व्यासस्मृतिः


प्रथमोऽध्यायः १.

वाराणस्यां सुखासीनं वेदव्यासं तपोनिधिम् ।
पप्रच्छुर्मुनयोऽभ्येत्य धर्मान्वर्णव्यवस्थितान् ॥ १ ॥

स पृष्टः स्मृतिमान्स्मृत्वा स्मृतिं वेदार्थगर्भिताम् ।
उवाचाथ प्रसन्नात्मा मुनयः श्रूयतामिति ॥ २ ॥

यत्र यत्र स्वभावेन कृष्णसारो मृगः सदा ।
चरते तत्र वेदोक्तो धर्मों भवितुमर्हति ॥ ३ ॥

श्रुतिस्मृतिपुराणानां विरोधो यत्र दृश्यते ।
तत्र श्रौतं प्रमाणं तु तयोर्द्वैधे स्मृतिर्वरा ॥ ४ ॥

ब्राह्मणक्षत्रियविशस्त्रयो वर्णा द्विजातयः ।
श्रुतिस्मृतिपुराणोक्तधर्मयोग्यास्तु नेतरे ॥ ५ ॥

शूद्रो वर्णश्चतुर्थोऽपि वर्णत्वाद्धर्ममर्हति ।
वेदमन्त्रस्वधास्वाहावषट्कारादिभिर्विना ॥ ६ ॥

विप्रवद्विप्रविन्नासु क्षत्रविन्नासु क्षत्रवत् ।
जातकर्माणि कुर्वीत ततः शूद्रासु शूद्रवत् ॥ ७ ॥

वैश्यासु विप्रक्षत्राभ्यां ततः शूद्रासु शूद्रवत्॥

अधमादुत्तमायां तु जातः शूद्राधमः स्मृतः ॥ ८ ॥

ब्राह्मण्यां शूद्रजनितश्चण्डालो धर्मवर्जितः ॥ ९ ॥

कुमारीसम्भवस्त्वेकः सगोत्रायां द्वितीयकः ।
ब्राह्मण्यां शूद्रजनितश्चण्डालस्त्रिविधः स्मृतः ॥ १० ॥

वर्द्धकिर्नापितो गोप आशापः कुम्भकारकः ।
वणिक्किरातकायस्थमालाकारकुटुम्बिनः ।
वरटो मेदचण्डालदासश्वपचकोलकाः ॥ ११ ॥

एतेऽन्त्यजाः समाख्याता ये चान्ये च गवाशनाः ।
एषां सम्भाषणात्स्नानं दर्शनादर्कवीक्षणम् ॥ १२ ॥

गर्भाधानं पुंसवनं सीमन्तो जातकर्म च ।
नामक्रियानिष्क्रमणेऽन्नाशनं वपनक्रिया ॥ १३ ॥

कर्णवेधोव्रतादेशो वेदारम्भक्रियाविधिः ।
केशान्तः स्नानमुद्वाहो विवाहाग्निपरिग्रहः ॥ १४ ॥

त्रेताग्निसङ्ग्रहश्चेति संस्काराः षोडश स्मृताः ।
नवैताः कर्णवेधान्ता मन्त्रवर्जं क्रियाः स्त्रियाः ॥ १५ ॥

विवाहो मन्त्रतस्तस्याः शूद्रस्यामन्त्रतो दश ॥ १६ ॥

गर्भाधानं प्रथमतस्तृतीये मासि पुंसवः ।
सीमन्तश्चाष्टमे मासि जाते जातक्रिया भवेत् ॥ १७ ॥

एकादशेऽह्नि नामार्कस्येक्षा मासि चतुर्थके ।
षष्ठे मास्यन्नमश्नीयाच्चूडाकर्म कुलोचितम् ॥ १८ ॥

कृतचूडे च बाले हि कर्णवेधो विधीयते ।
विप्रो गर्भाष्टमे वर्षे क्षत्र एकादशे तथा ॥ १९ ॥

द्वादशे वैश्यजातिस्तु व्रतोपनयमर्हति ।
तस्य प्राप्तव्रतस्यायं कालः स्याद्द्विगुणाधिकः ॥ २० ॥

वेदव्रतच्युतो व्रात्यः स व्रात्यस्तोममर्हति ॥ २१॥

द्वे जन्मनी द्विजातीनां मातुः स्यात्प्रथमं तयोः ।
द्वितीयं छन्दसां मातुर्ग्रहणाद्विधिवद्गुरोः ॥ २२ ॥

एवं द्विजातिमापन्नो विमुक्तो वान्यदोषतः ।
श्रुतिस्मृतिपुराणानां भवेदध्ययनक्षमः ॥ २३ ॥

उपनीतो गुरुकुले वसेन्नित्यं समाहितः ।
विभृयाद्दण्डकौपीनोपवीताजिनमेखलाः ॥ २४ ॥

पुण्येऽह्नि गुर्वनुज्ञातः कृतमन्त्राहुतिक्रियः ।
स्मृत्वोङ्कारं च गायत्रीमारभेद्वेदमादितः ॥ २५ ॥

शौचाचारविचारार्थं धर्मशास्त्रमपि द्विजः ।
पठेत गुरुतः सम्यक्कर्म तद्दिष्टमाचरेत् ॥ २६ ॥

ततोऽभिवाद्य स्थविरान्गुरुं चैव समाश्रयेत् ।
स्वाध्यायार्थं तदापन्नः सर्वदा हितमाचरेत् ॥ २७ ॥

नापक्षिप्तोऽपि भाषेत नाव्रजेत्ताडितोऽपि वा ।
विद्वेषमथ पैशुन्यं हिंस्रनं चार्कवीक्षणम् ॥ २८ ॥

तौर्य्यत्रिकानृतोन्मादपरिवादानलङ्क्रियाम् ।
अञ्जनोद्वर्तनादर्शस्त्रग्विलेपनयोषितः ॥ २९ ॥

वृथाटनमसन्तोषं ब्रह्मचारी विवर्जयेत् ।
ईषच्चलितमध्याह्नेऽनुज्ञातो गुरुणा स्वयम् ॥ ३० ॥

अलोलुपश्चरेद्भैक्षं वृत्तिषूत्तमवृत्तिषु ।
सद्यो भिक्षान्नमादाय वित्तवत्तदुपस्पृशेत् ॥ ३१ ॥

