वशिष्ठस्मृतिः

प्रथमोऽध्यायः १.

<MISSING_FIG href="../books_images/1683537743.jpg"/>

अथातः पुरुषनिश्रेयसार्थं धर्मजिज्ञासा ॥ ज्ञात्वा चानुतिष्ठन्धार्मिकः प्रशस्यतमो भवति लोके प्रेत्य च। विहितो धर्मः। तदलाभे शिष्टाचारः प्रमाणम्। दक्षिणेन हिमवत उत्तरेण विन्ध्यस्य ये धर्मा ये चाचारास्ते सर्वे प्रत्येतव्याः न ह्यन्ये प्रतिलोमकल्पधर्माः। एतदार्यावर्तमित्याचक्षते। गङ्गायमुनयोरन्तराप्येके। यावद्वा कृष्णमृगो विचरति तावद्ब्रह्मवर्चसमिति ।

अथापि भाल्लविनो निदाने गाथामुदाहरन्ति-

पश्चात्सिन्धुविहरिणीसूर्यस्योदयने पुनः ॥

यावत्कृष्णोऽभिधावति तावद्वै ब्रह्मवर्चसम् ॥

त्रैविद्यवृद्धा यं ब्रुयुर्धर्मं धर्मविदो जनाः ॥

पवने पावने चैव सर्वतो नात्र संशयः ॥ इति ॥

देशधर्मजातिधर्मकुलधर्मान् श्रुत्यभावादब्रवीन्मनुः। सूर्याभ्युदितः सूर्याभिनिर्मुक्तः कुनखी श्यावदन्तः परिवित्तिः परिवेत्ता अग्नेदिधिषूर्दिधिषूपतिर्वीरहा1 ब्रह्मघ्नइत्येत एनस्विनः। पञ्चमहापातकान्याचक्षते। गुरुतल्पसुरापानं भ्रूणहत्यां ब्राह्मणसुवर्णहरणं पतितसम्प्रयोगं च ब्राह्मे वा यानेन वा अथाप्युदाहरन्ति ॥ संवत्सरेण पतति पतितेन सहाचरन् ॥ याजनाध्यापनाद्यौनादन्नपानासनादपि ॥

अथाप्युदाहरन्ति। विद्या प्रनष्टा पुनरभ्युपैति जातिप्रणाशे त्विह सर्वनाशः॥ कुलापदेशेन हयोऽपि पूज्यस्तस्मात्कुलीनां स्त्रियमुद्वहन्तीति॥

त्रयोवर्णा ब्राह्मणस्य वशे वर्तेरन् तेषां ब्राह्मणो धर्मं यं ब्रूयात्तं राजा चानुतिष्ठेत् राजा तु धर्मेणानुशासत्षष्ठं षष्ठं धनस्य हरेत्। अन्यत्र ब्राह्मणात्। इष्टापूर्तस्य तु षष्ठमंशं भजति ॥ इति ह ब्राह्मणो वेदमाद्यं करोति। ब्राह्मण आपद उद्धरति। तस्माद्ब्राह्मणोऽनाद्यः सोमोऽस्य राजा भवतीतीह प्रेत्य चाभ्युदयिकमिति हविज्ञायते ॥

इति श्रीवशिष्ठं धर्मशास्त्रे प्रथमोऽध्यायः ॥ १ ॥

द्वितीयोऽध्यायः २.

चत्वारो वर्णा ब्राह्मणक्षत्रियवैश्यशूद्राः। त्रयो वर्णा द्विजातयो ब्राह्मणक्षत्रियवैश्याः। तेषां मातुरग्रेऽधिजननं द्वितीयं मौञ्जीबन्धनं तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते। वेदप्रदानात्पितेत्याचार्यमाचक्षते।

अथाप्युदाहरन्ति। द्वयमिह वै पुरुषस्य रेतो ब्राह्मणस्योर्ध्वं नाभेरर्वाचीनं मन्येत तद्यदूर्ध्वं नाभेस्तेनास्यानौरसी प्रजा जायते। यदुपनयति जनन्यां जनयति यत्साधु करोति। अथ यदर्वाचीनं नाभेस्तेनास्यौरसी प्रजा जायते तस्माच्छ्रोत्रियमनूचानमपूज्योऽसीति न वन्दतीति हारीतः॥

अथाप्युदाहरन्ति ॥ नह्यस्यविद्यते कर्म किञ्चिदामौञ्जीबन्धनात् ॥ वृत्त्या शूद्रः समो ज्ञेयो यावद्वेदेन जायते ॥ अन्यत्रोदककर्म स्वधापितृसंयुक्तेभ्यः ॥

विद्या ह वै ब्राह्मणमाजगाम गोपाय मा शेवधिष्टेऽहमस्मि। असूयकायानृजवेऽयताय न मा ब्रूया वीर्यवती तथा स्याम् ॥ य आवृणात्यवितथेन कर्मणा बहुदुःखं कुर्वन्नमृतं सम्प्रयच्छत्। तं मन्येत पितरं मातरं च तस्मै न दुह्येत्कतमच्च नाह ॥ अध्यापिता ये गुरुं नाद्रियन्ते विप्रा वाचा मनसा कर्मणावा। यथैव ते न गुरोर्भोजनीयास्तथैव तान्नभुनक्ति श्रुतं तत् ॥ यमेव विद्याः शुचिमप्रमत्तं मेधाविनं ब्रह्मचर्योपपन्नम्। यस्तेन द्रुह्येत्कतमच्च नाह तस्मै माब्रुयनिधिपायब्रह्मन्निति। दहत्यग्निर्यथा कक्षं ब्रह्म त्वब्दमनादृतम्। न ब्रह्म तस्मै प्रब्रूयाच्छक्यमानमकृन्तत इति ॥ षट्कर्माणि ब्राह्मणस्यअध्ययनमध्यापनं यजनं याजनं दानं प्रतिग्रहश्चेति। त्रीणि राजन्यस्याध्ययनं यजनं दानं शस्त्रेण च प्रजापालनंस्वधर्मस्तेन जीवेत्। एतान्येव त्रीणि वैश्यस्य कृषिवाणिज्यपा शुपाल्यकुसीदानि च। एतेषां परिचर्या शुद्रस्यअनियता वृत्तिः अनियतकेशवेशाः सर्वेषां मुक्तशिखावर्जम्, अजीवन्तः स्वधर्मेणान्यतरां पापीयसीं वृत्तिमातिष्ठेरन्नतु कदाचिज्ज्यायसीम्। वैश्यजीविकामास्थाय पण्येन जीवेताऽश्मलवणमपण्यं पाषाणकोपक्षौमाजिनानि च तान्तवस्य रक्तं सर्वञ्च कृतान्नं पुष्पमूलफलानि च गन्धरसा उदकं च ओषधीनां रसः सोमश्च शस्त्रं विषं मांसं च क्षीरं सविकारमपस्त्रपुजतु सीसं च।

अथाप्युदाहरन्ति - सद्यः पतति मांसेन लाक्षया लवणेन च ॥ त्र्यहेण शूद्रो भवति ब्राह्मणः क्षीरविक्रयात् ॥

   ग्राम्यपशूनामेकशफाः केशिनश्च सर्वे चारण्याः पशवो वयांसि दंष्ट्रिणश्च। धान्यानां तिलानाहुः।

अथाप्युदाहरन्ति - भोजनाभ्यञ्जनाद्दानाद्यदन्यत्कुरुते तिलैः॥ कृमिभूतः स विष्ठायां पितृभिः सह मज्जति ॥ कामं वा स्वयं कृष्योत्पाद्य तिलान्विक्रीणीरन्। तस्मादाभ्यामनस्योताभ्य प्राक्प्रातराशात्कृषिः स्यात्। निदाघेऽपः प्रयच्छेन्नाति पीडनलाङ्गलं प्रवीरवसुशेषः सोमपित्सरु॥ तदुद्वपतिगाम- विम्प्रफर्व्यञ्ञ्चपीवरीम्प्रस्था वद्रथवाहणम् ॥ लाङ्गलं प्रवीरवद्वीरं


१ अत्रैत्वमेवोपलभ्यते पाठोऽर्थस्तु सुज्ञैरूह्यः

मनुष्यवदनलुब्धतामुशे कल्याणी ह्यस्य नासिको ढयति दूरेपविद्वति सोमपिष्टरु सोमो ह्यस्य प्राप्नोति ॥ तत्सह तदुद्वपति गामरिमा अजानश्वनखरखरोष्ट्राणां च शफवांश्चदर्शनीयां पीवरीं कल्याणीं प्रथमयुवतीं कथं हि लाङ्गलमुद्वपेदन्यत्र धान्यविक्रयात् ॥

रसा रसैः समतो हीनतो वा निमातव्या नत्वेव लवणं रसैः॥ तिलतण्डुलपक्वान्नं विद्यान्मनुष्याश्च विहिताः परिवर्तकेन।

ब्राह्मणराजन्यौवार्धुषान्नं नाद्याताम् ॥ अथाप्युदाहरन्ति - समर्धं धान्यमुद्धृत्य महार्धंयः प्रयच्छति। स वै वार्धुषिको नाम ब्रह्मवादिषु गर्हितः ॥ वार्धुषिं ब्रह्महन्तारं तुलया समतोलयत्। अतिष्ठद्भ्रूणहा कोट्यां वार्धुषिर्न्यक् पपात ह। कामं वा परिलुप्तकृत्याय पापीयसे दद्याद्दविगुणं हिरण्यं त्रिगुणं धान्यं धान्येनैव रसा व्याख्याताः।

पुष्पमूलफलानि च तुलाधृतमष्टगुणम्। अथाप्युदाहरन्तिराजाऽनुमतभावेन द्रव्यवृद्धिं विनाशयेत् ॥ पुना राजाभिषेकेण द्रव्यवृद्धिं च वर्जयेत् ॥ द्विकं त्रिकं चतुष्कं च पञ्चकं च शते स्मृतम् ॥ मासस्य वृद्धिं गृह्णीयाद्वर्णानामनुपूर्वशः ॥ वशिष्ठवचने प्रोक्तां वृद्धिं वार्धुषिके शृणु॥ पञ्चमाषांस्तु विंशत्यामेवं धर्मो न हीयते ॥

इतिवासिष्ठे धर्मशास्त्रे द्वितीयोऽध्यायः ॥ २ ॥

तृतीयोऽध्यायः ३.

