०३ उत्तरम्

विश्वास-प्रस्तुतिः - ३।१

यदा त्व् एवंविधः पक्षः
कल्पितः पूर्ववादिना।
दद्यात् तत्पक्षसम्बद्धं
प्रतिवादी तदोत्तरम् ॥ ३।१ ॥

मूलम् - ३।१

यदा त्व् एवंविधः पक्षः
कल्पितः पूर्ववादिना।
दद्यात् तत्पक्षसम्बद्धं
प्रतिवादी तदोत्तरम् ॥ ३।१ ॥

विश्वास-प्रस्तुतिः - ३।२

विनिश्चिते पूर्वपक्षे
ग्राह्याग्राह्य-विशेषिते।
प्रतिज्ञाते स्थिरीभूते
लेखयेद् उत्तरं ततः ॥ ३।२ ॥

मूलम् - ३।२

विनिश्चिते पूर्वपक्षे
ग्राह्याग्राह्य-विशेषिते।
प्रतिज्ञाते स्थिरीभूते
लेखयेद् उत्तरं ततः ॥ ३।२ ॥

३।१ प्रार्थयमानाय कालो देयः

विश्वास-प्रस्तुतिः - ३।३

शालीनत्वाद् भयात् तद्वत्
प्रत्यर्थी स्मृतिविभ्रमात्।
कालं प्रार्थयते यत्र
तत्रेमं लब्धुम् अर्हति ॥ ३।३ ॥

मूलम् - ३।३

शालीनत्वाद् भयात् तद्वत्
प्रत्यर्थी स्मृतिविभ्रमात्।
कालं प्रार्थयते यत्र
तत्रेमं लब्धुम् अर्हति ॥ ३।३ ॥

विश्वास-प्रस्तुतिः - ३।४

एकाह-त्र्यह-पञ्चाह-
सप्ताहं पक्षम् एव वा।
मासं चतुस् त्रयं वर्षं
लभते शक्त्यपेक्षया ॥ ३।४ ॥

मूलम् - ३।४

एकाह-त्र्यह-पञ्चाह-
सप्ताहं पक्षम् एव वा।
मासं चतुस् त्रयं वर्षं
लभते शक्त्यपेक्षया ॥ ३।४ ॥

विश्वास-प्रस्तुतिः - ३।५

पक्षस्य व्यापकं सारम्
असन्दिग्धम् अनाकुलम् [प्।३७]।
अव्याख्यानगम्यम् एतद्
उत्तरं तद्विदो विदुः ॥ ३।५ ॥

मूलम् - ३।५

पक्षस्य व्यापकं सारम्
असन्दिग्धम् अनाकुलम् [प्।३७]।
अव्याख्यानगम्यम् एतद्
उत्तरं तद्विदो विदुः ॥ ३।५ ॥

विश्वास-प्रस्तुतिः - ३।६

उत्तरं चतुर्विधं
सम्प्रति [षत्मु?]रं,।
मिथ्योत्तरं प्राङ्न्याय-
उत्तरं कारणोत्तरं चेति ॥ ३।६ ॥

मूलम् - ३।६

उत्तरं चतुर्विधं
सम्प्रति [षत्मु?]रं,।
मिथ्योत्तरं प्राङ्न्याय-
उत्तरं कारणोत्तरं चेति ॥ ३।६ ॥

विश्वास-प्रस्तुतिः - ३।७

पूर्वपक्षे यथार्थं तु
न दद्याद् उत्तरं तु यः।
प्रत्यक्षी दापनीयः स्यात्
सामादिभिर् उपक्रमैः ॥ ३।७ ॥

मूलम् - ३।७

पूर्वपक्षे यथार्थं तु
न दद्याद् उत्तरं तु यः।
प्रत्यक्षी दापनीयः स्यात्
सामादिभिर् उपक्रमैः ॥ ३।७ ॥

विश्वास-प्रस्तुतिः - ३।८

प्रियपूर्वं वचः साम
भेदस् तु भयदर्शनम्।
अर्थापकर्षणं दण्डस्
ताडनं बन्धनं तथा ॥ ३।८ ॥

मूलम् - ३।८

प्रियपूर्वं वचः साम
भेदस् तु भयदर्शनम्।
अर्थापकर्षणं दण्डस्
ताडनं बन्धनं तथा ॥ ३।८ ॥