कृतमाध्याह्निकोऽश्नीयादनुज्ञातो यथाविधि ।
नाद्यादेकान्नमुच्छिष्टं भुक्त्वा चाचामितामियात् ॥३२॥

नान्याद्भिक्षितमादद्यादापन्नो द्रविणादिकम् ।
अनिन्द्यामन्त्रितः श्राद्धे पैत्रेऽद्याद्गुरुचोदितः ॥ ३३ ॥

एकान्नमप्यविरोधे व्रतानां प्रथमाश्रमी ।
भुक्त्वा गुरुमुपासीत कृत्वा सन्धुक्षणादिकम् ॥ ३४ ॥

समिधोऽग्नावादधीत ततः परिचरेद्गुरुम् ।
शयीत गुर्व्वनुज्ञातः प्रह्वश्च प्रथमं गुरोः ॥ ३५ ॥

एवमन्वहमभ्यासी ब्रह्मचारी व्रतं चरेत् ।
हितोपवादः प्रियवाक्सम्यग्गुर्वर्थसाधकः ॥ ३६ ॥

नित्यमाराधयेदेनमासमाप्तेः श्रुतिग्रहात् ।
अनेन विधिनान्धीतो वेदमन्त्रो द्विजं नयेत् ॥ ३७ ॥

शापानुग्रहसामर्थ्यमृषीणां च सलोकताम् ।
पयोऽमृताभ्यां मधुभिः साज्यैः प्रीणन्ति देवताः॥ ३८ ॥

तस्मादहरहर्वेदमनध्यायमृते पठेत् ।
यदङ्गं तदनध्याये गुरोर्वचनमाचरेत् ॥ ३९ ॥

व्यतिक्रमादसम्पूर्णमनहङ्कृतिराचरेत् ।
परत्रेह च तद्ब्रह्म नत्वधीतमपि द्विजम् ॥ ४० ॥

यस्तूपनयनादेतदामृत्योर्व्रतमाचरेत् ।
स नैष्ठिको ब्रह्मचारी ब्रह्मसायुज्यमाप्नुयात् ॥ ४१ ॥

समाप्य वेदान्वेदौ वा वेदं वा प्रसभं द्विजः ।
स्नायीत गुर्वनुज्ञातः प्रवृत्तोदितदक्षिणः ॥ ४३ ॥

इति श्रीवेदव्यासीये धर्मशास्त्रे प्रथमोऽध्यायः ॥ १ ॥

** द्वितीयोऽध्यायः २.**

एवं स्नातकतां प्राप्तो द्वितीयाश्रमकाङ्क्षया ।
प्रतीक्षेत विवाहार्थमनिन्द्यान्वयसम्भवाम् ॥ १ ॥

अरोगो दुष्टवंशोत्थामशुल्कादानदूषिताम् ।
सवर्णामसमानार्षाममातृपितृगोत्रजाम् ॥ २ ॥

अनन्यपूर्विकां लघ्वींशुभलक्षणसंयुताम् ।
धृताधोवसनां गौरीं विख्यातदशपूरुषाम् ॥ ३ ॥

ख्यातनाम्नः पुत्रवतः सदाचारवतः सतः ।
दातुमिच्छोर्दुहितरं प्राप्य धर्मेण चोद्वहेत् ॥ ४ ॥

ब्राह्मोद्वाहविधानेन तदभावे परोविधिः ।
दातव्यैषा सदृक्षाय वयोविद्यान्वायादिभिः ॥ ५ ॥

पितृतत्पितृभ्रातृषु पितृव्यज्ञातिमातृषु ।
पूर्वाभावे परो दद्यात्सर्वाभावे स्वयं व्रजेत् ॥ ६ ॥

यदि सा दातृवैकल्याद्रजः पश्येत्कुमारिका ।
भ्रूणहत्याश्च यावत्यः पतितः स्यात्तदप्रदः ॥ ७ ॥

तुभ्यं दास्याम्यहमिति ग्रहीष्यामीति पस्तयोः ।
कृत्वा समयमन्योन्यं भजते न स दण्डभाक् ॥ ८ ॥

त्यजन्नदुष्टां दण्ड्यःस्याद्दूषयंश्चाप्यदूषिताम् ।
ऊढायां हि सवर्णायामन्यां वा काममुद्वहेत् ॥ ९ ॥

तस्यामुत्पादितः पुत्रो न सवर्णात्प्रहीयते ।
उद्वहेत्क्षत्रियां विप्रो वैश्यां च क्षत्रियो विशाम् ।
न तु शूद्रां द्विजः कश्चिन्नाधमः पूर्ववर्णजाम् ॥ १० ॥

नानावर्णासु भार्य्यासु सवर्णा सहचारिणी ।
धर्म्माधर्मेषु धर्मिष्ठा ज्येष्ठा तस्य स्वजातिषु ॥ ११ ॥

पाटितोऽयं द्विजाः पूर्वमेकदेहः स्वयम्भुवा ॥ १२ ॥

पतयोऽर्द्धेन चार्द्धेन पल्योऽभूवन्निति श्रुतिः ।
यावन्न विन्दते जायां तावदर्द्धोभवेत्पुमान् ॥१३ ॥

नार्द्धम्प्रजायते सर्वं प्रजायेतेत्यपि श्रुतिः ।
गुर्वी सा भूस्त्रिवर्गस्य वोढुं नान्येन शक्यते ॥१४ ॥

यतस्ततोऽन्वहं भूत्वा स्ववशो बिभृयाच्च ताम् ।
कृतदारोऽग्निपत्नीभ्यां कृतवेश्मा गृहं वसेत् ॥ १५ ॥

स्वकृतं वित्तमासाद्य वैतानाग्निं न हापयेत् ।
स्मार्तं वैवाहिके वह्नौ श्रौतं वैतानिकाग्निषु ॥१६ ॥

कर्म कुर्य्यात्प्रतिदिनं विधिवत्प्रीतिपूर्वकः ।
सम्यग्धर्मार्थकामेषु दम्पतिभ्यामहर्निशम् ॥१७ ॥

एकचित्ततया भाव्यं समानव्रतवृत्तितः ।
न पृथग्विद्यते स्त्रीणां त्रिवर्गविधिसाधनम् ॥ १८ ॥

भावतोह्यतिदेशाद्वा इति शास्त्रविधिः परः ।
पत्युः पूर्वं समुत्थाय देहशुद्धिंविधाय च ॥ १९ ॥