 अश्रोत्रियाननुवाक्या अनग्नयः शूद्रधर्माणो भवन्ति नानृग्ब्राह्मणो भवति।

 मानवं चात्र श्लोकमुदाहरन्ति-

योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम् ॥ स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥ न वणिङ् न कुसीदजीवीये च शूद्रप्रेषणं कुर्वन्ति न स्तेनो न चिकित्सकः ॥ अव्रताह्यनधीयाना यत्र भैक्षचराद्विजाः ॥ तं ग्रामं दण्डयेद्राजा चोरभक्तप्रदो हि सः ॥

चत्वारोऽपि त्रयो वाऽपि यद्ब्रूयुर्वेदपारगाः ॥ स धर्म इति विज्ञेयो नेतरेषां सहस्रशः ॥ अव्रतानाममन्त्राणां जातिमात्रोपजीविनाम् ॥ सहस्रशः समेतानां पर्षत्त्वं नैव विद्यते ॥

यद्वदन्त्यन्यथा भूत्वा मूर्खा धर्ममतद्विदः ॥
तत्पापं शतधा भूत्वा तद्वत्कृष्वनुगच्छति ॥

श्रोत्रियायैव देयानि हव्यकव्यानि नित्यशः ॥ अश्रोत्रियाय दत्तैस्तु तृप्तिं नायान्ति देवताः ॥ यस्य चैव गृहे मूर्खोदूरे चैव बहुश्रुतः ॥ बहुश्रुताय दातव्यं नास्ति मूर्खेव्यतिक्रमः ॥ ब्राह्मणातिक्रमो नास्ति विप्रेवेदविवर्जिते ॥ ज्वलन्तमग्निमुत्सृज्य न हि भस्मनि हूयते ॥ यश्च काष्ठमयो हस्ती यश्च चर्ममयोमृगः ॥ यश्च विप्रोऽनधीयानस्त्रयस्ते नामधारकाः ॥

विद्वद्भोज्यानि चान्नानि मूर्खा राष्ट्रेषु भुञ्जते ॥
तदन्नं नाशमायाति महच्चापि भयं भवेत् ॥

अप्रज्ञायमानवित्तं योऽधिगच्छेद्राजा तद्धरेत् अधिगन्त्रे षष्ठमंशं प्रदाय ब्राह्मणश्चेदधिगच्छेत् षट्कर्मसु वर्तमानो न राजा हरेत्।

आततायिनं हत्वा नात्र त्राणेच्छोःकिञ्ञ्चित्किल्बिषमाहुः। षड्विधास्त्वाततायिनः। अथाप्युदाहरन्ति- अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः॥ क्षेत्रदारहरश्चैव षडेते आततायिनः॥ आततायिनमायान्तमपि वेदान्तपारगम् ॥ जिघांसन्तं जिघांसीयान्न तेन ब्रह्महाभवेत् ॥ स्वाध्यायिनं कुले जातं यो हन्यादाततायिनम् ॥ न तेन भ्रूणहा स स्यान्मन्युस्तं मृत्युमृच्छति ॥

त्रिणाचिकेतः पञ्चाग्निस्त्रिसुपर्णवान् चतुर्मेधा वाजसनेयी षडङ्गविद्ब्रह्मदेयानुसन्तानश्छन्दोगो ज्येष्ठसामगो मन्त्रब्राह्मणवित् यस्य धर्मानधीते यस्य च पुरुषमातृपितृवंशः श्रोत्रियो विज्ञायतेविद्वांसः स्नातकाश्चेति पङ्क्तिपावनाः। चातुर्विद्यो विकल्पी च अङ्गविद्धर्भपाठकः॥आश्रमस्थास्त्रयो मुख्याःपरिषत्स्याहशावरा ॥ उपनीय तु यः कृत्स्नं वेदमध्यापयेत्स आचार्यः । यस्त्वेकदेशं स उपाध्यायश्च वेदाङ्गानि।

आत्मत्राणे वर्णसङ्करे वा ब्राह्मणवैश्यौशस्त्रमाददीया ताम् ॥ क्षत्रियस्य तु तान्नत्यमेव रक्षणाधिकारात्।

प्राग्वोदग्वासीनः प्रक्षाल्य पादौपाणी चामणिबन्धनात्। अङ्गुष्ठमूलस्योत्तरतो रेखा ब्राह्मन्तीर्थं तेन त्रिराचोमदशब्दवत् द्विःप्रमृज्यात् खान्यद्भिः संस्पृशेत् मूर्द्धन्ययोनिनयेत् सव्ये च पाणौ व्रजंस्तिष्ठन् शयानः प्रणतो वा नाचामेत्। हृदयङ्गमाभिरद्भिरबुद्बुदाभिरफेनाभिर्ब्राह्मणः कण्ठगामिःक्षत्रियः शुचिः वैश्योऽद्भिः प्राशिताभिस्तु स्त्रीशूद्रौस्पृष्टाभिरेव च। पुत्रद्वाराऽपि यागास्तर्पणानि स्युः।

न वर्णगन्धरसदुष्टाभिर्याश्च स्युरशुभागमाः। न मुख्या विप्रुष उच्छिष्टं कुर्वन्ति अनङ्गश्लिष्टाः। सुप्त्वा भुक्त्वा पीत्वा स्नात्वा चाचान्तःपुनराचामेत्। वासश्च परिधाय ओष्ठौ संस्पृश्य यत्रालोमकौन श्मश्रुगतौ लेपो दन्तवद्दन्तसक्तेषुयच्चां तर्मुखे भवेत् ॥ आचान्तस्यावशिष्टं स्यान्निगिरन्नेव तच्छुचिः। परानथाचामयतः पदौ वा विप्रुषो गताः ॥ भूम्यां तास्तु समाः प्रोक्तास्ताभिर्नोच्छिष्टभाग्भवेत् ॥ प्रचरन्नभ्यवहार्य्येषु उच्छिष्टं यदि संस्पृशेत् ॥ भूमौ निक्षिप्य तद्द्रव्यमाचान्तःप्रचरेत्पुनः ॥ यद्यन्मीमांस्यंस्यात्तत्तदद्भिः संस्पृशेत्।

श्वहताश्च मृगा वन्याः पातितं च खगैः फलम् ॥ बालैरनुपविद्धान्तः स्त्रीभिराचरितं च यत् ॥ परिसङ्ख्याय तान्सर्वाञ्छुचीनाह प्रजापतिः॥ प्रसारितं न यत्पण्यं ये दोषाः स्त्रीमुखेषु च ॥ मशकैर्मक्षिकाभिश्चनीली येनोपहन्यते ॥ क्षितिस्थाश्चैव या आपो गवां प्रीतिकराश्चयाः ॥ परिसङ्ख्याय तान्सर्वाञ्छुचीनाह प्रजापतिरिति ॥

लेपं गन्धापकर्षणम्। शौचममेध्यलिप्तस्य। अद्भिर्मृदा च तैजसमृण्मयदारवतान्तवानां भस्मपरिमार्जनं प्रदाहतक्षणनिर्णेजनानि तैजसवदुपलमणीनां मणिवच्छङ्खशुक्तीनां दारुव दस्थ्नां रज्जुविदलचर्मणां चैलवच्छौचम्। गोवालैः फलचमसानां गौरसर्षपकल्केन क्षौमजानाम्।

भूम्यास्तु सम्मार्जनप्रोक्षणोपलेपनोल्लेखनैर्यथास्थाने दोषविशेषात्प्राजापत्यमुपैति।

अथाप्युदाहरन्ति-खननाद्दहनाद्वर्षाद्गोभिराक्रमणादपि ॥ चतुर्भिः शुद्ध्यते भूमिः पञ्चमाच्चोपलेपनात् ॥ रजसा शुद्ध्यते नारी नदी वेगेन शुद्ध्यति ॥ भस्मना शुद्ध्यते कांस्य ताम्रमम्लेन शुद्ध्यति ॥ मद्यैर्मूत्रैः पुरीषैर्वा श्लेष्म पूयाश्रुशोणितैः ॥ संस्पृष्टं नैव शुद्ध्येत पुनः पाकेन मृण्मयम् ॥ अद्भिर्गात्राणि शुद्ध्यति मनः सत्येन शुद्ध्यति ॥ विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुद्ध्यति ॥ अद्भिरेव काञ्चनं पूयेत तथा राजतम्।

अङ्गुलिकनिष्ठिकामूले दैवन्तीर्थम्। अङ्गुल्यग्रे मानुषम्। पाणिमध्ये आग्नेयम्। प्रदेशिन्यङ्गुष्ठयोरन्तरा पित्र्यम्। रोचन्तइति सायम्प्रातरशनान्यभिपूजयेत्। स्वदितमिति पित्र्येषु। सम्पन्नमित्याभ्युदयिकेषु ॥

इति वासिष्ठे धर्मशास्त्रे तृतीयोऽध्यायः ॥ ३ ॥

चतुर्थोऽध्यायः ४.

