<MISSING_FIG href="../books_images/1681129690.jpg"/>
श्रुतिस्मृत्युदितं धर्मं वर्णानामनुपूर्वशः ।
प्राब्रवीदृषिभिः पृष्टो मुनीनामग्रणीर्यमः ॥ १ ॥
यो भुञ्जानोऽशुचिर्वापि चण्डालं पतितं स्पृशेत् ।
क्रोधादज्ञानतो वापि तस्य वक्ष्यामि निष्कृतिम् ॥ २ ॥
षड्रात्रं वा त्रिरात्रं वा यथासङ्ख्यं समाचरेत् ।
स्नात्वा त्रिषवणं विप्रः पञ्चगव्येन शुद्ध्यति ॥ ३ ॥
भुञ्जानस्य तु विप्रस्य कदाचित्स्रवते गुदम्।
उच्छिष्टत्वे शुचित्वे च तस्यशौचं विनिर्दिशेत् ॥ ४ ॥
पूर्वं कृत्वा द्विजः शौचं पश्चादप उपस्पृशेत् ।
अहोरात्रोषितो भूत्वा जुहुयात्सर्पिषाहुतिम् ॥ ५ ॥
निगिरन्यदि मेहेत भुक्त्वावा मेहने कृते ।
अहोरात्रोषितो भूत्वा जुहुयात्सर्पिषाहुतिम् ॥ ६ ॥
यदा भोजनकाले स्यादशुचिर्ब्राह्मणः क्वचित् ।
भूमौ निधाय तद्भासं स्नात्वाशुद्विमवाप्नुयात् ॥ ७ ॥
भक्षयित्वा तु तद्ग्रासमुपवासेन शुद्ध्यति ।
अशित्वा चैव तत्सर्वं त्रिरात्रमशुचिर्भवेत् ॥ ८ ॥
अश्नतश्चेद्विरेकः स्यादस्वस्थस्त्रिशतं जपेत् ।
स्वस्यस्त्रीणि सहस्राणि गायत्र्याः शोधनं परम् ॥ ९ ॥
चण्डालैःश्वपचैः स्पृष्टो विण्मूत्रे च कृते द्विजः ।
त्रिरात्रं तु प्रकुर्वीत भुक्तोच्छिष्टः षडाचरेत् ॥ १० ॥
उदक्यां सूतिकां वापि संस्पृशेदन्त्यजो यदि ।
त्रिरात्रेण विशुद्धिः स्यादिति शातातपोऽब्रवीत् ॥ ११ ॥
रजस्वला तु संस्पृष्टा श्वमातङ्गादिवायसैः॥
निराहाराशुचिस्तिष्ठेत्कालस्नानेन शुद्ध्यति ॥ १२ ॥
रजस्वले यदा नार्यावन्योन्यं स्पृशतः क्वचित् ।
शुद्ध्यतः पञ्चगव्येन ब्रह्मकूर्चेन चोपरि ॥ १३ ॥
उच्छिष्टेन च संस्पृष्टा कदाचित्स्त्री रजस्वला ।
कृच्छ्रेण शुद्धिमाप्नोति शूद्रीदानोपवासतः ॥१४॥
अनुच्छिष्टेन संस्पृष्टे स्नानं येन विधीयते ।
तेनैवोच्छिष्टसंस्पृष्टः प्राजापत्यं समाचरेत् ॥ १५ ॥
ऋतौ तु गर्भं शङ्कित्वा स्नानं मैथुनिनः स्मृतम् ।
अनृतौ तु स्त्रियं गत्वा शौचं मूत्रपुरीषवत् ॥ १६ ॥
उभावप्यशुची स्यातां दम्पती शयने गतौ ।
शयनादुत्थिता नारी शुचिः स्यादशुचिः पुमान् ॥ १७॥
भर्तुः शरीरशुश्रूषां दौरात्म्यादप्रकुर्वती ।
दण्ड्या द्वादशकं नारी वर्षन्त्याज्या धनं विना ॥ १८ ॥
त्यजन्तोऽपतितान्बन्धून्दण्ड्या उत्तमसाहसम् ।
पिता हि पतितः कामं न तु माता कदाचन ॥ १९ ॥
