अथ अत्रिस्मृतिः
श्रीगणेशाय नमः
अज्ञानतिमिरान्धस्य वृतेनानेन केशव
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव १
हुताग्निहोत्रमासीनमत्रिं श्रुतवतां वरम्
उपगम्य च पृच्छन्ति ऋषयः शंसितव्रताः २
भगवन् केन दानेन जपेन नियमेन च
शुध्यन्ते पातकैर्युक्तास्तं ब्रवीषि महामुने ३
अपख्यापितदोषाणां पापानां महतां तथा
सर्वेषां चोपपातानां शुद्धिं वक्ष्यामि तत्वतः ४
प्राणायामैः पवित्रैश्च दानैर्होमैर्जपैस्तथा
शुद्धिकामाः प्रमुच्यन्ते पावकेभ्यो न संशयः
प्राणायामान् पवित्रांश्च व्याहृतीः प्रणवन्तथा
पवित्रपाणिरासीनोऽध्यभ्यस्यब्रह्म नैत्यिकम् ६
आवर्त्तयेत्सदायुक्तः प्राणायामान् पुनः पुनः
आकेशाग्रादानखान्तात्तपस्तप्यत जुत्तमम् ७
त्वक्चर्ममांसरुधिरमेदोमज्जास्थिभिः कृताः
तथेन्द्रियकृता दोषाः दह्यन्ते प्राणनिग्रहात्
निरोधाज्जायते वायुर्वायोरग्निर्हि जायते
तापेनापो हि जायन्ते ततोऽन्तः शुध्यते त्रिभिः ८
तथा चर्म तथानङ्गा दोषा अभ्यर्ति धर्मतः
तथेन्द्रियकृता दोषा दह्यन्ते प्राणनिग्रहात् ९
प्राणायामैर्दहेत् दोषाद्धारणाभिश्च किल्विषम्
प्रत्याहारेण विषयान्ध्यानेनानैश्वरान् गुणान् १०
न च तीव्रेण तपसा न स्वाध्यायैर्नचेज्यया
मतिंगन्तुं सुराः शक्ता योगात्संप्राप्नुवन्तियाम् ११
२२०
योगात्सम्प्राप्यते ज्ञानं योगाद्धर्मस्य लक्षणम्
योगः परं तपो नित्यं तस्माद्युक्तः सदा भवेत् १२
प्रणवाद्यास्तथा वेदाः प्रणवे पर्यवस्थिताः
वाङ्मयः प्रणवं सर्वं तस्मात्प्रणवमभ्यसेत् १३
प्रणवे विनियुक्तस्य व्याहृतीषु च सप्तसु
त्रिपदायां च गायत्र्यां न भयं विद्यते क्वचित् १४
एकाक्षरं परं ब्रह्म प्राणायामः परं तपः
ब्रह्माणी चैव गायत्री पावनं परमं स्मृतम् १५
समाहृतीकां सप्रणवां गायत्रीं शिरसा सह
त्रिः पठेदायतः प्राणः प्राणायामः स उच्यते १६
इत्यात्रेयस्मृत्यां प्रथमोऽध्यायः
अथ द्वितीयोऽध्यायः
प्राणायामांस्तथा कुर्याद्यथाविधिरतन्द्रितः
अहोरात्रिकृतात्पापात्तत्क्षणादेव शुध्यति १
कर्म्मणा मनसा वाचा यदेनः कुरुते निशि
अतिष्ठत्पूर्वसन्ध्यायां प्राणायामैस्तु शुध्यति २
प्राणायामैर्य आत्मानं संयम्यास्ते पुनः पुनः
दशद्वादशभिर्वापि चतुर्विंशात्परं तपः ३
कौत्सं जप्त्वाप इत्येतद्वासिष्ठं च तृचं प्रति
कुष्माण्डं पावमानं च सुरापोऽपि विशुद्धति ४
सकृज्जप्त्वास्य पानीयं शिवसङ्कल्पमेव च
सुवर्णमपहृत्यापि क्षणाद्भवति निर्मलः ५
हविष्मांस्तु यमभ्यस्य न तमंह इतीव च
सूक्तं तु पौरुषं जप्त्वा मुच्यते गुरुतल्पगः ६
