व्याससंहिता

[[व्याससंहिता Source: EB]]

[

व्याससंहिता ।

प्रथमोऽध्यायः ।

वाराणस्यां सुखासीनं वेदव्यासं तपोनिधिम् ।
पप्रच्छुर्म्मुनयोऽभ्येत्य धर्म्मान् वर्णव्यवस्थितान् ॥ 1.1 ॥
स पृष्टः स्मृतिमान् स्मृत्वा स्मृतिं वेदार्थगर्भिताम् ।
उवाचाथ प्रसन्नात्मा मुनयः श्रूयतामिति ॥ 1.2 ॥
यत्र यत्र स्वभावेन कृष्णसारो मृगः सदा ।
चरते तत्र वेदोक्तो धर्म्मो भवितुमर्हति ॥ 1.3 ॥
श्रुतिस्मृतिपुराणानां विरोधो यत्र दृश्यते ।
तत्र श्रौतं प्रमाणन्तु तयोर्द्वैधे स्मृतिर्वरा ॥ 1.4 ॥
ब्राह्मणक्षत्रियविशस्त्रयो वर्णाः द्विजातयः ।
श्रुतिस्मृतिपुराणोक्तधर्म्मयोग्यास्तु नेतरे ॥ 1.5 ॥
शूद्रो वर्णश्चतुर्योऽपि वर्णत्वाद्धर्म्ममर्हति ।
वेदमन्त्रस्वधास्वाहावषट्‌कारादिभिर्विना ॥ 1.6 ॥
विप्रवद्विप्रविन्नासु क्षत्रविन्नासु विप्रवत् ।
जातकर्म्माणि कुर्व्वीत ततः शूद्रासु शूद्रवत् ॥ 1.7 ॥
वैश्यास विप्रक्षत्राभ्यां ततः शूद्रासु शूद्रवत् ।
अधमादुत्तमायान्तु जातः शूद्राधमः स्मृतः ॥ 1.8 ॥
ब्राह्मण्यां शूद्रजनितश्चाण्डालो धर्म्मवर्ज्जितः ।
कुमारीसम्भवस्त्वेकः सगोत्रायां द्वितीयकः ॥ 1.9 ॥
ब्राह्मण्यां शूद्रजनितश्चाण्डालस्त्रिविधः स्मृतः ।
वर्द्धकी नापितो गोप आशापः कुम्भकारकः ॥ 1.10 ॥
वणिक्‌किरातकायस्थमालाकारकुटुम्विनः ।
वरटो मेदचण्डालोदासश्वपचकोलकाः ॥ 1.11 ॥
एतेऽन्त्यजाः समाख्याता ये चान्ये च गवाशनाः ।
एषां सम्भाषणात् स्नानं दर्शनादर्कवीक्षणम् ॥ 1.12 ॥
गर्भाधानं पुंसवनं सीमन्तो जातकर्म्म च ।
नामक्रियानिष्क्रमणेऽन्नाशनं वपनक्रिया ॥ 1.13 ॥
कर्णवेधो व्रतादेशो वेदारम्भक्रियाविधिः ।
केशान्तः स्नानमुद्वाहो विवाहाग्निपरिग्रहः ॥ 1.14 ॥
त्रेताग्निसङ्ग्रहश्चेति संस्काराः षोड़श स्मृताः ।
नवैताः कर्णवेधान्ता मन्त्रवर्ज्जं क्रियाः स्त्रियाः ॥ 1.15 ॥
विवाहो मन्त्रतस्तस्याः शूद्रस्यामन्त्रतो दश ।
गर्भाधानं प्रथमतस्तृतीये मासि पुंसवः ॥ 1.16 ॥
सीमन्तश्चाष्टमे मासि जाते जातक्रिया भवेत् ।
एकादशेऽह्नि नामार्कस्येक्षा मासि चतुर्थके ॥ 1.17 ॥
षष्ठे मास्यन्नमश्रीयाच्चूड़ाकर्म्म कुलोचितम् ।
कृतचूड़े च बाले च कर्णवेधो विधीयते ॥ 1.18 ॥
विप्रो गर्भाष्टमे वर्षे क्षत्र एकादशे तथा ।
द्वादशे वैश्यजातिस्तु व्रतोपनयमर्हति ॥ 1.19 ॥
तस्य प्राप्तव्रतस्यायं कालः स्याद्दिगुणाधिकः ।
वेदव्रतच्युतो व्रात्यः स व्रात्यः स्तोममर्हति ॥ 1.20 ॥
द्वे जन्मनी द्विजातीना मातुः स्यात् प्रथमं तयोः ।
द्वितीयं छन्दसां मातुर्ग्रहणाद्विधिवद्‌गुरोः ॥ 1.21 ॥
एवं द्विजातिमापन्नो विमुक्तो वान्यदोषतः ।
श्रुतिस्मृतिपुराणाना भवेदध्ययनक्षमः ॥ 1.22 ॥
उपनीतो गुरूकुले वमेन्नित्यं समाहितः ।
विभृयाद्दण्डकौपीनोपवीताजिनमेखलाः ॥ 1.23 ॥
पुण्येऽह्नि गुर्व्वनुज्ञातः कृतमन्त्राहुतिक्रियः ।
स्मृत्वोङ्कारञ्च गायत्रीमारमेद्वेदमादितः ॥ 1.24 ॥
शौचाचारविचारार्थं धर्म्मशास्त्रमपि द्विजः ।
पठेत गुरूतः सम्यक् कर्म्म तद्दिष्टमाचरेत् ॥ 1.25 ॥
ततोऽभिवाद्य स्थविरान् गुरूञ्चैव समाश्रयेत् ।
स्वाध्यायार्थं तदा यत्नं सर्व्वदा हितमाचरेत् ॥ 1.26 ॥
नापक्षिप्तोऽपि भाषेत न व्रजेत ताड़ितोऽपि वा ।
विद्वेषमथ पैशुन्यं हिंसनञ्चार्कवीक्षणम् ॥ 1.27 ॥
तौर्य्यत्रिकानृतोन्मादपरिवादानलङ्क्रियाम् ।
अञ्जनोद्वर्त्तनादर्शस्रग्विलेपनयोषितः ॥ 1.28 ॥
वृथाटनमसन्तोषं ब्रह्मचारी विवर्ज्जयेत् ।
ईषच्चलितमध्याह्नेऽनुज्ञातो गुरूणा स्वयम् ॥ 1.29 ॥
अलोलुपश्चरेद्भैक्षं व्रतिपूत्तमवृतिषु ।