प्रकृतिविशिष्टं चातुवर्ण्यं संस्कारविशेषाच्च। ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्यः कृतः ॥ ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत॥इति निगमो भवति गायत्र्याछन्दसा ब्राह्मणमसृजत् त्रिष्टुभा राजन्यं जगत्या वैश्यं न केनचिच्छन्दसा शूद्रमित्यसंस्कार्यो विज्ञायते॥ त्रिष्वेव निवासः स्यात्सर्वेषां सत्यमक्रोधो दानमहिंसा प्रजननं च।

पितृदेवतातिथिपूजायां पशुं हिंस्यात्। मधुपर्के च यज्ञे च पितृदैवतकर्म्मणि ॥ अत्रैव च पशुं हिंस्यान्नान्यथेत्यब्रवीन्मनुः ॥ नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते क्वचित् ॥ नच प्राणिवधः स्वर्ग्यस्तस्माद्यागे वधोऽवधः ॥ अथापि ब्राह्मणाय वा राजन्यायवा अभ्यागताय वा महोक्षं वा महाजं वा पचेदेवमस्यातिथ्यं कुर्वन्तीति॥

उदकक्रियामशौचे च द्विवर्षात्प्रभृति मृत उभयं कुर्यात्। दन्तजननादित्येके। शरीरमग्निना संयोज्य। अनवेक्षमाण आपोऽभ्यवयन्ति ततस्तत्रस्था एष सव्योत्तराभ्यां पाणिभ्यामुदकक्रियां कुर्वन्ति। अयुग्मा दक्षिणामुखाः। पितॄणां वा एषा दिक् या दक्षिणा। गृहान्व्रजित्वा स्वस्तरे अहमश्नत आसीरन्। अशक्तौ कीतोत्यन्नेन वर्तेरन्।

दशाहं शावमाशौचं सपिण्डेषु विधीयते। मरणात्प्रभृतिदिवसगणना। सपिण्डता सप्तपुरुषं विज्ञायते। अप्रत्तानां स्त्रीणां त्रिपुरुषं त्रिदिनं विज्ञायते। प्रत्तानामितरे कुर्वीरन् तांश्च तेषां जननेऽप्येवमेव निपुणां शुद्धिमिच्छतां मातापित्रोर्बीजानि निमित्तत्वात्।

अथाप्युदाहरन्ति। नाशौचं सूतके पुंसः संसर्गं चेन्न गच्छति। रजस्तत्राशुचि ज्ञेयं तच्च पुंसि न विद्यते ॥ ब्राह्मणोदशरात्रेण पक्षमात्रेण भूमिपः ॥ वैश्यो विंशतिरात्रेण शूद्रो मासेन शुद्ध्यति ॥ अशौचे यस्तु शूद्रस्य सूतके वापि भुक्तवान् ॥ स गच्छेन्नरकं घोरं तिर्यग्योनिषु जायते ॥ अनिर्दशाहे पक्वान्नं नियोगाद्यस्तु भुक्तवान् ॥ कृमिर्भूत्वा स देहतितद्विद्यामुपजीवति ॥

द्वादशमासान्द्वादशार्द्धमासान्वाऽनश्नन्संहितामधीयानः पूतो भवतीति विज्ञायते ऊनद्विवर्षे प्रेते गर्भपतने वा सपिण्डानां त्रिरात्रमाशौचम्। सद्यः शौचमिति गौतमः। देशान्तरस्थे प्रेते ऊर्ध्वं दशाहाच्चैकरात्रमाशौचम्। आहिताग्निश्चेत्त्प्रवसन्म्रियते पुनः संस्कारं कृत्वा शववच्छौचमिति गोतमः।

भूपयतिश्मशानरजस्वलासूतिकाशुचीनुपस्पृश्य सशिरा अभ्युपेयादपः ॥

इति वासिष्ठे धर्मशास्त्रे चतुर्थोऽध्यायः ॥ ४ ॥

पञ्चमोऽध्यायः ५.

अस्वतन्त्रा स्त्री पुरुषप्रधाना अनग्निरनुदक्या च अनृतमिति विज्ञायते।

अथाप्युदाहरन्ति। पिता रक्षति कौमारे भर्ता रक्षति यौवने ॥ पुत्राश्च स्थाविरे भावे न स्त्री स्वातन्त्र्यमर्हति ॥ तस्याभर्त्तुरभिचार उक्तः प्रायश्चित्तरहस्येषु।

मासि मासि रजो ह्यासां दुष्कृतान्यपकर्षति ॥ त्रिरात्र रजस्वलाऽशुचिर्भवति। सा नाञ्ज्यान्नाभ्यञ्ज्यान्नाप्सु स्नायात्। अधः शयीत दिवा न स्वप्यात् नाग्निंस्पृशेत् न रज्जुं प्रमृजेन्न दन्तान्धावयेन्न मांसमश्नीयात् न गृहान्निरीक्षयेत् न हसेन्न किञ्चिदाचरेन्नाञ्जलिना जलं पिबेत् न खर्परेण वा न लोहितायसेन वा विज्ञायते हीन्द्रस्त्रिशीर्षाणं त्वाष्ट्रं हत्वा पाप्मना गृहीतो मन्युत इति। तं सर्वाणि भूतान्यभ्याक्रोशन् भ्रूणहन् भ्रूणहन्भ्रूणहन्निति स स्त्रिय उपाधावत् अस्यै मे ब्रह्महत्याये तृतीयभागं गृह्णीतेति गत्वैवमुवाच ता अब्रुवन् किन्नोऽभूदिति सोऽब्रवीद्वरं वृणीध्वमिति ता अब्रुवन्नृतौ प्रजां विन्दामह इति कामं मा विजानीमोऽलम्भवाम इति यथेच्छया आप्रसवकालात्पुरुषेण सह मैथुनभावेन सम्भवाम इति च एषोऽस्माकं वरस्तथेन्द्रेणोक्तास्ताः प्रतिजगृहुःतृतीयं भ्रूणहत्यायाः सैषा भ्रूणहत्या मासि मास्याविर्भवति। तस्माद्रजस्वलान्नं नाश्नीयात्। अतश्च भ्रूणहत्याया एवैतद्रूपं प्रतिमुच्यास्ते कञ्चुकमिव।

तदाहुर्ब्रह्मवादिनः। अञ्जनाभ्यञ्जनमेवास्यान प्रतिग्राह्यं तद्धि स्त्रियोऽन्नमिति। तस्मात्तस्यास्तत्र न च मन्यन्ते आचारा याश्चयोषित इति सेयमुपयाति। उदक्यायास्त्वासते तेषां ये च केचिदनग्नयो गृहस्थाः श्रोत्रियाः पापाः सर्वे ते शूद्रधर्मिणः ॥

इति वासिष्ठे धर्मशास्त्रे पञ्चमोऽध्यायः ॥ ५ ॥

षष्ठोऽध्यायः ६.

आचारः परमो धर्मः सर्वेषामिति निश्चयः ॥ हीनाचारपरीतात्मा प्रेत्य चेह्व च नश्यति ॥ १ ॥ नैनम्प्रयाति न ब्रह्म नाग्निहोत्रं न दक्षिणा॥ हीनाचाराश्रितं भ्रष्टं तारयन्ति कथञ्चन ॥ २ ॥ आचारहीनं नं पुनन्ति वेदा यद्यप्यधीताः सह षड्भिरङ्गैः ॥ छन्दास्येनं मृत्युकाले त्यजन्ति नीडं शकुन्ता इवता[^52]पतप्ताः ॥ ३ ॥ आचारहीनस्य तु ब्राह्मणस्य वेदाः षडङ्गा अखिलाः सपक्षाः ॥ कां प्रीतिमुत्थापयितुं समर्था अधस्य दारा इव दर्शनीयाः ॥ ४ ॥ नैनं छन्दांसि वृजिनात्तारयन्ति मायाविनम्मायया वर्तमानम् ॥ तत्राक्षरे सम्यगधीयमाने पुनाति तद्ब्रह्म यथावदिष्टम् ॥ ५ ॥ दुराचारो हि पुरुषो लोके भवति निन्दितः ॥ दुःखभागी च सततं व्याधितोऽल्पायुरेव च ॥ ६ ॥ आचारः फलते धर्ममाचारः फलते धनम् ॥ आचाराच्छ्रियमाप्नोति आचारो हन्त्यलक्षणम् ॥ ७ ॥ सर्वलक्षणहीनोऽपि यः सदाचारवान्नरः ॥ श्रद्दधानोऽनसूयश्च शतं वर्षाणि जीवति ॥ ८॥