सव्याहृतीकाः सप्रणवाः प्राणायामास्तु षोडश
र्
्रंऋतरस्मि उतित्रि अत्रिस्मृतिः
२२१
अपि भ्रूणहनं मासात्पुनन्त्यहरहः कृताः ७
अपि वाप्सु निमज्जन्वा त्रिः पठेदघमर्षणम्
यथाश्वमेधः क्रतुराट् तादृशं मनुरब्रवीत् ८
आरम्भयज्ञः क्षत्रस्य हविर्यज्ञो विशामपि
परिचर्ययज्ञः शूद्रस्तु जपयज्ञो द्विजोत्तमः ९
आरम्भयज्ञाज्जपयज्ञो विशिष्टो दशभिर्गुणैः
उपांशु स्याच्छतगुणः सहस्रो मानसः स्मृतः १०
उपांशुस्तुचलज्जिह्वाद्धददशनच्छद ईरितः
अधरोष्ठविभागो वा विश्वासोपांशुलक्षणः
निर्विकारेण वक्रेण मनसा मानसः स्मृतः ११
सहस्रपरमां देवीं शतमध्यां दशावराम्
गायत्रीं यः पठेद्विप्रो न स पापेन लिप्यते १२
क्षत्रियो बाहुवीर्येण तरेदापदमात्मनः
वित्तेन वैश्यशूद्रौ तो जपहोमैर्द्विजोत्तमः १३
यथाश्वा रथहीनास्तु रथो वाश्वैर्यथा विना
एवं तपोऽप्यविद्यस्य विद्या वाप्यतपस्विनः १४
यथान्नं मधुसंयुक्तं मधु वान्येन संयुतम्
एवं तपश्च विद्या च संयुक्तं भेषजं महत् १५
विद्यातपोभ्यां संयुक्तं ब्राह्मणं जपतत्परम्
कुत्सितैरपि वर्त्तन्तमेनो न प्रतिपद्यते १६
इति आत्रेयस्मृतौ द्वितीयोऽध्यायः
यस्य कार्यशतं साग्रं कृतं वेदश्च साध्यते
सर्वं तत्तस्य वेदाग्निर्दहत्यग्निरिवेन्धनम् १
यथा जातबलो वाग्निर्दहत्यार्द्रानपि द्रुमान्
तथा दहन्ति वेदज्ञाः कर्मजन्दोषमात्मनः २
र्
्रंऋतरस्मि उतित्रि स्मृति
२२२
यथा महाह्रदे लोष्टं क्षिप्तं सर्वं विनश्यति
एवमात्मकृतं पापं त्रयी दहति देहिनः ३
न वेदबलमाश्रित्य पापकर्मरतिर्भवेत्
अज्ञानाच्च प्रमादाच्च दह्यते कर्म नेतरत् ४
तपस्तपति योऽरण्ये मुनिर्मूलफलाशनः
ऋचमेकाञ्च योऽधीते तच्च तानि च तत्फलम् ५
वेदाभ्यासो यथाशक्त्या महायज्ञक्रियाक्षमाः
नाशयन्त्याशु पापानि महापातकजान्यपि ६
इतिहासपुराणाभ्यां वेदं समुपवृंहयेत्
विभेत्यल्पश्रुताद्वेदान्मामयं प्रतरिष्यति ७
याजनाध्यापनाद्दानात्तथैवाहुः प्रतिग्रहात्
विप्रेषु न भवेद्दोषो ज्वलनार्कसमा हिते ८
शङ्कास्थाने समुत्पन्ने भक्ष्यभोज्यप्रतिग्रहे
आहारशुद्धिं वक्ष्यामि तन्मे निगदतः शृणु ९
सर्ववेदपवित्राणि वक्ष्याम्यह मतः परम्
येषांजपैश्च होमैश्च तिलकल्पश्च संव्रता १०
अघमर्षणं वेदवतं शुद्धवत्यः शरत्समाः
कुष्माण्डः पावमानश्च दुर्गा सावित्रिरेव च ११
शतरुद्रं धर्मशिरं त्रिसुपर्णं महाव्रतम्
अनिषङ्गादयस्तोभासामानि व्याहृतिस्तथा १२
गारुडानि च सामानि गायत्रीं रैवतं तथा
पुरुषव्रतञ्च भावञ्च तथा वेदकृतानि च १३
अव्लिङ्गा बार्हस्पत्यं च वाक्सूक्तञ्चामृतं तथा
