विश्वास-प्रस्तुतिः - २।१
भाषापादोत्तरपदौ
क्रियापादस् तथैव च।
प्रत्याकलितपादश् च
व्यवहारश् चतुष्पदः ॥ २।१ ॥
मूलम् - २।१
भाषापादोत्तरपदौ
क्रियापादस् तथैव च।
प्रत्याकलितपादश् च
व्यवहारश् चतुष्पदः ॥ २।१ ॥
विश्वास-प्रस्तुतिः - २।२
मिथ्या-सम्प्रतिपत्तिश् च
प्रत्यवस्कन्दनं तथा।
प्राङ्न्यायश् चोत्तराः प्रोक्ताश्
चत्वारः शास्त्रवेदिभिः ॥ २।२ ॥
मूलम् - २।२
मिथ्या-सम्प्रतिपत्तिश् च
प्रत्यवस्कन्दनं तथा।
प्राङ्न्यायश् चोत्तराः प्रोक्ताश्
चत्वारः शास्त्रवेदिभिः ॥ २।२ ॥
विश्वास-प्रस्तुतिः - २।३
मिथ्यायां च चतुष्पादः
प्रत्यवस्कन्दने तथा।
प्राङ्न्याये च स विज्ञेयो
द्विपात् सम्प्रतिपत्तिषु ॥ २।३ ॥
मूलम् - २।३
मिथ्यायां च चतुष्पादः
प्रत्यवस्कन्दने तथा।
प्राङ्न्याये च स विज्ञेयो
द्विपात् सम्प्रतिपत्तिषु ॥ २।३ ॥
विश्वास-प्रस्तुतिः - २।४
उपायैश् चोद्यमानस् तु
न दद्याद् उत्तरं तु यः।
अतिक्रान्ते सप्तरात्रे
जितो ऽसौ दण्दम् अर्हति ॥ २।४ ॥
मूलम् - २।४
उपायैश् चोद्यमानस् तु
न दद्याद् उत्तरं तु यः।
अतिक्रान्ते सप्तरात्रे
जितो ऽसौ दण्दम् अर्हति ॥ २।४ ॥
२।१ पक्ष-लक्षणम्
विश्वास-प्रस्तुतिः - २।५
उपस्थिते ततस् तस्मिन्
वादी पक्षं प्रकल्पयेत्।
निरवद्यं सप्रतिज्ञं
प्रमाणागमसंयुतम् ॥ २।५ ॥
मूलम् - २।५
उपस्थिते ततस् तस्मिन्
वादी पक्षं प्रकल्पयेत्।
निरवद्यं सप्रतिज्ञं
प्रमाणागमसंयुतम् ॥ २।५ ॥
विश्वास-प्रस्तुतिः - २।६
देश-स्थान-समा-मास-
पक्षाहोनामजातिभिः।
द्रव्य-सङ्ख्योदयं पीडां
क्षामलिङ्गं च लेखयेत् ॥ २।६ ॥
मूलम् - २।६
देश-स्थान-समा-मास-
पक्षाहोनामजातिभिः।
द्रव्य-सङ्ख्योदयं पीडां
क्षामलिङ्गं च लेखयेत् ॥ २।६ ॥
विश्वास-प्रस्तुतिः - २।७
यं च अर्थम् अभियुञ्जीत
न तं विप्रकृतिं नयेत्।
न च पक्षान्तरं गच्छेत्
गच्छन् पूर्वात् स हीयते ॥ २।७ ॥
मूलम् - २।७
यं च अर्थम् अभियुञ्जीत
न तं विप्रकृतिं नयेत्।
न च पक्षान्तरं गच्छेत्
गच्छन् पूर्वात् स हीयते ॥ २।७ ॥
२।२ पक्षदोषाः
विश्वास-प्रस्तुतिः - २।८
अप्रसिद्धं सदोषं च
निरर्थं निष्प्रयोजनम्।
असाध्यं वा विरुद्धं वा
