<MISSING_FIG href="../books_images/1680870954.jpg"/>
प्रथमोऽध्यायः १.
श्रीगणेशाय नमः ॥ अथ विष्णुप्रोक्तधर्मशास्त्रप्रारम्भः
विष्णुमेकाग्रमासीनं श्रुतिस्मृतिविशारदम् ।
पप्रच्छुर्मुनयः सर्वे कलापग्रामवासिनः ॥ १ ॥
कृते युगे ह्यपक्षीणेलुप्तो धर्म्मःसनातनः ।
तत्र वै शीर्यमाणे च धर्मो न प्रतिमार्गितः ॥ २ ॥
त्रेतायुगेऽथ सम्प्राप्ते कर्तव्यश्चास्य सङ्ग्रहः ।
यथा सम्प्राप्यतेऽस्माभिस्तत्त्वन्नो वक्तुमर्हसि ॥ ३ ॥
वर्णाश्रमाणां यो धर्मो विशेषश्चैव यः कृतः ।
भेदस्तथैव चैषां यस्तन्नो ब्रूहि द्विजोत्तम ॥ ४ ॥
ऋषीणां समवेतानां त्वमेव परमो मतः ।
धर्मस्येह समस्तस्य नान्यो वक्तास्ति सुव्रत ॥ ५॥
श्रुत्वा धर्मञ्चरिष्यामो यथावत्परिभाषितम् ।
तस्माद्ब्रूहि द्विजश्रेष्ठ धर्मकामा इमे द्विजाः ॥ ६ ॥
इत्युक्तो मुनिभिस्तैस्तु विष्णुः प्रोवाच तांस्तदा ।
अनघाः श्रूयतां धर्मो वक्ष्यमाणो मया क्रमात् ॥ ७ ॥
ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चैव तथा परे ।
एतेषां धर्मसारं यद्वक्ष्यमाणं निबोधत ॥ ८ ॥
ऋतावृतौ तु संयोगाद्ब्राह्मणो जायते स्वयम् ।
तस्माद्ब्राह्मणसंस्कारं गर्भादौ तु प्रयोजयेत् ॥ ९ ॥
सीमन्तोन्नयनं कर्मं न स्त्रीसंस्कार इष्यते ।
गर्भस्यैव तु संस्कारो गर्भे गर्भे प्रयोजयेत् ॥ १० ॥
जातकर्म तथा कुर्यात्पुत्रे जाते यथोदितम् ।
बहिर्निष्क्रमणं चैव तस्य कुर्याच्छिशोःशुभम् ॥ ११ ॥
षष्ठे मासे च सम्प्राप्ते अन्नप्राशनमाचरेत् ।
तृतीयेऽब्दे च सम्प्राप्ते केशकर्म समाचरेत् ॥ १२ ॥
गर्भष्टमे तथा कर्म ब्राह्मणस्योपनायनम् ।
द्विजत्वे त्वथ सम्प्राप्ते सावित्र्यामधिकारभाक् ॥ १३ ॥
गर्भादेकादशे सैके कुर्यात्क्षत्रियवैश्ययोः ।
कारयेत् द्विजकर्माणि ब्राह्मणेन यथाक्रमम् ॥ १४ ॥
शूद्रश्चतुर्थो वर्णस्तु सर्वसंस्कारवर्जितः ।
उक्तस्तस्य तु संस्कारो द्विजे स्वात्मनिवेदनम् ॥ १५ ॥
यो यस्यविहितो दण्डो मेखलाजिनधारणम् ।
सूत्रं वस्त्रं च गृह्णीयाद्ब्रह्मचर्येण यन्त्रितः ॥ १६ ॥
ब्राह्मे मुहूर्त उत्थाय चोपस्पृश्य पयस्तया ।
त्रिरायम्य ततः प्राणांस्तिष्ठेन्मौनी समाहितः ॥ १७ ॥
अब्दैवतैःपवित्रैस्तु कृत्वात्मपरिमार्जनम् ।
सावित्रीं च जपंस्तिष्ठेदा सूर्योदयानात्पुरा ॥ १८ ॥
अग्निकार्यं ततः कुर्यात्प्रातरेव व्रतं चरेत् ।
गुरवे तु ततः कुर्यात्पादयोरभिवादनम् ॥ १९ ॥
समित्कुशांश्चोदकुम्भमाहृत्य गुरवे व्रती ।