विश्वास-प्रस्तुतिः - ३।९

साहस-स्तेय-पारुष्य-
गो-ऽभिशापे तथात्यये।
भूमौ विवादयेत् क्षिप्रम्
अकाले ऽपि बृहस्पतिः ॥ ३।९ ॥

मूलम् - ३।९

साहस-स्तेय-पारुष्य-
गो-ऽभिशापे तथात्यये।
भूमौ विवादयेत् क्षिप्रम्
अकाले ऽपि बृहस्पतिः ॥ ३।९ ॥

विश्वास-प्रस्तुतिः - ३।१०

अन्यवादी क्रियाद्वेषी
नोपस्थायी निरुत्तरः।
आहुतः प्रपलायी च
हीनः पञ्चविधः स्मृतः ॥ ३।१० ॥

मूलम् - ३।१०

अन्यवादी क्रियाद्वेषी
नोपस्थायी निरुत्तरः।
आहुतः प्रपलायी च
हीनः पञ्चविधः स्मृतः ॥ ३।१० ॥

विश्वास-प्रस्तुतिः - ३।११

कन्याया दूषणे स्तेये
कलहे साहसेषु च।
उपधौ कूटसाक्ष्ये च
सद्य एव विवादयेत् ॥ ३।११ ॥

मूलम् - ३।११

कन्याया दूषणे स्तेये
कलहे साहसेषु च।
उपधौ कूटसाक्ष्ये च
सद्य एव विवादयेत् ॥ ३।११ ॥

विश्वास-प्रस्तुतिः - ३।१२

धेनावनडुहि क्षेत्रे
स्त्रीषु प्रजनने तथा।
न्यासे याचितके दत्ते
तथैव क्रय-विक्रये ॥ ३।१२ ॥

मूलम् - ३।१२

धेनावनडुहि क्षेत्रे
स्त्रीषु प्रजनने तथा।
न्यासे याचितके दत्ते
तथैव क्रय-विक्रये ॥ ३।१२ ॥

विश्वास-प्रस्तुतिः - ३।१३

प्राङ्न्याये कारणोक्तौ च
प्रत्यर्थी निर्दिशेत् क्रियाम्।
मिथ्योक्तौ पूर्ववादी तु
प्रतिपत्तौ न सम्भवेत् ॥ ३।१३ ॥

मूलम् - ३।१३

प्राङ्न्याये कारणोक्तौ च
प्रत्यर्थी निर्दिशेत् क्रियाम्।
मिथ्योक्तौ पूर्ववादी तु
प्रतिपत्तौ न सम्भवेत् ॥ ३।१३ ॥

विश्वास-प्रस्तुतिः - ३।१४

अनुक्त्वा कारणं यत्र
पक्षं वादी प्रपद्यते।
प्रतिपत्तिस् तु सा ज्ञेया
कारणं तूत्तरं पृथक् ॥ ३।१४ ॥

मूलम् - ३।१४

अनुक्त्वा कारणं यत्र
पक्षं वादी प्रपद्यते।
प्रतिपत्तिस् तु सा ज्ञेया
कारणं तूत्तरं पृथक् ॥ ३।१४ ॥

विश्वास-प्रस्तुतिः - ३।१५

सर्वालापं तु यः कृत्वा
मिथो ऽल्पम् अपि संवदेत्।
सर्वम् एव तु दाप्यः स्याद्
अभियुक्तो बृहस्पतिः ॥ ३।१५ ॥

मूलम् - ३।१५

सर्वालापं तु यः कृत्वा
मिथो ऽल्पम् अपि संवदेत्।
सर्वम् एव तु दाप्यः स्याद्
अभियुक्तो बृहस्पतिः ॥ ३।१५ ॥

विश्वास-प्रस्तुतिः - ३।१६

वाक्पारुष्ये च भूम्यौ च
दिव्यं तु परिवर्जयेत्।
विक्रयादानसम्बन्धे
क्रियादानम् अनिच्छति ॥ ३।१६ ॥

मूलम् - ३।१६

वाक्पारुष्ये च भूम्यौ च
दिव्यं तु परिवर्जयेत्।
विक्रयादानसम्बन्धे
क्रियादानम् अनिच्छति ॥ ३।१६ ॥