उत्थाप्य शयनाद्यानि कृत्वा वेश्मविशोधनम् ।
मार्जनैर्लेपनैः प्राप्य साग्निशालं स्वमङ्गणम् ॥ २० ॥

शोधयेदग्निकार्याणि स्निग्धान्युष्णेन वारिणा ।
प्रोक्षण्यैरिति तान्येव यथास्थानं प्रकल्पयेत् ॥ २१ ॥

द्वन्द्वम्प1ात्राणि सर्वाणि न कदाचिद्वियोजयेत् ।

शोधयित्वा तु पात्राणि पूरयित्वा तु धारयेत् ॥ २२ ॥

महानसस्य पात्राणि बहिः प्रक्षाल्य सर्वथा ।
मृद्भिश्च शोधयेच्चुल्लीं तन्त्राग्निं विन्यसेत्ततः ॥ २३ ॥

स्मृत्वा नियोगपात्राणि रसांश्च द्रविणानि च ।
कृतपूर्वाह्णकार्या च स्वगुरूनभिवादयेत् ॥ २४ ॥

ताभ्यां भर्तृपितृभ्यां वा भ्रातृमातुलबान्धवैः ।
वस्त्रालङ्काररत्नानि प्रदत्तान्येव धारयेत् ॥ २५ ॥

मनोवाक्कर्मभिः शुद्धा पतिदेशानुवर्तिनी ।
छायेवानुगता स्वच्छा सखीव हितकर्मसु ॥ २६ ॥

दासीवादिष्टकार्य्येषु भार्य्या भर्तुः सदा भवेत् ।
ततोऽन्नसाधनं कृत्वा पतये विनिवेद्य तत् ॥ २७ ॥

वैश्वदेवकृतैरन्नैर्भोजनीयांश्च भोजयेत् ।
पतिं चैवाभ्यनुज्ञाता सिद्धमन्नादिनात्मना ॥ २८ ॥

भुक्त्वा नयेदहःशेषमायव्ययविचिन्तया ।
पुनः सायं पुनः प्रातर्गृहशुद्धिं विधाय च ॥ २९ ॥

कृतान्नसाधना साध्वी सुभृशं भोजयेत्पतिम् ।
नातितृप्त्या स्वयं भुक्त्वा गृहनीतिं विधाय च ॥ ३० ॥

आस्तीर्य साधु शयनं ततः परिचरेत्पतिम् ।
सुप्ते पतौ तदभ्याशे स्वपेत्तद्गतमानसा ॥ ३१ ॥

अनग्ना चाप्रमत्ता च निष्कामा च जिर्तेद्रिया ।
नोच्चैर्व2दन्न परुषं न बहून्पत्युरप्रियम् ॥ ३२ ॥

न केनचिद्विवदेच्च अप्रलापविलासिनी ।
न चापि व्ययशीला स्यान्न धर्मार्थविरोधिनी ॥ ३३ ॥

प्रमादोन्मादरोषेर्ष्यावञ्चनं चातिमानिताम् ।
पैशुन्यहिंसाविद्वेषमदाहङ्कारधूर्तताः ॥ ३४ ॥

नास्तिक्यं साहसं स्तेयं दम्भान्साध्वी विवर्जयेत् ।
एवं परिचरन्ती सा पतिं परमदैवतम् ॥ ३५ ॥

यशः शमिह यात्येव परत्र च सलोकताम् ।
योषितो नित्यकर्मोक्तं नैमित्तिकमथोच्यते ॥ ३६ ॥

रजोदर्शनतो दोषात्सर्वमेव परित्यजेत् ।
सर्वैरलक्षिता शीघ्रं लज्जितान्तर्गृहे वसेत् ॥ ३७ ॥

एकाम्बरावृता दीना स्नानालङ्कारवर्जिता ।
मौनिन्यधोमुखी चक्षुःपाणिपद्भिरचञ्चला ॥ ३८ ॥

अश्नीयात्केवलं भक्तं नक्तं मृन्मयभाजने ।
स्वपेद्भूमावप्रमत्ता क्षपेदेवमहस्त्रयम् ॥ ३९ ॥

स्नायीत च त्रिरात्रान्ते सचैलमुदिते रवौ ।
विलोक्य भर्तुर्वदनं शुद्धा भवति धर्मतः ॥ ४० ॥

कृतशौचा पुनः कर्म पूर्ववच्च समाचरेत् ।
रजोदर्शनतो याः स्यूरात्रयःषोडशर्तवः ॥ ४१ ॥

ततः पुम्बीजमक्लिष्टं शुद्धे क्षेत्रे प्ररोहति ।
चतस्रश्चादिमा रात्रीः पर्ववच्च विवर्जयेत् ॥ ४२ ॥

गच्छेद्युग्मासु रात्रीषु पौष्णपित्रर्क्षराक्षसान् ।
प्रच्छादितादित्यपथे पुमान्गच्छेत्स्वयोषितः ॥ ४३ ॥

क्षमालङ्कृदवाप्नोति पुत्रं पूजितलक्षणम् ।
ऋतुकालेऽभिगम्यैवं ब्रह्मचर्ये व्यवस्थितः ॥ ४४ ॥

गच्छन्नपि यथाकामं न दुष्टः स्पादनन्यकृत् ।
भ्रूणहत्यामवाप्नोति ऋतौ भार्य्यापराङ्मुखः ॥ ४५ ॥

सात्ववाप्यान्यतो गर्भं त्याज्या भवति पापिनी ।
महापातकदुष्टा च पतिगर्भविनाशिनी ॥ ४६ ॥

सद्वृत्तचारिणीं पत्नीं त्यक्त्वा पतति धर्मतः ।
महापातकदुष्टोऽपि स प्रतीक्ष्यस्तया पतिः ॥ ४७ ॥

अशुद्धे क्षयमादूरं स्थितायामनुचिन्तया ।
व्यभिचारेण दुष्टानां पतीनां दर्शनादृते ॥ ४८ ॥

धिक्कृतायामवाच्यायामन्यत्र वासयेत्पतिः ।
पुनस्तामार्तवस्नातां पूर्ववद्व्यवहारयेत् ॥ ४९ ॥

धूर्ताञ्च धर्मकामघ्नीमपुत्रां दीर्घरोगिणीम् ।
सुदुष्टां व्यसनासक्तामहितामधिवासयेत् ॥ ५० ॥

अधिविन्नामपि विभुः स्त्रीणां तु समतामियात् ।
विवर्णा दीनवदना देहसंस्कारवर्जिता ॥ ५१ ॥