पक्षं राजा विवर्जयेत् ॥ २।८ ॥
मूलम् - २।८
अप्रसिद्धं सदोषं च
निरर्थं निष्प्रयोजनम्।
असाध्यं वा विरुद्धं वा
पक्षं राजा विवर्जयेत् ॥ २।८ ॥
विश्वास-प्रस्तुतिः - २।९
न केनचित् कृतो यस् तु
सो ऽप्रसिद्ध उदाहृतः।
अन्यार्थः स्वार्थहीनश् च
सदोषः परिकीर्तितः ॥ २।९ ॥
मूलम् - २।९
न केनचित् कृतो यस् तु
सो ऽप्रसिद्ध उदाहृतः।
अन्यार्थः स्वार्थहीनश् च
सदोषः परिकीर्तितः ॥ २।९ ॥
विश्वास-प्रस्तुतिः - २।१०
स्वल्पापराधः स्वल्पार्थो
निरर्थक इति स्मृतः।
कार्यबाधाविहीनस् तु
विज्ञेयो निष्प्रयोजनः ॥ २।१० ॥
मूलम् - २।१०
स्वल्पापराधः स्वल्पार्थो
निरर्थक इति स्मृतः।
कार्यबाधाविहीनस् तु
विज्ञेयो निष्प्रयोजनः ॥ २।१० ॥
विश्वास-प्रस्तुतिः - २।११
कुसीदाद्यैः पदैर् हीनो
व्यवहारो निरर्थकः।
वाक्पार्ष्यादिभिश् चैव
विज्ञेयो निष्प्रयोजनः ॥ २।११ ॥
मूलम् - २।११
कुसीदाद्यैः पदैर् हीनो
व्यवहारो निरर्थकः।
वाक्पार्ष्यादिभिश् चैव
विज्ञेयो निष्प्रयोजनः ॥ २।११ ॥
विश्वास-प्रस्तुतिः - २।१२
ममानेन प्रदातव्यं
शशशृङ्गकृतं धनुः।
असम्भाव्यम् असाध्यं तं
पक्षम् आहुर् मनीषिणः ॥ २।१२ ॥
मूलम् - २।१२
ममानेन प्रदातव्यं
शशशृङ्गकृतं धनुः।
असम्भाव्यम् असाध्यं तं
पक्षम् आहुर् मनीषिणः ॥ २।१२ ॥
विश्वास-प्रस्तुतिः - २।१३
यस्मिन्न् आवेदिते पक्षे
प्राड्विवाके च राजनि।
पुरे राष्ट्रे विरोधः स्याद्
विरुद्धः सो ऽभिधीयते ॥ २।१३ ॥
मूलम् - २।१३
यस्मिन्न् आवेदिते पक्षे
प्राड्विवाके च राजनि।
पुरे राष्ट्रे विरोधः स्याद्
विरुद्धः सो ऽभिधीयते ॥ २।१३ ॥
विश्वास-प्रस्तुतिः - २।१४
प्रतिज्ञादोषनिर्मुक्तं
साध्यं सत्कारणान्वितं।
विश्चितं लोकसिद्धं च
पक्षं पक्षविदो विदुः ॥ २।१४ ॥
मूलम् - २।१४
प्रतिज्ञादोषनिर्मुक्तं
साध्यं सत्कारणान्वितं।
विश्चितं लोकसिद्धं च
पक्षं पक्षविदो विदुः ॥ २।१४ ॥
विश्वास-प्रस्तुतिः - २।१५
स्वल्पाक्षरप्रभूतार्था
निस्सन्दिग्धो निराकुलः।
विरोधिकारणैर् मुक्तो
विरोधिप्रतिषेधकः ॥ २।१५ ॥
मूलम् - २।१५
स्वल्पाक्षरप्रभूतार्था
निस्सन्दिग्धो निराकुलः।
विरोधिकारणैर् मुक्तो
विरोधिप्रतिषेधकः ॥ २।१५ ॥