प्राञ्जलिः सम्यगासीन उपस्थाय यतः सदा ॥ २० ॥
यं यं ग्रन्थमधीयीत तस्य तस्य व्रतं चरेत् ।
सावित्र्युपक्रमात्सर्वमावेदग्रहणोत्तरम् ॥ २१ ॥
द्विजातिषु चरेद्भैक्ष्यम्भिक्षाकाले समागते ।
निवेद्य गुरवेऽश्नीयात्सम्मतो गुरुणा व्रती ॥ २२ ॥
सायंसन्ध्यामुपासीनो गायत्र्यष्टशतं जपेत् ।
द्विकालभोजनार्थं च तथैवपुनराहरेत् ॥ २३ ॥
वेदस्वीकरणे हृष्टो गुर्वधीनो गुरोर्हितः ।
निष्ठां तत्रैव यो गच्छेन्नैष्ठिकः स उदाहृतः ॥ २४ ॥
अनेन विधिना सम्यक्कृत्वा वेदमधीत्य च ।
गृहस्थधर्ममाकाङ्क्षन्गुरुगेहादुपागतः ॥ २५ ॥
अनेनैव विधानेन कुर्याद्दारपरिग्रहम् ।
कुले महति सम्भूतां सवर्णां लक्षणान्विताम् ॥ २६ ॥
परिणीय तु षण्मासान्वत्सरं वा न संविशेत् ।
औदुम्बरायणो नाम ब्रह्मचारी गृहे गृहे ॥ २७ ॥
ऋतुकाले तु सम्प्राप्ते पुत्रार्थी संविशेत्तदा ।
जाते पुत्रे तथा कुर्यादग्न्योधयं गृहे वसन् ॥ २८ ॥
पुत्रे जातेऽनृतौगच्छन्सम्प्रदुष्येत्सदा गृही ।
चतुर्थे ब्रह्मचारी च गृहे तिष्ठन्न विस्मृतः ॥ २९ ॥
इति वैष्णवधर्मशास्त्रे प्रथमोऽध्यायः॥ १॥
<MISSING_FIG href="../books_images/1680871622.jpg"/>
द्वितीयोऽध्यायः २
अतः परं प्रवक्ष्यामि गृहिणां धर्ममुत्तमम् ।
प्राजापत्यपदस्थानं सम्यक्कृत्यं निबोधत ॥ १ ॥
सर्वः कल्पे समुत्थाय कृतशौचः समाहितः।
स्नात्वा सन्ध्यामुपासीत सर्वकालमतन्द्रितः ॥ २ ॥
अज्ञानाद्यदि वा मोहाद्रात्रौ यद्दुरितं कृतम् ।
प्रातःस्त्रानेन तत्सर्वं शोधयन्ति द्विजोत्तमाः ॥ ३ ॥
प्रविश्याथाग्निहोत्रं तु हुत्वाग्निं विधिवत्ततः ।
शुचौ देशे समासीनः स्वाध्यायं शक्तितोऽभ्यसेत् ॥ ४ ॥
स्वाध्यायान्ते समुत्थाय स्नानं कृत्वा तु मन्त्रवत् ।
देवानृषीन्पितॄंश्चापि तर्पयेत्तिलवारिणा ॥ ५ ॥
मध्याह्ने त्वथ सम्प्राप्ते शिष्टं भुञ्जीत वाग्यतः ।
भुक्तोपविष्टो विश्रान्तो ब्रह्म किञ्चिद्विचारयेत् ॥ ६ ॥
इतिहासं प्रयुञ्जीत त्रिकालसमये गृही ।
कालेचतुर्थे सम्प्राप्ते गृहे वा यदि वा बहिः ॥ ७ ॥
आसीनः पश्चिमां सन्ध्यां गायत्रीं शक्तितो जपेत् ।
हुत्वा चाथाग्निहोत्रं तु कृत्वा चाग्निपरिक्रियाम् ॥ ८ ॥
बलिं च विधिवद्दत्त्वा भुञ्जीत विधिपूर्वकम् ।
दिवा वा यदि वा रात्रावतिथिस्त्वाव्रजेद्यदि ॥ ९ ॥
तृणभूवारिवाग्भिस्तु पूजयेत्तं यथाविधि ।
कथाभिः प्रीतिमाहृत्य विद्यादीनि विचारयेत् ॥ १० ॥
सन्निवेश्याथ विप्रं तु संविशेत्तदनुज्ञया ।