पतिव्रता निराहारा शोष्यते प्रोषिते पतौ ।
मृतं भर्तारमादाय ब्राह्मणी वह्निमाविशेत् ॥ ५२ ॥

जीवन्ती चेत्त्यक्तकेशा तपसा शोधयेद्वपुः ।
सर्वावस्थासु नारीणां न युक्तं स्यादरक्षणम् ॥ ५३ ॥

तदेवानुक्रमात्कार्य्यं पितृभर्तृसुतादिभिः ।
जाताः सुरक्षिताः पापात्पुत्रपौत्रप्रपौत्रिकाः ।
ये यजन्ति पितृृन्यज्ञैर्मोक्षप्राप्तिमहोदयैः ॥ ५४ ॥

मृतानामग्निहोत्रेण दाहयेद्विधिपूर्वकम् ।
दाहयेदविलम्बेन भार्या चात्र व्रजेत सा ॥ ५५ ॥

इति श्रीवेदव्यासीये धर्म्मशास्त्रे द्वितीयोऽध्यायः ॥ २ ॥

<MISSING_FIG href="../books_images/1682507857.jpg"/>

तृतीयोऽध्यायः ३.

नित्यं नैमित्तिकं काम्यमिति कर्म त्रिधा मतम् ।
त्रिविधं तच्चवक्ष्यामिगृहस्थस्यावधार्य्यताम् ॥ १ ॥

यामिन्याः पश्चिमे यामे त्यक्तनिद्रोहरिंस्मरेत् ।
आलोक्य मङ्गलद्रव्यं कर्मावश्यकमाचरेत् ॥ २ ॥

कृतशौचो निषेव्याग्नीन्दन्ताप्रक्षाल्य वारिणा ।
स्नात्वोपास्य द्विजः सन्ध्यां देवादींश्चैव तर्पयेत् ॥ ३ ॥

वदेवदाङ्गशास्त्राणि इतिहासानि चाभ्यसेत् ।
अध्यापयेच्च सच्छिष्यान्सद्विप्रांश्च द्विजोत्तमः ॥ ४ ॥

अलब्धं प्रापयेल्लब्ध्वा क्षणमात्रं समापयेत् ।
समर्थो हि समर्थेन नाविज्ञातः क्वचिद्वसेत् ॥ ५ ॥

सरित्सरःसु वापीषु गर्तप्रस्रवणादिषु ।
स्नायीत यावदुद्धृत्य पञ्चपिण्डानि वारिणा ॥ ६ ॥

तीर्थाभावेऽप्यशक्तोवा स्नायात्तोयैः समाहृतैः ।
गृहाङ्गणगतस्तत्र यावदम्बरपीडनम् ॥ ७ ॥

स्नानमब्दैवतैः कुर्यात्पावनैश्चापि मार्जनम् ।
मन्त्रैः प्राणांस्त्रिराचम्य सौरैश्चार्कं विलोकयेत् ॥ ८ ॥

तिष्ठन्स्थित्वा तु गायत्रीं ततः स्वाध्यायमारभेत् ।
ऋचां च यजुषां साम्नामथर्वाङ्गिरसामपि ॥ ९ ॥

इतिहासपुराणानां वेदोपनिषदां द्विजः ।
शक्त्या सम्यक्पठेन्नित्यमल्पमप्यासमापनात् ॥ १० ॥

स यज्ञदानतपसामखिलं फलमाप्नुयात् ।
तस्मादहरहर्वेदं द्विजोऽधीयीत वाग्यतः ॥ ११ ॥

धर्म्मशास्त्रेतिहासादि सर्वेषां शक्तितः पठेत् ।
कृतस्वाध्यायः प्रथमं तर्पयेच्चाथ देवताः ॥ १२ ॥

जान्वाच्यदक्षिणां दर्भैःप्रागग्रैःसयवैस्तिलैः ।
एकैकाञ्जलिदानेन प्रकृतिस्थोपवीतकः ॥ १३ ॥

समाजानुद्वयो ब्रह्मसूत्रहार उदङ्मुखः ।
तिर्यग्दर्मैश्च वामाग्रैर्यवैस्तिलविमिश्रितैः ॥ १४ ॥

अम्भोभिरुत्तरक्षिप्तैःकनिष्ठामूलनिर्गतैः ।
द्वाभ्यां द्वाभ्यामञ्जलिभ्यां मनुष्यांस्तर्पयेत्ततः ॥ १५ ॥

दक्षिणाभिमुखः सव्यं जान्वाच्य द्विगुणैः कुशैः ।
तिलैर्जलैश्चदेशिन्या मूलदर्भाद्विनिःसृतैः ॥ १६ ॥

दक्षिणांसोपवीतः स्यात्क्रमेणाञ्जलिभिस्त्रिभिः ।
सन्तर्पये द्दिव्यपितृृस्तत्परांश्च पितृृन्स्वकान् ॥ १७ ॥

