१।०
विश्वास-प्रस्तुतिः - १।१
धर्म-प्रधानाः पुरुषाः
पूर्वम् आसन्न् अहिंसकाः।
लोभ-द्वेषाभिभूतानां
व्यवहारः प्रवर्तितः ॥ १।१ ॥
मूलम् - १।१
धर्म-प्रधानाः पुरुषाः
पूर्वम् आसन्न् अहिंसकाः।
लोभ-द्वेषाभिभूतानां
व्यवहारः प्रवर्तितः ॥ १।१ ॥
विश्वास-प्रस्तुतिः - १।२
प्रयच्छेच् चेद् भृतिं स्वामी
भृत्यानां कर्म कुर्वताम्।
न कुर्वन्ति च भृत्याश् चेत्
तत्र वादः प्रवर्तते ॥ १।२ ॥
मूलम् - १।२
प्रयच्छेच् चेद् भृतिं स्वामी
भृत्यानां कर्म कुर्वताम्।
न कुर्वन्ति च भृत्याश् चेत्
तत्र वादः प्रवर्तते ॥ १।२ ॥
विश्वास-प्रस्तुतिः - १।३
हिंसां वा कुरुते कश् चिद्
देयं वा न प्रयच्छति।
द्वे हि स्थाने विवादस्य
तयोर् बहुतरा गतिः ॥ १।३ ॥
मूलम् - १।३
हिंसां वा कुरुते कश् चिद्
देयं वा न प्रयच्छति।
द्वे हि स्थाने विवादस्य
तयोर् बहुतरा गतिः ॥ १।३ ॥
विश्वास-प्रस्तुतिः - १।४
यतो द्रव्यं विनिक्रीय
ऋणार्थं चैव गृह्यते।
तन्-मूल्यम् उत्तम-र्णेन
व्यवहार इति स्मृतः ॥ १।४ ॥
मूलम् - १।४
यतो द्रव्यं विनिक्रीय
ऋणार्थं चैव गृह्यते।
तन्-मूल्यम् उत्तम-र्णेन
व्यवहार इति स्मृतः ॥ १।४ ॥
१।१ राज-गुणाः
विश्वास-प्रस्तुतिः - १।५
गुण-धर्मान् अतो राज्ञः
कथयाम्य् अनुपूर्वशः।
धनिकर्णिक-सन्दिग्धौ
प्रतिभू-लेख्य-साक्षिणः ॥ १।५ ॥
मूलम् - १।५
गुण-धर्मान् अतो राज्ञः
कथयाम्य् अनुपूर्वशः।
धनिकर्णिक-सन्दिग्धौ
प्रतिभू-लेख्य-साक्षिणः ॥ १।५ ॥
विश्वास-प्रस्तुतिः - १।६
विचारयति यः सम्यक्
तस्योत्पत्तिं निबोधत।
सोमाग्न्य्-अर्कानिलेन्द्राणां
वित्तापत्त्योर् यमस्य च ॥ १।६ ॥
मूलम् - १।६
विचारयति यः सम्यक्
तस्योत्पत्तिं निबोधत।
सोमाग्न्य्-अर्कानिलेन्द्राणां
वित्तापत्त्योर् यमस्य च ॥ १।६ ॥
विश्वास-प्रस्तुतिः - १।७
तेजो-मात्रं समुद्धृत्य
राज्ञो मूर्तिर् हि निर्मिता।
तस्य सवाणि भूतानि
चराणि स्थावराणि च ॥ १।७ ॥
मूलम् - १।७
तेजो-मात्रं समुद्धृत्य
राज्ञो मूर्तिर् हि निर्मिता।
तस्य सवाणि भूतानि
चराणि स्थावराणि च ॥ १।७ ॥
विश्वास-प्रस्तुतिः - १।८
भयाद् भोगाय कल्पन्ते
स्वधर्मान् न चलन्ति च।
नाराजके कृषि-वणिक्-
कुसीद-परिपालनम् ॥ १।८ ॥
मूलम् - १।८
भयाद् भोगाय कल्पन्ते
स्वधर्मान् न चलन्ति च।
नाराजके कृषि-वणिक्-
कुसीद-परिपालनम् ॥ १।८ ॥
तस्माद् वर्णाश्रमाणां तु
नेतासौ निर्मितः पुरा।
१।२ व्यवहार-पदानि
विश्वास-प्रस्तुतिः - १।९
द्वि-पदो व्यवहारः स्यात्
धन-हिंसा-समुद्भवः ॥ १।९ ॥
मूलम् - १।९
द्वि-पदो व्यवहारः स्यात्
धन-हिंसा-समुद्भवः ॥ १।९ ॥
विश्वास-प्रस्तुतिः - १।१०
द्विसप्तको-ऽर्थ-मूलस् तु
हिंसा-मूलश् चतुर्विधः।
पारुष्ये द्वे वधश् चैव
पर-स्त्री-सङ्ग्रहस् तथा ॥ १।१० ॥
मूलम् - १।१०
द्विसप्तको-ऽर्थ-मूलस् तु
हिंसा-मूलश् चतुर्विधः।
पारुष्ये द्वे वधश् चैव
पर-स्त्री-सङ्ग्रहस् तथा ॥ १।१० ॥
विश्वास-प्रस्तुतिः - १।११
कुसीद-निधिदेयाद् यं
सम्भूयोत्थानम् एव च।
भृत्य-दानम् अशुश्रूषा
भूवादो ऽस्वामि-विक्रियः ॥ १।११ ॥
मूलम् - १।११
कुसीद-निधिदेयाद् यं
सम्भूयोत्थानम् एव च।
भृत्य-दानम् अशुश्रूषा
भूवादो ऽस्वामि-विक्रियः ॥ १।११ ॥
विश्वास-प्रस्तुतिः - १।१२
क्रय-विक्रयानुशयः
समयातिक्रमस् तथा।
स्त्री-पुंस-योगः स्तेयं च
दाय-भागो-ऽक्ष-देवनम् ॥ १।१२ ॥
मूलम् - १।१२
क्रय-विक्रयानुशयः
समयातिक्रमस् तथा।
स्त्री-पुंस-योगः स्तेयं च
दाय-भागो-ऽक्ष-देवनम् ॥ १।१२ ॥
विश्वास-प्रस्तुतिः - १।१३
एतान्य् अर्थ-समुत्थानि
पदानि तु चतुर्दश।
पुनर् एवं प्रभिन्नानि
क्रिया-भेदाद् अनेकदहा ॥ १।१३ ॥
मूलम् - १।१३
एतान्य् अर्थ-समुत्थानि
पदानि तु चतुर्दश।
पुनर् एवं प्रभिन्नानि
क्रिया-भेदाद् अनेकदहा ॥ १।१३ ॥
विश्वास-प्रस्तुतिः - १।१४
पारुष्ये द्वे साहसं च
पर-स्त्री-सङ्ग्रहस् तथा।
हिंसोद्भव-पदान्य् एवं
चत्वार्य् आह बृहस्पतिः ॥ १।१४ ॥
मूलम् - १।१४
पारुष्ये द्वे साहसं च
पर-स्त्री-सङ्ग्रहस् तथा।
हिंसोद्भव-पदान्य् एवं
चत्वार्य् आह बृहस्पतिः ॥ १।१४ ॥
विश्वास-प्रस्तुतिः - १।१५
हीन-मध्योत्तमत्वेन
प्रभिन्नानि पृथक् पृथक्।
विशेष एषां निर्दिष्टश्
चतुर्णाम् अप्य् अनुक्रमात् ॥ १।१५ ॥
मूलम् - १।१५
हीन-मध्योत्तमत्वेन
प्रभिन्नानि पृथक् पृथक्।
विशेष एषां निर्दिष्टश्
चतुर्णाम् अप्य् अनुक्रमात् ॥ १।१५ ॥
विश्वास-प्रस्तुतिः - १।१६
पदान्य् अष्टादशैतानि
धर्म-शास्त्रोदितानि तु।
मूलं सर्व-विवादानां
ये विदुस् ते परीक्षकाः ॥ १।१६ ॥
मूलम् - १।१६
पदान्य् अष्टादशैतानि
धर्म-शास्त्रोदितानि तु।
मूलं सर्व-विवादानां
ये विदुस् ते परीक्षकाः ॥ १।१६ ॥
विश्वास-प्रस्तुतिः - १।१७
पूर्व-पक्षः स्मृतः पादो
द्वितीयस् तूत्तरस् तथा।
क्रिया-पादस् तथा वाच्यश्
चतुर्थो निर्णयस् तथा ॥ १।१७ ॥
मूलम् - १।१७
पूर्व-पक्षः स्मृतः पादो
द्वितीयस् तूत्तरस् तथा।
क्रिया-पादस् तथा वाच्यश्
चतुर्थो निर्णयस् तथा ॥ १।१७ ॥
१।३ धर्मादि-चतुष्टय-बलाबलम्
विश्वास-प्रस्तुतिः - १।१८
धर्मेण व्यवहारेण
चारित्रेण नृपाज्ञया।
चतुष्-प्रकारो-ऽभिहितः
सन्दिग्धे ऽर्थे विनिर्णयः ॥ १।१८ ॥
मूलम् - १।१८
धर्मेण व्यवहारेण
चारित्रेण नृपाज्ञया।
चतुष्-प्रकारो-ऽभिहितः
सन्दिग्धे ऽर्थे विनिर्णयः ॥ १।१८ ॥
विश्वास-प्रस्तुतिः - १।१९
शास्त्रं केवलम् आश्रित्य
क्रियते यत्र निर्णयः।
व्यवहारः स विज्ञेयो
धर्मस् तेनापि वर्धते ॥ १।१९ ॥
मूलम् - १।१९
शास्त्रं केवलम् आश्रित्य
क्रियते यत्र निर्णयः।
व्यवहारः स विज्ञेयो
धर्मस् तेनापि वर्धते ॥ १।१९ ॥
विश्वास-प्रस्तुतिः - १।२०
देश-स्थित्यानुमानेन
नैगमानुमतेन च।
क्रियते निर्णयस् तत्र
व्यवहारस् तु बाध्यते ॥ १।२० ॥
मूलम् - १।२०
देश-स्थित्यानुमानेन
नैगमानुमतेन च।
क्रियते निर्णयस् तत्र
व्यवहारस् तु बाध्यते ॥ १।२० ॥
विश्वास-प्रस्तुतिः - १।२१
विहाय चरिताचारं
यत्र कुर्यात् पुनर् नृपः।
निर्णयं सा तु राजाज्ञा
चरितं बाध्यते तया ॥ १।२१ ॥
मूलम् - १।२१
विहाय चरिताचारं
यत्र कुर्यात् पुनर् नृपः।
निर्णयं सा तु राजाज्ञा
चरितं बाध्यते तया ॥ १।२१ ॥
धर्म-शास्त्रानुसारेण
सामात्यः स पुरोहितः।
व्यवहारान् नृपः पश्येत्
प्रजा-संरक्षणाय च \
क्रोध-लोभ-विहीनस् तु # सत्यवादी जितेन्द्रियः ॥ १।२२ ॥
१।४ धर्माधिकरणम्
विश्वास-प्रस्तुतिः - १।२३
सप्त-प्रकृतिकं यत् तु
विजिगीषोर् अरेश् च यत्।