३।२ चतुर्विधम् उत्तरम्

विश्वास-प्रस्तुतिः - ३।१७

अभियुक्तो ऽभियोगस्य
यदि कुर्यात् तु निह्नवम्।
मिथ्या तत् तु विजानीयाद्
उत्तरं व्यवहारतः ॥ ३।१७ ॥

मूलम् - ३।१७

अभियुक्तो ऽभियोगस्य
यदि कुर्यात् तु निह्नवम्।
मिथ्या तत् तु विजानीयाद्
उत्तरं व्यवहारतः ॥ ३।१७ ॥

विश्वास-प्रस्तुतिः - ३।१८

श्रुत्वाभियोगं प्रत्यर्थी
यदि तत् प्रतिपद्यते।
सा तु सम्प्रतिपत्तिस् तु
शास्त्रविद्भिर् उदाहृता ॥ ३।१८ ॥

मूलम् - ३।१८

श्रुत्वाभियोगं प्रत्यर्थी
यदि तत् प्रतिपद्यते।
सा तु सम्प्रतिपत्तिस् तु
शास्त्रविद्भिर् उदाहृता ॥ ३।१८ ॥

विश्वास-प्रस्तुतिः - ३।१९

अर्थिनाभिहितो यो ऽर्थः
प्रत्यर्थी यदि तं तथा।
प्रपद्य कारणं ब्रूयात्
प्रत्यवस्कन्दनं हि तत् ॥ ३।१९ ॥

मूलम् - ३।१९

अर्थिनाभिहितो यो ऽर्थः
प्रत्यर्थी यदि तं तथा।
प्रपद्य कारणं ब्रूयात्
प्रत्यवस्कन्दनं हि तत् ॥ ३।१९ ॥

विश्वास-प्रस्तुतिः - ३।२०

यो ऽर्थिनार्थः प्रभाष्येत
प्रत्यर्थी यदि तं तथा।
प्रपद्य कारणं ब्रूयाद्
आधर्यं मनुर् अब्रवीत् ॥ ३।२० ॥

मूलम् - ३।२०

यो ऽर्थिनार्थः प्रभाष्येत
प्रत्यर्थी यदि तं तथा।
प्रपद्य कारणं ब्रूयाद्
आधर्यं मनुर् अब्रवीत् ॥ ३।२० ॥

विश्वास-प्रस्तुतिः - ३।२१

आचारेणावसन्नो ऽपि
पुनर् लेखयते यदि।
स विनेयो जितः पूर्वं
प्राङ्न्यायस् तु स उच्यते ॥ ३।२१ ॥

मूलम् - ३।२१

आचारेणावसन्नो ऽपि
पुनर् लेखयते यदि।
स विनेयो जितः पूर्वं
प्राङ्न्यायस् तु स उच्यते ॥ ३।२१ ॥

विश्वास-प्रस्तुतिः - ३।२२

तथ्ये तथ्यं प्रयुञ्जीत
मिथ्यायां चापि लेखयेत्।
कारणं कारणोपेते
प्राग्जये तु जयं तथा ॥ ३।२२ ॥

मूलम् - ३।२२

तथ्ये तथ्यं प्रयुञ्जीत
मिथ्यायां चापि लेखयेत्।
कारणं कारणोपेते
प्राग्जये तु जयं तथा ॥ ३।२२ ॥

विश्वास-प्रस्तुतिः - ३।२३

भयदृष्टोद्भवा मिथ्या
गर्हिता शास्त्रवेदिभिः।
सत्या सम्प्रतिपत्तिस् तु
धर्म्या सा परिकीर्तिता ॥ ३।२३ ॥

मूलम् - ३।२३

भयदृष्टोद्भवा मिथ्या
गर्हिता शास्त्रवेदिभिः।
सत्या सम्प्रतिपत्तिस् तु
धर्म्या सा परिकीर्तिता ॥ ३।२३ ॥

विश्वास-प्रस्तुतिः - ३।२४

प्राङ्न्यायकरणे तथ्यं
श्लाघ्यं सद्भिर् उदाहृतम्।
विपरीतम् अधर्म्यं स्यात्
प्रत्यर्थी हानिम् आप्नुयात् ॥ ३।२४ ॥

मूलम् - ३।२४

प्राङ्न्यायकरणे तथ्यं
श्लाघ्यं सद्भिर् उदाहृतम्।
विपरीतम् अधर्म्यं स्यात्
प्रत्यर्थी हानिम् आप्नुयात् ॥ ३।२४ ॥