विश्वास-प्रस्तुतिः - २।१६
वचनस्य प्रतिज्ञात्वं
तदर्थस्य हि पक्षता।
असङ्करेण वक्तव्ये
व्यवहारेषु वादिभिः ॥ २।१६ ॥
मूलम् - २।१६
वचनस्य प्रतिज्ञात्वं
तदर्थस्य हि पक्षता।
असङ्करेण वक्तव्ये
व्यवहारेषु वादिभिः ॥ २।१६ ॥
विश्वास-प्रस्तुतिः - २।१७
मोहाद् वा यदि वा शाठ्याद्
यन् नोक्तं पूर्ववादिना।
उत्तरान्तर्गतं वापि
तद् ग्राह्यम् उभयोर् अपि ॥ २।१७ ॥
मूलम् - २।१७
मोहाद् वा यदि वा शाठ्याद्
यन् नोक्तं पूर्ववादिना।
उत्तरान्तर्गतं वापि
तद् ग्राह्यम् उभयोर् अपि ॥ २।१७ ॥
विश्वास-प्रस्तुतिः - २।१८
एवमादिगुणान् सम्यग्
आलोच्य च सुनिश्चितः।
पक्षः कृतः समादेयः
पक्षाभासस् ततो ऽन्यथा ॥ २।१८ ॥
मूलम् - २।१८
एवमादिगुणान् सम्यग्
आलोच्य च सुनिश्चितः।
पक्षः कृतः समादेयः
पक्षाभासस् ततो ऽन्यथा ॥ २।१८ ॥
विश्वास-प्रस्तुतिः - २।१९
देश-कालविहीनश् च
द्रव्यसङ्ख्याविवर्जितः।
साध्यप्रमाणहीनश् च
पक्षो ऽनादेय इष्यते ॥ २।१९ ॥
मूलम् - २।१९
देश-कालविहीनश् च
द्रव्यसङ्ख्याविवर्जितः।
साध्यप्रमाणहीनश् च
पक्षो ऽनादेय इष्यते ॥ २।१९ ॥
विश्वास-प्रस्तुतिः - २।२०
मृषायुक्ति क्रियाहीनम्
असाध्याद्यर्थम् आकुलम्।
पूर्वं पक्षं लेख्यतो
वादहानिः प्रजायते ॥ २।२० ॥
मूलम् - २।२०
मृषायुक्ति क्रियाहीनम्
असाध्याद्यर्थम् आकुलम्।
पूर्वं पक्षं लेख्यतो
वादहानिः प्रजायते ॥ २।२० ॥
विश्वास-प्रस्तुतिः - २।२१
अपदिश्याभियोगं यस्
तम् अतीत्यापरं वदेत्।
क्रियाम् उक्त्वान्यथा [?] ब्रूयात्
स वादी हानिम् आप्नुयात् ॥ २।२१ ॥
मूलम् - २।२१
अपदिश्याभियोगं यस्
तम् अतीत्यापरं वदेत्।
क्रियाम् उक्त्वान्यथा [?] ब्रूयात्
स वादी हानिम् आप्नुयात् ॥ २।२१ ॥
विश्वास-प्रस्तुतिः - २।२२
ऊनाधिकं पूर्वप्क्षे
तावद् वादी विशोधयेत्।
न दद्याद् उत्तरं यावत्
प्रत्यर्थी सभ्यसन्निधौ ॥ २।२२ ॥
मूलम् - २।२२
ऊनाधिकं पूर्वप्क्षे
तावद् वादी विशोधयेत्।
न दद्याद् उत्तरं यावत्
प्रत्यर्थी सभ्यसन्निधौ ॥ २।२२ ॥
विश्वास-प्रस्तुतिः - २।२३
ब्रह्महत्या-सुरापान-
स्तेय-गुर्वङ्गनागमे।
अन्येष्व् असभ्यवादेषु
प्रतिवादी न दीयते ॥ २।२३ ॥