चतुर्दशकम् एवेदं
मण्डलं परिचक्षते ॥ १।२३ ॥
मूलम् - १।२३
सप्त-प्रकृतिकं यत् तु
विजिगीषोर् अरेश् च यत्।
चतुर्दशकम् एवेदं
मण्डलं परिचक्षते ॥ १।२३ ॥
विश्वास-प्रस्तुतिः - १।२४
चत्वारः पृथिवी-पालाः
पृथङ्-मित्रैः सहाष्टकम्।
अमात्यादिभिर् एते च
जगत्य् अक्षर-संहिताः ॥ १।२४ ॥
मूलम् - १।२४
चत्वारः पृथिवी-पालाः
पृथङ्-मित्रैः सहाष्टकम्।
अमात्यादिभिर् एते च
जगत्य् अक्षर-संहिताः ॥ १।२४ ॥
विश्वास-प्रस्तुतिः - १।२५
प्रातर् उत्थाय नृपतिः
शौचं कृत्वा विधानतः।
गुरून् ज्योतिर्-विदो वैद्यान्
देवान् विप्रान् पुरोहितान् ॥ १।२५ ॥
मूलम् - १।२५
प्रातर् उत्थाय नृपतिः
शौचं कृत्वा विधानतः।
गुरून् ज्योतिर्-विदो वैद्यान्
देवान् विप्रान् पुरोहितान् ॥ १।२५ ॥
विश्वास-प्रस्तुतिः - १।२६
यथार्हम् एतान् सम्पूज्य
सु-पुष्पाभरणाम्बरैः।
अभिनन्द्य च गुर्व्-आदीन्
सु-मुखः प्रविशेत् सभाम् ॥ १।२६ ॥
मूलम् - १।२६
यथार्हम् एतान् सम्पूज्य
सु-पुष्पाभरणाम्बरैः।
अभिनन्द्य च गुर्व्-आदीन्
सु-मुखः प्रविशेत् सभाम् ॥ १।२६ ॥
विश्वास-प्रस्तुतिः - १।२७
राजा कार्याणि सम्पश्येत्
सद्भिर् एव त्रिभिर् वृतः।
सभाम् एव प्रविश्याग्र्याम्
आसीनः स्थित एव वा ॥ १।२७ ॥
मूलम् - १।२७
राजा कार्याणि सम्पश्येत्
सद्भिर् एव त्रिभिर् वृतः।
सभाम् एव प्रविश्याग्र्याम्
आसीनः स्थित एव वा ॥ १।२७ ॥
१।५ दुर्ग-लक्षणम्
विश्वास-प्रस्तुतिः - १।२८
आत्म-दारार्थ-लोकानां
सञ्चितानां तु गुप्तये।
नृपतिः कारयेद् दुर्गं
प्राकार-द्वय-संयुतम् ॥ १।२८ ॥
मूलम् - १।२८
आत्म-दारार्थ-लोकानां
सञ्चितानां तु गुप्तये।
नृपतिः कारयेद् दुर्गं
प्राकार-द्वय-संयुतम् ॥ १।२८ ॥
विश्वास-प्रस्तुतिः - १।२९
भूपानाम् इन्धन-रसैर्
वेत्र-शष्पान्न-वाहनैः।
यन्त्रायुधैश् च विविधैः
स्निग्धैः शूरैर् नरैर् युतम् ॥ १।२९ ॥
मूलम् - १।२९
भूपानाम् इन्धन-रसैर्
वेत्र-शष्पान्न-वाहनैः।
यन्त्रायुधैश् च विविधैः
स्निग्धैः शूरैर् नरैर् युतम् ॥ १।२९ ॥
विश्वास-प्रस्तुतिः - १।३०
वेद-विद्या-विदो विप्रान्
क्षत्रियान् अग्निहोत्रिणः।
आहृत्य स्थापयेत् तत्र
तेषां वृत्तिं प्रकल्पयेत् ॥ १।३० ॥
मूलम् - १।३०
वेद-विद्या-विदो विप्रान्
क्षत्रियान् अग्निहोत्रिणः।
आहृत्य स्थापयेत् तत्र
तेषां वृत्तिं प्रकल्पयेत् ॥ १।३० ॥
विश्वास-प्रस्तुतिः - १।३१
अनाच्छेद्याः करास् तेभ्यः
प्रदेया गृह-भूमयः।
मुक्ता भाव्याश् च नृपतेर्
लेखयित्वा स्व-शासने ॥ १।३१ ॥
मूलम् - १।३१
अनाच्छेद्याः करास् तेभ्यः
प्रदेया गृह-भूमयः।
मुक्ता भाव्याश् च नृपतेर्
लेखयित्वा स्व-शासने ॥ १।३१ ॥
विश्वास-प्रस्तुतिः - १।३२
नित्यं नैमित्तिकं काम्यं
शान्तिकं पौष्टिकं तथा।
पौराणां कर्म कुर्युस् ते
सन्दिग्ध-विनयं तथा ॥ १।३२ ॥
मूलम् - १।३२
नित्यं नैमित्तिकं काम्यं
शान्तिकं पौष्टिकं तथा।
पौराणां कर्म कुर्युस् ते
सन्दिग्ध-विनयं तथा ॥ १।३२ ॥
विश्वास-प्रस्तुतिः - १।३३
समा निम्नोन्नता वापि
यत्र भूमिर् यथा-विधा।
शालाट्ट-परिखाद्याश् च
कर्तव्याश् च तथा-विधाः ॥ १।३३ ॥
मूलम् - १।३३
समा निम्नोन्नता वापि
यत्र भूमिर् यथा-विधा।
शालाट्ट-परिखाद्याश् च
कर्तव्याश् च तथा-विधाः ॥ १।३३ ॥
विश्वास-प्रस्तुतिः - १।३४
समन्तात् तत्र वेश्मानि
कुर्युः प्रकृतयस् ततः।
द्विज-वैश्य-वणिच्-छिल्पि-
कारुका रक्षकास् तथा ॥ १।३४ ॥
मूलम् - १।३४
समन्तात् तत्र वेश्मानि
कुर्युः प्रकृतयस् ततः।
द्विज-वैश्य-वणिच्-छिल्पि-
कारुका रक्षकास् तथा ॥ १।३४ ॥
विश्वास-प्रस्तुतिः - १।३५
स्हलावस्थान-निष्काश-
भ्रम-श्वभ्र-चतुष्पथान्।
समाज-विक्रय-स्थान-
गोव्रजांश् चैव कल्पयेत् ॥ १।३५ ॥
मूलम् - १।३५
स्हलावस्थान-निष्काश-
भ्रम-श्वभ्र-चतुष्पथान्।
समाज-विक्रय-स्थान-
गोव्रजांश् चैव कल्पयेत् ॥ १।३५ ॥
विश्वास-प्रस्तुतिः - १।३६
गुणवान् इति यः प्रोक्तः
ख्यापितो जन-संसदि।
कथं तेनैव वक्त्रेण
निर्गुणः परिकथ्यते ॥ १।३६ ॥
मूलम् - १।३६
गुणवान् इति यः प्रोक्तः
ख्यापितो जन-संसदि।
कथं तेनैव वक्त्रेण
निर्गुणः परिकथ्यते ॥ १।३६ ॥
विश्वास-प्रस्तुतिः - १।३७
तस्मात् प्रभुत्वं वृत्तिं च
निर्दोषस्य न चालयेत्।
अनवस्था-प्रसङ्गः स्यान्
नश्येतोपग्रहस् तथा ॥ १।३७ ॥
मूलम् - १।३७
तस्मात् प्रभुत्वं वृत्तिं च
निर्दोषस्य न चालयेत्।
अनवस्था-प्रसङ्गः स्यान्
नश्येतोपग्रहस् तथा ॥ १।३७ ॥
१।६ प्रजा-पालन-लक्षणम्][प्।७
विश्वास-प्रस्तुतिः - १।३८
सम्यङ् निविष्ट-देशस् तु
कृत-दुर्गस् तु शास्त्रतः।
कण्टकोद्धरणे नित्यम्
आतिष्ठेद् बलम् उत्तमम् ॥ १।३८ ॥
मूलम् - १।३८
सम्यङ् निविष्ट-देशस् तु
कृत-दुर्गस् तु शास्त्रतः।
कण्टकोद्धरणे नित्यम्
आतिष्ठेद् बलम् उत्तमम् ॥ १।३८ ॥
विश्वास-प्रस्तुतिः - १।३९
तत् प्रजा-पालनं प्रोक्तं
त्रिविधं न्याय-वेदिभिः।
पर-चक्राच् चौर-भयाद्
बलिनो-ऽन्याय-वर्तिनः ॥ १।३९ ॥
मूलम् - १।३९
तत् प्रजा-पालनं प्रोक्तं
त्रिविधं न्याय-वेदिभिः।
पर-चक्राच् चौर-भयाद्
बलिनो-ऽन्याय-वर्तिनः ॥ १।३९ ॥
विश्वास-प्रस्तुतिः - १।४०
परानीक-स्तेन-भयम्
उपायैः शमयेन् नृपः।
बलवत् परिभूतानां
प्रत्यहं न्याय-दर्शनैः ॥ १।४० ॥
मूलम् - १।४०
परानीक-स्तेन-भयम्
उपायैः शमयेन् नृपः।
बलवत् परिभूतानां
प्रत्यहं न्याय-दर्शनैः ॥ १।४० ॥
विश्वास-प्रस्तुतिः - १।४१
यद् अधीते यद् यजते
यज् जुहोति यद् अर्चति।
तस्य षड्-भाग-भाग् राजा
सम्यग् भवति रक्षणात् ॥ १।४१ ॥
मूलम् - १।४१
यद् अधीते यद् यजते
यज् जुहोति यद् अर्चति।
तस्य षड्-भाग-भाग् राजा
सम्यग् भवति रक्षणात् ॥ १।४१ ॥
विश्वास-प्रस्तुतिः - १।४२
रक्षन् धर्मेण भूतानि
राजा वध्यांश् च घातयन्।
यजते ऽहर्-अहर् यज्ञैः
सहस्रशत-दक्षिणैः ॥ १।४२ ॥
मूलम् - १।४२
रक्षन् धर्मेण भूतानि
राजा वध्यांश् च घातयन्।
यजते ऽहर्-अहर् यज्ञैः
सहस्रशत-दक्षिणैः ॥ १।४२ ॥
विश्वास-प्रस्तुतिः - १।४३
दशाष्टषष्ठं नृपतेर्
भागं दद्यात् कृषी-वलम्।
खिलाद् वर्षावसन्ताच् च
कृष्यमाणाद् यथा-क्रमम् ॥ १।४३ ॥
मूलम् - १।४३
दशाष्टषष्ठं नृपतेर्
भागं दद्यात् कृषी-वलम्।
खिलाद् वर्षावसन्ताच् च
कृष्यमाणाद् यथा-क्रमम् ॥ १।४३ ॥
विश्वास-प्रस्तुतिः - १।४४
देश-स्थित्या बलिं दद्युर्
भूतं षण्-मास-वार्षिकम्।
एष धर्मः समाख्यातः
कीनाशानां पुरातनः ॥ १।४४ ॥
मूलम् - १।४४
देश-स्थित्या बलिं दद्युर्
भूतं षण्-मास-वार्षिकम्।