विश्वास-प्रस्तुतिः - ३।२५

अहम्पूउर्विकया याताव्
अर्थिप्रत्यर्थिनौ यदा।
वादो वर्णानुपूर्व्येण
ग्राह्यः पीडाम् अवेक्ष्य च ॥ ३।२५ ॥

मूलम् - ३।२५

अहम्पूउर्विकया याताव्
अर्थिप्रत्यर्थिनौ यदा।
वादो वर्णानुपूर्व्येण
ग्राह्यः पीडाम् अवेक्ष्य च ॥ ३।२५ ॥

विश्वास-प्रस्तुतिः - ३।२६

एककाले समानीते
प्रत्यर्थी सभ्यसन्निधौ।
पूर्वपक्षाक्षरसमं
लेखयेद् उत्तरं ततः ॥ ३।२६ ॥

मूलम् - ३।२६

एककाले समानीते
प्रत्यर्थी सभ्यसन्निधौ।
पूर्वपक्षाक्षरसमं
लेखयेद् उत्तरं ततः ॥ ३।२६ ॥

विश्वास-प्रस्तुतिः - ३।२७

प्रत्यर्थविधिर् आख्यातः
सङ्गतार्थप्रपादने।
चतुर्विधस्याप्य् अधुना
यत् तद् ग्राह्यं तद् उच्यते ॥ ३।२७ ॥

मूलम् - ३।२७

प्रत्यर्थविधिर् आख्यातः
सङ्गतार्थप्रपादने।
चतुर्विधस्याप्य् अधुना
यत् तद् ग्राह्यं तद् उच्यते ॥ ३।२७ ॥

विश्वास-प्रस्तुतिः - ३।२८

प्रस्तुताद् अन्यन् मध्यस्थं
न्यूनाधिकम् असङ्गतम्।
अवाच्यसारं सन्दिग्धं
प्रतिपक्षं न लक्षयेत् ॥ ३।२८ ॥

मूलम् - ३।२८

प्रस्तुताद् अन्यन् मध्यस्थं
न्यूनाधिकम् असङ्गतम्।
अवाच्यसारं सन्दिग्धं
प्रतिपक्षं न लक्षयेत् ॥ ३।२८ ॥

विश्वास-प्रस्तुतिः - ३।२९

भयं करोति भेदं वा
भीषणं वा निरोधनम्।
एतानि वादिनो ऽर्थस्य
व्यवहारे स हीयते ॥ ३।२९ ॥

मूलम् - ३।२९

भयं करोति भेदं वा
भीषणं वा निरोधनम्।
एतानि वादिनो ऽर्थस्य
व्यवहारे स हीयते ॥ ३।२९ ॥

विश्वास-प्रस्तुतिः - ३।३०

ऋत्विगादिर् नियुक्तस् तु
समौ सम्परिकीर्तितौ।
यज्ञे स्वाम्य् आप्नुयात् पुण्यं
हानिं वादे ऽथ वा जयं ॥ ३।३० ॥

मूलम् - ३।३०

ऋत्विगादिर् नियुक्तस् तु
समौ सम्परिकीर्तितौ।
यज्ञे स्वाम्य् आप्नुयात् पुण्यं
हानिं वादे ऽथ वा जयं ॥ ३।३० ॥

विश्वास-प्रस्तुतिः - ३।३१

पूर्वोत्तरे ऽभिलिखिते
यत्र वादी प्रमीयते।
प्रत्यर्थी वा सुतस् ताभ्यां
व्यवहारं विशोधयेत् ॥ ३।३१ ॥

मूलम् - ३।३१

पूर्वोत्तरे ऽभिलिखिते
यत्र वादी प्रमीयते।
प्रत्यर्थी वा सुतस् ताभ्यां
व्यवहारं विशोधयेत् ॥ ३।३१ ॥

विश्वास-प्रस्तुतिः - ३।३२

अनिर्णीते विवादे तु
विप्रलब्धो भवेन् नृपः [प्।४१]।
जयदानं समं न स्यात्
तस्मात् कार्याणि निर्णयेत् ॥ ३।३२ ॥

मूलम् - ३।३२

अनिर्णीते विवादे तु
विप्रलब्धो भवेन् नृपः [प्।४१]।
जयदानं समं न स्यात्
तस्मात् कार्याणि निर्णयेत् ॥ ३।३२ ॥