आत्मानं घातयेद्यस्तु रज्ज्वाऽऽदिभिरुपक्रमैः ।
मृतोऽमेध्येन लेप्तव्यो जीवतो द्विशतं दमः ॥ २० ॥
दण्ड्यास्तत्पुत्रमित्राणि प्रत्येकं पणिकं दमम् ।
प्रायश्चित्तं ततः कुर्यूर्यथाशास्त्रप्रचोदितम् ॥ २१ ॥
जलाद्युद्बन्धनभ्रष्टाः प्रव्रज्यानाशकच्युताः ।
विषप्रपतनं प्रायः शस्त्रघातहताश्च ये ॥ २२ ॥
न चैते प्रत्यवसिताः सर्वलोकबहिष्कृताः ।
चान्द्रायणेन शुद्ध्यति तप्तकृच्छ्रद्वयेन वा ॥ २३ ॥
उभयावसितः पापः श्यामाच्छबलकाच्च्युतः ।
चान्द्रायणाभ्यां शुद्ध्येत दत्वा धेनुं तथा वृषम् ॥ २४ ॥
श्वशृगालप्लवङ्गाद्यैर्मानुषैश्च रतिं विना ।
दष्टः स्नात्वा शुचिः सद्यो दिवा सन्ध्यासु रात्रिषु ॥ २५॥
अज्ञानाद्ब्राह्मणो भुक्त्वा चण्डालान्नं कदाचन ।
गोमूत्रयावकाहारोमासार्द्धेन विशुद्ध्यति ॥ २६ ॥
गोब्राह्मणहनं दग्ध्वा मृतं चोद्बन्धनादिना ।
पाशं छित्त्वा तथा तस्यकृच्छ्रमेकं चरेद्द्विजः ॥ २७ ॥
चण्डालपुल्कसानां च भुक्त्वा गत्वा च योषितम् ।
कृच्छ्राब्दमाचरेज्ज्ञानादज्ञानादैन्दवद्वयम् ॥ २८॥
कापालिकान्नभोक्तॄणां तन्नारीगामिनां तथा ।
कृच्छ्राब्दमाचरेज्ज्ञानादज्ञानादैन्दवद्वयम्॥२९॥
अगम्यागमने विप्रो मद्यगोमांसभक्षणे ।
तप्तकृच्छ्रपरिक्षिप्तो मौर्वीहोमेन शुद्ध्यति ॥ ३० ॥
महापातककर्तारश्चत्वारोऽथ विशेषतः ।
अग्निम्प्रविश्य शुद्ध्यन्ति स्थित्वा वा महति क्रतौ ॥ ३१॥
रहस्यकरणेऽप्येव मासमभ्यस्य पूरुषः ।
अघमर्षणसूक्तं वाशुद्ध्येदन्तर्जले स्थितः ॥ ३२ ॥
रजकश्चर्मकश्चैव नटो बुरुड एव च ।
कैवर्त्तदभिल्लाश्च सप्तैते अन्त्यजाः स्मृताः ॥ ३३ ॥
भुक्त्वा चैषां स्त्रियो गत्वा पीत्वाऽपः प्रतिगृह्य च ।
कृच्छ्राब्दमाचरेज्ज्ञानादज्ञानाददैंवद्वयम् ॥ ३४ ॥
मातरं गुरुपत्नीं च स्वसृृर्दुहितरं स्नुषाम् ।
गत्वैताः प्रविशेदग्निन्नान्या शुद्धिर्विधीयते ॥ ३५ ॥
राज्ञीं प्रव्रजितां धात्रीं तथा वर्णोत्तमामपि ।
कृच्छ्रद्वयं प्रकुर्वीत सगोत्रामभिगम्य च ॥ ३६ ॥
अन्यासु पितृगोत्रासु मातृगोत्रगतास्वपि ।
परदारेषु सर्वेषु कृच्छ्रं सान्तपनं चरेत् ॥ ३७ ॥
वेश्याभिगमने पापं व्यपोहन्ति द्विजातयः ।
पीत्वा सकृत्सुतप्तं च पञ्चरात्रं कुशोदकम् ॥ ३८ ॥
गुरुतल्पव्रतङ्केचित्केचिद्ब्रह्महणोव्रतम् ।
गोघ्नस्य केचिदिच्छन्ति केचिच्चैवावकीर्णिनः ॥ ३९ ॥