एष धर्मः समाख्यातः
कीनाशानां पुरातनः ॥ १।४४ ॥
१।७ सभा-निवेशन-प्रकारः
विश्वास-प्रस्तुतिः - १।४५
औदकं पार्वतं वार्क्ष्यम्
ऐरणं धान्वनं तथा।
दुर्ग-मध्ये गृहं कुर्याज्
जल-वृक्षावृतं पृथक् ॥ १।४५ ॥
मूलम् - १।४५
औदकं पार्वतं वार्क्ष्यम्
ऐरणं धान्वनं तथा।
दुर्ग-मध्ये गृहं कुर्याज्
जल-वृक्षावृतं पृथक् ॥ १।४५ ॥
विश्वास-प्रस्तुतिः - १।४६
प्राग्-दिशि प्राङ्-मुखीं तस्य
लक्षण्यां कल्पयेत् सभाम्।
माल्य-धूपासनोपेतां
बीज-रत्न-समन्विताम् ॥ १।४६ ॥
मूलम् - १।४६
प्राग्-दिशि प्राङ्-मुखीं तस्य
लक्षण्यां कल्पयेत् सभाम्।
माल्य-धूपासनोपेतां
बीज-रत्न-समन्विताम् ॥ १।४६ ॥
विश्वास-प्रस्तुतिः - १।४७
प्रतिमा-लेख्य-देवैश् च
युक्ताम् अग्न्य्-अम्बुना तथा।
लक्षण्यां वास्तु-शास्त्रोक्त-
लक्षणेन तु लक्षिताम् ॥ १।४७ ॥
मूलम् - १।४७
प्रतिमा-लेख्य-देवैश् च
युक्ताम् अग्न्य्-अम्बुना तथा।
लक्षण्यां वास्तु-शास्त्रोक्त-
लक्षणेन तु लक्षिताम् ॥ १।४७ ॥
विश्वास-प्रस्तुतिः - १।४८
भद्रासनम् अधिष्ठाय
संवीताङ्गः समाहितः।
प्रणम्य लोकपालेभ्यः
कार्य-दर्शनम् आरभेत् ॥ १।४८ ॥
मूलम् - १।४८
भद्रासनम् अधिष्ठाय
संवीताङ्गः समाहितः।
प्रणम्य लोकपालेभ्यः
कार्य-दर्शनम् आरभेत् ॥ १।४८ ॥
विश्वास-प्रस्तुतिः - १।४९
विप्रो धर्म-द्रुमस्यादिः
स्कन्ध-शाखे महीपतिः।
सचिवाः पत्र-पुष्पाणि
फलं न्यायेन पालनम् ॥ १।४९ ॥
मूलम् - १।४९
विप्रो धर्म-द्रुमस्यादिः
स्कन्ध-शाखे महीपतिः।
सचिवाः पत्र-पुष्पाणि
फलं न्यायेन पालनम् ॥ १।४९ ॥
विश्वास-प्रस्तुतिः - १।५०
यशो वित्तं फल-रसो
भोगोपग्रह-पूजनम्।
अजेयत्वं लोक-पङ्क्तिः
स्वर्गे स्थानं च शाश्वतम् ॥ १।५० ॥
मूलम् - १।५०
यशो वित्तं फल-रसो
भोगोपग्रह-पूजनम्।
अजेयत्वं लोक-पङ्क्तिः
स्वर्गे स्थानं च शाश्वतम् ॥ १।५० ॥
विश्वास-प्रस्तुतिः - १।५१
वोदोत्वैतान् न्याय-रसान्
समो भूत्वा विवादनम्।
त्यक्त-लोभादिकं राजा
धर्मं कुर्याद् विनिर्णयम् ॥ १।५१ ॥
मूलम् - १।५१
वोदोत्वैतान् न्याय-रसान्
समो भूत्वा विवादनम्।
त्यक्त-लोभादिकं राजा
धर्मं कुर्याद् विनिर्णयम् ॥ १।५१ ॥
विश्वास-प्रस्तुतिः - १।५२
राजा वृत्ति-विवादानां
स्वयम् एव प्रदर्शनम्।
शास्त्र-दृष्टेन मार्गेण
स विद्वद्भिः प्रसेव्यते ॥ १।५२ ॥
मूलम् - १।५२
राजा वृत्ति-विवादानां
स्वयम् एव प्रदर्शनम्।
शास्त्र-दृष्टेन मार्गेण
स विद्वद्भिः प्रसेव्यते ॥ १।५२ ॥
विश्वास-प्रस्तुतिः - १।५३
तस्मान् न्यायेन राजा तु
सम्यग् यत्नेन पालयेत्।
तस्माद् अर्थं च राज्यं च
[यशश् च] विपुलं लभेत् ॥ १।५३ ॥
मूलम् - १।५३
तस्मान् न्यायेन राजा तु
सम्यग् यत्नेन पालयेत्।
तस्माद् अर्थं च राज्यं च
[यशश् च] विपुलं लभेत् ॥ १।५३ ॥
विश्वास-प्रस्तुतिः - १।५४
सत्यं देवाः समासेन
मनुष्यास् त्व् अनृतं विदुः।
इहैव तस्य देवत्वं
यस्य सत्ये स्थिता मतिः ॥ १।५४ ॥
मूलम् - १।५४
सत्यं देवाः समासेन
मनुष्यास् त्व् अनृतं विदुः।
इहैव तस्य देवत्वं
यस्य सत्ये स्थिता मतिः ॥ १।५४ ॥
विश्वास-प्रस्तुतिः - १।५५
पश्व्-आज्य्य-र्त्विग्-आदीनां
संयोगाज् जायते ऽध्वरः।
यथा सम्बध्यते तेन
व्यवहारस् तथोच्यते ॥ १।५५ ॥
मूलम् - १।५५
पश्व्-आज्य्य-र्त्विग्-आदीनां
संयोगाज् जायते ऽध्वरः।
यथा सम्बध्यते तेन
व्यवहारस् तथोच्यते ॥ १।५५ ॥
विश्वास-प्रस्तुतिः - १।५६
प्राड्विवाक-सदस्यानाम्
उपजीव्य मतानि तु।
तद्-युक्ति-योगाद् यो ऽर्थेषु
निर्णये न स दण्ड-भाक् ॥ १।५६ ॥
मूलम् - १।५६
प्राड्विवाक-सदस्यानाम्
उपजीव्य मतानि तु।
तद्-युक्ति-योगाद् यो ऽर्थेषु
निर्णये न स दण्ड-भाक् ॥ १।५६ ॥
१।८ सभा-प्रभेदाः
विश्वास-प्रस्तुतिः - १।५७
प्रतिष्ठिताप्रतिष्ठा च
मुद्रिता शासिता तथा।
चतुर्विधा सभा प्रोक्ता
सभ्याश् चैव तथाविधाः ॥ १।५७ ॥
मूलम् - १।५७
प्रतिष्ठिताप्रतिष्ठा च
मुद्रिता शासिता तथा।
चतुर्विधा सभा प्रोक्ता
सभ्याश् चैव तथाविधाः ॥ १।५७ ॥
विश्वास-प्रस्तुतिः - १।५८
प्रतिष्ठिता पुरे ग्रामे
चला नामाप्रतिष्ठिता।
मुद्रिता अध्यक्ष-संयुक्ता
राज-युक्ता च शासिता ॥ १।५८ ॥
मूलम् - १।५८
प्रतिष्ठिता पुरे ग्रामे
चला नामाप्रतिष्ठिता।
मुद्रिता अध्यक्ष-संयुक्ता
राज-युक्ता च शासिता ॥ १।५८ ॥
न्यायान् पश्येत् कृत-मतिः
सा सभाध्वर-सम्मिता।
१।९ सभ्याः
लोक-वेदाङ्ग-धर्मज्ञाः
सप्त पञ्च त्रयो ऽपि वा \
यत्रोपविष्टा विप्राग्र्याः # सा यज्ञ-सदृशी सभा ॥ १।५९ ॥
विश्वास-प्रस्तुतिः - १।६०
कुर्याद् अलग्नकौ रक्षेद्
अर्थि-प्रथ्यर्थिनौ सदा।
एतद् दशाङ्गं करणं
यस्याम् अध्यास्त पार्थिवः ॥ १।६० ॥
मूलम् - १।६०
कुर्याद् अलग्नकौ रक्षेद्
अर्थि-प्रथ्यर्थिनौ सदा।
एतद् दशाङ्गं करणं
यस्याम् अध्यास्त पार्थिवः ॥ १।६० ॥
विश्वास-प्रस्तुतिः - १।६१
द्वि-सस्याष्टमं भागं
मुक्त्वा कालं सुसंविशेत्।
स कालो व्यवहाराणां
शास्त्र-दृष्टः परः स्मृतः ॥ १।६१ ॥
मूलम् - १।६१
द्वि-सस्याष्टमं भागं
मुक्त्वा कालं सुसंविशेत्।
स कालो व्यवहाराणां
शास्त्र-दृष्टः परः स्मृतः ॥ १।६१ ॥
विश्वास-प्रस्तुतिः - १।६२
साधु-कर्म-क्रिया-युक्ताः
सत्यधर्म-परायणाः।
अक्रोध-लोभाः शास्त्रज्ञाः
सभ्याः कार्या महीभुजा ॥ १।६२ ॥
मूलम् - १।६२
साधु-कर्म-क्रिया-युक्ताः
सत्यधर्म-परायणाः।
अक्रोध-लोभाः शास्त्रज्ञाः
सभ्याः कार्या महीभुजा ॥ १।६२ ॥
विश्वास-प्रस्तुतिः - १।६३
सप्त पञ्च त्रयो वा
सभा-सदो भवन्ति ॥ १।६३ ॥
मूलम् - १।६३
सप्त पञ्च त्रयो वा
सभा-सदो भवन्ति ॥ १।६३ ॥
विश्वास-प्रस्तुतिः - १।६४
देशाचारानभिज्ञा ये
नास्तिकाः शास्त्र-वर्जिताः।
उन्मत्त-क्रुद्ध-लुब्धार्ता
न प्रष्टव्या विनिर्णये ॥ १।६४ ॥
मूलम् - १।६४
देशाचारानभिज्ञा ये
नास्तिकाः शास्त्र-वर्जिताः।
उन्मत्त-क्रुद्ध-लुब्धार्ता
न प्रष्टव्या विनिर्णये ॥ १।६४ ॥
विश्वास-प्रस्तुतिः - १।६५
राजा कार्याणि सम्पश्येत्
प्राड्विवाको ऽथ वा द्विजः।
न्यायाङ्गान्य् अग्रतः कृत्वा
सभ्य-शास्त्र-मते स्थितः ॥ १।६५ ॥
मूलम् - १।६५
राजा कार्याणि सम्पश्येत्
प्राड्विवाको ऽथ वा द्विजः।
न्यायाङ्गान्य् अग्रतः कृत्वा
सभ्य-शास्त्र-मते स्थितः ॥ १।६५ ॥
विश्वास-प्रस्तुतिः - १।६६
बलेन चतुर्-अङ्गेन
यतो रञ्जयते प्रजाः।
दीप्यमानः स्व-वपुषा
तेन राजाभिधीयते ॥ १।६६ ॥
मूलम् - १।६६
बलेन चतुर्-अङ्गेन
यतो रञ्जयते प्रजाः।
दीप्यमानः स्व-वपुषा