गोसूक्तञ्चाश्वसूक्तञ्च इन्द्रशुद्धेश्च सामनि १४
त्रीण्याज्यदोहानि रथन्तरञ्च अग्नेर्व्रतं वामदेव्यं बृहच्च
एतानिजप्यानिपुनातिपापाज्जातिस्मरत्वंलभते यदिच्छेत् १५
र्
्रंऋतरस्मि उतित्रि अत्रिस्मृतिः
२२३
अग्नेरपत्यं प्रथमं हिरण्यं भूर्वैष्णवी सूर्यसुताश्च गावः
लोकास्रयस्ते न भवन्ति दत्ताः यः काञ्चनङ्गाञ्च महीञ्च दद्यात् १६
सर्वेषामेव दानानामेकजन्मानुगं फलम्
हाटकक्षितिधेनूनां सप्तजन्मानुगं फलम् १७
सर्वकामफला वृक्षा नद्यः पायसकर्दमाः
काञ्चना यत्र प्रासादास्तत्र गच्छन्ति गोप्रदाः १८
वैशाख्यां पौर्णमास्यान्तु ब्राह्मणान् सप्त पञ्च वा
तिलक्षौद्रेण संयुक्तांस्तर्पयित्वा यथाविधि १९
प्रीयतां धर्मराजेति यद्वा मनसि वर्त्तते
यावज्जीवकृतं पापं तत्क्षणादेव नश्यति २०
सुवर्णनाभं यो दद्यात्सुमुखं कृतमार्गकम्
तिलैर्दद्यात्तस्य पुष्पफलं पुण्यं च यत् शृणु २१
सा सुवर्णधरा धेनुः सशैलवनकानना
या तु सागरपर्यन्ता भवेद्दता न संशयः २२
तिलान् कृष्णाजिने कृत्वा सुवर्णमधुसर्पिषा
ददाति यस्तु विप्राय सर्वं तरति दुष्कृतम् २३
इति आत्रेयस्मृतौ तृतीयोऽध्यायः
अथ रहस्य प्रायश्चित्तानि व्याख्यास्यामः
सामान्यस्त्रीगमनरहस्ये रहस्य प्रक्राशे प्रकाशं पावनं अनुतिष्ठेत् ।
वा–समान्यमगम्यागमनन्दुरन्नभोजनान्तौ रहस्यौ रहस्यं प्रकाशं
वावनमनुतिष्ठेत् । अथवाप्सुनिमज्यन् समन्दोऽयं त्रिरावृत्य शुद्धेत्
। गोवन्यवधे कन्यादषणे इन्द्रशुद्ध्या इत्यापः पीत्वा मुच्यते ।
वेदस्यैवगुणं वापि सद्यः शोधनमुच्यते
एकादशगुणान्वापि रुद्रानावर्त्य शुध्यति १
महापातकोपपातकेभ्यो मलिनीकरणेभ्यो मुच्यते
र्
्रंऋतरस्मि उतित्रि स्मृति
२२४
त्रिपदा नाम गायत्री वेदे वाजसनेयके
त्रिः कृत्वोऽन्तर्जले प्रोक्ता सर्वपापं व्यपोहति २
ब्राह्मणी गमने स्नात्वोदकुम्भान् ब्राह्मणाय दद्यात्
क्षत्रियावैश्यागमने तापसां त्रिरावृत्य शुद्ध्यति
शूद्रागमने अघमर्षणं त्रिरावृत्य शुद्ध्यति
गुरुदान् गत्वा वृषभ द्वादशावृत्या शुद्ध्यति
अपेयं पीत्वा अघमर्षणेनापः पीत्वा विशुद्ध्यति
अशक्तः प्रायश्चित्ते सर्वरात्रमनुशोच्य शुद्ध्येत
अग्निसोम इन्द्रसोम इति जपित्वा कन्यादूषी विमुच्यते
सोमं राजानमिति जपित्वा विषदा अग्निदाश्च विमुच्यन्ते
सर्वेषामेव पापानां सङ्करे समुपस्थिते ३
दशसाहस्रमभ्यस्ता गायत्री शोधनी परा
ब्रह्महा गुरुतल्पी वाऽगम्या गामी तथैव च ४
स्वर्णन्तेयी च गोघ्नी च तथा विस्स्रम्भघातकः
शरणागतघाती च कूटसाक्षी त्वकार्य्यकृत् ५