यदि योगी तु सम्प्राप्तो भिक्षार्थी समुपस्थितः ॥ ११ ॥
योगिनं पूजयेन्नित्यमन्यथा किल्बिषी भवेत् ।
पुरे वा यदि वा ग्रामे योगी सन्निहितो भवेत् ॥ १२ ॥
पूज्या नित्यं भवन्त्येव सर्वे चैव निवासिनः ।
तस्मात्सम्पूजयेन्नित्यं योगिनं गृहमागतम् ॥ १३ ॥
तस्मिन्प्रयुक्ता पूजा या साऽक्षयायोषकल्पते ।
गृहमेधिनां यत्प्रोक्तं स्वर्गसाधनमुत्तमम् ॥ १४ ॥
ब्राह्मे मुहूर्त उत्थाय तत्सर्वं सम्यगाचरेत् ।
चतुःप्रकारं भिद्यन्ते गृहिणी धर्मसाधकाः
वृत्तिभेदेन सततं ज्यायांस्तेषां परः परः ॥ १५ ॥
कुसूलधान्यको वा स्यात्कुम्भीधान्यक एव वा ॥ १६ ॥
त्र्यहैहिको वापि भवेत्सद्यःप्रक्षालकोऽपि वा ।
श्रौतं स्मार्तं च यत्किंविद्विधानं धर्मसाधनम् ॥ १७॥
गृहे तद्वसता कार्यमन्यथा दोषभाग्भवेत् ।
एवं विप्रो गृहस्थस्तु शान्तः शुक्लाम्बरः शुचिः ॥ १८ ॥
प्रजापतेः परं स्थानं सम्प्राप्नोति न संशयः ॥ १९ ॥
इति वैष्णवे धर्मशास्त्रे द्वितीयोऽध्यायः ॥ २ ॥
<MISSING_FIG href="../books_images/1680872398.jpg"/>
तृतीयोऽध्यायः ३.
गृहस्थो ब्रह्मचारी वा वनवासं यदा चरेत् ।
चीरवल्कलधारी स्यादकृष्टान्नाशनो मुनिः ॥ १ ॥
गत्वा च विजनं स्थानं पञ्चयज्ञान्न हापयेत् ।
अग्निहोत्रं च जुहुयादन्ननीवारकादिभिः ॥ २ ॥
श्रवणेनाग्निमाधाय ब्रह्मचारी वने स्थितः ।
पञ्चयज्ञविधानेन यज्ञं कुर्यादतन्द्रितः ॥ ३ ॥
सञ्चितं तु यदारण्यं भक्तार्थं विधिवद्वने ।
त्यजेदाश्वयुजे मासि वन्यमन्यत्समाहरेत् ॥ ४ ॥
आकाशशायी वर्षासु हेमन्ते च जलाशयः ।
ग्रीष्मे पञ्चाग्निमध्यस्थो भवेन्नित्यं वने वसन् ॥ ५ ॥
कृच्छ्रञ्चान्द्रायणं चैव तुलापुरुषमेव च ।
अपिकृच्छ्रं प्रकुर्वीत त्यक्त्वा कामाञ्छुचिस्ततः ॥ ६ ॥
त्रिसन्ध्यं स्नानमातिष्ठेत्सहिष्णुर्भूतजान्गुणान् ।
पूजयेदतिथींश्चैव ब्रह्मचारी वनं गतः ॥ ७ ॥
प्रतिग्रहं न गृह्णीयात्परेषां किञ्चिदात्मवान् ।
दाता चैव भवेन्नित्यं श्रद्दधानः प्रियंवदः ॥ ८ ॥
रात्रौ स्थण्डिलशायी स्यात्प्रपदैस्तु दिनं क्षिपेत् ।
वीरासनेन तिष्ठेद्वा क्लेशमात्मन्यचिन्तयन् ॥ ९ ॥
केशरोमनखश्मश्रून्न छिन्द्यान्नापि कर्त्तयेत् ।
त्यजञ्छरीरसौहार्दं वनवासरतः शुचिः ।
चतुःप्रकारं भिद्यन्ते मुनयः शंसितव्रताः ।
अनुष्ठानविशेषेण श्रेयांस्तेषां परः परः ॥ ११ ॥
वार्षिकं वन्यमाहारमाहृत्य विधिपूर्वकम् ।
वनस्थधर्ममातिष्ठन्नपेत्कालं जितेन्द्रियः ॥ १२ ॥