तेन राजाभिधीयते ॥ १।६६ ॥
विश्वास-प्रस्तुतिः - १।६७
एकस् त्व् अनेकधा प्रोक्तो
व्यवहारो मनीषिभिः।
तस्य निर्णय-कृद् राजा
ब्राह्मणश् च बहुश्रुतः ॥ १।६७ ॥
मूलम् - १।६७
एकस् त्व् अनेकधा प्रोक्तो
व्यवहारो मनीषिभिः।
तस्य निर्णय-कृद् राजा
ब्राह्मणश् च बहुश्रुतः ॥ १।६७ ॥
विश्वास-प्रस्तुतिः - १।६८
व्यवहाराश्रितं प्रश्नं
पृच्छति प्राड् इति श्रुतिः।
विवदेत् तत्र यस् तस्मिन्
प्राड्-विवाकस् तु स स्मृतः ॥ १।६८ ॥
मूलम् - १।६८
व्यवहाराश्रितं प्रश्नं
पृच्छति प्राड् इति श्रुतिः।
विवदेत् तत्र यस् तस्मिन्
प्राड्-विवाकस् तु स स्मृतः ॥ १।६८ ॥
विश्वास-प्रस्तुतिः - १।६९
विवादे पृच्छति प्रश्नं
प्रतिप्रश्नं तथैव च।
प्रिय-पूर्वं प्राग् वदति
प्राड्-विवाकस् ततः स्मृतः ॥ १।६९ ॥
मूलम् - १।६९
विवादे पृच्छति प्रश्नं
प्रतिप्रश्नं तथैव च।
प्रिय-पूर्वं प्राग् वदति
प्राड्-विवाकस् ततः स्मृतः ॥ १।६९ ॥
विश्वास-प्रस्तुतिः - १।७०
स-प्राड्-विवाकः सामात्यः
स-ब्राह्मण-पुरोहितः।
स-सभ्यः प्रेक्षको राजा
स्वर्गे तिष्ठति धर्मतः ॥ १।७० ॥
मूलम् - १।७०
स-प्राड्-विवाकः सामात्यः
स-ब्राह्मण-पुरोहितः।
स-सभ्यः प्रेक्षको राजा
स्वर्गे तिष्ठति धर्मतः ॥ १।७० ॥
विश्वास-प्रस्तुतिः - १।७१
सर्व-शास्त्रार्थ-वेत्तारम्
अलुब्धं न्याय-भाषिणम्।
विप्रं प्राज्ञं क्रमायातम्
अमात्यं स्थापयेद् द्विजम् ॥ १।७१ ॥
मूलम् - १।७१
सर्व-शास्त्रार्थ-वेत्तारम्
अलुब्धं न्याय-भाषिणम्।
विप्रं प्राज्ञं क्रमायातम्
अमात्यं स्थापयेद् द्विजम् ॥ १।७१ ॥
विश्वास-प्रस्तुतिः - १।७२
द्विजान् विहाय यः पश्येत्
कार्याणि वृषलैः सह।
तस्य प्रक्षरते राष्ट्रं
बलं कोशं च नश्यति ॥ १।७२ ॥
मूलम् - १।७२
द्विजान् विहाय यः पश्येत्
कार्याणि वृषलैः सह।
तस्य प्रक्षरते राष्ट्रं
बलं कोशं च नश्यति ॥ १।७२ ॥
विश्वास-प्रस्तुतिः - १।७३
ये चारण्य-चरास् तेषाम्
अरण्ये करणं भवेत्।
सेनायां सैनिकानां तु
सार्थेषु बणिजां तथा ॥ १।७३ ॥
मूलम् - १।७३
ये चारण्य-चरास् तेषाम्
अरण्ये करणं भवेत्।
सेनायां सैनिकानां तु
सार्थेषु बणिजां तथा ॥ १।७३ ॥
विश्वास-प्रस्तुतिः - १।७४
कीनाशाः कारुका मल्लाः
कुसीद-श्रेणि-वर्तकाः।
लिङ्गिनस् तस्कराश् चैव
स्वेन धर्मेण निर्णयः ॥ १।७४ ॥
मूलम् - १।७४
कीनाशाः कारुका मल्लाः
कुसीद-श्रेणि-वर्तकाः।
लिङ्गिनस् तस्कराश् चैव
स्वेन धर्मेण निर्णयः ॥ १।७४ ॥
विश्वास-प्रस्तुतिः - १।७५
कुलानि श्रेणयश् चैव
गणास् त्व् अधिकृतो नृपः।
प्रतिष्ठा व्यवहाराणां
गुर्वेभ्यस् तूत्तरोत्तरम् ॥ १।७५ ॥
मूलम् - १।७५
कुलानि श्रेणयश् चैव
गणास् त्व् अधिकृतो नृपः।
प्रतिष्ठा व्यवहाराणां
गुर्वेभ्यस् तूत्तरोत्तरम् ॥ १।७५ ॥
विश्वास-प्रस्तुतिः - १।७६
तपस्विनां तु कार्याणि
त्रैविद्यैर् एव कारयेत्।
माया-योग-विदां चैव
न स्वयं कोप-कारणात् ॥ १।७६ ॥
मूलम् - १।७६
तपस्विनां तु कार्याणि
त्रैविद्यैर् एव कारयेत्।
माया-योग-विदां चैव
न स्वयं कोप-कारणात् ॥ १।७६ ॥
विश्वास-प्रस्तुतिः - १।७७
अदण्ड्यान् दण्डयन् राजा
दण्ड्यांश् चैवाप्य् अदण्डयन्।
अयशो महद् आप्नोति
नरकं चैव गच्छति ॥ १।७७ ॥
मूलम् - १।७७
अदण्ड्यान् दण्डयन् राजा
दण्ड्यांश् चैवाप्य् अदण्डयन्।
अयशो महद् आप्नोति
नरकं चैव गच्छति ॥ १।७७ ॥
विश्वास-प्रस्तुतिः - १।७८
अपि भ्राता सुतो ऽर्घ्यो वा
श्वशुरो मातुरो ऽपि वा।
नादण्ड्यो नाम राज्ञो ऽस्ति
धर्माद् विचलितः स्वकात् ॥ १।७८ ॥
मूलम् - १।७८
अपि भ्राता सुतो ऽर्घ्यो वा
श्वशुरो मातुरो ऽपि वा।
नादण्ड्यो नाम राज्ञो ऽस्ति
धर्माद् विचलितः स्वकात् ॥ १।७८ ॥
विश्वास-प्रस्तुतिः - १।७९
यत्र विप्रो न विद्वान् स्यात्
क्षत्रियं तत्र योजयेत्।
वैश्यं वा धर्म-शास्त्र-ज्ञं
शूद्रं यत्नेन वर्जयेत् ॥ १।७९ ॥
मूलम् - १।७९
यत्र विप्रो न विद्वान् स्यात्
क्षत्रियं तत्र योजयेत्।
वैश्यं वा धर्म-शास्त्र-ज्ञं
शूद्रं यत्नेन वर्जयेत् ॥ १।७९ ॥
विश्वास-प्रस्तुतिः - १।८०
धर्म-कर्म-विहीनस् तु
ब्राह्मैर् लिङ्गैर् विवर्जितः।
ब्रवीति ब्राह्मणो ऽस्मीति
तम् आहुर् ब्राह्मण-ब्रुवम् ॥ १।८० ॥
मूलम् - १।८०
धर्म-कर्म-विहीनस् तु
ब्राह्मैर् लिङ्गैर् विवर्जितः।
ब्रवीति ब्राह्मणो ऽस्मीति
तम् आहुर् ब्राह्मण-ब्रुवम् ॥ १।८० ॥
विश्वास-प्रस्तुतिः - १।८१
शब्दाभिधान-तत्त्वज्ञौ
गणना-कुशलौ शुची।
नानालिपि-ज्ञौ कर्तव्यौ
राज्ञा गणक-लेखकौ ॥ १।८१ ॥
मूलम् - १।८१
शब्दाभिधान-तत्त्वज्ञौ
गणना-कुशलौ शुची।
नानालिपि-ज्ञौ कर्तव्यौ
राज्ञा गणक-लेखकौ ॥ १।८१ ॥
विश्वास-प्रस्तुतिः - १।८२
अकारणे रक्षणे च
साक्ष्यर्थि-प्रवादिनाम्।
सभ्याधीनः सत्यवादी
कर्तव्यस् तु स पूरुषः ॥ १।८२ ॥
मूलम् - १।८२
अकारणे रक्षणे च
साक्ष्यर्थि-प्रवादिनाम्।
सभ्याधीनः सत्यवादी
कर्तव्यस् तु स पूरुषः ॥ १।८२ ॥
विश्वास-प्रस्तुतिः - १।८३
एतद् दशाङ्ग-करणं
यस्याम् अध्यास्य पार्थिवः।
न्य्हायं पश्येत् कृत-मतिः
सा सभाध्वर-सम्मिता ॥ १।८३ ॥
मूलम् - १।८३
एतद् दशाङ्ग-करणं
यस्याम् अध्यास्य पार्थिवः।
न्य्हायं पश्येत् कृत-मतिः
सा सभाध्वर-सम्मिता ॥ १।८३ ॥
विश्वास-प्रस्तुतिः - १।८४
एषां मूर्धा नृपो ऽङ्गानां
मुखं चाधिकृतः स्मृतः।
बाहू सभ्याः स्मृतिर् हस्तौ
जङ्घे गणक-लेखकौ ॥ १।८४ ॥
मूलम् - १।८४
एषां मूर्धा नृपो ऽङ्गानां
मुखं चाधिकृतः स्मृतः।
बाहू सभ्याः स्मृतिर् हस्तौ
जङ्घे गणक-लेखकौ ॥ १।८४ ॥
विश्वास-प्रस्तुतिः - १।८५
हेमाग्न्य्-अम्बु-दृशौ हृच् च
पादौ स्वपुरुषस् तथा ॥ १।८५ ॥
मूलम् - १।८५
हेमाग्न्य्-अम्बु-दृशौ हृच् च
पादौ स्वपुरुषस् तथा ॥ १।८५ ॥
विश्वास-प्रस्तुतिः - १।८६
हिरण्यम् अग्निम् उदकं
धर्मशास्त्राणि चैव हि।
तन्-मध्ये स्थापयेद् राजा
पुण्यानि च हितानि च ॥ १।८६ ॥
मूलम् - १।८६
हिरण्यम् अग्निम् उदकं
धर्मशास्त्राणि चैव हि।
तन्-मध्ये स्थापयेद् राजा
पुण्यानि च हितानि च ॥ १।८६ ॥
विश्वास-प्रस्तुतिः - १।८७
आदित्य-चन्द्र-देवादि
दिक्पालान् तत्र कल्पयेत्।
हेमाग्न्य्-अम्बु-स्वपुरुषाः
साधनाङ्गानि वै दश ॥ १।८७ ॥
मूलम् - १।८७
आदित्य-चन्द्र-देवादि
दिक्पालान् तत्र कल्पयेत्।
हेमाग्न्य्-अम्बु-स्वपुरुषाः
साधनाङ्गानि वै दश ॥ १।८७ ॥
विश्वास-प्रस्तुतिः - १।८८
दशानाम् अपि चैतेषां कर्म
प्रोक्तं पृथक् पृथक्।
वक्ताध्यक्षो नृपः शास्ता
सभ्यः कार्य-परीक्षकः ॥ १।८८ ॥
