१६ ॥
विश्वास-प्रस्तुतिः - ४।१७
लिखिते साक्षिवादे च
सन्दिग्धिर् जायते यदि।
अनुमाने च सम्भ्रान्ते
तत्र दिव्यं विशोधनम् ॥ ४।१७ ॥
मूलम् - ४।१७
लिखिते साक्षिवादे च
सन्दिग्धिर् जायते यदि।
अनुमाने च सम्भ्रान्ते
तत्र दिव्यं विशोधनम् ॥ ४।१७ ॥
विश्वास-प्रस्तुतिः - ४।१८
द्यूते समाह्वये चैव
विवादे समुपस्थिते।
साक्षिणः साधनं प्रोक्तं
न दिव्यं न च लेखकम् ॥ ४।१८ ॥
मूलम् - ४।१८
द्यूते समाह्वये चैव
विवादे समुपस्थिते।
साक्षिणः साधनं प्रोक्तं
न दिव्यं न च लेखकम् ॥ ४।१८ ॥
यथालाभोपपन्नैस्
तैर् निर्णयं कारयेन् नृपः।
प्रकान्ते साहसे वादे
पारुष्ये दण्डवाचिके \
बलोद्भूतेषु कार्येषु # साक्षिणो दिव्यम् एव च ॥ ४।१९ ॥
विश्वास-प्रस्तुतिः - ४।२०
ऋणे लेख्यं साक्षिणो वा
युक्तिलेशादयो ऽपि वा।
दैविकी वा क्रिया प्रोक्ता
प्रजानां हितकाम्यया ॥ ४।२० ॥
मूलम् - ४।२०
ऋणे लेख्यं साक्षिणो वा
युक्तिलेशादयो ऽपि वा।
दैविकी वा क्रिया प्रोक्ता
प्रजानां हितकाम्यया ॥ ४।२० ॥
विश्वास-प्रस्तुतिः - ४।२१
चिरन्तनोपांशुकृते
चिरनष्टेषु साक्षिषु।
प्रदुष्टेष्व् अनुमानेषु
दिव्यैः कार्यं विशोधयेत् ॥ ४।२१ ॥
मूलम् - ४।२१
चिरन्तनोपांशुकृते
चिरनष्टेषु साक्षिषु।
प्रदुष्टेष्व् अनुमानेषु
दिव्यैः कार्यं विशोधयेत् ॥ ४।२१ ॥