मातृमातामहांस्तद्वत्त्रीनेवं हि त्रिभिस्त्रिभिः ॥

मातामहाश्च येऽप्यन्ये गोत्रिणो दाहवर्जिताः ॥ १८ ॥

तानेकाञ्जलिदानेन तर्पयेच्च पृथक्पृथक् ॥

असंस्कृतप्रमीता ये प्रेतसंस्कारवर्जिताः ॥ १९ ॥

वस्त्रनिष्पीडिताम्भोभिस्तेषामाप्यायनं भवेत् ॥

अतर्पितेषु पितृषु वस्त्रं निष्पीडयेच्च यः ॥ २० ॥

निराशाः पितरस्तस्य भवन्ति सुरमानुषैः ॥

पयोदर्भस्वधाकारगोत्रनामतिलैर्भवेत् ॥२१ ॥

सुदत्तं तत्पुनस्तेषामेकेनापि वृथा विना ॥

अन्यचित्तेन यद्दत्तं यद्दत्तं विधिवर्जितम् ॥ २२ ॥

अनासनस्थितेनापि तज्जलं रुधिरायते ॥

एवं सन्तर्पिताः कामैस्तर्पकांस्तर्पयन्ति च ॥ २३ ॥

ब्रह्मविष्णुशिवादित्यमित्रावरुणनामभिः ॥

पूजयेल्लक्षितैर्मन्त्रैर्जलमन्त्रोक्तदेवताः ॥ २४ ॥

उपस्थाय रविं काष्ठां पूजयित्वा च देवताः ॥

ब्रह्माग्नीन्द्रौषधीजीवविष्णूनां निहतांहसाम् ॥ २५ ॥

तत्तन्मन्त्रैश्च सत्कारं नमस्कारैः स्वनामभिः ॥

कृत्वा मुखं समालभ्यस्नानमेवं समाचरेत् ॥ २६ ॥

ततः प्रविश्य भवनमावसथ्ये हुताशने ॥

पाकयज्ञांश्च चतुरो विदध्याद्विधिवद्द्विजः ॥ २७ ॥

अनाहितावसथ्याग्निरादायान्नङ्घृतप्लुतम् ॥

शाकलेन विधानेन जुडुयाल्लौकिकेऽनले ॥ २८ ॥

व्यस्ताभिर्व्याहृतीभिश्च समस्ताभिस्ततः परम् ॥

षड्भर्देवकृतस्येति मन्त्रविद्भिर्यथाक्रमम् ॥ २९ ॥

प्राजापत्यं स्विष्टकृतं हुत्वैवं द्वादशाहुतीः ॥

ओङ्कारपूर्वः स्वाहान्तस्त्यागः स्विष्टविधानतः ॥ ३० ॥

भुवि दर्भान्समास्तीर्य बलिकर्म समाचरेत् ॥

विश्वेभ्यो देवेभ्य इति सर्वेभ्यो भूतेभ्य एव च ॥ ३१॥

भूतानां पतये चेति नमस्कारेण शास्त्रवित् ॥

दद्याद्बलित्रयं चाग्रे पितृभ्यश्च स्वधानमः ॥ ३२ ॥

पात्रनिर्णेजनं वारि वायव्यां दिशि निःक्षिपेत् ॥

उद्धृस्य षोडशग्रासमात्रमन्नं घृतोक्षितम् ॥ ३३ ॥

इदमन्नं मनुष्येभ्यो हन्तेत्युक्त्वा समुत्सृजेत् ॥

गोत्रनामस्वधाकारैः पितृभ्यश्चापि शक्तितः ॥ ३४ ॥

षड्भ्योऽन्नमन्वहं दद्यात्पितृयज्ञविधानतः ॥

वेदादीनां पठेत्किञ्चिदल्पं ब्रह्ममखाप्तये ॥ ३५॥

ततोऽन्यदन्नमादाय निर्गत्य भवनाद्बहिः ॥

काकेभ्यः श्वपचेभ्यश्च प्रक्षिपेद्ग्रसमेव च ॥ ३६ ॥

उपविश्य गृहद्वारि तिष्ठेद्यावन्मुहूर्तकम् ॥

अप्रमुक्तोऽतिथिं लिप्सुर्भावशुद्धः प्रतीक्षकः ॥ ३७॥

आगतं दूरतः श्रान्तं भोक्तुकमिम्माकचनम् ॥

दृष्ट्वा सम्मुखमभ्येत्य सत्कृत्य प्रश्रयार्च्चनैः ॥ ३८ ॥

पादधावनसम्मानाभ्यञ्जनादिभिरर्च्चितः ॥

त्रिदिवं प्रापयेत्सद्यो यज्ञस्याभ्यधिकोऽतिथिः ॥ ३९ ॥

कालागतोऽतिथिर्दृष्टवेदपारो गृहागतः ॥

द्वावेतौ पूजितौस्वर्गं नयतोऽधस्त्वपूजितौ ॥ ४० ॥

विवाह्यस्नातकक्ष्माभृदाचार्यसुहृदृत्विजः ॥

अर्घ्या भवन्ति धर्मेण प्रतिवर्षं गृहागताः ॥ ४१ ॥

गृहागताय सत्कृत्य श्रोत्रियाय यथाविधि ॥

भक्त्योपकल्पयेदेकं महाभागं विसर्जयेत् ॥ ४२ ॥

विसर्जयेदनुव्रज्य सुतृप्तश्रोत्रियातिथीन् ॥

मित्रमातुलसम्बन्धिबान्धवान्समुपागतान् ॥ ४३ ॥

भोजयेद्गृहिणो भिक्षां सत्कृतां भिक्षुकोऽर्हति ॥

स्वाद्वन्नमश्नन्नस्वादु ददद्गच्छत्यधोगतिम् ॥ ४४ ॥

गर्भिण्यातुरभृत्येषु बालवृद्धातुरादिषु ॥

बुभुक्षितेषु भुञ्जानो गृहस्थोऽश्नाति किल्बिषम् ॥ ४५ ॥