मूलम् - २।२३
ब्रह्महत्या-सुरापान-
स्तेय-गुर्वङ्गनागमे।
अन्येष्व् असभ्यवादेषु
प्रतिवादी न दीयते ॥ २।२३ ॥
विश्वास-प्रस्तुतिः - २।२४
मनुष्यमारणे स्तेये
परदाराभिमर्शने।
अभक्ष्यभक्षणे चैव
कन्याहरणदूषने ॥ २।२४ ॥
मूलम् - २।२४
मनुष्यमारणे स्तेये
परदाराभिमर्शने।
अभक्ष्यभक्षणे चैव
कन्याहरणदूषने ॥ २।२४ ॥
विश्वास-प्रस्तुतिः - २।२५
पारुष्ये कूटकरणे
नृपद्रोहे तथैव च [प्।३३]।
प्रणिवादी न दाप्यः स्यात्
कर्ता तु विवदेत् स्वयम् ॥ २।२५ ॥
मूलम् - २।२५
पारुष्ये कूटकरणे
नृपद्रोहे तथैव च [प्।३३]।
प्रणिवादी न दाप्यः स्यात्
कर्ता तु विवदेत् स्वयम् ॥ २।२५ ॥
विश्वास-प्रस्तुतिः - २।२६
अष्टादशपदो वादो
विचार्यो विनिवेदितः।
सन्त्य् अन्यानि पदान्य् अत्र
तानि राजा विशेत् स्वयम् ॥ २।२६ ॥
मूलम् - २।२६
अष्टादशपदो वादो
विचार्यो विनिवेदितः।
सन्त्य् अन्यानि पदान्य् अत्र
तानि राजा विशेत् स्वयम् ॥ २।२६ ॥
विश्वास-प्रस्तुतिः - २।२७
षड्भागहरणं शुद्धं
समयाविक्रमो निधिः।
वधः संहरणं स्तेयम्
आसेधाज्ञाव्यतिक्रमः ॥ २।२७ ॥
मूलम् - २।२७
षड्भागहरणं शुद्धं
समयाविक्रमो निधिः।
वधः संहरणं स्तेयम्
आसेधाज्ञाव्यतिक्रमः ॥ २।२७ ॥
विश्वास-प्रस्तुतिः - २।२८
स्वयं नोत्पादयेत् कार्यं
राजा वा सास्य पूरुषः।
अधिकाच् छातयेद् अर्थान्
न्यूनांश् च परिपूरयेत् ॥ २।२८ ॥
मूलम् - २।२८
स्वयं नोत्पादयेत् कार्यं
राजा वा सास्य पूरुषः।
अधिकाच् छातयेद् अर्थान्
न्यूनांश् च परिपूरयेत् ॥ २।२८ ॥
विश्वास-प्रस्तुतिः - २।२९
भूमौ निवेशयेत् तावद्
यावद् अर्थो विनिश्चितः।
श्रुतं च लिखितं चैव
शोधितं च विचारितम् ॥ २।२९ ॥
मूलम् - २।२९
भूमौ निवेशयेत् तावद्
यावद् अर्थो विनिश्चितः।
श्रुतं च लिखितं चैव
शोधितं च विचारितम् ॥ २।२९ ॥
विश्वास-प्रस्तुतिः - २।३०
पूर्वपक्षं स्वभावोक्तं
प्राड्विवाको ऽथ लेखयेत्।
पाण्डुलेख्येन फलके
ततः पत्रे विशोधितम् ॥ २।३० ॥
मूलम् - २।३०
पूर्वपक्षं स्वभावोक्तं
प्राड्विवाको ऽथ लेखयेत्।
पाण्डुलेख्येन फलके
ततः पत्रे विशोधितम् ॥ २।३० ॥
विश्वास-प्रस्तुतिः - २।३१
आवेद्य तु गृहीते ऽर्थे