मूलम् - १।८८
दशानाम् अपि चैतेषां कर्म
प्रोक्तं पृथक् पृथक्।
वक्ताध्यक्षो नृपः शास्ता
सभ्यः कार्य-परीक्षकः ॥ १।८८ ॥
विश्वास-प्रस्तुतिः - १।८९
स्मृतिर् विनिर्णयं ब्रूते
जय-दानं दमं तथा।
शपथार्थे हिरण्याग्नी
अम्बु तृषित-जन्तुषु ॥ १।८९ ॥
मूलम् - १।८९
स्मृतिर् विनिर्णयं ब्रूते
जय-दानं दमं तथा।
शपथार्थे हिरण्याग्नी
अम्बु तृषित-जन्तुषु ॥ १।८९ ॥
विश्वास-प्रस्तुतिः - १।९०
गणको गणयेद् अर्थं
लिखेन् न्यायं च लेखकः।
पर्त्यर्थि-सभ्यानयनं
साक्षिणम् च स्व-पूरुषः ॥ १।९० ॥
मूलम् - १।९०
गणको गणयेद् अर्थं
लिखेन् न्यायं च लेखकः।
पर्त्यर्थि-सभ्यानयनं
साक्षिणम् च स्व-पूरुषः ॥ १।९० ॥
विश्वास-प्रस्तुतिः - १।९१
वाग्-दण्डश् चैव धिग्-दण्डो
विप्राधीनौ तु ताऊभौ।
अर्थ-दण्ड-वधाव् उक्तौ
राजायताव् उभाव् अपि ॥ १।९१ ॥
मूलम् - १।९१
वाग्-दण्डश् चैव धिग्-दण्डो
विप्राधीनौ तु ताऊभौ।
अर्थ-दण्ड-वधाव् उक्तौ
राजायताव् उभाव् अपि ॥ १।९१ ॥
विश्वास-प्रस्तुतिः - १।९२
राज्ञा ये विदिताः सम्यक्
कुल-श्रेणि-गणादयः।
साहस-न्याय-वर्ज्यानि
कुर्युः कार्याणि ते नृणाम् ॥ १।९२ ॥
मूलम् - १।९२
राज्ञा ये विदिताः सम्यक्
कुल-श्रेणि-गणादयः।
साहस-न्याय-वर्ज्यानि
कुर्युः कार्याणि ते नृणाम् ॥ १।९२ ॥
विश्वास-प्रस्तुतिः - १।९३
कुल-श्रेणि-गणाध्यक्षाः
प्रोक्ता निर्णय-कारकाः।
विचार्य श्रेणिभिः कार्यं
कुलैर् यन् न विचारितम् ॥ १।९३ ॥
मूलम् - १।९३
कुल-श्रेणि-गणाध्यक्षाः
प्रोक्ता निर्णय-कारकाः।
विचार्य श्रेणिभिः कार्यं
कुलैर् यन् न विचारितम् ॥ १।९३ ॥
विश्वास-प्रस्तुतिः - १।९४
गणैश् च श्रेण्य् अविज्ञातं
गणाज्ञातं नियुक्तकैः।
कुलादिभ्यो ऽधिकाः सभ्यास्
तेभ्यो ऽध्यक्षः स्मृतो ऽधिकः ॥ १।९४ ॥
मूलम् - १।९४
गणैश् च श्रेण्य् अविज्ञातं
गणाज्ञातं नियुक्तकैः।
कुलादिभ्यो ऽधिकाः सभ्यास्
तेभ्यो ऽध्यक्षः स्मृतो ऽधिकः ॥ १।९४ ॥
विश्वास-प्रस्तुतिः - १।९५
सर्वेषाम् अधिको राजा
धर्मं यत्नेन निश्चितम्।
उत्तमाधम-मध्यानां
विवादानां विचारणात् ॥ १।९५ ॥
मूलम् - १।९५
सर्वेषाम् अधिको राजा
धर्मं यत्नेन निश्चितम्।
उत्तमाधम-मध्यानां
विवादानां विचारणात् ॥ १।९५ ॥
विश्वास-प्रस्तुतिः - १।९६
उपर्य्-उपरि बुद्धीनां
चरन्तीश्वर-बुद्धयः।
अज्ञान-तिमिरोपेतान्
सन्देह-पटलान्वितान् ॥ १।९६ ॥
मूलम् - १।९६
उपर्य्-उपरि बुद्धीनां
चरन्तीश्वर-बुद्धयः।
अज्ञान-तिमिरोपेतान्
सन्देह-पटलान्वितान् ॥ १।९६ ॥
विश्वास-प्रस्तुतिः - १।९७
निरामयान् यः कुरुते
शास्त्राञ्जनशलाकया।
इह कीर्तिं राजपूजां
लभते स्वर्गतिं च सः ॥ १।९७ ॥
मूलम् - १।९७
निरामयान् यः कुरुते
शास्त्राञ्जनशलाकया।
इह कीर्तिं राजपूजां
लभते स्वर्गतिं च सः ॥ १।९७ ॥
विश्वास-प्रस्तुतिः - १।९८
लोभ-द्वेषादिकं त्यक्त्वा
यः कुर्यात् कार्य-निर्णयम्।
शास्त्रोदितेन विधिना
तस्य यज्ञ-फलं भवेत् ॥ १।९८ ॥
मूलम् - १।९८
लोभ-द्वेषादिकं त्यक्त्वा
यः कुर्यात् कार्य-निर्णयम्।
शास्त्रोदितेन विधिना
तस्य यज्ञ-फलं भवेत् ॥ १।९८ ॥
विश्वास-प्रस्तुतिः - १।९९
अधर्मतः प्रवृत्तं तु
नोपेक्षेरन् सभा-सदः।
उपेक्षमाणास् ते भूपा
नरकं यान्त्य् अधोमुखाः ॥ १।९९ ॥
मूलम् - १।९९
अधर्मतः प्रवृत्तं तु
नोपेक्षेरन् सभा-सदः।
उपेक्षमाणास् ते भूपा
नरकं यान्त्य् अधोमुखाः ॥ १।९९ ॥
विश्वास-प्रस्तुतिः - १।१००
न्याय-मार्गाद् अपेतं तु
ज्ञात्वा चित्तं महीपतेः।
वक्तव्यं त्व् अप्रियं तत्र
न सभ्यः किल्बिषी ततः ॥ १।१०० ॥
मूलम् - १।१००
न्याय-मार्गाद् अपेतं तु
ज्ञात्वा चित्तं महीपतेः।
वक्तव्यं त्व् अप्रियं तत्र
न सभ्यः किल्बिषी ततः ॥ १।१०० ॥
विश्वास-प्रस्तुतिः - १।१०१
सभ्येन तावद् वक्तव्यं
धर्मार्थ-सहितं वचः।
शृणोति यदि नो राजा
स्यात् तु सभ्यस् ततो ऽनघः ॥ १।१०१ ॥
मूलम् - १।१०१
सभ्येन तावद् वक्तव्यं
धर्मार्थ-सहितं वचः।
शृणोति यदि नो राजा
स्यात् तु सभ्यस् ततो ऽनघः ॥ १।१०१ ॥
विश्वास-प्रस्तुतिः - १।१०२
अ-निर्णीतेषु यद्य् एवं
सम्भाषेत रहो ऽर्थिना।
प्राड्विवाको ऽपि दण्ड्यः
स्यात् सभ्याश् चैव विशेषतः ॥ १।१०२ ॥
मूलम् - १।१०२
अ-निर्णीतेषु यद्य् एवं
सम्भाषेत रहो ऽर्थिना।
प्राड्विवाको ऽपि दण्ड्यः
स्यात् सभ्याश् चैव विशेषतः ॥ १।१०२ ॥
विश्वास-प्रस्तुतिः - १।१०३
स्नेताच् चाज्ञानतो वापि
मोहाद् वा लोभतो ऽपि वा।
यत्र सभ्यो ऽन्यथा-वादी
दण्ड्यो ऽसभ्यः स्मृतो हि सः ॥ १।१०३ ॥
मूलम् - १।१०३
स्नेताच् चाज्ञानतो वापि
मोहाद् वा लोभतो ऽपि वा।
यत्र सभ्यो ऽन्यथा-वादी
दण्ड्यो ऽसभ्यः स्मृतो हि सः ॥ १।१०३ ॥
विश्वास-प्रस्तुतिः - १।१०४
लेख्यं यत्र न विद्येत
न साक्षी न च भुक्तयः।
प्रमाणानि न सन्त्य् एकं
प्रमाणं तत्र पार्थिवः ॥ १।१०४ ॥
मूलम् - १।१०४
लेख्यं यत्र न विद्येत
न साक्षी न च भुक्तयः।
प्रमाणानि न सन्त्य् एकं
प्रमाणं तत्र पार्थिवः ॥ १।१०४ ॥
विश्वास-प्रस्तुतिः - १।१०५
निश्चेतुं ये न शक्याः स्युर्
वादाः सन्दिग्ध-रूपिणः।
तेषां नृपः प्रमाण् अं स्यात्
स सर्वस्य प्रभुर् यतः ॥ १।१०५ ॥
मूलम् - १।१०५
निश्चेतुं ये न शक्याः स्युर्
वादाः सन्दिग्ध-रूपिणः।
तेषां नृपः प्रमाण् अं स्यात्
स सर्वस्य प्रभुर् यतः ॥ १।१०५ ॥
विश्वास-प्रस्तुतिः - १।१०६
व्यवहारान् स्वयं पश्येत्
सभ्यैः परिवृतो ऽन्वहम् ॥ १।१०६ ॥
मूलम् - १।१०६
व्यवहारान् स्वयं पश्येत्
सभ्यैः परिवृतो ऽन्वहम् ॥ १।१०६ ॥
विश्वास-प्रस्तुतिः - १।१०७
अन्याय-वादिनः सभ्यास्
तथैवोत्कोच-जीविनः।
विश्वस्ते वञ्चकाश् चैव
निर्वास्याः सर्व एव ते ॥ १।१०७ ॥
मूलम् - १।१०७
अन्याय-वादिनः सभ्यास्
तथैवोत्कोच-जीविनः।
विश्वस्ते वञ्चकाश् चैव
निर्वास्याः सर्व एव ते ॥ १।१०७ ॥
विश्वास-प्रस्तुतिः - १।१०८
नियुक्तो वानियुक्तो वा
शास्त्र-ज्ञो वक्तुम् अर्हति।
यत् तेन सदसि प्रोक्तं
स धर्मो नात्र संशयः ॥ १।१०८ ॥
मूलम् - १।१०८
नियुक्तो वानियुक्तो वा
शास्त्र-ज्ञो वक्तुम् अर्हति।
यत् तेन सदसि प्रोक्तं
स धर्मो नात्र संशयः ॥ १।१०८ ॥
विश्वास-प्रस्तुतिः - १।१०९
पूर्वा-मुखस् तूपविशेद्
राजा सभ्या उदङ्-मुखाः।
गणकः पश्चिमा यस् तु
लेखको दक्षिणा-मुखः ॥ १।१०९ ॥
मूलम् - १।१०९
पूर्वा-मुखस् तूपविशेद्
राजा सभ्या उदङ्-मुखाः।
गणकः पश्चिमा यस् तु
लेखको दक्षिणा-मुखः ॥ १।१०९ ॥
विश्वास-प्रस्तुतिः - १।११०
यथा यमः प्रिय-द्वेष्यौ