आहारनिर्हारविहारयोगाः सुसंवृता धर्मविदा तु कार्याः ॥

वाग्बुद्धिवीर्याणि तपस्तथैव धनायुषी गुप्ततमे तु कार्ये॥ ९ ॥

उभे मूत्रपुरीषे तु दिवा कुर्यादुदङ्मुखः ॥ रात्रौ कुर्याद्दक्षिणस्थ एवं ह्यायुर्न हीयते ॥ १० ॥ प्रत्यग्निम्प्रति सूर्यं च प्रति गां प्रति च द्विजम्॥ प्रति सोमोदकं सन्ध्यां प्रज्ञा नश्यति मेहतः ॥ ११ ॥ न नद्यां मेहनं कार्यं न भस्मनि न गोमये ॥ न वा कृष्टे न मार्गे च नोप्ते क्षेत्रे न शाद्वले॥ १२ ॥ छायायामन्धकरे च रात्रावहनि वा द्विजः ॥ यथासुखमुखः कुर्यात्प्राणबाधभयेषु च ॥ १३ ॥ उद्धृताभिरद्भिः कार्यं कुर्यात्स्नानमनुद्धृताभिरपि ॥ आहरेन्मृत्तिकां विप्रः कूलात्ससिकतां तथा ॥१४॥ अन्तर्जले देवगृहे वल्मीके मूषिकस्थले ॥ कृतशौचावशिष्टा च न ग्राह्याः पञ्च मृत्तिकाः ॥ १५ ॥ एका लिङ्गे करे तिस्र उभाभ्यां द्वे तु मृत्तिके ॥ पञ्च पाने दशैकस्मिन्नुभयोः सप्तमृत्तिकाः ॥ १६ ॥ एतच्छौचं गृहस्थस्य द्विगुणं ब्रह्मचारिणः ॥ वानप्रस्थस्य त्रिगुणं यतीनां तु चतुर्गुणम् ॥ १७ ॥
अष्टौ ग्रास मुनेर्भक्तं वानप्रस्थस्य षोडश ॥ द्वात्रिंशच्च गृहस्थस्य अमितं ब्रह्मचारिणः ॥ १८ ॥ अनड्वान्ब्रह्मचारी च आहिताग्निश्च तेत्रयः ॥ भुञ्जाना एव सिद्ध्यन्ति नैष सिद्धिरनश्नताम् ॥ १९ ॥ तपोदानोपहारेषु व्रतेषु नियमेषु च ॥ इज्याध्ययनधर्मेषु यो नासक्तः स निष्क्रियः ॥ २० ॥
योगस्तपो दमो दानं सत्यं शौचं दया श्रुतम् ॥ विद्या विज्ञानमास्तिक्यमेतद्ब्राह्मणलक्षणम् ॥ २१ ॥ सर्वत्र दान्ता। श्रुतिपूर्णकर्णा जितेन्द्रियाः प्राणिवधे निवृत्ताः ॥ प्रतिग्रहे सङ्कुचिता गृहस्थास्ते ब्राह्मणास्तारयितुं समर्थाः ॥ २२ ॥

असूयकः पिशुनश्चैव कृतघ्नो दीर्घरोषकः ॥ चत्वारः कर्मचाण्डाला जन्मतश्चापि पञ्चमः ॥ २३ ॥ दीर्घवैरमसूयां च असत्यं ब्रह्मदूषणम्॥ पैशुन्यं निर्दयत्वं च जानीयाच्छूद्रलक्षणम् ॥ २४ ॥

किञ्चिद्वेदमयं पात्रं किञ्चित्पात्रं तपोमयम् ॥

पात्राणामपि तत्पात्रं शूद्रान्नं यस्य नोदरे॥ २५॥

शूद्रान्नरसपुष्टाङ्गअधीयानोऽपि नित्यशः ॥ नित्यं हुत्वा यजित्वापि गतिमूर्ध्वान्न विन्दति ॥ २६ ॥ शूद्रान्नेनोदरस्थेन यः कश्चिन्म्रियते द्विजः ॥ स भवेच्छूकरो ग्राम्यस्तस्यवा जायते कुले ॥ २७ ॥ शूद्रान्नेन तु भुक्तेन मैथुनं योऽविःगच्छति ॥ यस्यान्नं तस्य ते पुत्रा न च स्वर्गार्हको भवेत् ॥
स्वाध्यायाढ्यं योनिमित्रं प्रशान्त चैतन्यस्थं पापभीरुं बहुज्ञम् ॥ स्त्रीयुक्तान्नं धार्मिकं गोशरण्यं व्रतैः क्षान्तन्तादृशं पात्रमाहुः ॥ २९ ॥
आमपात्रे यथा न्यस्तं क्षीरं दधि घृतं मधु ॥ विनश्येत्पात्रदौर्बल्यात्तच्च पात्र रसाश्च ते ॥ ३० ॥ एवङ्गां च हिरण्यं च वस्त्रमश्वं महीं तिलान्॥ अविद्वान्प्रतिगृह्णानो भस्मीभवति दारुवत्॥ ३१॥
नाङ्गं नखं च वादित्रं कुर्यान्नचापोऽञ्जलिना पिबेत् ॥ न पादेन न पाणिनावा राजानमभिहन्यात्। न जलेन जलं नेष्टकाभिः फलानि पातयेत् न फलेन फलं न कल्कपुटको भवेत्। न म्लेच्छभाषां शिक्षेत्।
अथाप्युदाहरन्ति। न पाणिपादचपलो न नेत्रचपलो भवेत् ॥ न चाङ्गचपलो विप्र इति शिष्टस्य गोचरः ॥ पारम्पर्यागतो येषां वेदः सपरिबृंहणः। ते शिष्टा ब्राह्मणा ज्ञेयाः श्रुतिप्रत्यक्षहेतवः ॥ यन्न सन्तं नचासन्तं नासतं न बहुश्रुतम् ॥ न सुवृत्तं न दुर्वृत्तं वेद कश्चित्स ब्राह्मण इति ॥

इति वासिष्ठे धर्मशास्त्रे षष्ठोऽध्यायः ॥ ६ ॥

सप्तमोऽध्यायः ७.

चत्वार आश्रमा ब्रह्मचारिगृहस्थवानप्रस्थपरिव्राजकाः। तेषां वेदमधीत्य वेदौ वा वेदान्वाऽविशीर्णब्रह्मचर्योऽपनिक्षेप्तुमावसेत् ब्रह्मचार्याचार्यं परिचरेत् आशरीरविमोक्षणात्। आचार्ये प्रमृते अग्निं परिचरेत्। विज्ञायते हि तवाग्निराचार्य इति। संयतवाक्चर्तुथषष्ठाष्टमकालभोजी भैक्षमाचरेत्। गुर्वधीनो जटिलः शिखाजटो वा गुरुं गच्छन्तमनुगच्छेत्। आसीनं चानुतिष्ठेत्। शयानं चासीन उपविशेत्। आहूताध्यायी सर्वभैक्ष्यं निवेद्य तदनुज्ञया भुञ्जीत खटाशयनदन्तप्रक्षालनाभ्यञ्जनवर्जस्तिष्ठेत्। अहनि रात्रावासीत त्रिः कृत्वाऽभ्युपेयादपोऽभ्युपेयादपः ॥

इति वाशिष्ठे धर्मशास्त्रे पञ्चमोऽध्यायः ॥ ७ ॥

अष्टमोऽध्यायः ८.

गृहस्थो विनीतक्रोधहर्षो गुरुणानुज्ञातः स्नात्वाऽसमानार्षामस्पृष्टमैथुनां यवीयसी सदृशीं भार्यां विन्देत्। पञ्चमीं मातृ-बन्धुभ्यः सप्तमीं पितृबन्धुभ्यः। वैवाह्यमग्निमिन्ध्यात्। सायमागतमतिथिं नावरुन्ध्यात्। नास्यानश्नन् गृहे वसेत्। यस्य नाश्नाति वासार्थो ब्राह्मणो गृहमागतः ॥ सुकृतं तस्य यत्किञ्चित्सर्वमादाय गच्छति॥ एकरात्रं तु निवसन्नतिथिर्ब्राह्मणः स्मृतः॥ अनित्यं हि तिथिर्यस्मात्तस्मादतिथिरुच्यते। नैकग्रामीणमतिथिं विप्रं साङ्गतिकं तथा ॥ काले प्राप्ते त्वकाले वा नास्यानश्नन् गृहे वसेत् ॥
श्रद्धाशीलोऽस्पृहालुरलमग्न्याधेयाय नानाहितान्निः स्यात्। अलं च सोमपानाय नासोमयाजी स्यात्। युक्तः स्वाध्याये प्रजनने यज्ञे च गृहेष्वभ्यागतं प्रत्युत्थानासनशयनवाग्भिः सूनृताभिर्मानयेत्। यथाशक्ति चान्नेन सर्वभूतानि।
गृहस्थ एव यजते गृहस्थस्तप्यते तपः॥ चतुर्णामाश्रमाणां हि गृहस्थस्तु विशिष्यते ॥ यथा नदीनदाः सर्वे समुद्रे यान्ति संस्थितिम् ॥ एवमाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् ॥ यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः ॥ एवं गृहस्थमाश्रित्य सर्वे जीवन्ति भिक्षवः ॥ नित्योदकी नित्ययज्ञोपवीती नित्यस्वाध्यायी पतितान्नवर्जी ॥ ऋतौ गच्छन्विधिवच्च जुह्वन्न ब्राह्मणश्च्यवते ब्रह्मलोकात् ब्रह्मलोकादिति ॥

इति वासिष्ठे धर्मशास्त्रेऽष्टमोध्यायः ॥ ८ ॥

नवमोऽध्यायः ९.

वानप्रस्थो जटिलश्चीराजिनवासा ग्राम च न विशेत्। न फालकृष्टमधितिष्ठेत्। अकृष्टं मूलफलं सञ्चिन्वीत। ऊर्ध्वरेताः क्षमाशयो मूलफलभैक्षेणाश्रमागतमतिथिमर्चयेत्। दद्यादेव न प्रतिगृह्णीयात्। त्रिषवणमुदकमुपस्पृशेत्। श्रावणकेनाग्नि माधायाहिताग्निः स्याद्वृक्षमूलिकः ऊर्ध्वं षड्भ्यो मासेभ्योऽनग्निरनिकेतोदद्याद्देवपितृमनुष्येभ्यः स गच्छेत्स्वर्गमानन्त्यमानन्त्यम् ॥

इतिवाशिष्ठे धर्मशस्त्रे नवमोऽध्यायः ॥ ९ ॥

दशमोऽध्यायः १०.