नाद्याद्गृह्येऽन्नपाकाद्यं कदाचिदनिमन्त्रितः ॥

निमन्त्रितोऽपि निन्देत प्रत्याख्यानं द्विजोऽर्हति ॥ ४६ ॥

शूद्राभिशस्तवार्धुष्यवाग्दुष्टक्रूरतस्कराः ॥

क्रुद्धापविद्धबद्धोग्रवधबन्धनजीविनः ॥ ४७ ॥

शैलूषशौण्डिकोन्नद्धोन्मत्तव्रात्यव्रतच्युताः ॥

नग्ननास्तिकनिर्ल्लज्जपिशुनव्यसनान्विताः ॥ ४८ ॥

कदर्यस्त्रीजितानार्यपरवादकृता नराः ॥

अनीशाः कीर्तिमन्तोऽपि राजदेवस्वहारकाः ॥ ४९ ॥

शयनासनसंसर्गकृतकर्मादिदूषिताः ॥

अश्रद्दधानाः पतिता भ्रष्टाचारादयश्च ये ॥

अभोज्यान्नाः स्युरन्नादो यस्य यः स्यात्सतत्समः ॥ ५० ॥

नापितान्वयमित्रार्द्धसीरिणो दासगोपकाः ॥

शूद्राणामप्यभीषां तु भुक्त्वान्नन्नैव दुष्यति ॥ ५१ ॥

धर्म्मेणान्योन्यभोज्यान्ना द्विजास्तु विदितान्वयाः ॥ ५२॥

स्ववृत्तोपार्जितं मेध्यमाकरस्थममाक्षिकम् ॥

अश्वलीढमगोघ्रातमस्पृष्टं शूद्रवायसैः ॥ ५३ ॥

अनुच्छिष्टमसन्दुष्टमपर्युषितमेव च ॥

अम्लानबाह्यमन्नाद्यमाद्यं नित्यं सुसंस्कृतम् ॥

कृस्नरापूपसंयावपायसं शष्कुलीति च ॥ ५४ ॥

नाश्नीयाद्ब्राह्मणो मांसमनियुक्तः कथञ्चन ॥

क्रतौश्राद्धे नियुक्तो वा अनश्नन्पतति द्विजः ॥ ५५ ॥

मृगयोपार्जितं मांसमभ्यर्च्य पितृदेवताः ॥

क्षत्रियो द्वादशोनं तत्क्रीत्वा वैश्योऽपि धर्मतः ॥ ५६ ॥

द्विजो जग्ध्वा वृथा मांसं हत्वाप्यविधिना पशून् ॥

निरयेष्वक्षयं वासमाप्नोत्याचन्द्रतारकम् ॥ ५७ ॥

सर्वान्कामान्समासाद्य फलमश्वमखस्य च ॥

मुनिसाम्यमवाप्नोति गृहस्थोऽपि द्विजोत्तमः ॥ ५८ ॥

द्विजभोज्यानि गव्यानि माहिष्याणि पयांसि च ॥

निर्दशासन्धिसम्बन्धिवत्सवन्तीपयांसि च ॥ ५९ ॥

पलाण्डु श्वेतवृन्ताकं रक्तमूलकमेव च ॥

गृञ्जनारुणवृक्षासृग्जन्तुगर्भफलानि च ॥ ६० ॥

अकालकुसुमादीनि द्विजो जग्ध्वैन्दवञ्चरेत् ॥

वाग्दूषितमविज्ञातमन्यपीडितकार्यपि ॥ ६१ ॥

भूतेभ्योऽन्नमदत्त्वा च तदन्नं गृहिणो दहेत् ॥

हैमराजतकांस्येषु पात्रेष्वद्यात्सदा गृही ॥ ६२ ॥

अभावे साधुगन्धेषु लोध्रद्रुमलतासु च ॥

पलाशपद्मपत्रेषु गृहस्थो भोक्तुमर्हति ॥ ६३ ॥

ब्रह्मचारी यतिश्चैव श्रेयो यद्भोक्तुमर्हति ॥ ६४ ॥

अभ्युक्ष्यान्नं नमस्कारैर्भुवि दद्याद्वलित्रयम् ॥

भूपतये भुवः पतये भूतानां पतये तथा ॥ ६५ ॥

अपः प्राश्य ततः पश्चात्पञ्च प्राणाहुतीः क्रमात् ॥

स्वाहाकारेण जुहुयाच्छेषमद्याद्यथासुखम् ॥ ६६ ॥

अनन्यचित्तो भुञ्जीत वाग्यतोऽन्नमकुत्सयन् ॥

आतृप्तेरन्नमश्नीयादक्षुण्णं पात्रमुत्सृजेत् ॥ ६७ ॥

उच्छिष्टमन्नमुद्धृत्य ग्रासमेकं भुवि क्षिपेत् ॥ ६८ ॥

आचान्तःसाधुसङ्गेन सद्विद्यापठनेन च ॥

वृत्तवृद्धकथाभिश्च शेषाहमतिवाहयेत् ॥ ६९ ॥

सायं सन्ध्यामुपासीत हुत्वाग्निम्भृत्यसंयुतः ॥

आपोशानक्रियापूर्वमश्नीयादन्वहं द्विजः ॥ ७० ॥

सायमप्यतिथिः पूज्यो होमकालागतोऽनिशम् ॥

श्रद्धया शक्तितो नित्यं श्रुतं हन्यादपूजितः ॥ ७१ ॥

नातितृप्त उपस्पृश्य प्रक्षाल्य चरणौ शुचिः ॥

अप्रत्यगुत्तरशिराः शयीत शयने शुभे ॥

शक्तिमानुदिते काले स्नानं सन्ध्यां न हापयेत् ॥ ७२ ॥

ब्राह्मे मुहूर्ते चोत्थाय चिन्तयेद्धितमात्मनः ॥

शक्तिमान्मतिमान्नित्यं व्रतमेतत्समाचरेत् ॥ ७३ ॥

 इति श्रीवेदव्यासीये धर्मशास्त्रेतृतीयोऽध्यायः ॥ ३ ॥

चतुर्थोऽध्यायः ४.