दण्डादूर्ध्वप्रहारेण यस्तु गां विनिपातयेत् ।
द्विगुणं गोव्रतन्तस्य प्रायश्चित्तं विनिर्दिशेत् ॥ ४० ॥
अङ्गुष्ठमात्रस्थूलस्तु बाहुपात्रप्रमाणकः ।
सार्द्रश्चसपलाशश्चगोदण्डः परिकीर्तितः ॥ ४१ ॥
गवां निपातने चैव गर्भोऽपि सम्पतेद्यदि ।
एकैकशश्चरेत्कृच्छ्रं यथापूर्वं तथा पुनः ॥ ४२॥
पादमुत्पन्नमात्रे तु द्वौ पादौ गात्रसम्भवे ।
पादोनं कृच्छ्रमाचष्टे हत्वा गर्भमचेतनम् ॥ ४३ ॥
अङ्गप्रत्यङ्गसम्पूर्णे गर्भेरेतःसमन्विते ।
एकैकशश्चरेत्कृच्छ्रमेषा गोघ्नस्य निष्कृतिः ॥ ४४ ॥
बन्धने रोधने चैव पोषणे वा गवां रुजा ।
सम्पद्यते चेन्मरणं निमित्ती नैव लिप्यते ॥ ४५ ॥
मूर्च्छितः पतितो वापि दण्डेनाभिहतस्तथा ।
उत्थाय षट्पदं गच्छेत्सप्त पञ्च दशापि वा ॥ ४६ ॥
ग्रासं वा यदि गृह्णीयात्तोयं वापि पिबेद्यदि ।
पूर्वव्याधिप्रनष्टानां प्रायश्चित्तं न विद्यते ॥ ४७ ॥
काष्ठलोष्टाश्मभिर्गावः शस्त्रैर्वा निहता यदि ।
प्रायश्चित्तं कथं तत्र शास्त्रे शास्त्रे निगद्यते ॥ ४८ ॥
काष्ठे सान्तपनं कुर्य्यात्प्राजापत्यं तु लोष्टके ।
तप्तकृच्छ्रं तु पाषाणे शस्त्रे चाप्यतिकृच्छ्रकम् ॥ ४९ ॥
औषधं स्नेहमाहारं दद्याद्गोब्राह्मणेषु च ।
दीयमाने विपत्तिः स्यात्प्रायश्चित्तं न विद्यते ॥ ५० ॥
तैलभेषजपाने च भेषजानां च भक्षणे ।
निःशल्यकरणे चैव प्रायश्चित्तं न विद्यते ॥ ५१ ॥
वत्सानां कण्ठबन्धे च क्रिययाभेषजेन तु ।
सायं सङ्गोपनार्थं च न दोषो रोधबन्धयोः ॥ ५२॥
पादे चैवास्य रोमाणि द्विपादे श्मश्रु केवलम् ।
त्रिपादे तु शिखावर्जम्मूले सर्वं समाचरेत् ॥ ५३॥
सर्वान्केशान्समुद्धृत्य च्छेदयेदङ्गुलद्वयम् ।
एवमेवतु नारीणां मुण्डमुण्डापनं स्मृतम् ॥५४॥
न स्त्रिया वपनं कार्यं न च वीरासनं स्मृतम् ।
न च गोष्ठे निवासोऽस्ति न गच्छन्तीमनुव्रजेत् ॥५५॥
राजा वा राजपुत्रो वा ब्राह्मणो वा बहुश्रुतः ।
अकृत्वा वपनं तेषां प्रायश्चित्तं विनिर्दिशेत् ॥ ५६ ॥
केशानां रक्षणार्थं च द्विगुणं व्रतमादिशेत् ।
द्विगुणे तु व्रते चीर्णे द्विगुणैव तु दक्षिणा ॥ ५७ ॥
द्विगुणं चेन्न दत्तं हि केशांश्च परिरक्षयेत् ।
पापं न क्षीयते हन्तुर्दाता च नरकं व्रजेत् ॥ ५८ ॥
अश्रौतस्मार्तविहितं प्रायश्चित्तं वदन्ति ये ।