सद्योभिक्षान्नमादाय वित्तवत्तदुपस्पृशेत् ॥ 1.30 ॥
कृतमाध्याह्निकोऽश्रीयादनुज्ञातो यथाविधि ।
नाद्यादेकान्नमुच्छिष्टं भुक्त्वा चाचामितामियात् ॥ 1.31 ॥
नान्यद्भक्षितमादद्यादापन्नो द्रविणादिकम् ।
अनिद्न्यामन्त्रितः श्राद्धेपैत्र्येऽद्याद्‌गुरूचोदितः ॥ 1.32 ॥
एकान्नमप्यविरोधे व्रतानां प्रथमाश्रमी ।
भुक्त्वा गुरूमुपासीत कृत्वा सन्धुक्षणादिकम् ॥ 1.33 ॥
समिधोऽग्नावादधीत ततः परिचरेद्‌गुरूम् ।
शयीत गुर्वनुज्ञातः प्रह्वश्च प्रथमं गुरोः ॥ 1.34 ॥
एवमन्वहमभ्यासी ब्रह्मचारी व्रतं चरेत् ।
हितोपवादः प्रियवाक् सम्यग्गुर्वर्थसाधकः ॥ 1.35 ॥
नित्यमाराधयेदेनमा समाप्तेः श्रुतिग्रहात् ।
अनेन विधिनाधीतवेदमन्त्रो द्विजो नयेत् ॥ 1.36 ॥
शापानुग्रहसामर्थ्यमृषीणाञ्च सलोकताम् ।
पयोऽमृताभ्यां मधुभिः साज्यैः प्रीणन्ति देवताः ॥ 1.37 ॥
तस्मादहरहर्वेदमनध्यायमृते पठेत ।
यदङ्गं तदनध्याये गुरोर्वचनमाचरन् ॥ 1.38 ॥
व्यतिक्रमादसम्पूर्णमनहङ्कुतिराचरेत् ।
परत्रेह च तद्‌ब्रह्म अनधीतमपि द्विजम् ।
यस्तूपनयनादेतदा मृत्योर्व्रतमाचरेत् ॥ 1.39 ॥
स नैष्ठिको ब्रह्मचारी ब्र्हमसायुज्यमाप्नुयात् ।
उकरुर्व्वाणको यस्तु द्बिजः षड्‌विंशवार्षिकः ॥ 1.40 ॥
केशान्तकर्म्मणा तत्र यथोक्तचरितव्रतः ।
समाप्यवेदान् वेदौ वा वेदं वा प्रसभं द्विजः ।
म्रायीत गुर्वनुज्ञातः प्रवृत्तोदितदक्षिणः ॥ 1.41 ॥
इति श्रीवेदव्यासीये धर्म्मशास्त्रे प्रथमोऽध्यायः ॥ 1 ॥

द्वितीयोऽध्यायः ।

एवं स्नातकतां प्राप्तो द्वितीयाश्रमकाङ्क्षया ।
प्रतीक्षेत विवाहार्थमनिद्न्यान्वयसम्भवाम् ॥ 2.1 ॥
अरोगादुष्टवंशोत्थामशुल्कदानदूषिताम् ।
सवर्णामसमानार्षाममातृपितृगोत्रजाम् ॥ 2.2 ॥
अनन्यपूर्विकां लघीं शुभलक्षणसंयुताम् ।
धृताधोवसनां गौरों विख्यातदशपूरूषाम् ॥ 2.3 ॥
ख्यातनाम्नः पुत्रवतः सदाचारवतः सतः ।
दातुमिच्छोर्द्दुहितरं प्राप्य धर्म्मेण चोद्वहेत् ॥ 2.4 ॥
ब्रह्मोद्वाहविधानेन तदभावे परो विधिः ।
दातव्यैषा सट्टक्षाय वयोविद्यान्वयादिभिः ॥ 2.5 ॥
पितृवत् पितृभ्रातृषु पितृव्यज्ञातिमातृषु ।
पूर्व्वाभावे परो दद्यात् सर्व्वाभावे स्वयं व्रजेत् ॥ 2.6 ॥
यदि सा दातृवैकल्याद्रजः पश्येत् कुमारिका ।
भ्रूण हत्याश्च यावत्यः पतितः स्यात् तदप्रदः ॥ 2.7 ॥
तुभ्यं दास्याम्यहमिति ग्रहीष्यामीति यस्तयोः ।
कृत्वा समयमन्योन्यं भजते न स दण्डभाक् ॥ 2.8 ॥
त्यजन्नदुष्टां दण्ड्यः स्याद्दूषयंश्चाप्यदूषिताम् ॥ 2.9 ॥
ऊढ़ायां हि सवर्णायामन्यां वा काममुद्वहेत् ।
तस्यामुत्‌पादितः पुत्रो न सवर्णात् प्रहीयते ॥ 2.10 ॥
उद्वहेत् क्षत्रियां विप्रो वैश्याञ्च क्षत्रियो विशाम् ।
स तु शूद्रो द्विजः कश्चिन्नाधमः पूर्व्ववर्णजाम् ॥ 2.11 ॥
नानावर्णासु भार्य्यासु सवर्णा सहचारिणी ।
धर्म्म्या धर्म्मषु धर्म्मिष्ठा ज्येष्ठा तस्य स्वजातिषु ॥ 2.12 ॥
पाटितोऽयं द्विजाः पूर्व्वमेकदेहः स्वयम्भूवा ।
पतयोऽर्द्धेन चार्द्धेन पत्र्योऽभूवन्निति श्रुतिः ॥ 2.13 ॥
यावन्न विन्दते जायां तावदर्द्धो भवेत् पुमान् ।
नार्द्धं प्रजायते सर्व्वं प्रजायतेत्यपि श्रुतिः ॥ 2.14 ॥
गुर्व्याता भूस्त्रिवर्गस्य वोढ़ं नान्येन शक्यते ।
यतस्ततोऽन्वहं भूत्वा स्ववशो विभृयाच्च ताम् ॥ 2.15 ॥
कृतदारोऽग्निपत्रीभ्यां कृतवेश्मा गृहं वसेत् ।
स्वकृत्यं वित्तमासाद्य वैतानाग्निं न हापयेन् ॥ 2.16 ॥
स्मार्त्तं वैवाहिके वह्नौ श्रौतं वैतानिकाग्निषु ।
कर्म्म कुर्य्यात् प्रतिदिनं विधिवत् प्रीतिपूर्व्वतः ॥ 2.17 ॥
सम्यग्धर्म्मार्थकामेषु दम्पतिभ्यामहर्निशम् ।