परिव्राजकः सर्वभूताभयदक्षिणां दत्त्वा प्रतिष्ठेत् ॥ अथाप्युदाहरन्ति। अभयं सर्वभूतेभ्यो दत्त्वा चरति यो द्विजः॥ तस्यापि सर्वभूतभ्यो न भयं जातु विद्यते ॥ अभयं सर्वभूतेभ्यो दत्त्वा यस्तु विवर्तते ॥ हन्ति जातानजातांश्च प्रतिगृह्णाति यस्य च ॥ सन्न्यसेत्सर्वकर्माणि वेदमेकं न सन्न्यसेत् ॥ वेदसन्न्यासतः शूद्रस्तस्माद्वेदं न सन्न्यसेत् ॥ एकाक्षरं परं ब्रह्म प्राणायामः परं तपः ॥ उपवासात्परं भैक्षं दया दानाद्विशिष्यते ॥

मुण्डोऽममत्वपरिग्रहः सप्तागाराण्यसङ्कल्पितानि चरेद्भैक्ष्यम्। विधूमे सन्नमुसले एकशटिपरिवृतोऽजिनेन वा गोप्रलूनैस्तृणैर्वेष्टितशरीरः स्थण्डिलशाय्यनित्यां वसतिं वसेत्। तथा ग्रामान्तेदेवगृहे शून्यागारे वृक्षमूले वा मनसा ज्ञानमधीयमानः असण्यनित्यो न ग्राम्यपशूनां सन्दर्शने विहरेत् ॥

अथाप्युदाहरन्ति। अरण्यानित्यस्य जितेन्द्रियस्य सर्वेन्द्रियप्रीतिनिवर्तकस्य ॥ अध्यात्मचिन्तागतमानसस्य ध्रुवा ह्यनावृत्तरुपेक्षकस्य॥ अव्यक्तलिङ्गोऽव्यक्ताचारः अनुन्मत्त उन्मत्त वेषः ॥

अथाप्युदाहरन्ति। न शब्दशास्त्राभिरतस्य मोक्षो न चापि लोकग्रहणे रतस्य ॥ न भोजनाच्छादनतत्परस्य न चापि रम्यावसथप्रियस्य ॥ न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया ॥ अनुशासनवादाभ्यां भिक्षां लिप्सेत कर्हिचित् ॥ अलाभे न विषादी स्याल्लाभे चैव न हर्षयेत् ॥ प्राणयात्रिक मात्रः स्यान्मात्रासङ्गाद्विनिर्गतः। न कुट्यां नोदके सङ्गे न चैले न त्रिपुष्करे ॥ नागारे नासने शेते यः स वै मोक्षवित्तमः ॥

ब्राह्मणकुले वा यल्लभेतद्भुञ्जीत सायं मधुमांससर्पिः परिवर्जं यतीन् साधून्वा गृहस्थान्सायम्प्रातश्च तृप्येत्। ग्रामे वा वसेत् अजिह्मः अशरणः असङ्कसुकः। न चेन्द्रियसंयोगं कुर्वीत केनचित्। उपेक्षकः सर्वभूतानां हिंसानुग्रहपरिहारेण पैशुन्यमत्सराभिमानाहङ्काराश्रद्धानार्जवात्मशुचापरगर्हादम्भलो भमोहक्रोधविवर्जनंसर्वाश्रमिणां धर्म इष्टो यज्ञोपवीत्युदककमण्डलुहस्तः शुचिर्ब्राह्मणो वृषालान्नपानवर्जोन हीयते ब्रह्मलोकाद्ब्रह्मलोकात् ॥

इति वासिष्ठे धर्मशास्त्रे दशमोऽध्यायः ॥ १० ॥

एकादशोऽध्यायः ११.

षट्कर्म्मा गृहदेवताभ्यो बलिं हरेत्। श्रोत्रियायान्नं दत्त्वाब्रह्मचारिणे वाऽनन्तरं पितृभ्यो दद्यात्ततोऽतिथिं भोजयेत्। स्वेष्टायामष्टानुपूर्व्येण स्वगृह्याणां कुमारबालवृद्धतरुणप्रभृतींस्ततोऽपरान्गृह्यान्। श्वचाण्डालपतितवायसेभ्यो भूमौ निर्वपेच्छूद्रेभ्य उच्छिष्टं वा दद्याच्छेषंयतो भुञ्जीत। सर्वोपयोगेन पुनः पाको यदि निवृत्ते वैश्वदेवेऽतिथिरागच्छेद्विशेषेणास्मा अन्नं कारयेद्द्विजातयेऽह्नि वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणोगृहम्। तस्मादपानमन्यत्र वर्षाभ्यस्तां हि शान्तिजना विद्भिरिति तं भोजयित्वोपासीतासीमन्तादनुव्रजेदनुज्ञाताद्वा।
परपक्ष ऊर्ध्वं चतुर्थ्याः पितृभ्यो दद्यात्। पूर्वेद्यर्ब्राह्मणान् सन्निपात्य यतीन् गृहस्थान् साधून् वा परिणतवयसोऽविकर्मस्थान् श्रोत्रियाञ्छिष्यानन्तेवासिनः शिष्यानपि गुणवतो भोजयेद्विलग्नशुक्लविगृधिश्यावदन्तकुष्ठिकुनखिवर्जम् ॥ अथाप्युदाहरन्ति। अथ चेन्मन्त्रविद्युक्तः शारीरैः पङ्क्तिदूषणैः ॥ अद्रूष्यं तं यमः प्राह पङ्क्तिपावन एव सः ॥ श्राद्धे नोद्वासनी यानि उच्छिष्टान्यादिनक्षयात् ॥ खे पतन्ति हि या धारास्ताः पिबन्त्यकृतोदकाः ॥ उच्छिष्टेन प्रपुष्टास्ते यावन्नास्तमितोरविः ॥ क्षीरधारास्ततो यान्त्यक्षयाः सञ्चरभागिनः ॥ प्राक्संस्कारप्रमीतानां प्रवेशनामिति श्रुतिः ॥ भागधेयं मनुः प्राह उच्छिष्टोच्छेषणे उभे ॥ उच्छेषणं भूमिगर्तं विकिरेल्लेपसोदकम्॥ अनुप्रेतेषु विसृजेदप्रजानामनायुषाम् ॥ उभयोः शाखयोर्मुक्तं पितृभ्योऽन्ननिवेदनम् ॥ तदन्तरं प्रतीक्षन्ते ह्यसुरा दुष्टचेतसः ॥ तस्मादशून्यहस्तेन कुर्य्यादन्यमुपागतम् ॥ भोजनं वा समालभ्य तिष्ठतोच्छेषणे उभे ॥
द्वौ दैवे पितृकृत्ये त्रीनेकैकमुभयत्र वा ॥ भोजयेत् सुसमृद्धोऽपि न प्रसज्येत विस्तरे ॥ सत्क्रियां देशकालौ च शौचं ब्राह्मणसम्पदः ॥ पञ्चैतान्विस्तरो हन्ति तस्मात्तं परिवर्जयेत् ॥ अपि वा भोजयेदेकं ब्राह्मणं वेदपारगम् ॥ शुभशीलोपसम्पन्नं सर्वालक्षणवर्जितम् ॥
यद्येकं भोजयेच्छ्राद्धे दैवं तत्र कथं भवेत् ॥ अन्नं पात्रे समुद्धृत्य सर्वस्य प्रकृतस्य तु ॥ देवतायतने कृत्वा ततः श्राद्धं प्रवर्त्तते ॥ प्रास्येदग्नौ तदन्नं तु दद्याद्वा ब्रह्मचारिण ॥

यावदुष्णं भवत्यन्नं यावदश्नन्ति वाग्यताः ॥ तावद्धि पितरोऽश्नन्ति यावन्नोक्ता हविर्गुणाः ॥ हविर्गुणा न वक्तव्याः पितरोऽभ्यवतर्पिताः। पितृभिस्तर्पितैःपश्चाद्वक्तव्यं शोभनं हविः ॥ नियुक्तस्तु यदा श्राद्धे दैवे तं तु समुत्सृजेत् ॥ यावन्ति पशुरोमाणि तावन्नरकमृच्छति ॥
त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतुपस्तिलाः ॥ त्रीणि चान्नं प्रशंसन्ति शौचमक्रोधमत्वराम् ॥ दिवसस्याष्टमे भागे मन्दीभवति भास्करः ॥ स कालः कुतुपो नाम पितॄणां दत्तमक्षयम् ॥
श्राद्धं दत्त्वा च भुक्त्वाच मैथुनं योऽधिगच्छति ॥ भवन्ति पितरस्तस्य तन्मांसरेतसो भुजः ॥ यतस्ततो जायते च दत्त्वा भुक्त्वा चयोऽभ्यसेत् ॥ न स विद्यामवाप्नोति क्षीणायुश्चैव जायते ॥
पिता पितामहश्चैव तथैव प्रपितामहः ॥ उपासते सुतं जातं शकुन्ता इव पिप्पलम् ॥ मधुमांसैश्च शाकैश्चपयसा पायसेन वा ॥ अधुना दास्यति श्राद्धं वर्षासु च मघासु च ॥ सन्तानवर्द्धनं पुत्रं तृप्यन्तं पितृकर्मणि ॥ देवब्राह्मणसम्पन्नमभिनन्दन्ति पूर्वजाः ॥ नन्दन्ति पितरस्तस्य सुवृष्टेरिव कर्षकाः ॥ यद्गयास्थो ददात्यन्नं पितरस्तेन पुत्रिणः ॥