एवमाद्येषु चान्येषु पापेष्वभिरतश्चिरम्
प्राणायामांस्तु यः कुर्यात्सूर्यस्योदयनं प्रति ६
सूर्यस्योदयनं प्राप्य निर्म्मला धौतकल्मषाः
भवन्ति भास्कराकारा विधूमा इव पावकाः ७
न हि ध्यानेन सदृशं पवित्रमिह विद्यते
श्वपाकेष्वपि भुञ्जानो ध्यानेनैवात्र लिप्यते ८
ध्यानमेव वरो धर्मो ध्यानमेव परं तपः
ध्यानमेव परं शौचं तस्माद्ध्यानपरो भवेत् ९
सर्वपापप्रसक्तोऽपि ध्यानं नियतमभ्यसेत्
सर्वदा ध्यानयुक्तश्च तपस्वी पंक्तिपावनः १०
पुनस्तपस्वी भवति पंक्तिपावनपावनः
र्
्रंऋतरस्मि उतित्रि अत्रिस्मृतिः
२२५
इति आत्रेयस्मृतौ चतुर्थोऽध्यायः
चतुरस्रं ब्राह्मणस्य तिर्कोणं क्षत्रियस्य तु
वर्त्तुलञ्चैव वैश्यस्य शूद्रस्याभ्युक्षणं स्मृतम्
ब्रह्मा विष्णुश्च रुद्रश्च श्रीर्हुताशन एव च १
मण्डलान्युपजीवन्ति तस्मात्कुर्वन्ति मण्डलम्
यातुधानाः पिशाचाश्च क्रूराश्चैव तु राक्षसाः २
हरन्ति रसमन्नस्य मण्डलेन विवर्जितम्
गोमयैर्मण्डलं कृत्वा भोक्तव्यमिति निश्चितम् ३
यत्र क्वपतितस्यान्नं भुक्त्वा चान्द्रायणं चरेत्
यतिश्च ब्रह्मचारी च पक्वान्नस्वामिनावुभौ ४
तयोरन्नमदत्त्वा च भुक्त्वा चान्द्रायणं चरेत्
यतिहस्ते जलं दद्याद्भैक्षं दद्यात्पुनर्जलम् ५
तद्भैक्षं मेरुणा तुल्यं तज्जलं सागरोपमम्
वामहस्तेन यो भुङ्क्ते पयः पिवति वा द्विजः ६
सुरापानेन तत्तुल्यं मनुः स्वायम्भुवोऽब्रवीत्
हस्तदत्तास्तु ये स्नेहाल्लवणव्यञ्जनादि च ७
दातारं नोपतिष्ठन्ति भोक्ता भुञ्जीत किल्विषम्
अभोज्यं ब्राह्मणस्यान्नं वृषलेन निमन्त्रितम् ८
तथैव वृषलस्यान्नं ब्राह्मणेन निमन्त्रितम्
ब्राह्मणान्नं ददच्छूद्रः शूद्रान्नं ब्राह्मणो ददत् ९
उभावेतावभोज्यान्नौ भुक्त्वा चान्द्रायणं चरेत्
अमृतं ब्राह्मणस्यान्नं क्षत्रियान्नं पयः स्मृतम् १०
वैश्यस्य चान्नमेवान्नं शूद्रान्नं रुधिरं स्मृतम्
शूद्रान्नेनोदरस्थेन योऽधिगच्छति मैथुनम् ११
यस्यान्नं तस्यते पुत्रा अन्नाच्छुक्रं प्रवर्त्तते
र्
्रंऋतरस्मि उतित्रि स्मृति
२२६
शूद्रान्नरसपुष्टाङ्गोऽधीयानोऽपि च नित्यशः १२
जुह्वत् चापि जपन्वापि गतिमूर्द्धान्न विन्दति
यस्तु वेदमधीयानः शूद्रान्नमुपभुञ्जते १३
शूद्रो वेदफलं याति शूद्रत्वं चाधिगच्छति
मृतसूतकपुष्टाङ्गो द्विजः शूद्रान्नभोजनम् १४
अहमेवं न जानामि काङ्कां योनिङ्गमिष्यति
श्वानस्तु सप्तजन्मानि नवजन्मानि शूकरः १५
गृध्रो द्वादशजन्मानि इत्येवं मनुरब्रवीत्
परपाकमुपासन्ते ये द्विजा गृहमेधिनः १६
ते वै खरत्वमुष्ट्रत्वं श्वत्वञ्चैवाऽधिगच्छति