एकचित्ततया भाव्यं समानव्रतवृत्तितः ॥ 2.18 ॥
न पृथग्विद्यते स्त्रीणां त्रिवर्गविधिसाधनम् ।
भावतो ह्यतिदेशाद्वा इति शास्त्रविधिः परः ॥ 2.19 ॥
पत्युः पूर्वं समुत्थाय देहशुद्धिं विधाय च ।
उत्थाप्य शयनाद्यानि कृत्वा वेश्मविशोधनम् ॥ 2.20 ॥
मार्ज्जनैर्लेपनैः प्राप्य साग्निशालं स्वमङ्गनम् ।
शोधयेदग्निकार्य्याणि स्निग्धान्युष्णेन वारिणा ॥ 2.21 ॥
प्रोक्षणैरिति तान्येव यथास्थानं प्रकल्पयेत् ।
द्वन्द्वपात्राणि सर्वाणि न कदाचिद्वियोजयेत् ॥ 2.22 ॥
शोधयित्वा तु पात्राणि पूरयित्वा तु धारयेत् ।
महानसस्य पात्राणि वहिः प्रक्षाल्य सर्वथा ॥ 2.23 ॥
मृद्भिश्च शोधयेच्चुल्लों तत्राग्निं विन्यसेत्ततः ।
स्मृत्वा नियोगपात्राणि रसांश्च द्रविणानि च ॥ 2.24 ॥
कृतपूर्वाह्णकार्य्या च स्वगुरुनभिवादयेत ।
ताभ्यां भर्त्तृपितृभ्यां वा भ्रातृमातुलवान्धवैः ॥ 2.25 ॥
वस्त्रालङ्काररत्नानि प्रदत्तान्येव धारयेत् ।
मनोवाक्‌कर्म्मभिः शुद्धा पतिदेशानुवर्त्तिनी ॥ 2.26 ॥
छायेवानुगता स्वच्छा सखीव हितकर्म्मसु ।
दासीवादिष्टकार्य्येषु भार्य्या भर्त्तुः सदा भवेत् ॥ 2.27 ॥
ततोऽन्नसाधनं कृत्वा पतये विनिवेद्य तत् ।
वैश्वदेककृतैरन्नैर्भाजनीयाश्च बोजयेत् ॥ 2.28 ॥
पतिञ्चैतदनुज्ञातः शिष्टमन्वाद्यमात्मना ।
भुक्त्वा नयेदहः शेषमायव्ययविचिन्तया ॥ 2.29 ॥
पुनः सायं पुनः प्रातर्गृहशुद्धिं विधाय च ।
कृतान्नसाधना साध्वी सुभृशं भोजयेत् पतिम् ॥ 2.30 ॥
नातितृप्त्या स्वयं भुक्त्वा गृहनीतिं विधाय च ।
आस्तीर्य्य साधु शयनं ततः परिचरेत् पतिम् ॥ 2.31 ॥
सुप्तेपतौ तदभ्यासे स्वपेतद्गतमानसा ।
अनग्ना चाप्रमत्ता च निष्कामा च जितेन्द्रिया ॥ 2.32 ॥
नौच्चैर्वदेन्न परूषं नबहून् पत्युरप्रियम् ।
न केनचित् विवदेच्च अप्रलापविलापिनी ॥ 2.33 ॥
न चातिव्ययशीला स्यान्न धर्म्मार्थविरोधिनी ।
प्रमादोन्मादरोषेर्षावञ्चनञ्चाभिमानिताम् ॥ 2.34 ॥
पैशुन्यहिंसाविद्वेषमहाहङ्कारधूर्त्तताः ।
नास्तिक्यसाहसस्तेयदम्भान् साध्वी विवर्ज्जयेत् ॥ 2.35 ॥
एवं परिचरन्ती सा पतिं परमदैवतम् ।
यशः शमिह यात्येव परत्र च सलोकताम् ॥ 2.36 ॥
योषितो नित्यकर्म्मोक्तं नैमित्तिकमथोच्यते ।
रजोदर्शनतो दोषात् सर्वमेव परित्यजेत् ॥ 2.37 ॥
सर्वेरलक्षित्य शीघ्रं लज्जितान्तर्गृहे वसेत् ।
एकाम्बरावृता दीना स्नानालङ्कारवर्ज्जिता ॥ 2.38 ॥
मौनिन्यधोमुखी चक्षुः पाणिपद्भिरचञ्चला ।
अश्रीयात् केवलं भक्तं नक्तं मृन्मयभाजने ॥ 2.39 ॥
स्वपेद्भूमावप्रमत्ता क्षपेदेवमहत्रयम् ।
स्नायीत च त्रिरात्रान्ते सवैलमुदिते रवौ ॥ 2.40 ॥
विलोक्य भर्त्तुवन्दनं शुद्धा भवति धर्म्मतः ।
कृतशौचा पुनः कर्म्म पूर्ववच्च समाचरेत् ॥ 2.41 ॥
रजोदर्शनतो याः स्यूरात्रयः षोड़शर्त्तवः ।
ततः पुंवीजमक्लिष्टं शुद्धे क्षेत्रे प्ररोहति ॥ 2.42 ॥
चतस्रश्चादिमा रात्रीः पर्ववच्च विवर्ज्जयेत् ।
गच्चेद्‌युग्मासु रात्रीषु पौष्णपित्रर्क्षराक्षसान् ॥ 2.43 ॥
प्रच्छादितादित्यपथे पुमान् गच्छेत् सुयोषितः ।
क्षौमालङ्कृदवाप्नोति पुत्रं पूजितलक्षणम् ॥ 2.44 ॥
ऋतुकालेऽभिगम्यैवं ब्रह्मचर्य्ये व्यवस्थितः ।
गच्छन्नपि यथाकामं न दुष्टः स्यादनन्यकृत् ॥ 2.45 ॥
भ्रूणहत्यामवाप्नोति ऋतौ भार्य्यापराङ्मुखः ।
सा त्ववाप्याऽन्यतो गर्भं त्याज्या भवति पापिनी ॥ 2.46 ॥
महापातकदुष्टा च पतिगर्भविनाशिनी ।
सद्‌वृत्तचारिणीं पत्नीं त्यक्त्वा पतति धर्म्मतः ॥ 2.47 ॥
महापातक दुष्टोऽपि नाप्रतीक्ष्यस्तया पतिः ।
अशुद्धे क्षयमादूरं स्थितायामनु चिन्तया ॥ 2.48 ॥
व्यभिचारेण दुष्टानां पतीनां दर्शनादृते ।