श्रावण्याग्रहायण्योश्चाष्टकायां च पितृभ्यो दद्यात् द्रव्यदेशब्राह्मणसन्निधाने वा। कालनियमोऽवश्यम्।
यो ब्राह्मणोऽग्निमादधीत। दर्शपूर्णमासाग्रयणेष्टिचातुर्मास्यपशुसोमैश्च यजते। नैयमिकं ह्येतदृणंसंस्तृतं च विज्ञायते हि त्रिभिर्ऋणैर्ऋणवान् ब्राह्मणो जायते। यज्ञेन देवेभ्यः प्रजया पितृभ्यो ब्रह्मचर्य्येण ऋषिभ्यः। इत्येष वा अनृणो यज्वा यः पुत्री ब्रह्मचर्यवानिति।
गर्भाष्टमेषु ब्राह्मणमुपनयीत गर्भैकादशेषु राजन्यं गर्भद्वादशेषु वैश्यम्। पालाशोदण्डो बैल्वो वा ब्राह्मणस्यनैयग्रोधः क्षत्रियस्य वा औदुम्बरो वा वैश्यस्य कृष्णाजिनमुत्तरीयं ब्राह्मणस्य रौरवं क्षत्रियस्य गव्यं बस्ताजिनं वैश्यस्य शुक्लमहतं वासो ब्राह्मणस्य माञ्जिष्ठं क्षत्रियस्य हारिद्रङ्कौशेयं वैश्यस्यसर्वेषां वा तान्तवमरक्तं भवेत्। भवत्पूर्वाम्ब्राह्मणो भिक्षां याचेत भवन्मध्यां राजन्यो भवदन्त्यां वैश्यश्च आषोडशाद्ब्राह्मणस्यानतीतः काल आद्वाविंशात्क्षत्रियस्याचतुर्विंशाद्वैश्यस्य अत ऊर्ध्वं पतितसावित्रीकभवन्ति नैनानुपनयेन्नाध्यापयेन्न याजयेन्नैभिर्विवाहयेयुः। पतितसावित्रीक उद्दालकव्रतं चरेत्। द्वौ मासौयावकेन वर्तयेन्मासं माक्षिकेनाष्टरात्रं घृतेन षड्रात्रमयाचितं त्रिरात्रमब्भक्षोऽहोरात्रमे" वोपवासम्। अश्वमेधावभृथं गच्छेद्व्रात्यस्तोमेन वा यजेत् ॥

इति वासिष्ठे धर्मशास्त्रे एकादशोऽध्यायः ॥ ११ ॥

द्वादशोऽध्यायः १२.

अथातः स्नातकव्रतानि स न कञ्चिद्यचितान्यत्र राजान्तेवासिभ्यः क्षुधापरीतस्तु किञ्चिदेव याचेत कृतमकृतं वा क्षेत्रं गामजाविकं सन्ततं हिरण्यं धान्यमन्नं वा न तु स्नातकः क्षुधावसीदेदित्युपदेशः न नद्यां स सहसा संविशेन्न रजस्वलायामयोग्यायां नकुलं कुलं स्याद्वत्सन्तीं विततां नातिक्रामेन्नोद्यन्तमादित्यं पश्येन्नादित्यं तपन्तं नास्तं मूत्रपुरीषे कुर्यान्न निष्ठीवेत् परिवेष्टितशिरा भूमिमयज्ञियैस्तृणरैन्तर्धापमूत्रपुरीषे कुर्यादुदङ्मुखश्चाहनि नक्तं दक्षिणामुखः सन्ध्यामासीतोत्तरामुदाहरन्ति।
स्नातकानां तु नित्यं स्यादन्तर्वासस्तथोत्तरम् ॥ यज्ञोपवीते द्वे यष्टिः सोदकश्च कमण्डलुः ॥ अप्सु पाणौ च काष्ठे च कथितं पावकं शुचिम्॥ तस्मादुदकपाणिभ्यां परिमृज्यात्कमण्डलुम् ॥ पर्यग्निकरणं ह्येतन्मनुराह प्रजापतिः ॥ कृत्वा चावश्यकार्य्याणि आचामेच्छौचवित्तत इति ॥
प्राङ्मुखोऽन्नानि भुञ्जीत। तूष्णीं साङ्गुष्ठं कृशग्रासं ग्रसेत न च मुखशब्दं कुर्यादृतुकालाभिगामी स्यात्। पर्व्ववर्ज्जं स्वदारेषु वा तीर्थमुपेयात् ॥
अथाप्युदाहरन्ति। यस्तु पाणिगृहीताया आस्येकुर्वीत मैथुनम् ॥ भवन्ति पितरस्तस्यःतन्मांसरेतसो भुजः ॥ या स्यादनतिचारेण रतिः साधर्म्यसंश्रिता ॥ अपि च पावकोऽपि ज्ञायते ॥ अद्य श्वो वा विजनिष्यमाणाः पतिभिः सह शयन्त इति स्त्रीणामिन्द्रदत्तो वरः।

न वृक्षमारोहेन्न कूपमवरोहेन्नाग्निम्मुखेनापधग्नेन्नाग्निं ब्राह्मणं चान्तरेण व्यपेयान्नाग्निब्राह्मणयोरनुज्ञाप्य वा भार्य्यया सह नाश्नीयादवीर्य्यवदपत्यं भवतीति वाजसनेयके विज्ञायते ॥ नेन्द्रधनुर्नाम्ना निर्द्दिशेन्मणिधनुरिति ब्रूयात् ॥ पालशमासनं पादुके दन्तधावनमिति वर्जयेत्। नोत्सङ्गे भक्षयेदधो न भुञ्जीत। वैष्णवं दण्डं धारयेद्रुक्मकुण्डले च। न बहिर्मालां धारयेदन्यत्र रुक्ममय्याः सभासमवायांश्च वर्जयेत् ॥
अथाप्युदाहरन्ति। अप्रामाण्यं च वेदानामार्षाणां चैव दर्शनम् ॥ अव्यवस्था च सर्वत्र एतन्नाशनमात्मन इति ॥ नान्नाहूतो यज्ञं गच्छेत् यदि व्रजेदधिवृक्षसूर्यमध्वानं न प्रतिपद्यते। नावं च सांशयिकीम्बाहुभ्यां न नदीं तरेदुत्थायापररात्रमधीत्य न पुनः प्रतिसंविशेत्। प्राजापत्ये मुहूर्ते ब्राह्मणः स्वनियमाननुतिष्ठेदनुतिष्ठेदिति ॥

इति वासिष्ठे धर्मशास्त्रे द्वादशोऽध्यायः ॥ १२ ॥

त्रयोदशोऽध्यायः १३.

अथातः स्वाध्यायश्चोपाकर्म्मश्रावण्यां पौर्णमास्यां प्रौष्ठापद्यां वाग्निमुपसमाधाय कृताधानो जुहोति देवेभ्यश्च्छन्दोभ्यश्चेति। ब्राह्मणान् स्वस्ति वाच्य दधि प्राश्य तत उपांशु कुर्वीत। अर्धपञ्चममासानर्द्वषष्ठानत ऊर्ध्वं शुक्लपक्षेप्वधीयीत। कामं तु वेदाङ्गानि।
तस्यानध्यायाः सन्ध्यास्तमिते स्युस्तत्र शवे दिवाकीर्त्य नगरेषु कामं गोमयपर्युषितेपरिलिखिते वा श्मशानान्तेशयानस्य श्राद्विकस्य ।
मानवं चात्र श्लोकमुदाहरन्ति फलान्यापस्तिलान्भक्ष्यमथान्यच्छ्राद्धिकं भवेत् ॥ प्रतिगृह्याप्यनध्यायः पाण्यास्या ब्राह्मणाः स्मृताः इति।
धावतः पूतिगन्धिप्रसृतेरितवृक्षमारूढस्यनावि सेनायां च भुक्त्वा चार्धघ्राणे वाणशब्दे चतुर्दश्याममावास्यायामष्टम्यामष्टकासु प्रसारितपादोपस्थस्योपाश्रितस्य गुरुसमीपे मिथुनव्यपेतायां वाससा मिथुनव्यपेतेनानिर्मुक्तेन ग्रामान्ते छर्दितस्य मूत्रितस्योच्चरितस्य यजुषां च सामशब्दे वा जीर्णेनिर्घातभूमौ च न चन्द्रसूर्योपरागेषु दिङ्नादपर्वतनादकम्पप्रपातेषूपलरुधिरपांशुवर्षेष्वकालिकमुल्काविद्युत्सज्योति-षमपर्त्वाकालिकंवा।

आचार्य्ये च प्रेते त्रिरात्रमाचार्यपुत्रशिष्यभार्य्यास्वहोरात्रम् ऋत्विग्येनिसम्बन्धैषु च गुरोः पादोपमग्रहणं कार्य्य ऋत्विक्श्वशुरपितृव्यमातुलानवरवयस प्रत्युत्थायाभिवदेद्यै चैव पादग्राह्यास्तेषां भार्या गुरोश्च मातापितरौ यो विद्यादभिवन्दितुमहमयं भोरिति ब्रूयाद्यश्च न विद्यात् प्रत्यभिवादे नाभिवदेत्।
पतितः पिता परित्याजो माता तु पुत्रे न पतति ॥ अथाप्युदाहरन्ति- “उपाध्यायाद्दशाचार्य्य आचार्य्याणां शतं पिता। पितुर्द्दशशतं माता गौरवेणातिरिच्यते॥ भार्य्याः पुत्राश्च शिष्याश्च संस्पृष्टाः पापकर्मभिः ॥ परिभाष्य परित्याज्याः पतितो योऽन्यथा भवेत् ॥ ऋत्विगाचार्यावयाजकानध्यापकौहेयावन्यत्र हानात् पतितो नान्यत्र पतितो भवतीत्याहुरन्यत्र स्त्रियाः ॥ सा हि परगमिता तद्भिन्नामक्षुण्णामुपेयात् ॥
गुरोर्गुरौ सन्निहिते गुरुवद्वृत्तिरिष्यते॥ गुरुवद्गुरुपुत्रस्यवर्तितव्यमिति श्रुतिः ॥ शास्त्रं वस्त्रं तथान्नानि प्रतिग्राह्याणि ब्राह्मणस्यविद्याविजयजः सम्बन्धः कर्म्म च मान्यम्। पूर्वः पूर्वो गरीयान्। स्थविरबालातुरभारिकचक्रवतां पन्थाः समागमे परस्मै देयः। राजस्नातकयोः समागमे राज्ञा स्नातकाय देयः। सर्वैरेव वा उच्चतमाय ॥ तृणभूम्यग्न्युदकवाक्सूनृतानसूयाः सप्तगृहे नोच्छिद्यन्ते कदाचन कदाचनेति ॥

इति श्रीवसिष्ठस्मृतौ भाषाटीकायां त्रयोदशोऽध्यायः ॥ १३ ॥

चतुर्दशोऽध्यायः १४.