प्राप्ते काले नियच्छति।
तथा राज्ञा नियन्तव्याः
प्रजास् तद् धि यम-व्रतम् ॥ १।११० ॥
मूलम् - १।११०
यथा यमः प्रिय-द्वेष्यौ
प्राप्ते काले नियच्छति।
तथा राज्ञा नियन्तव्याः
प्रजास् तद् धि यम-व्रतम् ॥ १।११० ॥
विश्वास-प्रस्तुतिः - १।१११
धर्म-शास्त्रार्थ-शास्त्राभ्याम्
अविरोधेन पार्थिवः।
समीक्षमाणो निपुणं
व्यवहार-गतिं नयेत् ॥ १।१११ ॥
मूलम् - १।१११
धर्मशास्त्रार्थशास्त्राभ्याम्
अविरोधेन पार्थिवः।
समीक्षमाणो निपुणं
व्यवहार-गतिं नयेत् ॥ १।१११ ॥
विश्वास-प्रस्तुतिः - १।११२
न्याय-शास्त्रम् अतिक्रम्य
सभ्यैर् अत्र तु निश्चितम्।
तत्र धर्मो हतो हन्ति
सर्वान् एव न संशयः ॥ १।११२ ॥
मूलम् - १।११२
न्यायशास्त्रम् अतिक्रम्य
सभ्यैर् अत्र तु निश्चितम्।
तत्र धर्मो हतो हन्ति
सर्वान् एव न संशयः ॥ १।११२ ॥
विश्वास-प्रस्तुतिः - १।११३
धार्यं मन्व्-आदिकं शास्त्रं
नार्थ-शास्त्रं कथञ्चन।
द्वयोर् विरोधे कर्तव्यं
धर्म-शास्त्रोदितं वचः ॥ १।११३ ॥
मूलम् - १।११३
धार्यं मन्व्-आदिकं शास्त्रं
नार्थशास्त्रं कथञ्चन।
द्वयोर् विरोधे कर्तव्यं
धर्मशास्त्रोदितं वचः ॥ १।११३ ॥
विश्वास-प्रस्तुतिः - १।११४
केवलं शास्त्रम् आश्रित्य
न कर्तव्यो विनिर्णयः ।
युक्ति-हीने विचारे तु
धर्म-हानिः प्रजायते ॥ १।११४ ॥
मूलम् - १।११४
केवलं शास्त्रम् आश्रित्य
न कर्तव्यो विनिर्णयः।
युक्ति-हीने विचारे तु
धर्म-हानिः प्रजायते ॥ १।११४ ॥
विश्वास-प्रस्तुतिः - १।११५
पूर्वाह्णे ताम् अधिष्ठाय
वृद्धामात्यानुजीविभिः।
पश्येत् पुराण-धर्मार्थ-
शास्त्राणि शृणुयात् तथा ॥ १।११५ ॥
मूलम् - १।११५
पूर्वाह्णे ताम् अधिष्ठाय
वृद्धामात्यानुजीविभिः।
पश्येत् पुराण-धर्मार्थ-
शास्त्राणि शृणुयात् तथा ॥ १।११५ ॥
विश्वास-प्रस्तुतिः - १।११६
चौरो ऽचौरः साध्व् असाधु
जायते व्यवहारतः।
युक्तिं विना विचारेण
माण्डव्यश् चोरतां गतः ॥ १।११६ ॥
मूलम् - १।११६
चौरो ऽचौरः साध्व् असाधु
जायते व्यवहारतः।
युक्तिं विना विचारेण
माण्डव्यश् चोरतां गतः ॥ १।११६ ॥
विश्वास-प्रस्तुतिः - १।११७
अ-सत्याः सत्य-सदृशाः
सत्याश् चासत्य-सन्निभाः।
दृश्यन्ते भ्रान्ति-जनकास्
तस्माद् युक्त्या विचारयेत्॥ १।११७ ॥
मूलम् - १।११७
असत्याः सत्य-सदृशाः
सत्याश् चासत्य-सन्निभाः।
दृश्यन्ते भ्रान्ति-जनकास्
तस्माद् युक्त्या विचारयेत्॥ १।११७ ॥
विश्वास-प्रस्तुतिः - १।११८
यज्ञे सम्पूज्यते विष्णुर्
व्यवहारे महीपतिः।
जयी तु यजमानो ऽत्र
जितः पशुर् उदाहृतः ॥ १।११८ ॥
मूलम् - १।११८
यज्ञे सम्पूज्यते विष्णुर्
व्यवहारे महीपतिः।
जयी तु यजमानो ऽत्र
जितः पशुर् उदाहृतः ॥ १।११८ ॥
विश्वास-प्रस्तुतिः - १।११९
पूर्वपक्षोत्तराव् आद्यं
प्रतिज्ञा च हविः स्मृतः।
त्रयी शास्त्राणि सभ्यास् तु
ऋत्विजो दक्षिणा दमः ॥ १।११९ ॥
मूलम् - १।११९
पूर्वपक्षोत्तराव् आद्यं
प्रतिज्ञा च हविः स्मृतः।
त्रयी शास्त्राणि सभ्यास् तु
ऋत्विजो दक्षिणा दमः ॥ १।११९ ॥
विश्वास-प्रस्तुतिः - १।१२०
तथा चैवोपदृष्टारौ
ज्ञेयौ गणक-लेखकौ।
एषो ऽध्वर-समः प्रोक्तो
व्यवहारः समाहृतः ॥ १।१२० ॥
मूलम् - १।१२०
तथा चैवोपदृष्टारौ
ज्ञेयौ गणक-लेखकौ।
एषो ऽध्वर-समः प्रोक्तो
व्यवहारः समाहृतः ॥ १।१२० ॥
विश्वास-प्रस्तुतिः - १।१२१
स्मृत्य्-आचार-व्यपेतेन
मार्गेनाधर्षितः परैः।
आवेदयति चेद् राज्ञे
व्यवहार-पदं हि तत् ॥ १।१२१ ॥
मूलम् - १।१२१
स्मृत्य्-आचार-व्यपेतेन
मार्गेनाधर्षितः परैः।
आवेदयति चेद् राज्ञे
व्यवहार-पदं हि तत् ॥ १।१२१ ॥
विश्वास-प्रस्तुतिः - १।१२२
पतितादिकृतश् चैव
यश् च न प्रकृतिं गतः।
अस्वतन्त्र-कृतश् चैव
पूर्वपक्षो न सिध्यति ॥ १।१२२ ॥
मूलम् - १।१२२
पतितादिकृतश् चैव
यश् च न प्रकृतिं गतः।
अस्वतन्त्र-कृतश् चैव
पूर्वपक्षो न सिध्यति ॥ १।१२२ ॥
विश्वास-प्रस्तुतिः - १।१२३
मत्तोन्मत्तार्त-व्यसनि-
बाल-वृद्ध-प्रयोजितः।
असम्बन्ध-कृतश् चैव
व्यवहारो न सिध्यति ॥ १।१२३ ॥
मूलम् - १।१२३
मत्तोन्मत्तार्त-व्यसनि-
बाल-वृद्ध-प्रयोजितः।
असम्बन्ध-कृतश् चैव
व्यवहारो न सिध्यति ॥ १।१२३ ॥
विश्वास-प्रस्तुतिः - १।१२४
गुरु-शिष्यौ पिता-पुत्रौ
दम्पती स्वामि-भृत्यकौ।
एतेषां समवेतानां
व्यवहारो न सिध्यति ॥ १।१२४ ॥
मूलम् - १।१२४
गुरु-शिष्यौ पिता-पुत्रौ
दम्पती स्वामि-भृत्यकौ।
एतेषां समवेतानां
व्यवहारो न सिध्यति ॥ १।१२४ ॥
विश्वास-प्रस्तुतिः - १।१२५
एवं परीक्षितं सभ्यैः
पूर्व्पक्षं तु लेखयेत्।
अप्रसिद्धं पुर-द्विष्टं
विवादं न विचारयेत् ॥ १।१२५ ॥
मूलम् - १।१२५
एवं परीक्षितं सभ्यैः
पूर्व्पक्षं तु लेखयेत्।
अप्रसिद्धं पुर-द्विष्टं
विवादं न विचारयेत् ॥ १।१२५ ॥
१।१० देश-जाति-धर्मास् तथैव पालनीयाः
विश्वास-प्रस्तुतिः - १।१२६
प्रतिलोम-प्रसूतानां
तथा दुर्ग-निवासिनाम्।
देश-जाति-कुलादीनां
ये धर्मास् तत्-प्रवर्तिताः ॥ १।१२६ ॥
मूलम् - १।१२६
प्रतिलोम-प्रसूतानां
तथा दुर्ग-निवासिनाम्।
देश-जाति-कुलादीनां
ये धर्मास् तत्-प्रवर्तिताः ॥ १।१२६ ॥
विश्वास-प्रस्तुतिः - १।१२७
तथैव ते पालनीयाः
प्रजा प्रक्षुभ्यते ऽन्यथा।
जनापरक्तिर् भवति
बलं कोशश् च नश्यति ॥ १।१२७ ॥
मूलम् - १।१२७
तथैव ते पालनीयाः
प्रजा प्रक्षुभ्यते ऽन्यथा।
जनापरक्तिर् भवति
बलं कोशश् च नश्यति ॥ १।१२७ ॥
विश्वास-प्रस्तुतिः - १।१२८
उदुह्यते दाक्षिणात्यैर्
मातुलस्य सुता द्विजैः।
मध्यदेशे कर्मकराः
शिल्पिनश् च गवाशिनः ॥ १।१२८ ॥
मूलम् - १।१२८
उदुह्यते दाक्षिणात्यैर्
मातुलस्य सुता द्विजैः।
मध्यदेशे कर्मकराः
शिल्पिनश् च गवाशिनः ॥ १।१२८ ॥
विश्वास-प्रस्तुतिः - १।१२९
मत्स्यादाश् च नराः पूर्वे
व्यभिचार-रताः स्त्रियः।
उत्तरे मद्य-पा नार्यः
स्पृश्या नॄणां रजस्वलाः ॥ १।१२९ ॥+++(5)+++
मूलम् - १।१२९
मत्स्यादाश् च नराः पूर्वे
व्यभिचार-रताः स्त्रियः।
उत्तरे मद्य-पा नार्यः
स्पृश्या नॄणां रजस्वलाः ॥ १।१२९ ॥+++(5)+++
विश्वास-प्रस्तुतिः - १।१३०
सहजाताः प्रगृह्णन्ति
भ्रातृ-भार्याम् अभर्तृकाम्।
अनेन कर्मणा नैते
प्रायश्चित्त-दमार्हकाः ॥ १।१३० ॥
मूलम् - १।१३०
सहजाताः प्रगृह्णन्ति
भ्रातृ-भार्याम् अभर्तृकाम्।
अनेन कर्मणा नैते
प्रायश्चित्त-दमार्हकाः ॥ १।१३० ॥
विश्वास-प्रस्तुतिः - १।१३१
विहिताकरणान् नित्यं
प्रतिषिद्ध-निषेवणात्।
भक्ताच्छादं प्रदायैषां
शेषं गृह्णीत पार्थिवः ॥ १।१३१ ॥
मूलम् - १।१३१
विहिताकरणान् नित्यं