धिक्‌कृतायामवाच्यायामन्यत्र वासयेत् पतिः ॥ 2.49 ॥
पुनस्तामार्त्तवस्नाता पूर्ववद्व्यवहारयेत् ।
धूर्त्ताञ्च धर्म्मकामघ्नीमपुत्रां दीर्घरोगिणीम् ॥ 2.50 ॥
सुदुष्टां व्यसनासक्तामहितामधिवासयेत् ।
अदिविन्नामपि विभुः स्त्रीणान्तु समतामियात् ॥ 2.51 ॥
विवर्णा दीनवदना देहसंस्कारवर्ज्जिता ।
पतिव्रता निराहारा शोच्यते प्रोषिते पतौ ॥ 2.52 ॥
मृतं भर्त्तारमादाय ब्राह्मणी वह्निमाविशेत् ।
जीवन्ती चेत्यक्तकेशा तपसा शोधयेद्वपुः ॥ 2.53 ॥
सर्वावस्थासु नारीणां न युक्तः स्यादरक्षणम् ।
तदेवानुक्रमात् कार्य्यं पितृभर्त्तृसुतादिभिः ॥ 2.54 ॥
जाताः सुरक्षिता या ये पुत्रपौत्रप्रपौत्रकाः ।
ये यजन्ति पितृन् यज्ञैर्मोक्षप्राप्तिमहोदयैः ॥ 2.55 ॥
दाहयेदविलम्बेन भार्य्याञ्चात्र व्रजेत सा ॥ 2.56 ॥
इति श्रीवेदव्यासीये धर्म्मशास्त्रे द्वितीयोऽध्यायः ॥ 2 ॥

तृतीयोऽध्यायः ।

नित्यं नैमित्तिकं काम्यमिति कर्म्म त्रिधा मतम् ।
त्रिविधं तच्च वक्ष्यामि गृहस्थस्यावधार्य्यताम् ॥ 3.1 ॥
यामिन्याः पश्चिमे यामे त्यक्तनिद्रो हरिं स्मरेत् ।
आलोक्य मङ्गलद्रव्यं कर्म्मावश्यकमाचरेत् ॥ 3.2 ॥
कृतशौचो निषेव्याग्निं दन्तान् प्रक्षाल्य वारिणा ।
स्नात्वोपास्य द्विजः सन्ध्यां देवादींश्चैव तर्पयेत् ॥ 3.3 ॥
वेदवेदाङ्गशास्त्राणि इतिहासानि चाभ्यसेत् ।
अध्यापयेच्च सच्छिष्यान् सद्विप्रांश्च द्विजोत्तमः ॥ 3.4 ॥
अलव्धं प्रापयेल्लव्धा क्षणमात्रे समापयेत् ।
समर्थो हि समर्थेन नाविज्ञातः क्वचिद्‌द्वसेत् ॥ 3.5 ॥
सरित्‌सरसि वापीषु गर्त्तप्रस्रवणादिषु ।
स्रायीत यावदुद्धत्य पञ्च पिण्डानि वारिणा ॥ 3.6 ॥
तीर्थाभावेऽप्यशक्त्या वा स्नायात् तोयैः समाहृतैः ।
गृहाङ्गणगतस्तत्रयावदम्वरपीड़नम् ॥ 3.7 ॥
स्नानमद्वैवतै कुर्य्यात् पावनैश्चापि मार्ज्जनम् ।
मन्त्रैः प्राणास्त्रिरायम्य सौरैश्चार्कं विलोकयेत् ॥ 3.8 ॥
तिष्ठन् स्थित्वा तु गायत्रीं ततः स्वाध्यायमारभेत् ।
ऋचाञ्च यजुषां साम्नामथर्वाङ्गिरसामपि ॥ 3.9 ॥
इतिहासपराणानां वेदोपनिषदां द्विजः ।
शक्त्या यम्यक्‌पठेन्नित्यमल्पमप्या समापनात् ॥ 3.10 ॥
स यज्ञदानतपसामखिलं फलमाप्नुयात् ।
तस्मादहरहर्वेदं द्विजोऽधीयीत वाग्यतः ॥ 3.11 ॥
धर्म्मशास्त्रेतिहासादि सर्वेषां शक्तितः पठेत् ।
कृतस्वाध्यायः प्रथमं तर्पयेच्चाथ देवताः ॥ 3.12 ॥
जान्वा च दक्षिणं दर्मैः प्रागग्रैः सयवैस्तिलैः ।
एकैकाञ्जलिदानेन प्रकृतिस्थोपवीतकः ॥ 3.13 ॥
समजानुद्धयो ब्रह्मसूत्रहार उदङ्मुखः ।
तिर्य्यादभंश्च वामाग्रैर्यवैस्तिलविमिश्रितैः ॥ 3.14 ॥
अम्भोभिरूत्तरक्षिप्तैः कनिष्ठामूलनिर्गतैः ।
द्वाभ्यां द्वाभ्यामञ्जलिभ्यां मनुष्यांस्तर्पयेत्ततः ॥ 3.15 ॥
दक्षिणाभिमुखः सव्यं जान्वा च द्विगुणैः कुशैः ।
तिलैर्जलैश्च देशिन्या मूलदर्भाद्विनिः मृतैः ॥ 3.16 ॥
दक्षिणांसोपवीतः स्यात् क्रमेणाञ्जलिभिस्त्रिभिः ।
सन्तर्पयेद्दिव्यपितॄंस्तत्‌परांश्च पितॄन् स्वकान् ॥ 3.17 ॥
मातृमातामहांस्तद्वत्रीनेवं द्वि त्रिभिस्त्रिभिः ।
मातामहाश्च येऽप्यन्ये गोत्रिणो दाहवर्ज्जिताः ॥ 3.18 ॥
तनेकाञ्जलिदानेन तर्पयेच्च पृथक् पृथक् ।
असंस्कृतप्रमीता ये प्रेतसंस्कारवर्ज्जिताः ॥ 3.19 ॥
वस्रनिष्पीड़नाम्भोभिस्तेषामाप्यायनं भवेत् ।
अतर्पितेषु पितृषु वस्रं निष्पीड़येच्च यः ॥ 3.20 ॥
निराशा पितरस्तस्य भवन्ति सूरमानुषैः ।
पयोदर्भस्वधाकारगोवनामतिलैर्भवेत् ॥ 3.21 ॥
सुदत्तं तत् पुनस्तेषामेकेनापि वृथा विना ।
अन्यचित्तेन यद्दत्तं यद्दत्तं विधिवर्ज्जितम् ॥ 3.22 ॥
अनासनस्थितेनापि तज्जलं रूधिरायते ।