श्राद्धं दत्वा च भुक्त्वा च मैथुनं योऽधिगच्छति १७
भवन्ति पितरस्तस्य तन्मासे रेतसो भुजः
उच्छिष्टे न तु संस्पृष्टो द्रव्यहस्तः कथञ्चन १८
भूमौ निधाय तद्दव्यमाचान्तः शुचितामियात्
स्पृशन्ति विन्दवः पादौ य आचामयतः परान् १९
भूमिगैस्ते समाज्ञेया न तैरप्रयतो भवेत्
आचान्तोऽप्यशुचिस्तावद्यावत्पात्रमनुद्धृतम् २०
उद्धृतेप्यशुचिस्तावद्यावन्मण्डलशोधनम्
आसने पादमारोप्य ब्राह्मणो यस्तु भुञ्जते २१
मुखेन वमितं चान्नं तुल्यं गोमांसभक्षणम्
उपदंशान्नशेषं वा भोजने मुखनिःसृतम् २२
द्विजातीनामभोज्यान्नं भुक्त्वा चान्द्रायणं चरेत्
पीतशेषन्तु यत्तोयं ब्राह्मणः पिवते पुनः २३
अपेयं तद्भवेदापः पीत्वा चान्द्रायणं चरेत्
अनुवंशन्तु भुञ्जीत नानुवंशन्तु संविशेत् २४
अनुवंशन्तु भुञ्जानो दीर्घमायुरवाप्नुयात्
र्
्रंऋतरस्मि उतित्रि अत्रिस्मृतिः
२२७
आर्द्रपादस्तु भुञ्जीत नार्द्रपादस्तु संविशेत् २५
आर्द्रपादस्तु भुञ्जानो दीर्घमायुरवाप्नुयात्
अनार्द्रपादः शयने दीर्घां श्रियमवाप्नुयात् २६
आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः
श्रियं प्रत्यङ्मुखे भुङ्क्ते ऋतं भुङ्क्त उदङ्मुखः २७
शावे शवगृहं गत्वा श्मशाने वान्तरेऽपि वा
आतुरं व्यञ्जनं कृत्वा दूरस्थोऽप्यशुचिर्भवेत् २८
अतिक्रान्ते दशाहे तु त्रिरात्रमशुचिर्भवेत्
सम्वत्सरे व्यतीते तु स्पृष्ट्वैवापो विशुध्यति २९
निर्देशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च
सवासा जलमाप्लुत्य शुद्धो भवति मानवः ३०
अशुद्धं स्वयमप्यन्नं न शुद्धस्तु यदि स्पृशेत्
विशुध्यत्युपवासेन भुङ्क्ते कृच्छ्रेण स द्विजः ३१
सूतके सूतकं स्पृष्ट्वा स्नानं शावे च सूतके
सूतकेनैव शुद्धिः स्यान्मृतस्यान्निर्दशे शुचिः ३२
सूतके सूतकं स्पृष्ट्वा स्नानं शावे च सूतके
भुक्त्वा पीत्वा तदज्ञानादुपवासस्त्र्यहं भवेत् ३३
मृण्मयानाञ्च पात्राणां दशाहे शुचिरिष्यते
स्नानादिषु प्रयुक्तानां त्याग एव विधीयते ३४
सूतके मृतके चैव मृतान्ते च प्रसूतके
तस्मात्तु शङ्गताशौचे मृताशौचे न शुध्यति ३५
सूतकाद्द्विगुणं शावं शावाद्द्विगुणमार्त्तवम्
आर्त्तवाद् द्विगुणा सूतिस्ततोऽधिशवदाहकः ३६
अनुगच्छेद्यथा प्रेतं ज्ञातिमज्ञातिमेव वा
स्नात्वा सचैलं स्पृष्ट्वाग्निं घृतं प्राश्य विशुध्यति ३७
रजता शुध्यते नारी नदी वेगेन शुध्यति
र्
्रंऋतरस्मि उतित्रि स्मृति
२२८
भस्मना शुध्यते कांस्यं पुनः पाकेन मृण्मयम् ३८
नोदन्वतोऽम्भसि स्नानं क्षुरकर्म तथैव च