अथातो भोज्याभोज्यं च वर्णयिष्यामः ॥ चिकित्सक मृगयुर्पुंश्चलीदण्डिकस्ते नाभिशस्तषण्डपतितानामभोज्यं कदर्य्ये क्षितबद्धातुरसोमविक्रयितक्षकरजकशौण्डिकसूचकवार्धुषिकचर्मावकृत्तानां शूद्रस्य चायज्ञस्योपयज्ञे यश्चोपपतिं मन्यते यश्चगृहीततद्धेतुर्यश्चवधार्हं नोपहन्यात् कौबन्धमोक्षौइति चाभिक्रुश्येत्। गणान्नं गणि कान्नम् ॥

अथाप्युदाहरन्ति - " नाश्नन्ति श्वपतेर्देवा नाश्नन्ति वृषलीपतेः ॥ भार्य्याजितस्य नाश्नन्ति यस्यचोपपतिर्गृहे इति” एधोदकसवत्सकुशलाभ्युद्यतपानावसथसफरिप्रियङ्गुस्तरजमधु मांसानि नैतेषां प्रतिगृह्णीयात् ॥

अथाप्युदाहरन्ति - गुर्वर्थदारमुज्जिहीर्षन्नर्च्चिष्यन्देवतातिथीन्॥ सर्वतः प्रतिगृह्णीयान्न तु तृप्येत्स्वयं तत इति।

न मृगयोरिषुचारिणः परिवर्ज्यमन्नम्। विज्ञायते ह्यगस्त्यो वर्षसाहस्रिके सत्रे मृगयां चचार तस्यासंस्तु रसमयाः पुरोडाशा मृगपक्षिणां प्रशस्तानामपि ह्यन्नम् ॥

प्राजापत्याञ्छ्लोकानुदाहरति-उद्यतामाहृतां भिक्षां पुरस्तादप्रचोदिताम् ॥ भोज्यं प्रजापतिर्मेन2ेअपि दुष्कृतकारिणः ॥ श्रद्द्धानैर्न भोक्तव्यं चौरस्यापि विशेषतः ॥ नत्वेव बहुधा तस्य यावानपहृता भवेत् ॥ न तस्य पितरोऽश्नन्ति दश वर्षाणि पञ्च च ॥ नच हव्यं वहत्यग्निर्यस्तामभ्यवमन्यते ॥ चिकित्सकस्यमृगयाः शिल्पहस्तस्यपाशिनः ॥ षण्ढस्यकुलटायाश्च उद्यतापि न गृह्यते इति ॥
उच्छिष्टं गुरोरभोज्यं स्वमुच्छिष्टमुच्छिष्टोपहतं च यदशनं केशकीटोपहतं च कामं तु केशकीटानुद्धृत्याद्भिः प्रोक्ष्यभस्मनावकीर्य्य वाचा च प्रशस्तमुपभुञ्जीतापि ह्यन्नम् ॥ प्राज्यापत्यान् श्लोकानुदाहरन्ति - त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन् ॥ अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते ॥ देवद्रोण्यां विवाहेषु यज्ञेषु प्रकृतेषु च ॥ काकैःश्वभिश्च संस्पृष्टमन्नं तन्न विसर्जयेत् ॥ तस्मात्तदन्नमुद्धृत्य शेषं संस्कारमर्हति ॥ द्रवाणां प्लावनेनैव धनानां क्षरणेन तु ॥ पाकेनमुखसंस्पृष्टं शुचिरेव हि तद्भवेत् ॥ अन्नं पर्य्युषितं भावदुष्टं हृल्लेखनं पुनः ॥ सिद्धमाममृजीषपक्वं च। कामं तु दद्याद् घृतेन चाभिघारितमुपभुञ्जीतापि ह्यन्नम् ॥ प्राजापत्यान् श्लोकानुदाहरन्ति - हस्त दत्तास्तु ये स्नेहा लवणं व्यञ्जानानि च ॥ दातारं नोपतिष्ठन्ति भोक्ता भुङ्क्ते च किल्बिषमिति।

लशुनपलाण्डुक्रमुकगृञ्जनश्लेष्मान्नर्घृक्षनिर्यासलोहिताव्रश्चनाश्वश्वकाकावलीढं शूद्रच्छिष्टभोजनेषु कृच्छ्रातिकृच्छ्र इतरेऽप्यन्यत्र मधुमांसफलविकर्षेष्वग्राम्यपश्वविषयः सन्धिनीक्षीरमवत्सागोमहिष्यजातरोमनिर्दशाहानात्मनामन्त्र्यं नाव्युदकमपूपधानाकरम्भसक्तुञ्चर-कतैलपायसशाकानिलशुक्तानि वर्जयेदन्यांश्च क्षीरयवपिष्टवीरान्।
श्वाविच्छल्लकशशकच्छपगोधाःपञ्चनखा नाभक्ष्या अनुष्ट्रः पशूनामन्यतोदतश्च मत्स्यानां वा वेहगवयशिशु मारनक्रकुलीरा विकृतरूपाः सर्वशीर्षाश्च गौरगवयशलभाश्चानुद्दिष्टास्तथा ॥ धेन्वनड्वाहौमध्यौ वाजसनेयने। खड्गेतु विवन्दत्यग्राम्यशूकरे च शकुनानां च विशुविविष्करजालपादाः कलविङ्कप्लवहंसचक्रवाकमासमद्गुटिट्टिभाटबान्धनक्तञ्चरा दार्वाघाटाश्च श्चटकवैलातक हारितखन्जरीटग्राम्यकुक्कुटशुकसारिकाकोकिलक्रव्यादा ग्रामचारिणश्च ग्रामचारिणश्चेति ॥

इति श्रीवाशिष्ठे धर्मशास्त्रे चतुर्दशोऽध्यायः ॥ १४ ॥

पञ्चदशोऽध्यायः १५.

शोणितशुक्रसम्भवः पुरुषो मातापितृनिमित्तकः तस्य प्रदानविक्रयत्यागेषु माता पितरौ प्रभवतः। नत्वेकं पुत्रं दद्यात्प्रतिगृह्णोयाद्वास हि सन्तानाय पूर्वेषाम्। न स्त्री दद्यात्प्रतिगृह्णीयाद्वान्यत्रानुज्ञानाद्भर्तुः।

पुत्रं प्रतिग्रहीष्यन् बन्धूनाहूय राजनि चावेद्य निवेशनस्य मध्ये व्याहृतीर्हुत्वा दूरेबान्धवमसन्निकृष्टमेव सन्देहे चोत्पन्ने दूरेबान्धवं शूद्रमिव स्थापयेत् ॥ विज्ञायते ह्येकेन बहु जायत इति।

तस्मिंश्चेत् प्रतिगृहीते औरसः पुत्र उत्पद्यते चतुर्थभागस्यागी स्यात्।

यदि नाभ्युदयिके युक्तः स्याद्वेदविप्लविनः सव्येन पादेन प्रवृत्ताग्रान् दर्भान् लोहितान् वोपस्तीर्य पूर्णं पात्रमस्मै निनयेन्निनेतारं चास्य प्रकीर्य्यकेशान् ज्ञातयोऽन्वारभेरन्नपसव्यङ्कृत्वा गृहेषु स्वैरमापाद्येरन्नत ऊर्ध्वं तेन सह धर्म मीयुस्तद्धर्माणस्तद्धर्मापन्नाः पतितानां तु चरितव्रतानां प्रत्युद्धारः।

अथाप्युदाहरन्ति - अग्न्यभ्युद्धरताङ्गच्छेत्क्रीडन्ति च हसन्ति च ॥ यश्चोत्पातयतां गच्छेच्छौचमित्याचार्य्यमातृपितृहन्तारस्तत्प्रसादाद्भयाद्वा। एषां प्रत्यापत्तिः। पूर्णाब्दात् प्रवृत्ताद्वा काञ्चनं पात्रं माहेयं वा पूरयित्वापोहिष्ठाभिरेव षड़भिर्ऋग्भिः सर्वत्र वाभिरिक्तस्य प्रत्युद्वीरपुत्रजन्मना व्याख्यातः ॥

इति वशिष्ठस्मृतौ भाषाटीकायां पञ्चदशोऽध्यायः ॥ १५ ॥

षोडशोऽध्यायः १६.