एवं सन्तर्पिताः कामैस्तर्पकांस्तर्पयन्ति च ॥ 3.23 ॥
ब्रह्मविष्णुशिवादित्यमित्रावरूणनामभिः ।
पूजयेल्लक्षितैर्म्मन्त्रैर्जलमन्त्रोक्तदेवताः ॥ 3.24 ॥
उपस्थाय रवेः काष्ठां पूजयित्वा च देवताः ।
ब्रह्माग्नीन्द्रौषधीजीवविष्णुनामहतांहसाम् ॥ 3.25 ॥
अपां यत्तेति सत्कायं नमस्कारैः अनामभिः ।
कृत्वा मुखं समालम्य स्नानमेवं समाचरेत् ॥ 3.26 ॥
ततः प्रविश्य भवनमावसये हुताशने ।
पाकवज्ञांश्च चतुरो विदध्याद्विधिवद्विजः ॥ 3.27 ॥
अनाहितावसय्याग्निरादायान्नं घृतप्लुतम् ।
शाकलेन विधानेन जुहुयाल्लौकिकेऽनले ॥ 3.28 ॥
व्यस्ताभिर्व्याहृतीभिश्च समस्ताभिस्ततः परम् ।
षड़भिर्द्देवकृतस्येति मन्त्रवद्भिर्यथाक्रमम् ॥ 3.29 ॥
प्राजापत्यं स्विष्टकृतं हुत्वैवं द्वादशाहुतीः ।
ओङ्कारपूर्वः स्वाहान्तस्त्यागः स्विष्टविधानतः ॥ 3.30 ॥
बुवि दर्भान् समास्तीर्य्य वलिकर्म्म समाचरेत् ।
विश्वेभ्यो देवेभ्य इति सर्वेभ्यो भूतेभ्य एव च ॥ 3.31 ॥
भूतानां पतये चेति नमस्कारेण शास्त्रवित् ।
दद्याद्वलित्रयञ्चाप्रे पितृभ्यश्च स्वधा नमः ॥ 3.32 ॥
पात्रनिर्णेजनं वारि वायव्यां दिशि निक्षिपेत् ।
उद्वृत्य षोड़शग्रासमात्रमन्नं घृतोक्षितम् ॥ 3.33 ॥
इदमन्नं मनुष्येभ्यो हन्तेत्युक्त्वा समुत्‌सृजेत् ।
गोत्रनामस्वधाकारैः पितृभ्यश्चापि शक्तितः ॥ 3.34 ॥
षड़भ्योऽन्नमन्वहं दद्यात् पितृयज्ञविधानतः ।
वेदाहीनां पठेत् किञ्चिदल्पं ब्रह्ममथाप्तये ॥ 3.35 ॥
ततोऽन्यदन्नमादाय निर्गत्य भवनाद्विहिः ।
काकेभ्यः स्वपचेभ्यश्च प्रक्षिपेद्‌ग्रासमेव च ॥ 3.36 ॥
उपविश्य गृहद्वारि तिष्ठेद्‌यावन्मूहूर्त्तकम् ।
अप्रमुक्तोऽतियिं लिप्स र्भावशुद्धः प्रतीक्षकः ॥ 3.37 ॥
आगतं दूरतः शान्तं भोक्तुकाममकिञ्चनम् ।
दृष्ट्वा सन्मुखमभ्यत्य सतकृत्य प्रश्रयार्च्चनैः ॥ 3.38 ॥
पादधावनसन्मानाभ्यञ्जनादिभिरर्च्चितः ।
त्रिदिवं प्रापयेत् सद्यो यज्ञस्याभ्यधिकोऽतिथिः ॥ 3.39 ॥
कालागतोऽतिथिर्दृष्टवेदपारो गृहागतः ।
द्वावेतौ पूजितौ स्वगं नयतोऽधस्त्वपूजितौ ॥ 3.40 ॥
विवाह्यस्नातकक्ष्माभृदाचार्य्यसुहृट्टत्विजः ।
अर्घ्या भवन्ति धर्म्मेण प्रतिवर्षं गृहागताः ॥ 3.41 ॥
गृहागताय सत्‌कृत्य श्रोत्रियाय यथाविधि ।
भक्तोपकल्पयेदेकं महाभागं विसर्ज्जयेत् ॥ 3.42 ॥
विसर्ज्जयेदनुव्रज्य सुतृप्तश्रोत्रियातिथीन् ।
मित्रमातुलसम्बन्धिबान्धवान् समुपागतान् ॥ 3.43 ॥
भोजयेद्‌गृहिणो भिक्षां सत्‌कृत भिक्षुकोऽर्हति ।
स्वाद्वन्नमश्रन्नस्वादु ददद्गच्छत्यधोगतिम् ॥ 3.44 ॥
गर्भिण्यातुरभृत्येषु बालवृद्धातुरादिषु ।
वुभुक्षितेषु भुञ्जानो गृहस्थोऽश्राति किल्विषम् ॥ 3.45 ॥
नाद्याद्‌गृध्येन्नपाकाद्यं कदाचिदनिमन्त्रितः ।
निमन्त्रितोऽपि निद्न्येन्न प्रत्याख्यानं द्विजोऽर्हति ॥ 3.46 ॥
शूद्राभिशस्तवार्द्धु व्यवागदुष्टक्रुरतस्कराः ।
रूद्धापविद्धबद्धोप्रबधबन्धनजीविनः ॥ 3.47 ॥
शैलूषशौण्डिकोन्नद्धोन्मत्तव्रात्यव्रतच्युताः ।
नग्नास्तिकनिर्लज्जपिशुनव्यसनान्विताः ॥ 3.48 ॥
कदर्य्यस्त्रीजितानार्य्यपरवादकृता नराः ।
अनीशाः कीर्त्तिमन्तोऽपि राजदेवस्वहारकाः ॥ 3.49 ॥
शयनासनसंसर्गवृत्तकर्म्मादिदूषिताः ।
अश्रद्दधानाः पतिता भ्रष्टाचारादयश्च ये ॥ 3.50 ॥
अभोज्यान्नाः स्युरन्नादो यस्य यः स्यात् सतत्समः ।
नापितान्वयमित्रार्द्धसोरिणो दासगोपकाः ॥ 3.51 ॥
शूद्राणामप्यमीपान्तु भुक्त्वान्नं नैव दुष्यति ।
धर्म्मेणान्योन्यबोज्यान्ना द्विजास्तु विदितान्वयाः ॥ 3.52 ॥
स्ववृत्तोपार्ज्जितं मेध्यमाकरस्थममाक्षिकम् ।