भूरिसंवार्षिकश्चायं वनस्थः सर्वकर्मकृत् ।
आदेहपतनं तिष्ठेन्मृत्युं चैव न काङ्क्षति ॥ १३ ॥
षण्मासांस्तु ततश्चान्यः पञ्चयज्ञक्रियापरः ।
काले चतुर्थे भुञ्जानो देहं त्यजति धर्मतः ।
त्रिंशद्दिनार्थमाहृत्य वन्यान्नानि शुचिव्रतः ।
निर्वर्त्य सर्वकार्याणि स्याच्च षष्ठेऽन्नभोजनः ॥ १५ ॥
दिनार्थमन्त्रमादाय पञ्चयज्ञक्रियारतः ।
सद्यःप्रक्षालको नाम चतुर्थः परिकीर्तितः ॥ १६॥
एवमेते हि वै मान्या मुनयः शंसितव्रताः ॥ १७ ॥
इति वैष्णवे धर्मशास्त्रे तृतीयोऽध्यायः ॥ ३ ॥
<MISSING_FIG href="../books_images/1680872470.jpg"/>
चतुर्थोऽध्यायः ४.
यथोत्तमानि स्थानानि प्राप्नुवन्ति दृढव्रताः ।
ब्रह्मचारी गृहस्थो वा वानप्रस्थो यतिस्तथा ॥ १ ॥
विरक्तः सर्वकामेषु पारिव्राज्यं समाश्रयेत् ।
आत्मन्यग्नीन्समारोप्य दत्त्वा चाभयदक्षिणाम् ॥ २ ॥
चतुर्थमाश्रमं गच्छेद्ब्राह्मणः प्रव्रजन्गृहात् ।
आचार्येण समादिष्टं लिङ्गं यत्नात्समाश्रयेत् ॥ ३ ॥
शौचमाश्रयसम्बन्धं यतिधर्माश्चशिक्षयेत् ।
अहिंसा सत्यमस्तेयं ब्रह्मचर्यमफल्गुता ॥ ४ ॥
दयां च सर्वभूतेषु नित्यमेतद्यतिश्चरेत् ।
ग्रामान्ते वृक्षमूले च नित्यकालनिकेतनः ॥ ५ ॥
पर्यटेत्कीटवद्भूमिं वर्षास्वेकत्र संविशेत् ।
वृद्धानामातुराणां च भीरूणां सङ्गवर्जितः ॥ ६॥
ग्रामे वापि पुरे वापि वासो नैकत्र दुष्यति ।
कौपीनाच्छादनं वासः कथां शीतापहारिणीम् ॥ ७ ॥
पादुके चापि गृह्णीयात्कुर्यान्नान्यस्य सङ्ग्रहम् ।
सम्भाषणं सह स्त्रीभिरालम्भप्रेक्षणे तथा ॥ ८ ॥
नृत्यं गानं सभां सेवां परिवादांश्च वर्जयेत् ।
वानप्रस्थगृहस्थाभ्यां प्रीतिं यत्नेन वर्जयेत् ॥ ९ ॥
एकाकी विचरेन्नित्यं त्यक्त्वा सर्वपरिग्रहम् ।
याचितायाचिताभ्यां तु भिक्षया कल्पयेत्स्थितिम् ॥ १० ॥
साधुकारं याचितं स्यात्प्राक्प्रणीतमयाचितम् ।
चतुर्विधा भिक्षुकाः स्युः कुटीचकबहूदकौ॥ ११ ॥
हंसः परमहंसश्च पश्चाद्यो यः स उत्तमः ।
एकदण्डी भवेद्वापि त्रिदण्डी चापि वा भवेत् ॥ १२ ॥
त्यक्त्वासर्वसुखास्वादं पुत्रैश्वर्यसुखं त्यजेत् ।
अपत्येषु वसेन्नित्यं ममत्वं यत्नतस्त्यजेत् ।
नान्यस्य गेहे भुञ्जीत भुञ्जानो दोषभाग्भवेत् ।
कामं क्रोधं च लोभं च तथेर्ष्यां सत्यमेव च ॥ १४ ॥
कुटीचकस्त्यजेत्सर्वेपुत्रार्थं चैव सर्वतः ।
भिक्षाटनादिकेऽशक्तो यतिः पुत्रेषु सन्न्यसेत् ॥ १५ ॥
कुटीचक इति ज्ञेयः परिव्राट्त्यक्तबान्धवः ।
त्रिदण्डं कुण्डिकां चैव भिक्षाधारं तथैव च ॥ १६ ॥