अन्तर्वत्न्या पतिः कुर्वन्न प्रजा भवति ध्रुवम् ३९
दम्पती शुशुना सार्द्धं सूतके दशमेऽहनि
क्षौरं कुर्यात्ततः पूतादानभोजनयोग्यता ४०
केशादि दूषिते तीरे न कुर्यात्तिलतर्पणम्
जलमध्ये जलं देयं पितॄणां जलमिच्छताम्
घनस्थाने न दातव्यं पितॄणां नोपगच्छति ४१
रात्रिं कुर्यात् त्रिभागन्तु द्वौ भागौ पूर्व एव च
उत्तरांशः प्रभातेन युज्यते मृतसूतके ४२
यदि पश्येदृतुंपूर्वं क्रूरवारे मृतिः स्मृता
इति पश्येत्तु भुक्त्वा तु पादुकारोहणं स्मृतम्
स्नात्वैन्द्रव्रतमादाय देवताभ्यो निवेदयेत् ४३
अपूपं लवणं मुद्गं गुडमिश्रं तथा हविः
दक्त्वा ब्राह्मणपत्नीभ्यो निशि भोजनमेव च ४४
चतुर्थेऽहनि कर्त्तव्यं क्षुरकर्मातियत्नतः
पुण्याहं वाचयित्वान्ते भोक्तव्यं शुद्धिमिच्छता ४५
अपुण्याहे तु भुञ्जीत विप्रो धर्ममजानतः
तस्य जातिमयं भुङ्क्ते प्रायश्चित्तं ध्रुवं भवेत् ४६
विवाहे वितते तन्त्रे होमकाल उपस्थिते
कन्यामृतुमतीं दृष्ट्वा कथं कुर्वन्ति याज्ञिकाः ४७
हविस्मत्या स्नापयित्वा त्वन्यवस्त्रमलङ्कृताम्
युञ्जानामाहुतिं कृत्वा ततः कर्म प्रवर्त्तते ४८
प्रथमेऽहनि चाण्डाली द्वितीये ब्रह्मघातकी
तृतीये रजकी प्रोक्ता चतुर्थेऽहनि शुध्यति ४९
आर्त्तवाभिप्लुतां नारीं चण्डालं पतितं शुनम्
र्
्रंऋतरस्मि उतित्रि अत्रिस्मृतिः
२२९
भोज्यान्तरे प्रयुज्यन्ते स्नात्वा मानस्तृचं जपेत् ५०
आर्त्तवाभिप्लुतां नारीं दृष्ट्वा भुङ्क्तेऽन्धकातराः
तदन्नं छर्दयित्वा तु कुशवारि पिवेदपः ५१
ये तां दत्वा तु यो भुङ्क्ते प्राजापत्यं विशोधनम्
आर्त्तवाभिप्लुतां नारीं आर्त्तवाभिप्लुताभिधः ५२
भाषयित्वा तु संमोहादुपवासस्तयोर्भवेत्
उदक्यायाः करेणाथ भुक्त्वा चान्द्रायणं चरेत् ५३
प्राजापत्यमसत्याच्चेत्त्रिरात्रं स्पृष्टभोजने
तद्धस्तभोजनञ्चैव त्रिगुणं सह भोजने ५४
चतुर्गुणं तदुच्छिष्टे पानीये त्वर्द्धमेव च
उदक्यायाः समीपस्थ मन्नं भुक्त्वात्वकामतः ५५
उपवासेन शुद्धिः स्यात्पिवेद् ब्रह्म सुवर्च्चलम्
आर्त्तवा यदि चाण्डालमुच्छिष्टेन तु पश्यति ५६
आस्नानकालं नाश्रीयादासीना वाग्यता बहिः
पादकृच्छ्रन्तु यः कुर्याद्ब्रह्मकृच्छ्रं पिवेत् पुनः ५७
ब्राह्मणान् भोजयेत्पश्चाद्विप्राणामनुशासनात्
मृतसूतकसम्पर्के ऋतुं दृष्ट्वा कथं भवेत् ५८
आस्नानकालं नाश्नीयाद्भुक्त्वा चान्द्रायणं चरेत्
आर्त्तवाभिप्लुता नारी चण्डालं स्पृशते यदि ५९
आर्त्तवाभिप्लुता नारीं आर्त्तवाभिप्लुता स्पृशेत्
स्नात्वोपवासं कुर्याच्च पञ्चगव्येन शुध्यति ६०
कृच्छ्रमेकञ्चरेत्सा तु तदर्थं चान्तरीकृते