अखलीढ़मगोघ्रातमस्पृष्टं शूद्रवायसैः ॥ 3.53 ॥
अनुच्छिष्टमसन्दुष्टमपर्य्युषितमेव च ।
अन्मानवाह्यमन्नाद्यमाद्यं नित्यं सुसंस्कतम् ॥ 3.54 ॥
कृशरापूपसन्थापवपायसं शष्कुलीति च ।
नाश्रीयाद्‌ब्राह्मणो मांसमनियुक्तः कथञ्चन ॥ 3.55 ॥
क्रतौ श्राद्धे नियुक्तो वा अनश्रन् पतति द्विजः ।
मृगयोपार्ज्जितं मांसमभ्यर्च्च्य पितृदेवताः ॥ 3.56 ॥
क्षत्रियो द्वादशोनं तत् क्रीत्वा वैश्योऽपि धर्म्मतः ।
द्विजो जग्ध्वा वृथामांसमभ्यर्च्च्य पितृदेवताः ॥ 3.57 ॥
निरयेष्यक्षयं वासमाप्नोत्याचन्द्रतारकम् ।
सर्वान् कामान् समासाद्य फलमश्वमखस्य च ॥ 3.58 ॥
मुनिसाम्यमवाप्नोति गृहस्थोऽपि द्बिजोत्तमः ।
द्विजभोज्यानि गव्यानि महिष्याणि पयांसि च ॥ 3.59 ॥
निर्द्दशासन्धिसम्बन्धि वत्‌सवन्ति पयांसि च ।
पलाण्डूश्वेतवृन्ताकरक्तमूलकमेव च ॥ 3.60 ॥
गृञ्जनारूणवृक्षासृग् जतुगर्भफलानि च ।
अकालकुसुमादीनि द्विजो जग्‌ध्वैन्दवं चरेत् ॥ 3.61 ॥
वागदूषितमविज्ञातमन्यपीड़िक्तकार्य्यापि ।
दूतेभ्योऽन्नमदत्त्वा च तदन्नं गृहिणो दहेत् ॥ 3.62 ॥
हैमराजतकांश्येषु पात्रेष्वद्यात् सदा गृहो ।
तदभावे साधुगन्धलोध्रद्रुमलतासु च ॥ 3.63 ॥
पलाशपद्मपत्रेषु गृहस्थो भोक्तुमर्हति ।
ब्रह्मचारी यतिश्चैव श्रेयो यद्भोक्तुमर्हति ॥ 3.64 ॥
अभ्युक्ष्यान्नं नमस्कारैर्भुवि दद्याद्वलित्रयम् ।
भूपतये मुवः पतये भूतानां पतये तथा ॥ 3.65 ॥
अपः प्राश्य ततः पश्चात् पञ्चप्राणाहुतिक्रमात् ।
स्वाहाकारेण जुहुयाच्छेषमद्याद्यथासुखम् ॥ 3.66 ॥
अनन्यचितो भुञ्जीत वागयतोऽन्नमकुत्‌सयन् ।
आतृप्तरेन्नमश्रीयादक्षुणं पात्रमुत्‌मृजेत् ॥ 3.67 ॥
उच्छिष्टमन्नमुद्धृत्य ग्रासमेकं भुवि क्षिपेत् ।
आचान्तः साधुसङ्गेन सद्विद्यापठनेन च ॥ 3.68 ॥
वृत्तवृद्धकथाभिश्च शेषाहमतिवाहयेत् ।
सायं सन्ध्यामुपासीत हुत्वाग्निं भृत्यसंयुतः ॥ 3.69 ॥
आपोशानक्रियापूर्वमश्रीयादन्वहं द्विजः ।
सायमप्यतिथिः पूज्यो होमकालागतोऽनिशम् ॥ 3.70 ॥
श्रद्धया शक्तितो नित्यं श्रुतं हन्यादपूजितः ।
नातितृप्त उपस्पृश्य प्रक्षाल्य चरणौ शुचिः ॥ 3.71 ॥
अप्रत्यगुत्तरशिराः शयीत शयने शुभे ।
शक्तिमानुदिते काले स्नानं सन्ध्यां न हापयेत् ॥ 3.72 ॥
ब्राह्मे मुहूर्त्ते चोत्थाय चिन्तयेद्धितमात्मनः ।
शक्तिमान् मतिमान् नित्यं वृत्तमेतत् समाचरेत् ॥ 3.73 ॥
इति श्रीवेदव्यासीये धर्म्मशास्त्रे तृतीयोऽध्यायः ॥ 3 ॥

चतुर्थोऽध्यायः ।

इति व्यासकृतं शास्त्रं धर्म्मसार समुच्चयेम् ।
आश्रमे यानि पुण्यानि मोक्षधर्म्माश्रितानि च ॥ 4.1 ॥
गृहाश्रमात् परो धर्म्मो नास्ति नास्ति पुनः पुनः ।
सर्वतीर्थ फलं तस्य यथोक्तं यस्तु पालयेत् ॥ 4.2 ॥
गुरूभक्तो भृत्यपोषी दयावाननसूयकः ।
नित्यजापी च होमी च सत्यवादी जितेन्द्रियः ॥ 4.3 ॥
स्वदारे यस्य सन्तोषः परदारनिवर्त्तनम् ।
अप्रवादोऽपि नो यस्य तस्य तीर्थफलं गृहे ॥ 4.4 ॥
परदारान् परद्रव्यं हरते यो दिने दिने ।
सर्वतीर्थाभिषेकेण पापं तस्य न नश्यति ॥ 4.5 ॥
गृहेषु सवनीयेषु सर्वतीर्थफलं ततः ।
अन्नदस्य त्रयो भागाः कर्त्ता भागेन लिप्यते ॥ 4.6 ॥
प्रतिश्रयं पादशौचं ब्राह्मणानाञ्च तर्पणम् ।
न पापं संस्पृशेत्तस्य वलिभिक्षां ददाति यः ॥ 4.7 ॥
पादोदकं पादधृतं दीपमन्नं प्रतिश्रयम् ।
यो ददाति ब्राह्मणेभ्यो नोपसर्पति तं यमः ॥ 4.8 ॥
विप्रपादोदकक्लिन्ना यावत्तिष्ठति मेदिनी ।
तावत् पुष्करपात्रेषु पिवन्ति पितरोऽमृतम् ॥ 4.9 ॥
यत् फलं कपिलादाने कार्त्तिक्यां ज्येष्ठपुष्करे ।
तत् फलं ऋषयः श्रेष्ठा विप्राणां पादशौचने ॥ 4.10 ॥
स्वागतेनाग्नयः प्रीता आसनेन शतक्रतुः ।