प्रतिषिद्ध-निषेवणात्।
भक्ताच्छादं प्रदायैषां
शेषं गृह्णीत पार्थिवः ॥ १।१३१ ॥
[प्रतिलोम-प्रसूतानां
विश्वास-प्रस्तुतिः - १।१३२
तथा दुर्ग-निवासिनाम्]।
शास्त्रवद् यत्नतो रक्ष्या
सन्दिग्धौ साधनं तु सा ॥ १।१३२ ॥
मूलम् - १।१३२
तथा दुर्ग-निवासिनाम्]।
शास्त्रवद् यत्नतो रक्ष्या
सन्दिग्धौ साधनं तु सा ॥ १।१३२ ॥
विश्वास-प्रस्तुतिः - १।१३३
तां दृष्ट्वा निर्णयं कुर्यात्
प्राङ् निविष्ट-व्यवस्थया।
सभा शुल्कोचित-दमे
मास-षाण्-मासिके करे ॥ १।१३३ ॥
मूलम् - १।१३३
तां दृष्ट्वा निर्णयं कुर्यात्
प्राङ् निविष्ट-व्यवस्थया।
सभा शुल्कोचित-दमे
मास-षाण्-मासिके करे ॥ १।१३३ ॥
मर्यादा लेखिता कार्या
नैगमाधिष्ठिता सदा।
अर्थिनश् च वचः कार्यं
वचः प्रत्यर्थिनस् तथा \
परीक्ष्य पदम् आदद्याद् # अन्यथा नरकं व्रजेत् ॥ १।१३४ ॥
विश्वास-प्रस्तुतिः - १।१३५
एकस्य बहुभिः सर्धं
स्त्रीभिः प्रेक्षकरैस् तथा।
अनादेयो भवेद् वादो
धर्मविद्भिर् उदाहृतः ॥ १।१३५ ॥
मूलम् - १।१३५
एकस्य बहुभिः सर्धं
स्त्रीभिः प्रेक्षकरैस् तथा।
अनादेयो भवेद् वादो
धर्मविद्भिर् उदाहृतः ॥ १।१३५ ॥
१।११ अनासेध्याः
विश्वास-प्रस्तुतिः - १।१३६
सत्रोद्वाहोद्यतो रोगी
शोकार्तोन्मत्त-बालकाः।
मत्तो वृद्धो ऽनुयुक्तश् च
नृप-कार्योद्यतो व्रती ॥ १।१३६ ॥
मूलम् - १।१३६
सत्रोद्वाहोद्यतो रोगी
शोकार्तोन्मत्त-बालकाः।
मत्तो वृद्धो ऽनुयुक्तश् च
नृप-कार्योद्यतो व्रती ॥ १।१३६ ॥
विश्वास-प्रस्तुतिः - १।१३७
आसन्ने सैनिकः सङ्ख्ये
कर्षको वाप-सङ्ग्रहे।
विषम-स्थाश् च नासेध्याः
स्त्री-सनाथास् तथैव च ॥ १।१३७ ॥
मूलम् - १।१३७
आसन्ने सैनिकः सङ्ख्ये
कर्षको वाप-सङ्ग्रहे।
विषम-स्थाश् च नासेध्याः
स्त्री-सनाथास् तथैव च ॥ १।१३७ ॥
विश्वास-प्रस्तुतिः - १।१३८
अ-प्राप्त-व्यवहारश् च
दूतो दानोन्मुखो व्रती।
विषमस्थाश् च नासेध्याः
स्त्री-सनाथास् तथैव च ॥ १।१३८ ॥
मूलम् - १।१३८
अ-प्राप्त-व्यवहारश् च
दूतो दानोन्मुखो व्रती।
विषमस्थाश् च नासेध्याः
स्त्री-सनाथास् तथैव च ॥ १।१३८ ॥
विश्वास-प्रस्तुतिः - १।१३९
वणिग्-विक्रीतपण्यस् तु
सस्ये जाते कृषीवलः।
सत्रोद्यताश् चैव तथा
दापनीयाः कृतक्रियाः ॥ १।१३९ ॥
मूलम् - १।१३९
वणिग्-विक्रीतपण्यस् तु
सस्ये जाते कृषीवलः।
सत्रोद्यताश् चैव तथा
दापनीयाः कृतक्रियाः ॥ १।१३९ ॥
विश्वास-प्रस्तुतिः - १।१४०
मतिर् नोत्सहते यत्र
विवादं कर्तुम् इच्छते।
दातव्यस् तस्य कालः स्याद्
अर्थि-प्रत्यर्थिनोर् अपि ॥ १।१४० ॥
मूलम् - १।१४०
मतिर् नोत्सहते यत्र
विवादं कर्तुम् इच्छते।
दातव्यस् तस्य कालः स्याद्
अर्थि-प्रत्यर्थिनोर् अपि ॥ १।१४० ॥
विश्वास-प्रस्तुतिः - १।१४१
यस्याभियोगं कुरुते
तथ्येनाशङ्कयापि वा।
तम् एवानाययेद् राजा
सुद्रया पुरुषेण वा ॥ १।१४१ ॥
मूलम् - १।१४१
यस्याभियोगं कुरुते
तथ्येनाशङ्कयापि वा।
तम् एवानाययेद् राजा
सुद्रया पुरुषेण वा ॥ १।१४१ ॥
विश्वास-प्रस्तुतिः - १।१४२
अ-प्रगल्भ-जडोन्मात-
वृद्ध-स्त्री-बाल-रोगिणाम्।
पूर्वोत्तरं वदेद् बन्धुर्
नियुक्तो ऽन्यो ऽथ वा नरः ॥ १।१४२ ॥
मूलम् - १।१४२
अ-प्रगल्भ-जडोन्मात-
वृद्ध-स्त्री-बाल-रोगिणाम्।
पूर्वोत्तरं वदेद् बन्धुर्
नियुक्तो ऽन्यो ऽथ वा नरः ॥ १।१४२ ॥
विश्वास-प्रस्तुतिः - १।१४३
ऋत्विग्वादे नियुक्तश् च
समौ सम्परिकीर्तिनौ।
यज्ञे स्वाम्याप्नुयात् पुण्यं
हानिं वादे ऽथ वा जयम् ॥ १।१४३ ॥
मूलम् - १।१४३
ऋत्विग्वादे नियुक्तश् च
समौ सम्परिकीर्तिनौ।
यज्ञे स्वाम्याप्नुयात् पुण्यं
हानिं वादे ऽथ वा जयम् ॥ १।१४३ ॥
१।१२ आह्वानम्
विश्वास-प्रस्तुतिः - १।१४४
आहूतो यस् तु नागच्छेद्
दर्पाद् बन्धुबलान्वितः।
अभियोगानुरूपेण
तस्य दण्डं प्रकल्पयेत् ॥ १।१४४ ॥
मूलम् - १।१४४
आहूतो यस् तु नागच्छेद्
दर्पाद् बन्धुबलान्वितः।
अभियोगानुरूपेण
तस्य दण्डं प्रकल्पयेत् ॥ १।१४४ ॥
विश्वास-प्रस्तुतिः - १।१४५
काले कार्यार्थिनं पृच्छेत्
प्रणतं
पुरतः स्थितम्।
किं कार्यं का च ते पीडा
मा भैषीर् ब्रूहि मानव ॥ १।१४५ ॥
मूलम् - १।१४५
काले कार्यार्थिनं पृच्छेत्
प्रणतं
पुरतः स्थितम्।
किं कार्यं का च ते पीडा
मा भैषीर् ब्रूहि मानव ॥ १।१४५ ॥
विश्वास-प्रस्तुतिः - १।१४६
एवं पृष्टः स यद् ब्रूयात्
तत् सभ्यैः ब्राह्मणैः सह।
विमृश्य कार्यं न्याय्यं चेद्
आह्वानार्थम् अतः परम् ॥ १।१४६ ॥
मूलम् - १।१४६
एवं पृष्टः स यद् ब्रूयात्
तत् सभ्यैः ब्राह्मणैः सह।
विमृश्य कार्यं न्याय्यं चेद्
आह्वानार्थम् अतः परम् ॥ १।१४६ ॥
मुद्रां दद्याद् यथा पत्रं
पुरुषं वा समादिशेत्।
आहूतस् त्व् अवमन्येत
यः शक्तो राजशासनम् \
अभियोगानुरूपेण # तस्य दण्डं प्रकल्पयेत् ॥ १।१४७ ॥
अ-कल्प-बाल-स्थविर-
विषमस्थक्रियाकुलान्।
हीने कर्मणि पञ्चाशन्
मध्यमेषु शतावरः \
गुरुकार्येषु दण्ड्यः स्यात्न् # नित्यं पञ्चशतावरः ॥ १।१४८ ॥
विश्वास-प्रस्तुतिः - १।१४९
परानीकहते देशे
दुर्भिक्षे व्याधिपीडिते।
कुर्वीत पुनराह्वानं
दण्डं न परिकल्पयेत् ॥ १।१४९ ॥
मूलम् - १।१४९
परानीकहते देशे
दुर्भिक्षे व्याधिपीडिते।
कुर्वीत पुनराह्वानं
दण्डं न परिकल्पयेत् ॥ १।१४९ ॥
विश्वास-प्रस्तुतिः - १।१५०
कार्यातिपातिव्यसनि-
नृपकार्योत्सवाकुलान् ॥ १।१५० ॥
मूलम् - १।१५०
कार्यातिपातिव्यसनि-
नृपकार्योत्सवाकुलान् ॥ १।१५० ॥
विश्वास-प्रस्तुतिः - १।१५१
द्जर्मोद्यतान् अभ्युदये
पराधीनशठाकृतीन्।
मत्तोन्मत्त-प्रमत्तांश् च
भृत्यान् नाह्वाययेन् नृपः ॥ १।१५१ ॥
मूलम् - १।१५१
द्जर्मोद्यतान् अभ्युदये
पराधीनशठाकृतीन्।
मत्तोन्मत्त-प्रमत्तांश् च
भृत्यान् नाह्वाययेन् नृपः ॥ १।१५१ ॥
विश्वास-प्रस्तुतिः - १।१५२
न च भ्राता न च पिता
न पुत्रो न नियोगकृत्।
परार्थवादी दण्ड्यः स्याद्
व्यवहारेषु विब्रुवन् ॥ १।१५२ ॥
मूलम् - १।१५२
न च भ्राता न च पिता
न पुत्रो न नियोगकृत्।
परार्थवादी दण्ड्यः स्याद्
व्यवहारेषु विब्रुवन् ॥ १।१५२ ॥
विश्वास-प्रस्तुतिः - १।१५३
न हीनपक्षां युवतिं
कुले जातां प्रसूतिकाम्।
सर्ववर्णोत्तमां कन्यां
ताः ज्ञातिप्रभुक्ताः स्मृताः ॥ १।१५३ ॥
मूलम् - १।१५३
न हीनपक्षां युवतिं
कुले जातां प्रसूतिकाम्।
सर्ववर्णोत्तमां कन्यां
ताः ज्ञातिप्रभुक्ताः स्मृताः ॥ १।१५३ ॥
विश्वास-प्रस्तुतिः - १।१५४
कालं देशञ् च [?] विज्ञाय
कार्याणां च बलावलम्।
अकल्पादीन् अपि शनैर्