सूत्रं तथैव गृह्णीयान्नित्यमेव बहूदकः ।
प्राणायामेऽप्यभिरतो गायत्रीं सततं जपेत् ॥ १७॥
विश्वरूपं हृदि ध्यायन्नयेत्कालं जितेन्द्रियः ।
ईषत्कृतकषायस्य लिङ्गमाश्रित्य तिष्ठतः ॥ १८ ॥
अन्नार्थं लिङ्गमुद्दिष्टं न मोक्षार्थमिति स्थितिः ।
त्यक्त्वा पुत्रादिकं सर्वं योगमार्गं व्यवस्थितः ॥ १९॥
इन्द्रियाणि मनश्चैव कर्षन्हंसोऽभिधीयते ।
कृच्छ्रैश्चान्द्रायणैश्चैव तुलापुरुषसञ्ज्ञकैः॥ २० ॥
अन्यैश्च शोषयेद्देहमाकाङ्क्षब्रह्मणः पदम् ।
यज्ञोपवीतं दण्डं च वस्त्रं जन्तुनिवारणम् ॥ २१ ॥
अयं परिग्रहो नान्यो हंसस्य श्रुतिवेदिनः ।
आध्यात्मिकं ब्रह्म जपन्प्राणायामांस्तथाचरन् ॥ २२ ॥
वियुक्तः सर्वसङ्गेभ्यो योगी नित्यं चरेन्महीम् ।
आत्मनिष्ठः स्वयं युक्तस्त्यक्तसर्वपरिग्रहः ॥ २३ ॥
चतुर्थोऽयं महानेषां ध्यानभिक्षुरुदाहृतः ।
त्रिदण्डं कुण्डिकां चैव सूत्रं चाथ कपालिकाम् ॥ २४ ॥
जन्तूनां वारणं वस्त्रं सर्वं भिक्षुरिदं त्यजेत् ।
कोपीनाच्छादनार्थं च वासोऽधश्चपरिग्रहेत् ॥ २५ ॥
कुर्यात्परमहंसस्तु दण्डमेकं च धारयेत् ।
आत्मन्येवात्मना बुद्ध्या परित्यक्तशुभाशुभः ॥ २६ ॥
अव्यक्तलिङ्गोऽव्यक्तश्च चरेद्वभिक्षुः समाहितः ।
प्राप्तपूजो न सन्तुष्येदलाभे त्यक्तमत्सरः ॥ २७ ॥
त्यक्ततृष्णः सदा विद्वान्मूकवत्पृथिवीं चरेत् ।
देहसंरक्षणार्थं तु भिक्षामीहेद्द्विजातिषु ॥ २८ ॥
पात्रमस्य भवेत्पाणिस्तेन नित्यं गृहानटेत् ।
अतैजसानि पात्राणि भिक्षार्थं क्लृप्तवान्मनुः ॥ २९ ॥
सर्वेषामेव भिक्षूणां दार्वलाबुमयानि च ।
कांस्यपात्रे न भुञ्जीत आपद्यपि कथञ्चन ॥३०॥
मलाशाः सर्व उच्यन्ते यतयः कांस्यभोजिनः ।
कांसिकस्य तु यत्पापं गृहस्थस्य तथैव च ॥ ३१ ॥
कांस्यभोजी यतिः सर्वं तयोः प्राप्नोति किल्बिषम् ।
ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा ॥ ३२ ॥
उत्तमां वृत्तिमाश्रित्य पुनरावर्त्तयेद्यदि ।
आरूढपतितोज्ञेयः सर्वधर्मबहिष्कृतः ॥ ३३ ॥
निन्द्यश्च सर्वदेवानां पितॄणां च तथोच्यते ।
त्रिदण्डं लिङ्गमाश्रित्य जीवन्ति बहवो द्विजाः ॥ ३४ ॥
न तेषामपवर्गोऽस्ति लिङ्गमात्रोपजीविनाम् ।
त्यक्त्वा लोकांश्च वेदांश्च विषयानिन्द्रियाणि च ॥॥ ३५॥
आत्मन्येव स्थितो यस्तु प्राप्नोति परमं पदम् ॥ ३६ ॥
इति वैष्णवे धर्मशास्त्रे चतुर्थोऽध्यायः ॥ ४ ॥
<MISSING_FIG href="../books_images/1680872569.jpg"/>
पञ्चमोऽध्यायः ५.