पितरः पादशौचेन अन्नाद्येन प्रजापतिः ॥ 4.11 ॥
मातापित्रोः परं तीर्थं गङ्गा गावो विशेषतः ।
ब्राह्मणात् परमं तीर्थं न भूतं न भविष्यति ॥ 4.12 ॥
इन्द्रियाणि वशीकृत्य गृह एव वसेन्नरः ।
तत्र तस्य कुरूक्षेत्रं नैमिषं पुष्कराणि च ॥ 4.13 ॥
गङ्गाद्वारञ्च केदारं सन्निहत्य तथैव च ।
एतानि सर्वतीर्थानि कृत्वा पापैः प्रमुच्यते ॥ 4.14 ॥
वर्णानामाश्रमाणाञ्च चातुर्वर्णस्य भो द्विजाः ।
दानधर्म्मं प्रवक्ष्यामि यथा व्यासेन भाषितम् ॥ 4.15 ॥
यद्ददाति विशिष्टेभ्यो यच्चाश्राति दिने दिने ।
तच्च वित्तमहं मन्ये शेषं कस्याभिरक्षति ॥ 4.16 ॥
यद्ददाति यदश्राति तदेव धनिनो धनम् ।
अन्ये मृतस्य क्रीड़न्ति दारैरपि धनैरपि ॥ 4.17 ॥
किं धनेन करिष्यन्ति देहनोऽपि गतायुषः ।
यद्वर्द्धयितुमिच्छन्तस्तच्छरीरमशाश्वतम् ॥ 4.18 ॥
अशाश्वतानि गात्राणि विभवो नैव शाश्वतः ।
नित्यं सन्निहितोः मृत्युः कर्त्तव्यो धर्म्मसङ्ग्रहः ॥ 4.19 ॥
यदि नाम न धर्म्माय न कामाय न कीर्त्तये ।
यत्‌ परित्यज्य गन्तव्यं तद्धनं किं न दीयते ॥ 4.20 ॥
जीवन्ति जीविते यस्य विप्र मित्राणि बान्धवाः ।
जीवितं सफलं तस्य आत्मार्थे को न जीवति ॥ 4.21 ॥
पशवोऽपि हि जीवन्ति केवलात्मोदरम्भराः ।
किं कायेन सुगुप्तेन बलिना चिरजीविनः ॥ 4.22 ॥
ग्रासादर्द्धमपि ग्रासमर्थिभ्यः किं न दीयते ।
इच्छानुरुपो विभवः कदा कस्य भविष्यति ॥ 4.23 ॥
अदाता पुरूषस्त्यागी धनं सन्त्यज्य गच्छति ।
दातारं कृपणं मन्ये मृतोऽप्यर्थं न मुञ्चति ॥ 4.24 ॥
प्राणनाशस्तु कर्त्तव्यो यः कृतार्थो न सो मृतः ।
अकृतार्थस्तु यो मृत्युं प्राप्तः खरसमो हि सः ॥ 4.25 ॥
अनाहूतेषु यद्दत्तं यच्च दत्तमयाचितम् ।
भविष्यति युगस्यान्तस्तस्यान्तो न भविष्यति ॥ 4.26 ॥
मृतवत्‌सा यथा गौश्च कृष्णा लोभेन दुह्यते ।
परस्परस्य दानानि लोकयात्रा न धर्म्मतः ॥ 4.27 ॥
अदृष्टे चाशुभे दानं भोक्ता चैव न दृश्यते ।
पुनरागमनं नास्ति तत्र दानमनन्तकम् ॥ 4.28 ॥
मातापितृषु यद्दद्याद्‌भ्रातृषु श्वशुरेषु च ।
जायापत्येषु यद्दद्यात् सोऽनन्तः स्वर्गसङ्क्रमः ॥ 4.29 ॥
पितुः शतगुणं दानं सहस्रं मातुरूच्यते ।
भगिन्यां शतसाहस्रं सोदरे दत्तमक्षयम् ॥ 4.30 ॥
अहन्यहनि दातव्यं ब्राह्मनेषु मुनीश्वराः ।
आगमिष्यति यत् पात्रं तत् पात्रं तारयिष्यति ॥ 4.31 ॥
किञ्चिद्वेदभयं पात्रं किञ्चित् पात्रं तपोमयम् ।
पात्राणामुत्तमं पात्रं शूद्रान्नं यस्य नोदरे ॥ 4.32 ॥
यस्य चैव गृहे मूर्खो दूरे चापि गुणान्वितः ।
गुणान्विताय दातव्यं नास्ति मुर्खे व्यतिक्रमः ॥ 4.33 ॥
देवद्रव्यविनाशेन ब्रह्मस्वहरणेन च ।
कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥ 4.34 ॥
ब्राह्मणातिक्रमो नास्ति विप्रे वेदविवर्ज्जिते ।
ज्वलन्तमग्निमुत्‌मृज्य न हि भस्मनि हूयते ॥ 4.35 ॥
सन्निकृष्टमधीयानं ब्राह्मणं यो व्यतिक्रमेत् ।
भोजने चैव दाने च हन्यात्रिपुरूषं कुलम् ॥ 4.36 ॥
यथा काष्ठमयो हस्ती यथा चर्म्ममयो मृगः ।
यश्च विप्रोऽनधीयानस्त्रयस्ते नामधारकाः ॥ 4.37 ॥
ग्रामस्थानं यथा शून्यं यथा कुपश्च निर्ज्जलः ।
यश्च विप्रोऽनधीयानस्त्रयस्ते नामधारकाः ॥ 4.38 ॥
ब्राह्मणेषु च यदृत्तं यच्च वैश्वानरे हुतम् ।
तद्धनं धनमाख्यातं धनं शेषं निरर्थकम् ॥ 4.39 ॥
सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे ।
सहस्रगुणमाचार्य्ये ह्यनन्तं वेदपारगे ॥ 4.40 ॥
ब्रह्मबीजसमुत्‌पन्नो मन्त्रसंस्कारवर्ज्जितः ।
जातिमात्रोपजीवी च स भवेद्‌ब्राह्मणः समः ॥ 4.41 ॥