विश्वास-प्रस्तुतिः - ३।३३

साक्षिणस् तु समुद्दिश्य
यस् तु तान् न विवादयेत्।
त्रिंसद्रात्रात् त्रिपक्षाद् वा
तस्य हानिः प्रजायते ॥ ३।३३ ॥

मूलम् - ३।३३

साक्षिणस् तु समुद्दिश्य
यस् तु तान् न विवादयेत्।
त्रिंसद्रात्रात् त्रिपक्षाद् वा
तस्य हानिः प्रजायते ॥ ३।३३ ॥

विश्वास-प्रस्तुतिः - ३।३४

आहूतप्रपलायी च
मौनी साक्षिपराजितः।
स्ववाक्यप्रतिपन्नश् च
हीनवादी चतुर्विधः ॥ ३।३४ ॥

मूलम् - ३।३४

आहूतप्रपलायी च
मौनी साक्षिपराजितः।
स्ववाक्यप्रतिपन्नश् च
हीनवादी चतुर्विधः ॥ ३।३४ ॥

विश्वास-प्रस्तुतिः - ३।३५

प्रपलायी त्रिपक्षेण
मौनी वा सप्तभिर् दिनैः।
साक्षिभिन्नस् तत्क्षणेन
प्रतिपन्नश् च हीयते ॥ ३।३५ ॥

मूलम् - ३।३५

प्रपलायी त्रिपक्षेण
मौनी वा सप्तभिर् दिनैः।
साक्षिभिन्नस् तत्क्षणेन
प्रतिपन्नश् च हीयते ॥ ३।३५ ॥

विश्वास-प्रस्तुतिः - ३।३६

निवेदितस्य अकथनम्
अनुपस्थानम् एव च।
पक्षार्थिदोषौ मौनं च
हीयमानस्य लक्षणम् ॥ ३।३६ ॥

मूलम् - ३।३६

निवेदितस्य अकथनम्
अनुपस्थानम् एव च।
पक्षार्थिदोषौ मौनं च
हीयमानस्य लक्षणम् ॥ ३।३६ ॥

विश्वास-प्रस्तुतिः - ३।३७

महापापोपपापाभ्यां
पातकेनाथ संसदि।
यो ऽभिशस्तस् तत् क्षमते
संयुक्तं तम् विदुर् जनाः ॥ ३।३७ ॥

मूलम् - ३।३७

महापापोपपापाभ्यां
पातकेनाथ संसदि।
यो ऽभिशस्तस् तत् क्षमते
संयुक्तं तम् विदुर् जनाः ॥ ३।३७ ॥

विश्वास-प्रस्तुतिः - ३।३८

तस्माद् यत्नेन कर्तव्यं
बुधेनात्मविशोधनम्।
यद् यद् गुरुतरं कार्यं
तत् तत् पूर्वं विशोधयेत् ॥ ३।३८ ॥

मूलम् - ३।३८

तस्माद् यत्नेन कर्तव्यं
बुधेनात्मविशोधनम्।
यद् यद् गुरुतरं कार्यं
तत् तत् पूर्वं विशोधयेत् ॥ ३।३८ ॥

विश्वास-प्रस्तुतिः - ३।३९

महापापाभिशस्तो यः
पातकात् तर्तुम् इच्छति।
पूर्वम् अङ्गीकृतं तेन
जितो ऽसौ दण्डम् अर्हति ॥ ३।३९ ॥

मूलम् - ३।३९

महापापाभिशस्तो यः
पातकात् तर्तुम् इच्छति।
पूर्वम् अङ्गीकृतं तेन
जितो ऽसौ दण्डम् अर्हति ॥ ३।३९ ॥

विश्वास-प्रस्तुतिः - ३।४०

आचारकरणे दिव्ये
कृत्वोपस्थाननिश्चयम्।
नोपस्थितो यदा कश् चिच्
छलं तत्र न कारयेत् ॥ ३।४० ॥

मूलम् - ३।४०

आचारकरणे दिव्ये
कृत्वोपस्थाननिश्चयम्।
नोपस्थितो यदा कश् चिच्
छलं तत्र न कारयेत् ॥ ३।४० ॥

विश्वास-प्रस्तुतिः - ३।४१

दैवराजकृतो दोषस्
तत्काले तु यदा भवेत्।
अवधित्यागमात्रेण
न भवेत् स पराजितः ॥ ३।४१ ॥