आतुरा या ऋतुस्नाता स्नानकर्म कथं भवेत् ६१
स्नात्वा स्नात्वा पुनःस्पृश्य दशकृत्वस्त्वनातुराः
वस्त्रापनयनं कृत्वा भस्मना परिमार्जयेत् ६२
दत्त्वा तु शक्तितो दानं पुण्याहेन विशुध्यति
र्
्रंऋतरस्मि उतित्रि स्मृति
२३०
ब्रह्मणानां करैर्मुक्तं तोयं शिरसि धारयेत् ६३
सर्वतीर्थतटात्पुण्याद्विशिष्टतरमुच्यते
रजस्वलायाः प्रेतायाः संस्कारं नाचरेद्द्विजः ६४
ऊर्ध्वं त्रिरात्रात्स्नातायाः शावधर्मेण दाहयेत्
रजस्वले च द्वे स्पृष्टे चातुर्वर्णस्य याः स्त्रियः ६५
अतिकृच्छ्रं चरेत्पूर्वं कृच्छ्रमेकं क्रमेण तु
रजस्वलायाः स्नातायाः पुनरेव रजस्वला ६६
विंशतेर्दिवसादूर्ध्वं त्रिरात्रमशुचिर्भवेत्
प्रसूतिका तु या नारी स्नानतो विंशतेः परम् ६७
रजस्वला तु सा प्रोक्ता प्राक्तु नैमित्तिकं रजः
शुद्धा नारी शुद्धवासाः पुनरार्तवदर्शने ६८
वस्त्रं तु मलिनं त्यक्त्वा तिलमाप्लुत्य शुध्यति
आतुर स्नानसंप्राप्तौ दशकृत्वस्त्वनातुरः ६९
स्नात्वा स्नात्वा स्पृशेदेनं ततः शुद्धो भविष्यति
चन्द्रसूर्यग्रहे नाद्यात्स्नात्वा मुक्ते तु भुञ्जते ७०
अमुक्तयो रस्तगयो रद्याद्दृष्ट्वा परेऽहनि
यस्य स्वजन्मनक्षत्रे गृह्येते शशिभास्करौ ७१
व्याधिः प्रवाहे मृत्युश्च दारिद्युञ्च महद्भयम्
तस्माद्दानं च होमञ्च देवताभ्यर्चनं जपम् ७२
कुर्यात्तस्मिन् दिने युक्ते तस्य शान्तिर्भविष्यति
सर्वं गङ्गासमं तोयं राहुग्रस्ते दिवाकरे ७३
यो नरः स्नाति तत्तीर्थे समुद्रे सेतुबन्धने
उपोष्य रजनीमेकां राहुग्रस्ते दिवाकरे ७४
सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति
सोमेऽप्येवं सूर्यतुल्यं तस्मात्सर्वं समाचरेत् ७५
इति आत्रेयस्मृतौ पञ्चमोऽध्यायः
र्
्रंऋतरस्मि उतित्रि अत्रिस्मृतिः
२३१
इष्ट्वा क्रतुशतैरेवं देवराजो महाद्युतिः
स्वगुरुं वाग्मिनां श्रेष्ठं पर्यपृच्छद्बृहस्पतिम् १
भगवन् केन दानेन स्वर्गतः सुखमेधते
यदक्षयं महाभाग त्वं ब्रूहि वदताम्बर २
एवं पृष्टः स इन्द्रेण देवदेवपुरोहितः
वाचस्पतिर्महातेजो बृहस्पतिरुवाच ह ३
हिरण्यदानं गोदानं भूमिदानञ्च वासवः
एतत्प्रयच्छमानोऽपि स्वर्गतःसुखमेधते ४
सुवर्णं रजतं वस्त्रं मणिरत्नं वसूनि च
सर्वमेव भवेद्दत्तं वसुधां यः प्रयच्छति ५
फलाकृष्टां महीं दद्यात्सबीजां सस्यमालिनीम्
यावत्सूर्यकरा लोके तावत्सर्गे महीयते ५
इति आत्रेयस्मृतौ धर्मशास्त्रं सम्पूर्णम्
᐀ेफेरेनचेख्
स्मउतस्ि अनदअरबहअ
ण वेलभ ीण्ज्ञेलहख्ि न्अगण १९८१।ण पपभ ३३६फफभ
र्
्रंऋतरस्मि उतित्रि स्मृति
२३२