इति व्यासकृतं शास्त्रं धर्मसारसमुच्चयम् ॥

आश्रमे यानि पुण्यानि मोक्षधर्माश्रितानि च ॥ १ ॥

गृहाश्रमात्परो धर्मो नास्ति नास्ति पुनः पुनः ॥

सर्वतीर्थफलं तस्य यथोक्तं यस्तु पालयेत् ॥ २ ॥

गुरुभक्तो भृत्यपोषी दयावाननसूयकः ॥

नित्यजापी च होमी च सत्यवादी जितेन्द्रियः ॥ ३ ॥

स्वदारे यस्य सन्तोषः परदारनिवर्तनम् ॥

अपवादोऽपि नो यस्य तस्य तीर्थफलं गृहे ॥ ४ ॥

परदारान्परद्रव्यं हरते यो दिने दिने ॥

सर्वतीर्थाभिषेकेण पापं तस्यान नश्यति ॥ ५ ॥

गृहेषु सवनीयेषु सर्वतीर्थफलं ततः ॥

अन्नदस्य त्रयो भागाः3 कर्ता भागेन लिप्यते ॥ ६ ॥

प्रतिश्रयं पादशौचं ब्राह्मणानां च तर्पणम् ॥

न पापं संस्पृशेत्तस्य बलिभिक्षां ददाति यः ॥ ७ ॥

पादोदकं पादधृतं दीपमन्नम्प्रतिश्रयम् ॥

यो ददाति ब्राह्मणेभ्यो नोपसर्पति तं यमः ॥ ८ ॥

विप्रपादोदकक्लिन्ना यावत्तिष्ठति मेदिनी ॥

तावत्पुष्करपात्रेषु पिबन्ति पितरोऽमृतम् ॥ ९ ॥

यत्फलं कपिलादाने कार्तिक्यां ज्येष्ठपुष्करे ॥

तत्फलं ह्यृषयः श्रेष्ठा विप्राणां पादशोधने ॥ १० ॥

स्वागमेनाग्नयः प्रीता आसनेन शतक्रतुः ॥

पितरः पादशौचेन अन्नाद्येन प्रजापतिः ॥ ११ ॥

मातापित्रोः परं तीर्थं गङ्गा गावो विशेषतः ॥

ब्राह्मणात्परमं तीर्थं न भूतं न भविष्यति ॥ १२ ॥

इन्द्रियाणि वशीकृत्य गृह एव वसेन्नरः ॥

तत्र तस्य कुरुक्षेत्रं नैमिषं पुष्कराणि च ॥ १३ ॥

गङ्गाद्वारं च केदारं सन्निहत्यं तथैव च ॥

एतानि सर्वतीर्थानि कृत्वा पापैः प्रमुच्यते ॥ १४ ॥

वर्णानामाश्रमाणां च चातुर्वर्ण्यस्य भो द्विजाः ॥

दानधर्मम्प्रवक्ष्यामि यथा व्यासेन भाषितम् ॥ १५ ॥

यद्ददाति विशिष्टेभ्यो यच्चाश्नाति दिने दिने ॥

तच्च वित्तमहं मन्ये शेषं कस्यापि रक्षति ॥ १६ ॥

यद्ददाति यदश्नाति तदेव धनिनो धनम् ॥

अन्ये मृतस्य क्रीडन्ति दारैरपि धनैरपि ॥ १७ ॥

किं धनेन करिष्यन्ति देहिनोऽपि गतायुषः ॥

यद्वर्द्धयितुमिच्छन्तस्तच्छरीरमशाश्वतम् ॥ १८ ॥

अशाश्वतानि गात्राणि विभवो नैव शाश्वतः ॥

नित्यं सन्निहितो मृत्युः कर्तव्यो धर्मसङ्ग्रहः ॥ १९ ॥

यदि नाम न धर्माय न कामाय न कीर्तये ॥

यत्परित्यज्य गन्तव्यं तद्धनं किं न दीयते ॥ २० ॥

जीवन्ति जीविते यस्य विप्रमित्राणि बान्धवाः ॥

जीवितं सफलं तस्य चात्मार्थे को न जीवति ॥ २१ ॥

पशवोऽपि हि जीवन्ति केवलात्मोदरम्भराः ॥

किं कायेन सुगुप्तेन बलिना चिरजीविना ॥ २२ ॥

ग्रासादर्द्धमपि ग्रासमर्थिभ्यः किं न दीयते ॥

इच्छानुरूपो विभवः कदा कस्य भविष्यति ॥ २३ ॥

अदाता पुरुषस्त्यागी धनं सन्त्यज्य गच्छति ॥

दातारं कृपणं मन्ये मृतोऽप्यथन मुञ्चति ॥ २४ ॥

प्राणनाशस्तु कर्तव्यो यः कृतार्थो न स मृतः ॥

अकृतार्थस्तु यो मृत्युं प्राप्तः खरसमो हि सः ॥ २५ ॥

अनाहूतेषु यद्दत्तं यच्च दत्तमयाचितम् ॥

भविष्यति युगस्यान्तस्तस्यान्तो न भविष्यति ॥ २६ ॥

मृतवत्सा यथा गौश्च कृष्णा लोभेन दुह्यते ॥

परस्परस्य दानानि लोकयात्रा न धर्मतः ॥ २७ ॥

अदृष्टे चाशुभे दानं भोक्ता चैव न दृश्यते ॥

पुनरागमनं नास्ति तत्र दानमनतकम् ॥ २८ ॥

मातापितृषु यद्दद्याद्भ्रातृषु श्वशुरेषु च ॥

जायापत्येषु यद्दद्यात्सोऽनन्तः स्वर्गसङ्क्रमः ॥ २९ ॥

पितुः शतगुणदानं सहस्रं मातुरुच्यते ॥

भगिन्यां शतसाहस्रं सोदरे दत्तमक्षयम् ॥ ३० ॥

अहन्यहनि दातव्यं ब्राह्मणेषु मुनीश्वराः ॥

आगमिष्यति यत्पात्र तत्पात्रं तारयिष्यति ॥ ३१ ॥

किञ्चिद्वेदमयं पात्रं किञ्चित्पात्रं तपोमयम् ॥

पात्राणामुत्तमं पात्रं शूद्रान्नं यस्य नोदरे ॥ ३२ ॥

यस्य चैव गृहे मूर्खो दूरे चापि गुणान्वितः ॥

गुणान्वितायदातव्यं नास्ति मूर्खे व्यतिक्रमः ॥ ३३ ॥

देवद्रव्यविनाशेन ब्रह्मस्वहरणेन च ॥

कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥ ३४ ॥

ब्राह्मणातिक्रमो नास्ति विप्रे वेदविवर्जिते ॥

ज्वलन्तमग्निमुत्सृज्य नहि भस्मनिहूयते ॥ ३५ ॥

सन्निकृष्टमधीयानं ब्राह्मणं यो व्यतिक्रमेत् ॥

भोजनञ्चैव दानञ्च हन्यात्रिपुरुषं कुलम् ॥३६ ॥

यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः ॥

यश्चविप्रोऽनधीयानस्त्रयस्ते नामधारकाः ॥३७ ॥

ग्रामस्थानं यथा शून्यं यथा कूपश्च निर्जलः ॥

यश्च विप्रोऽनधीयानस्त्रयस्ते नामधारकाः ॥ ३८ ॥