मूलम् - ३।४१

दैवराजकृतो दोषस्
तत्काले तु यदा भवेत्।
अवधित्यागमात्रेण
न भवेत् स पराजितः ॥ ३।४१ ॥

विश्वास-प्रस्तुतिः - ३।४२

पुर्वोत्तरे सन्निविष्टे
विचारे सम्प्रवर्तिते।
प्रशमं ये मिथो यान्ति
दाप्यस् ते द्विगुणं दमम् ॥ ३।४२ ॥

मूलम् - ३।४२

पुर्वोत्तरे सन्निविष्टे
विचारे सम्प्रवर्तिते।
प्रशमं ये मिथो यान्ति
दाप्यस् ते द्विगुणं दमम् ॥ ३।४२ ॥

विश्वास-प्रस्तुतिः - ३।४३

पूर्वोत्तरार्थे लिखिते
प्रक्रान्ते कार्यनिर्णये।
द्वयोः सन्तप्तयोः सन्धिः
स्याद् अयःखण्डयोर् इव ॥ ३।४३ ॥

मूलम् - ३।४३

पूर्वोत्तरार्थे लिखिते
प्रक्रान्ते कार्यनिर्णये।
द्वयोः सन्तप्तयोः सन्धिः
स्याद् अयःखण्डयोर् इव ॥ ३।४३ ॥

३।३ सन्धिविचारः

विश्वास-प्रस्तुतिः - ३।४४

साक्षिसभ्यविकल्पस् तु
भवेत् तत्रोभयोर् अपि [प्।४३]।
दोलायमानयोः सन्धिः
प्रकुर्यातां विचक्षणैः ॥ ३।४४ ॥

मूलम् - ३।४४

साक्षिसभ्यविकल्पस् तु
भवेत् तत्रोभयोर् अपि [प्।४३]।
दोलायमानयोः सन्धिः
प्रकुर्यातां विचक्षणैः ॥ ३।४४ ॥

विश्वास-प्रस्तुतिः - ३।४५

प्रमाणसमता यत्र
भेदः शास्त्र-चरित्रयोः।
तत्र राजामया सन्धिर्
उभयोर् अपि शस्यते ॥ ३।४५ ॥

मूलम् - ३।४५

प्रमाणसमता यत्र
भेदः शास्त्र-चरित्रयोः।
तत्र राजामया सन्धिर्
उभयोर् अपि शस्यते ॥ ३।४५ ॥

विश्वास-प्रस्तुतिः - ३।४६

यत्र सांशायिको धर्मो
व्यवहारश् च पार्थिवे।
सन्धिस् तत्र तु कर्तव्यो
ऽयसोः सन्तप्तयोर् यथा ॥ ३।४६ ॥

मूलम् - ३।४६

यत्र सांशायिको धर्मो
व्यवहारश् च पार्थिवे।
सन्धिस् तत्र तु कर्तव्यो
ऽयसोः सन्तप्तयोर् यथा ॥ ३।४६ ॥

समः सन्धिस् तदा कार्यो
विषमस् तु निवर्तते।
धर्मार्थोपग्रहः कीर्तिः
भवेत् साम्येन भूभृतः \
न क्लिश्यन्ते साक्षिसभ्या # ऐरं च विनिवर्तते ॥ ३।४७ ॥

विश्वास-प्रस्तुतिः - ३।४८

निग्रहानुग्रहं दण्डं
धर्मं प्राप्य यशो ऽयशः।
विग्रहाज् जायते नृणां
पुनर्दोषस् तथैव च ॥ ३।४८ ॥

मूलम् - ३।४८

निग्रहानुग्रहं दण्डं
धर्मं प्राप्य यशो ऽयशः।
विग्रहाज् जायते नृणां
पुनर्दोषस् तथैव च ॥ ३।४८ ॥

विश्वास-प्रस्तुतिः - ३।४९

तस्मात् कुलगणाध्यक्षा
धर्मज्ञाः समदृष्टयः।
अद्वेषलोभा यद् ब्रूयुस्
तत् कर्तव्यं विजानता ॥ ३।४९ ॥

मूलम् - ३।४९

तस्मात् कुलगणाध्यक्षा
धर्मज्ञाः समदृष्टयः।
अद्वेषलोभा यद् ब्रूयुस्
तत् कर्तव्यं विजानता ॥ ३।४९ ॥