प्रशमं यान्ति ये मिथः।
अभियोगानुरूपेण
तेषां दण्डं प्रकल्पयेत् ॥ २।३१ ॥
मूलम् - २।३१
आवेद्य तु गृहीते ऽर्थे
प्रशमं यान्ति ये मिथः।
अभियोगानुरूपेण
तेषां दण्डं प्रकल्पयेत् ॥ २।३१ ॥
विश्वास-प्रस्तुतिः - २।३२
अन्ये वा ये पुरग्राम-
महाराजनविरोधकाः।
अनदेयास् तु ते सर्वे
व्यवहाराः प्रकीर्त्तिताः ॥ २।३२ ॥
मूलम् - २।३२
अन्ये वा ये पुरग्राम-
महाराजनविरोधकाः।
अनदेयास् तु ते सर्वे
व्यवहाराः प्रकीर्त्तिताः ॥ २।३२ ॥
विश्वास-प्रस्तुतिः - २।३३
पाण्डुलेखेन फलके
भूम्यां वा प्रथमण् लिखेत्।
न्यूनाधिकं तु संशोध्य
पश्चात् पत्रे निवेशयेत् ॥ २।३३ ॥
मूलम् - २।३३
पाण्डुलेखेन फलके
भूम्यां वा प्रथमण् लिखेत्।
न्यूनाधिकं तु संशोध्य
पश्चात् पत्रे निवेशयेत् ॥ २।३३ ॥
विश्वास-प्रस्तुतिः - २।३४
अभियोक्ताप्रगल्भत्वाद्
वक्तुं नोत्सहते यदा।
तस्य कालः प्रदातव्यः
कालशक्त्य्-अनुरूपतः ॥ २।३४ ॥
मूलम् - २।३४
अभियोक्ताप्रगल्भत्वाद्
वक्तुं नोत्सहते यदा।
तस्य कालः प्रदातव्यः
कालशक्त्य्-अनुरूपतः ॥ २।३४ ॥
विश्वास-प्रस्तुतिः - २।३५
यदि नोत्सहते यत्र
विवादं कर्तुम् इच्छतोः।
दातव्यस् तत्र कालः स्याद्
अर्थिप्रत्यर्थिनोर् अपि ॥ २।३५ ॥
मूलम् - २।३५
यदि नोत्सहते यत्र
विवादं कर्तुम् इच्छतोः।
दातव्यस् तत्र कालः स्याद्
अर्थिप्रत्यर्थिनोर् अपि ॥ २।३५ ॥
विश्वास-प्रस्तुतिः - २।३६
चतुर्विधः पूर्वपक्षः
प्रतिपक्षस् तथैव च।
चतुर्धा निर्णयः प्रोक्तः
कश् चिद् अष्टविधः स्मृतः ॥ २।३६ ॥
मूलम् - २।३६
चतुर्विधः पूर्वपक्षः
प्रतिपक्षस् तथैव च।
चतुर्धा निर्णयः प्रोक्तः
कश् चिद् अष्टविधः स्मृतः ॥ २।३६ ॥
विश्वास-प्रस्तुतिः - २।३७
देशः कालस् तथा स्थानं
सन्निवेशस् तथैव च।
ज्ञातृसञ्ज्ञा निवासश् च
प्रमाणं क्षेत्रनाम च ॥ २।३७ ॥
मूलम् - २।३७
देशः कालस् तथा स्थानं
सन्निवेशस् तथैव च।
ज्ञातृसञ्ज्ञा निवासश् च
प्रमाणं क्षेत्रनाम च ॥ २।३७ ॥
विश्वास-प्रस्तुतिः - २।३८
पितृपैतामहं चैव
पूर्वराजानुकीर्तनम्।
स्थावरेषु विवादेषु
दशैतानि निवेशयेत् ॥ २।३८ ॥
मूलम् - २।३८
पितृपैतामहं चैव
पूर्वराजानुकीर्तनम्।
स्थावरेषु विवादेषु