तान्धर्मविघ्नकर्तृृंश्च राजा दण्डेन पीडयेत् ॥ ५९ ॥
न चेत्तान्पीडयेद्राजा कथञ्चित्काममोहितः ।
तत्पापं शतधा भूत्वा तमेव परिसर्पति ॥ ६० ॥
प्रायश्चित्ते ततश्चीर्णे कुर्याद्ब्राह्मणभोजनम् ।
विंशतिं गा वृषं चैकं दद्यात्तेषां च दक्षिणाम् ॥ ६१ ॥
कृमिभिर्व्रणसम्भूतैर्मक्षिकाभिश्च पातितैः ।
कृच्छ्रार्द्धं सम्प्रकुर्वीत शक्त्या दद्याच्च दक्षिणाम् ॥ ६२ ॥
प्रायश्चित्तं च कृत्वा वै भोजयित्वा द्विजोत्तमान् ।
सुवर्णमाषकं दद्यात्ततः शुद्धिर्विधीयते ॥ ६३ ॥
चण्डालश्वपचैः स्पृष्टेनिशि स्नानं विधीयते ।
न वसेत्तत्र रात्रौ तु सद्यः स्नानेन शुद्ध्यति ॥ ६४ ॥
अथ वसेद्यदा रात्रौ अज्ञानादविचक्षणः ।
तदा तस्य तु तत्पापं शतधा परिवर्त्तते ॥ ६५ ॥
उद्गच्छन्ति हि नक्षत्राण्युपरिष्टाच्च ये ग्रहाः ।
संस्पृष्टेरश्मिभिस्तेषामुदके स्नानमाचरेत् ॥ ६६ ॥
कुड्यान्तर्जलवल्मीकमूषिकोत्करवर्त्मसु ।
श्मशाने शौचशेषे च न ग्राह्याः सप्त मृत्तिकाः ॥ ६७ ॥
इष्टापूर्तन्तु कर्त्तव्यं ब्राह्मणेन प्रयत्नतः॥
इष्टेन लभते स्वर्गं पूर्तेमोक्षं समश्नुते ॥ ६८ ॥
वित्तापेक्षं भवेदिष्टं तडागं पूर्तमुच्यते ।
आरामश्च विशेषेण देवद्रोण्यस्तथैव च ॥ ६९ ॥
वापीकूपतडागानि देवतायतनानि च ।
पतितान्युद्धरेद्यस्तु स पूर्तफलमश्नुते ॥ ७० ॥
शुक्लाया मूत्रं गृह्णीयात्कृष्णाया गोः शकृत्तथा ।
ताम्रायाश्च पयो ग्राह्यं श्वेताया दधि चोच्यते ॥ ७१ ॥
कपिलाया घृतं ग्राह्यं महापातकनाशनम् ।
सर्वतीर्थे नदीतोये कुशैर्द्रव्यम्पृथक्पृथक् ॥७२ ॥
आहृत्य प्रणवेनैव उत्थाप्य प्रणवेन च ।
प्रणवेन समालोड्यप्रणवेन तु सम्पिबेत् ॥ ७३ ॥
पालाशे मध्यमे पर्णे भाण्डे ताम्रमये तथा ।
पिबेत्पुष्करपर्णे वा ताम्रे वा मृन्मये शेभ ॥ ७४ ॥
शुक्लाया मूत्रं गृह्णीयात्कृष्णाया गोः शकृत्तथा ।
द्वितीये नास्ति दोषस्तु प्रथमेनैव शुद्ध्यति ॥ ७५ ॥
जातेन शुद्ध्यते जातं मृतेन मृतकं तथा ।
गर्भे संस्रवणे मासे त्रीण्यहानि विनिर्दिशेत् ॥ ७६ ॥
सूतके तु समुत्पन्ने द्वितीये समुपस्थिते ।
रजस्युपरते साध्वी स्त्रानेन स्त्री रजस्वला ॥ ७७ ॥
स्वगोत्राद्भ्रश्यते नारीविवाहात्सप्तमे पदे ।
स्वामिगोत्रेण कर्तव्या तस्याःपिण्डोदकक्रिया ॥ ७८ ॥
द्वे पितुः पिण्डदानं स्यात्पिण्डे पिण्डे द्विनामता ।