राज्ञां तु पुण्यवृत्तानां त्रिवर्गपारकाङ्क्षिणाम् ।
वक्ष्यमाणस्तु यो धर्मस्तत्त्वतस्तन्निबोधत ॥ १ ॥
तेजः सत्यं धृतिर्दाक्ष्यं सङ्ग्रामेष्वनिवर्तिता ।
दानमीश्वरभावश्च क्षत्रधर्मः प्रकीर्तितः ॥ २ ॥
क्षत्रियस्य परो धर्मः प्रजानां परिपालनम् ।
तस्मात्सर्वप्रयत्नेन रक्षयेन्नृपतिः प्रजाः ॥ ३ ॥
त्रीणि कर्माणि कुर्वीत राजन्यस्तु प्रयत्नतः ।
दानमध्ययनं यज्ञं ततो योगनिषेवणम् ॥ ४ ॥
ब्राह्मणानां च सन्तुष्टिमाचरेत्सततन्तथा ।
तेषु तुष्टेषु नियतं राज्यं कोशश्च वधत ॥ ५ ॥
वाणिज्यं कर्षणे चैव गवां च परिपालनम् ॥
ब्राह्मणक्षत्रसेवा च वैश्यकर्म प्रकीर्तितम् ॥ ६ ॥
खलयज्ञं कृषीणां च गोयज्ञं चैव यत्नतः ॥
कुर्याद्वैश्यश्च सततं गवां च शरणं तथा ॥ ७ ॥
ब्राह्मणक्षत्रवैश्यांश्च चरेन्नित्यममत्सरः ॥
कुर्वस्तु शूद्रः शुश्रूषां लोकाञ्जयति धर्मतः ॥ ८ ॥
पञ्चयज्ञविधानं तु शूद्रस्यापि विधीयते ॥
तस्य प्रोक्तो नमस्कारः कुर्वन्नित्यं न हीयते ॥ ९ ॥
शूद्रोऽपि द्विविधो ज्ञेयः श्राद्धी चैवेतरस्तथा ॥
श्राद्धी भोज्यस्तयोरुक्तो ह्यभोज्यस्त्वितरो मतः ॥ १०॥
प्राणानर्थांस्तथा दारान्ब्राह्मणार्थं निवेदयेत् ॥
स शूद्रजातिर्भोज्यः स्यादभोज्यः शेष उच्यते ॥११ ॥
कुर्याच्छूद्रस्तु शुश्रूषां ब्रह्मक्षत्रविशां क्रमात् ॥
कुर्यादुत्तरयोर्वैश्यः क्षत्रियो ब्राह्मणस्य तु ॥ १२ ॥
आश्रमास्तु त्रयः प्रोक्ता वैश्यराजन्ययोस्तथा ॥
परिव्राज्याश्रमप्राप्तिर्ब्राह्मणस्यैव चोदिता ॥ १३ ॥
आश्रमाणामयं प्रोक्तो मया धर्मः सनातनः ॥
यदत्राविदितं किञ्चित्तदन्येभ्यो गमिष्यथ ॥१४॥
इति वैष्णवे धर्मशास्त्रे पञ्चमोऽध्यायः ॥ ५ ॥
<MISSING_FIG href="../books_images/1680872797.jpg"/>
<MISSING_FIG href="../books_images/1680872816.jpg"/>
श्रीः ॥