दशैतानि निवेशयेत् ॥ २।३८ ॥
विश्वास-प्रस्तुतिः - २।३९
श्वोलेखनं वा लभते
त्र्यहं सप्ताहम् एव वा।
मतिर् उत्पद्यते यावत्
विवादे वक्तुम् इच्छतः ॥ २।३९ ॥
मूलम् - २।३९
श्वोलेखनं वा लभते
त्र्यहं सप्ताहम् एव वा।
मतिर् उत्पद्यते यावत्
विवादे वक्तुम् इच्छतः ॥ २।३९ ॥
विश्वास-प्रस्तुतिः - २।४०
बहुप्रतिज्ञं यत् कार्यं
व्यवहारेषु निश्चितं [प्।३५]।
कामं तद् अपि गृह्णीयाद्
राजा तत्त्वबृभुत्सया ॥ २।४० ॥
मूलम् - २।४०
बहुप्रतिज्ञं यत् कार्यं
व्यवहारेषु निश्चितं [प्।३५]।
कामं तद् अपि गृह्णीयाद्
राजा तत्त्वबृभुत्सया ॥ २।४० ॥
विश्वास-प्रस्तुतिः - २।४१
शङ्काभियोगस् तथ्यं च
लक्ष्ये ऽर्थे ऽभ्यर्थनं तथा।
वृत्ते वादे पुनर् न्यायः
पक्षो ज्ञेयश् चतुर्विधः ॥ २।४१ ॥
मूलम् - २।४१
शङ्काभियोगस् तथ्यं च
लक्ष्ये ऽर्थे ऽभ्यर्थनं तथा।
वृत्ते वादे पुनर् न्यायः
पक्षो ज्ञेयश् चतुर्विधः ॥ २।४१ ॥
विश्वास-प्रस्तुतिः - २।४२
भ्रान्तिः शङ्का समुद्दिष्टा
वश्यं नष्टार्थदर्शनम्।
लब्धे ऽर्थे ऽभ्यर्थनं मोहस्
तथा वृत्ते पुनः क्रियाः ॥ २।४२ ॥
मूलम् - २।४२
भ्रान्तिः शङ्का समुद्दिष्टा
वश्यं नष्टार्थदर्शनम्।
लब्धे ऽर्थे ऽभ्यर्थनं मोहस्
तथा वृत्ते पुनः क्रियाः ॥ २।४२ ॥
विश्वास-प्रस्तुतिः - २।४३
राज्ञापवर्जितो यस् तु
यश् च पौरविरोधकृत्।
राष्ट्रस्य वा समस् तस्य
प्रकृतीनां तथैव च ॥ २।४३ ॥
मूलम् - २।४३
राज्ञापवर्जितो यस् तु
यश् च पौरविरोधकृत्।
राष्ट्रस्य वा समस् तस्य
प्रकृतीनां तथैव च ॥ २।४३ ॥
विश्वास-प्रस्तुतिः - २।४४
न्यायं व नेच्छते कर्तुम्
अन्यायं वा करोति यः।
न लेखयति यस् त्व् एवं
तस्य पक्षी न सिध्यति ॥ २।४४ ॥
मूलम् - २।४४
न्यायं व नेच्छते कर्तुम्
अन्यायं वा करोति यः।
न लेखयति यस् त्व् एवं
तस्य पक्षी न सिध्यति ॥ २।४४ ॥
विश्वास-प्रस्तुतिः - २।४५
विरुद्धं चाविरुद्धं च
द्वाव् अप्य् अर्थौ निवेशितौ।
एकस्मिन् यत्र दृश्येते
तं पक्षं दूरतस् त्यजेत् ॥ २।४५ ॥
मूलम् - २।४५
विरुद्धं चाविरुद्धं च
द्वाव् अप्य् अर्थौ निवेशितौ।
एकस्मिन् यत्र दृश्येते
तं पक्षं दूरतस् त्यजेत् ॥ २।४५ ॥