षण्णां देयास्त्रयः पिण्डा एवं दाता न मुह्यति ॥ ७९ ॥
स्वेन भर्त्रासह श्राद्धं माता भुक्ता सदैवतम् ।
पितामह्यपि स्वेनैव स्वेनैव प्रपितामही ॥८० ॥
वर्षे वर्षे तु कुर्वीत मातापित्रोस्तु सत्कृतिम् ।
अदैवं भोजयेच्छ्राद्धं पिण्डमेकं तु निर्वपेत् ॥ ८१ ॥
नित्यं नैमित्तिकं काम्यं वृद्धिश्राद्धमथापरम् ।
पार्वणं चेति विज्ञेयं श्राद्धं पञ्चविधं बुधैः ॥ ८२ ॥
ग्रहोपरागे सङ्क्रान्तौपर्वोत्सवमहालये ।
निर्वपेत्रीन्नरः पिण्डानेकमेव मृतेऽहनि ॥ ८३ ॥
अनूढा न पृथक्कन्या पिण्डे गोत्रे च सूतके ।
पाणिग्रहणमन्त्राभ्यां स्वगोत्राद्भ्रश्यते ततः ॥ ८४ ॥
येन येन तु वर्णेन या कन्या परिणीयते ।
तत्समं सूतकं याति तथा पिण्डोदकेऽपि च॥ ८५॥
विवाहे चैव संवृत्ते चतुर्थेऽहनि रात्रिषु॥
एकत्वं सा व्रजेद्भर्तुः पिण्डे गोत्रे च सूतके ॥ ८६ ॥
प्रथमेऽह्निद्वितीये वा तृतीये वा चतुर्थके ।
अस्थिसञ्चयनं कार्यं बन्धुभिर्हितबुद्धिभिः ॥ ८७ ॥
चतुर्थे पञ्चमे चैव सप्तमे नवमे तथा ।
अस्थिसञ्चयनं प्रोक्तं वर्णानामनुपूर्वशः ॥ ८८ ॥
एकादशाहे प्रेतस्य यस्य चोत्सृज्यते वृषः ।
मुच्यते प्रेतलोकात्स स्वर्गलोके महीयते ॥ ८९ ॥
नाभिमात्रे जले स्थित्वा हृदये नानुचिन्तयेत् ।
आगच्छन्तु मे पितरो गृह्णन्त्वेताञ्जलाञ्जलीन् ॥ ९० ॥
हस्तौकृत्वा तु संयुक्तौ पूरयित्वा जलेन च ।
गोशृङ्गमात्रमुद्धृत्य जलमध्ये जलं क्षिपेत् ॥ ९१॥
आकाशे च क्षिपेद्वारि वारिस्थो दक्षिणामुखः ।
पितॄणां स्थानमाकाशं दक्षिणा दिक्तथैव च ॥ ९२ ॥
आपो देवगणाः प्रोक्ता आपः पितृगणास्तथा ।
तस्मादप्सु जलं देयं पितॄणां हितमिच्छता ॥ ९३ ॥
दिवा सूर्यांशुभिस्तप्तं रात्रौ नक्षत्रमारुतैः ।
सन्ध्ययोरप्युभाभ्याञ्च पवित्रं सर्वदा जलम् ॥ ९४ ॥
स्वभावयुक्तमव्याप्तममेध्येन सदा शुचि ।
भाण्डस्थं धरणीस्थं वा पवित्रं सर्वदा जलम् ॥ ९५ ॥
देवतानां पितॄणां च जले दद्याज्जलाञ्जलीन् ।
असंस्कृतप्रमतिनां स्थले दद्याज्जलाञ्जलीन् ॥ ९६ ॥
श्राद्धेहवनकाले च दद्यादेकेन पाणिना।
उभाभ्यां तर्पणे दद्यादिति धर्मोव्यवस्थितः ॥ ९७ ॥
इति यमप्रणीतं धर्मशास्त्रं समाप्तम् ॥ ६ ॥
इति यमस्मृतिः समाप्ता ६.
<MISSING_FIG href="../books_images/1681129873.jpg"/>
<MISSING_FIG href="../books_images/1681129821.jpg"/>
श्रीः।