गर्भाधानादिभिर्म्मन्त्रैर्वेदोपनयनेन च ।
नाध्यापयति नाधीते स भवेद्‌ब्राह्मणब्रुवः ॥ 4.42 ॥
अग्निहोत्री तपस्वी च वेदमध्यापयेच्च यः ।
सकल्पं सरहस्यञ्च तमाचार्य्यं प्रचक्षते ॥ 4.43 ॥
इष्टिभिः पशुबन्धश्चै चातुर्म्मास्यैस्तथैव च ।
अग्निष्टोमादिभिर्यज्ञैर्येन चेष्टं स इष्टवान् ॥ 4.44 ॥
मीमांसते च यो वेदान् षड़्‌भिरङ्गैः सविस्तरैः ।
इतिहासपुराणानि स भवेद्वेदपारगः ॥ 4.45 ॥
ब्राह्मणा येन जीवन्ति नान्यो वर्णः कथञ्चन ।
ईदृक्‌पथमुपस्थाय कोऽन्यस्तं त्यक्तुमुत्‌सहेत् ॥ 4.46 ॥
ब्राह्मणः स भवेच्चैव देवानामपि दैवतम् ।
प्रत्यक्षञ्चैव लोकस्य ब्रह्मतेजो हि कारणम् ॥ 4.47 ॥
ब्राह्मणस्य मुखं क्षेत्रं निष्कर्करमकण्टकम् ।
वापयेत् तत्र वीजानि सा कृषिः सार्वकामिकी ॥ 4.48 ॥
सुक्षेत्रे वापयेद्वीजं सुपात्रेदापयेद्धनम् ।
सुक्षेत्रेच सुपात्रेच क्षिप्तं नैव विदुष्यति ॥ 4.49 ॥
विद्याविनयसम्पन्ने ब्राह्मणे गृहमागते ।
क्रीड़न्त्योषधयः सर्वायास्यामः परमां गतिम् ॥ 4.50 ॥
नष्टशौचे व्रतभ्रष्टे विप्रे वेदविवर्ज्जिते ।
दीयमानं रूदत्यन्नं भयाद्वै दुष्कृतं कृतम् ॥ 4.51 ॥
प्रीतिपूर्णमुखं विप्रं सुभुक्तमपि भोजयेत् ।
न च मूर्ख निराहारं षड़्‌रात्रमुपवासिनम् ॥ 4.52 ॥
यानि यस्य पवित्राणि कुक्षौ तिष्ठन्ति भो द्विजाः ।
तानि तस्य प्रयोज्यानि न शरीराणि देहिनाम् ॥ 4.53 ॥
यस्य देहे सदाश्रन्ति हव्यानि त्रिदिवौकसः ।
कव्यानि चैव पितरः किम्भूतमधिकं ततः ॥ 4.54 ॥
यद्‌भुङ्‌क्तेः वेदविद्विप्रः स्वकर्म्मनिरतः शुचिः ।
दातुः फलमसङ्ख्यातं प्रतिजन्म तदक्षयम् ॥ 4.55 ॥
हस्त्यश्वरथयानानि केचिदिच्छन्ति पण्डिताः ।
अहं नेच्छामि मुनयः कस्यैताः शस्यसम्पदः ॥ 4.56 ॥
वेदलाङ्गलकृष्टेषु द्विजश्रेष्ठेषु सत्सु च ।
यत् पुरा पातितं बीजं तस्यैताः शस्यसम्पदः ॥ 4.57 ॥
शतेषु जायते शूरः सहस्रेषु च पण्डितः ।
वक्ता शतसहस्रेषु दाता भवति वा न वा ॥ 4.58 ॥
नरणे विजयाच्छुरोऽध्ययनान्न च पण्डितः ।
न वक्ता वाक्‌पटुत्वेन न दाता चार्थदानतः ॥ 4.59 ॥
इन्द्रियाणां जये शूरो धर्म्मं चरति पण्डितः ।
हितप्रियोक्तिभिर्वक्ता दाता सम्मानदानतः ॥ 4.60 ॥
यद्येकपङक्त्यां विषमन्ददाति स्नेहाद्भयाद्वा यदि वार्थहेतोः ।
वेदेषु दृष्टं ऋषिभिश्च गीतं तद्‌ब्रह्महत्यां मुनयो वदन्ति ॥ 4.61 ॥
उसरे वापितं बीजं भिन्नभाणडेषु गोदुहम् ।
हुतं भस्मनि हव्यञ्च मूर्खे दानमशाश्वतम् ॥ 4.62 ॥
मृतसूतकपुष्टाङ्गो द्विजः शूद्रान्नभोजने ।
अहमेवं न जनामि कां योनि स गमिष्यति ॥ 4.63 ॥
शूद्रान्नेनोदरस्थेन यदि कश्चिन्‌म्रियेत यः ।
स भवेत् शूकरो नूनं तस्य वा जायते कुलम् ॥ 4.64 ॥
गृध्रो द्वादश जन्मानि सप्त जन्मानि शूकरः ।
श्वानश्च सप्त जन्मानि इत्येवं मनुरव्रवीत् ॥ 4.65 ॥
अमृतं ब्राह्मणान्नेन दारिद्रं क्षत्रियस्य च ।
वैश्यान्नेन तु शूद्रान्नं शूद्रान्नान्नरकं व्रजेत् ॥ 4.66 ॥
यश्च भुङ्‌क्तेऽथ शूद्रान्नं मासमेकं निरन्तरम् ।
इह जन्मनि शूद्रत्वं मृतः श्वा चैव जायते ॥ 4.67 ॥
यस्य शूद्रा पचेन्नित्यं शूद्रा वा गृहमेधिनी ।
वर्ज्जितः पितृदेवैस्तु रौरवं याति स द्विजः ॥ 4.68 ॥
भाणडसङ्करसङ्कीर्णा नानासङ्करसङ्कराः ।
येनि सङ्करसङ्कीर्णा निरयं यान्ति मानवाः ॥ 4.69 ॥
पङ्‌क्तिमेधी वृथापाकी नित्यं ब्राह्मणनिन्दकः ।
आदेशी वेद वेकेता पञ्चैते ब्रह्मघातकाः ॥ 4.70 ॥
इदं व्यासकृतं नित्यमध्येतव्यं प्रयत्नतः ।
एतदुक्ताचारवतः पतनं नैव विद्यते ॥ 4.71 ॥
इति श्रीवेदव्यासीये धर्म्मशास्त्रे चतुर्थोऽध्यायः ॥ 4 ॥
—————-************————-

]