यानैर् आह्वापयेन् नृपः ॥ १।१५४ ॥
मूलम् - १।१५४
कालं देशञ् च [?] विज्ञाय
कार्याणां च बलावलम्।
अकल्पादीन् अपि शनैर्
यानैर् आह्वापयेन् नृपः ॥ १।१५४ ॥
विश्वास-प्रस्तुतिः - १।१५५
तदधीनकुटुम्बिव्यः
स्वैरिण्यो गणिकाश् च याः।
निष्कुला याश् च पतितास्
तासाम् आह्वानम् इष्यते ॥ १।१५५ ॥
मूलम् - १।१५५
तदधीनकुटुम्बिव्यः
स्वैरिण्यो गणिकाश् च याः।
निष्कुला याश् च पतितास्
तासाम् आह्वानम् इष्यते ॥ १।१५५ ॥
विश्वास-प्रस्तुतिः - १।१५६
उभयोः प्रतिभूर् ग्राह्यः
समर्थः कार्यनिर्णये ॥ १।१५६ ॥
मूलम् - १।१५६
उभयोः प्रतिभूर् ग्राह्यः
समर्थः कार्यनिर्णये ॥ १।१५६ ॥
विश्वास-प्रस्तुतिः - १।१५७
ज्ञात्वाभियोगं ये ऽपि स्युर्
वने प्रव्रजितादयः।
तान् अप्य् आह्वापयेत् राजा
गुरुकार्येष्व् अकोपयन् ॥ १।१५७ ॥
मूलम् - १।१५७
ज्ञात्वाभियोगं ये ऽपि स्युर्
वने प्रव्रजितादयः।
तान् अप्य् आह्वापयेत् राजा
गुरुकार्येष्व् अकोपयन् ॥ १।१५७ ॥
विश्वास-प्रस्तुतिः - १।१५८
वक्तव्ये ऽर्थे न तिष्ठन्तम्
उत्क्रामन्तं च तद्वचः।
आसेधयेद् विवादार्थी
यावद् आह्वानदर्शनम् ॥ १।१५८ ॥
मूलम् - १।१५८
वक्तव्ये ऽर्थे न तिष्ठन्तम्
उत्क्रामन्तं च तद्वचः।
आसेधयेद् विवादार्थी
यावद् आह्वानदर्शनम् ॥ १।१५८ ॥
विश्वास-प्रस्तुतिः - १।१५९
स्थानासेधः काल्कृतः
प्रवासात् कर्मणस् तथा।
चतुर्विधः स्याद् आसेधः
आसिद्धस् तं न लङ्घयेत् ॥ १।१५९ ॥
मूलम् - १।१५९
स्थानासेधः काल्कृतः
प्रवासात् कर्मणस् तथा।
चतुर्विधः स्याद् आसेधः
आसिद्धस् तं न लङ्घयेत् ॥ १।१५९ ॥
विश्वास-प्रस्तुतिः - १।१६०
क्षेत्राराम-गृहादीनि
धन-धान्यादिकं तथा।
अन्यायवादिनां त्व् एतान्य्
आसेधव्यानि वादिनाम् ॥ १।१६० ॥
मूलम् - १।१६०
क्षेत्राराम-गृहादीनि
धन-धान्यादिकं तथा।
अन्यायवादिनां त्व् एतान्य्
आसेधव्यानि वादिनाम् ॥ १।१६० ॥
विश्वास-प्रस्तुतिः - १।१६१
आसेद्धा तु स्वम् आसेधं
स्वयम् एवोत्सृजेद् यदि।
न तस्यातिक्रमाद् दोषो
न च दण्डं प्रकल्पयेत् ॥ १।१६१ ॥
मूलम् - १।१६१
आसेद्धा तु स्वम् आसेधं
स्वयम् एवोत्सृजेद् यदि।
न तस्यातिक्रमाद् दोषो
न च दण्डं प्रकल्पयेत् ॥ १।१६१ ॥
विश्वास-प्रस्तुतिः - १।१६२
राज्ञे निवेदनाद् ऊर्ध्वं
आसेद्धा नोत्सृजेद् स्वयम्।
उत्सृजेच् चेद् दमो दाप्य
आसिद्धश् च न लङ्घयेत् ॥ १।१६२ ॥
मूलम् - १।१६२
राज्ञे निवेदनाद् ऊर्ध्वं
आसेद्धा नोत्सृजेद् स्वयम्।
उत्सृजेच् चेद् दमो दाप्य
आसिद्धश् च न लङ्घयेत् ॥ १।१६२ ॥
विश्वास-प्रस्तुतिः - १।१६३
नदीसन्तारकान्तार-
दुर्देशोपप्लवादिषु।
आसिद्धस् तु परासेधम्
उत्क्रामन् नापराध्नुयात् ॥ १।१६३ ॥
मूलम् - १।१६३
नदीसन्तारकान्तार-
दुर्देशोपप्लवादिषु।
आसिद्धस् तु परासेधम्
उत्क्रामन् नापराध्नुयात् ॥ १।१६३ ॥
विश्वास-प्रस्तुतिः - १।१६५
निवेष्टुकामो रोगार्तो
यियक्षुर् व्यसने स्थितः।
अभियुक्तस् तथान्येन
राजकार्योद्यतस् तथा ॥ १।१६४ब् ॥
गवाम् प्रचारे गोपालाः
सस्यारम्भे कृषीवलाः।
शिल्पिनश् चापि तत्काले
आयुधीयाश् च विग्रहे ॥ १।१६५ ॥
मूलम् - १।१६५
निवेष्टुकामो रोगार्तो
यियक्षुर् व्यसने स्थितः।
अभियुक्तस् तथान्येन
राजकार्योद्यतस् तथा ॥ १।१६४ब् ॥
गवाम् प्रचारे गोपालाः
सस्यारम्भे कृषीवलाः।
शिल्पिनश् चापि तत्काले
आयुधीयाश् च विग्रहे ॥ १।१६५ ॥
विश्वास-प्रस्तुतिः - १।१६६
वृक्षं पर्वतम् आरूढा
हस्त्य्-अश्व-रथ-नौ-स्थिताः।
विषमस्थाश् च ते सर्वे
नासेध्याः कार्य-साधकैः ॥ १।१६६ ॥
मूलम् - १।१६६
वृक्षं पर्वतम् आरूढा
हस्त्य्-अश्व-रथ-नौ-स्थिताः।
विषमस्थाश् च ते सर्वे
नासेध्याः कार्य-साधकैः ॥ १।१६६ ॥
विश्वास-प्रस्तुतिः - १।१६७
यस् त्व् इन्द्रियनिरोधेनाप्य्
आहारोच्छ्वसनादिभिः।
आसेधयेद् अनासेधैः
स दण्ड्यो न त्व् अतिक्रमी ॥ १।१६७ ॥
मूलम् - १।१६७
यस् त्व् इन्द्रियनिरोधेनाप्य्
आहारोच्छ्वसनादिभिः।
आसेधयेद् अनासेधैः
स दण्ड्यो न त्व् अतिक्रमी ॥ १।१६७ ॥
विश्वास-प्रस्तुतिः - १।१६८
आसेधयोग्य आसेधम्
उत्क्रामन् दण्डम् अर्हति।
आसेधयंस् तु नासेध्यं
राज्ञा शास्य इति स्थितिः ॥ १।१६८ ॥
मूलम् - १।१६८
आसेधयोग्य आसेधम्
उत्क्रामन् दण्डम् अर्हति।
आसेधयंस् तु नासेध्यं
राज्ञा शास्य इति स्थितिः ॥ १।१६८ ॥
विश्वास-प्रस्तुतिः - १।१६९
आगतानां विवदताम्
असकृद्वादिनां नृपः।
वादान् पश्येन् नात्मकृतान्
न चाध्यक्षनिवेदितान् ॥ १।१६९ ॥
मूलम् - १।१६९
आगतानां विवदताम्
असकृद्वादिनां नृपः।
वादान् पश्येन् नात्मकृतान्
न चाध्यक्षनिवेदितान् ॥ १।१६९ ॥
१।१३ वादि-प्रतिवादिनोर् उक्तिक्रमः][प्।२७
विश्वास-प्रस्तुतिः - १।१७०
पीडितः स्वयम् आयातः
शस्त्रेणार्थी यदा भवेत्।
प्राड्विवाकस् तु तं पृच्छेत्
पुरुषो वा शनैः शनैः ॥ १।१७० ॥
मूलम् - १।१७०
पीडितः स्वयम् आयातः
शस्त्रेणार्थी यदा भवेत्।
प्राड्विवाकस् तु तं पृच्छेत्
पुरुषो वा शनैः शनैः ॥ १।१७० ॥
विश्वास-प्रस्तुतिः - १।१७१
यो ऽदत्तव्यवहारत्वाद्
अनियुक्तः प्रवर्तते।
वचन्ं तस्य न ग्राह्यं
लिखित-प्रेषिताद् ऋते ॥ १।१७१ ॥
मूलम् - १।१७१
यो ऽदत्तव्यवहारत्वाद्
अनियुक्तः प्रवर्तते।
वचन्ं तस्य न ग्राह्यं
लिखित-प्रेषिताद् ऋते ॥ १।१७१ ॥
विश्वास-प्रस्तुतिः - १।१७२
अहं पूर्विकया याताव्
अर्थि-प्रत्यर्थिनौ यदा।
वादो वर्णानुपूर्व्येण
ग्राह्यः पीडाम् अवेक्ष्य वा ॥ १।१७२ ॥
मूलम् - १।१७२
अहं पूर्विकया याताव्
अर्थि-प्रत्यर्थिनौ यदा।
वादो वर्णानुपूर्व्येण
ग्राह्यः पीडाम् अवेक्ष्य वा ॥ १।१७२ ॥
विश्वास-प्रस्तुतिः - १।१७३
उन्मत्त-मत्तनिर्धूता
महापातकदूषिताः।
जडातिवृद्ध-बालश् च
विज्ञेयास् तु निरुत्तराः ॥ १।१७३ ॥
मूलम् - १।१७३
उन्मत्त-मत्तनिर्धूता
महापातकदूषिताः।
जडातिवृद्ध-बालश् च
विज्ञेयास् तु निरुत्तराः ॥ १।१७३ ॥
विश्वास-प्रस्तुतिः - १।१७४
पक्षः प्रोक्तस् त्व् अनादेयो
वादी चानुत्तरस् तथा।
यादृग्वादी यश् च पक्षो
ग्राह्यस् तत् कथयाम्य् अहम् ॥ १।१७४ ॥
मूलम् - १।१७४
पक्षः प्रोक्तस् त्व् अनादेयो
वादी चानुत्तरस् तथा।
यादृग्वादी यश् च पक्षो
ग्राह्यस् तत् कथयाम्य् अहम् ॥ १।१७४ ॥
विश्वास-प्रस्तुतिः - १।१७५
पीडातिशयम् आश्रित्य
यद् ब्रवीति विवक्षितम्।
स्वार्थसिद्धिपरो वादी
पूर्वपक्षः स उच्यते ॥ १।१७५ ॥
मूलम् - १।१७५
पीडातिशयम् आश्रित्य
यद् ब्रवीति विवक्षितम्।
स्वार्थसिद्धिपरो वादी
पूर्वपक्षः स उच्यते ॥ १।१७५ ॥