ब्राह्मणेषु च यद्दत्तं यच्च वैश्वानरे हुतम् ॥

तद्धनं धनमाख्यातं धनं शेषं निरर्थकम् ॥ ३९ ॥

सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे ॥

सहस्रगुणमाचार्य्येह्यनन्तं वेदपारगे ॥ ४० ॥

ब्रह्मबीजसमुत्पन्नोमन्त्रसंस्कारवर्जितः ॥

जातिमात्रोपजीवी च स भवेद्ब्राह्मणः समः ॥ ४१ ॥

गर्भाधानादिभिर्मन्त्रैर्वेदोपनयनेन च ॥

नाध्यापयति नाधीतेस भवेद्ब्राह्मणब्रुवः ॥ ४२ ॥

अग्निहोत्री तपस्वी च वेदमध्यापयेच्च यः ॥

सकल्पं सरहस्यं च तमाचार्य्यं प्रचक्षते ॥ ४३ ॥

इष्टिभिः पशुबन्धैश्च चातुर्मास्यैस्तथैव च ॥

अग्निष्टोमादिभिर्यज्ञैर्येन चेष्टं स इष्टवान् ॥ ४४ ॥

मीमांसते च यो वेदान्षड्भिरङ्गैः सविस्तरैः ॥

इतिहासपुराणानि स भवेद्वेदपारगः ॥ ४५ ॥

ब्राह्मणा येन जीवन्ति नान्यो वर्णः कथञ्चन ॥

ईदृक्पथमुपस्थाय कोऽन्यस्तं त्यक्तुमुत्सहेत् ॥ ४६ ॥

ब्राह्मणः स भवेच्चैव देवानामपि दैवतम् ॥

प्रत्यक्षं चैव लोकस्य ब्रह्मतेजो हि कारणम् ॥ ४७ ॥

ब्राह्मणस्य मुखं क्षेत्रं निष्कर्करमकण्टकम् ॥

वापयेत्तत्र बीजानि सा कृषिः सार्वकामिकी ॥ ४८ ॥

सुक्षेत्रे वापयेद्बीजं सुपात्रे दापयेद्धनम् ॥

सुक्षेत्रे च सुपात्रे च क्षिप्तं नैव हि दुष्यति ॥ ४९ ॥

विद्याविनयसम्पन्ने ब्राह्मणे गृहमागते ॥

क्रीडन्त्योषधयः सर्वा यास्यामः परमां गतिम् ॥ ५० ॥

नष्टशौचे व्रतभ्रष्टे विप्रेवेदविवर्जिते ॥

दीयमानं रुदत्यन्नं भयाद्वै दुष्कृतं कृतम् ॥ ५१ ॥

वेदपूर्णं मुखं विप्रं सुभुक्तमपि भोजयेत् ॥

न च मूर्खं निराहारं षड्रात्रमुपवासिनम् ॥ ५२ ॥

यानि यस्य पवित्राणि कुक्षौ तिष्ठन्ति भो द्विजाः ॥

तानि तस्य प्रयोज्यानि न शरीराणि देहिनाम् ॥ ५३ ॥

यस्य देहे सदाश्नन्ति हव्यानि त्रिदिवौकसः ॥

कव्यानि चैव पितरः किम्भूतमधिकं ततः ॥ ५४ ॥

यद्भुङ्क्तेवेदविद्विप्रः स्वकर्मनिरतः शुचिः ॥

दातुः फलमसङ्ख्यातं प्रतिजन्म तदक्षयम् ॥ ५५ ॥

हस्त्यश्वरथयानानि केचिदिच्छन्ति पण्डिताः ॥

अहं नेच्छामि मुनयः कस्येताः सर्वसम्पदः ॥ ५६ ॥

वेदलाङ्गलकृष्टेषुद्विजश्रेष्ठेषु सत्सु च ॥

यत्पुरा पातितं बीजं तस्यैताः सस्यसम्पदः॥ ५७ ॥

शतेषु जायते शूरः सहस्रेषु च पण्डितः ॥

वक्ता शतसहस्रेषु दाता भवति वा न वा ॥

न रणे विजयाच्छूरोऽध्ययनान्न च पण्डितः ॥

न वक्ता वाक्पटुत्वेन न दाता चार्थदानतः ॥ ५९ ॥

इन्द्रियाणां जये शूरो धर्मं चरति पण्डितः ॥

हितप्रायोक्तिभिर्वक्ता दाता सन्मानदानतः ॥ ६० ॥

यद्येकपङ्क्त्यां विषमं ददाति स्नेहाद्भयाद्वा यदि वार्थहेतोः ॥

वदेषु दृष्टं ह्यृषिभिश्चगीतं तद्ब्रह्महत्यां मुनयो वदन्ति ॥ ६१॥

ऊषरे वापितं बीजं भिन्नभाण्डेषु गोदुहम् ॥

हुतं भस्मनि हव्यं च मूर्खे दानमशाश्वतम् ॥ ६२ ॥

मृतसूतकपुष्टाङ्गो द्विजः शूद्रान्नभोजने ॥

अहमेवं न जानामि कां योनिं स गमिष्यति ॥ ६३ ॥

शूद्रान्नेनोदरस्थेन यदि कश्चिन्म्रियेत यः ॥

स भवेत्सूकरोनूनं तस्य वा जायते कुले ॥ ६४ ॥

गृध्रोद्वादश जन्मानि सप्तजन्मानि सूकरः ॥

श्वानश्च सप्तजन्मानि हीत्येवं मनुरब्रवीत् ॥ ६५ ॥

अमृतं ब्राह्मणान्नेन दारिद्र्यङ्क्षत्रियस्य च ॥

वैश्यान्नेन तु शूद्रत्वं शूद्रान्नान्नरकं व्रजेत् ॥ ६६ ॥

यश्च भुङ्क्तेऽथ शूद्रान्नम्मासमेकं निरन्तरम् ॥

इह जन्मनि शूद्रत्वं मृतः श्वा चैव जायते ॥ ६७ ॥

यस्य शूद्रा पचेन्नित्यं शूद्रा वा गृहमेधिनी ॥

वर्जितः पितृदेवैस्तु रौरवंयाति स द्विजः ॥ ६८ ॥

भाण्डसङ्करसङ्कीर्णा नानासङ्करसङ्कराः ॥

योनिसङ्करसङ्कीर्णा निरयं यान्ति मानवाः ॥ ६९ ॥

पङ्क्तिभेदी वृथापाकी नित्यं ब्राह्मणनिन्दकः ॥

आदेशी वेदविक्रेता पञ्चैते ब्रह्मघातकाः ॥ ७० ॥

इदं व्यासमतं नित्यमध्येतव्यं प्रयत्नतः ॥

एतदुक्ताचारवतः पतनं नैव विद्यते ॥ ७१ ॥

इति वेदव्यासीये धर्मशास्त्रे चतुर्थोऽध्यायः समाप्तः ॥ ४ ॥

** इति व्यासस्मृतिः समाप्ता ॥ १२ ॥**

<MISSING_FIG href="../books_images/1682508164.jpg"/>

श्रीः

  1. " कलश-पञ्चपात्रादिरूपाणि द्वन्द्वपात्राणि परस्परसम्बन्धशालीनित्यर्थः" ↩︎

  2. “पुरुषम् इति पाठान्तरम् । तदा पत्युरन्यं पुरुषमित्यर्थः भ्रातृपित्रादींस्तु विकारशङ्काया अभावाद्वदेत् ।” ↩︎

  3. “एकेन भागेन – चतुर्थाशेनेत्यर्थः।” ↩︎