अथ व्यवहाराः ॥ राजमन्त्री सदःकार्य्याणि कुर्य्यात्। द्वयोर्विवदमानयोरत्र पक्षान्तरं गच्छेद्यथासनमपराधोह्यन्ते नापराधः समः सर्वेषु भूतेषु यथासनमपराधोह्याद्यवर्णयोर्विधानतः सम्पन्नतामाचरेद्राजा बालानामप्राप्तव्यवहाराणां प्राप्तकाले तु तद्वत्। लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं स्मृतम् ॥ धनस्वीकरणं पूर्वं धनी धनमवाप्नुयात् इति ॥ मार्गक्षेत्रयोर्विसर्गे तथा परिवर्तनेन ऋणाग्रहेष्वर्थान्तरेषु त्रिपादमात्रं गृहक्षेत्रविरोधे सामन्तप्रत्ययः सामन्तविरोधेऽपि लेख्यप्रत्ययः प्रत्यभिलेख्यविरोधेग्रामनगरवृद्धश्रेणिप्रत्ययः।
अथाप्युदाहरन्ति - “य एकङ्क्रीतमाधेयमन्वाधेयं प्रतिग्रहम् ॥ यज्ञादुपगमा बोनैस्तथा धूमशिखा ह्यमी ॥ इति। " तत्र भुक्ते दशवर्षमेवोदाहरति।
आधिः सीमाधिकं चैव निक्षेपोपनिधिः स्त्रियः ॥ राजस्वं श्रोत्रियद्रव्यं न राजाऽऽदातुमर्हति इति ॥ तच्च सम्भोगेन ग्रहीतव्यम्। गृहिणां द्रव्याणि राजगामीनि भवन्ति।
तथा राजा मन्त्रिभिः सह नागरैश्च कार्य्याणि कुर्य्यादसौ वा राजा श्रेयान् वसुपरिवारः स्यादगर्धपरिवारो वा राजा न श्रेयान् स्याद्गर्धा गर्धपरिवारः स्यात्। परिवाराद्दोषाः प्रादुर्भवन्ति स्तेयहारविनाशनं तस्मात्पूर्वमेव परिवारं पृच्छेत् ॥

अथ साक्षिणः - श्रोत्रियो रूपवान् शीलवान् पुण्यवान् सत्यवान् साक्षिणः सर्वे एव वा स्त्रीणां साक्षिणः स्त्रियः कुर्यात्। द्विजानां सदृशा द्विजाः शूद्राणां सन्तः शूद्राश्च अन्त्यानामन्त्याः ॥

अथाप्युदाहरन्ति ॥ प्रातिभाव्यं वृथादानमाक्षिकं सौरिकं च यत् ॥ दण्डशुल्कावशिष्टं च न पुत्रो दातुमर्हतीति ॥

ब्रूहि साक्षिन्यथातत्त्वं लम्बन्ते पितरस्तव। तव वाक्यमुदीर्यन्तमुत्पतन्ति पतन्ति च ॥ नग्नो मुण्डःकपाली च भिक्षार्थं क्षुत्पिपासितः ॥ अन्धः शत्रुकुले गच्छेद्यस्तु साक्ष्यनृतं वदेत् ॥ पञ्च कन्यानृते हन्ति दश हन्ति गवानृते ॥ शतमश्वानृते हन्ति सहस्रं पुरुषानृते ॥ व्यवहारे मृते दारे प्रायश्चित्ते कुले स्त्रियः ॥ तेषां पूर्वपरिच्छेदाच्छेद्यन्ते वागवादिभिः ॥

उद्वाहकाले रतिसम्प्रयोगे प्राणात्यये सर्वधनापहरे ॥ विप्रस्य चार्थे ह्यनृतं वदेयुः पञ्चानृतान्याहुरपातकानि ॥

स्वजनस्यार्थे यदि वार्थहेतोः पक्षाश्रयेणैव वदन्ति कार्य्यम् ॥ वैशब्दवादं स्वकुलानुपूर्वान्स्वर्गस्थितांस्तानपि पातयन्त्यपि ॥

इति श्रीवाशिष्ठे धर्मशास्त्रे षोडशोऽध्यायः ॥ १६ ॥

सप्तदशोऽध्यायः १७.

ऋणमस्मिन् सन्नयति अमृतत्वं च गच्छति ॥ पिता पुत्रस्यजातस्य पश्येच्चेज्जीवतो मुखम् ॥ अनन्तः पुत्रिणां लोका नापुत्रस्य लोकोऽस्तीति श्रूयते। प्रजाः सन्त्वपुत्रिण इत्यपि शापः। प्रजाभिरग्नेस्त्वमृतत्वमश्नुयामित्यपि निगमो भवति। पुत्रेण लोकाञ्जयति पौत्रेणानन्त्यमश्नुते ॥ अथ पुत्रस्य पौत्रेण बध्नस्याप्नोति विष्टपमिति ॥
क्षेत्रिणः पुत्रो जनयितुः पुत्र इति विवदन्ते तत्रोभयथाप्युदाहरन्ति ॥ यद्यन्यगोषु वृषभो वत्सात्जनयते सुतान् ॥ गोपिनामेव ते वत्सा मोघं स्यन्दनमोक्षणमिति ॥ अप्रमत्ता रक्षन्तु वैषं साच क्षेत्रे परे बीजानि वासौजनयितुः पुत्रो भवति सम्परायो मोघं रेतोऽकुरुत तन्तुमेतमिति।

बहूनामेकजातानामेकश्चेत्पुत्रवान्नरः ॥ सर्वे ते तेन पुत्रेणपुत्रवन्त इति श्रुतिः ॥

बह्वीनां द्वादश ह्येव पुत्राः पुराणदृष्टाः स्वयमुत्पादितः स्वक्षेत्रे संस्कृतायां प्रथमः तदलाभे नियुक्तायां क्षेत्रजो द्वितीयः तृतीयः पुत्रिका विज्ञायते अभ्रातृका पुंसः पितृलभ्येति प्रतीचीनं गच्छति पुत्रत्वम् ॥

श्लोकः ॥ अभ्रातृकां प्रदास्यामि तुभ्यं कन्यामलङ्कृताम् ॥ अस्यां यो जायते पुत्रः स मे पुत्रो भवेदिति ॥

पौनर्भवश्चतुर्थः पुनर्भूः कौमारं भर्तारमुत्सृज्यान्यैः सह चरित्वा तस्यैव कुटुम्बमाश्रयति सा पुनर्भूर्भवति। या च क्लीबम्पतितमुन्मत्तं वा भर्तारमुत्सृज्यान्यं पतिं विन्दते मृते वा सा पुनर्भूर्भवति।

कानीनः पञ्चमोया पितुर्गृहेऽसंस्कृता कामादुत्पादयेन्मातामहस्य पुत्रो भवतीत्याहुः॥ अथाप्युदाहरन्ति ॥ अप्रत्ता दुहिता यस्य पुत्रं विन्दति तुल्यतः ॥ पुत्री माता महस्तेन दद्यात्पिण्डं हरेद्धनम् इति ॥

गूढे च गूढोत्पन्नः षष्ठः इत्येते। दायादा बान्धवास्त्रातारो महतो भयात् इत्याहुः ।

अथादायादास्तत्र सहोढएव प्रथमो या गर्भिणी संस्क्रियते तस्यां जातः सहोढःपुत्रो भवति। दत्तको द्वितीयो यं मातापितरौदद्यातान्। क्रीतस्तृतीयस्तच्छुनःशेपेन व्याख्यातं हरिश्चन्द्रो ह वै राजा सोऽजीगर्तस्य सोपवत्सैः पुत्रं विक्राय्य स्वयं क्रीतवान्। स्वयमुपागतश्चतुर्थः तच्छुनःशेपेन व्याख्यातं शुनःशेपो ह वै यूपे नियुक्तो देवतास्तुष्टाव तस्येहदेवताः पाशं विमुमुचुस्तमृत्विज ऊचुर्ममैवायं पुत्रोऽस्त्विति तानाह न सम्पदेते सम्पादयामासुरेष एवायं कामयेत तस्य पत्रोऽस्त्विति तस्य ह विश्वामित्रो होतासीत्तस्य पुत्रत्वमियाय ॥अपविद्धः पञ्चमो यं मातापितृभ्यामपास्तं प्रतिगृह्णीयात्। शूद्रापुत्र एव षष्ठो भवतीत्याहुरित्येतेऽदायादा बान्धवाः ॥

अथाप्युदाहरन्ति - यस्य पूर्वेषां वर्णानां न कश्चिद्दायादः स्यादेते तस्यापहरन्ति ।
अथ भ्रातृृणां दायविभागो द्व्यंशं ज्येष्ठो हरेद्गवाश्वस्य चानुसदृशमजावयोगृहं च कनिष्ठस्य काष्ठं गां यवसङ्गृहोपकरणानि च मध्यमस्य मातुः पारिणेयं स्त्रियो विभजेरन्। यदि ब्राह्मणस्य ब्राह्मणीक्षत्रियावैश्यासु पुत्राः स्युस्त्र्यंशं ब्राह्मण्याः पुत्रो हरेत् । द्व्यंशं राजन्यायाः पुत्रः सममितरे विभजेरन्नन्येन चैषां स्वयमुत्पादितः स्यात् द्व्यंशमेव हरेदन्येषां त्वाश्रमान्तरगताः क्लीबोन्मत्तपतिताश्च भरणं क्लीबोन्मत्तानाम्।
प्रेतपत्नी षण्मासं व्रतचारिण्यक्षारलवणं भुञ्जारा शयीतोर्ध्वं षड्भ्योमासेभ्यः स्नात्वा श्राद्धं च पत्ये दत्त्वा विद्याकर्म गुरुयोनिसम्बन्धात्। सन्निपात्य पिता भ्राता वा नियोगं कारयेत्तपसे वोन्मत्तामवशां व्याधितां वा नियुञ्ज्यात्। ज्यायसीमपि षोडशवर्षान्न चेदामयाविनी स्यात्। प्राजापत्ये मुहूर्ते पाणिग्रहणवदुपचारोऽन्यत्र संस्थाप्य वाक्पारुष्याद्दण्डपारुष्याच्च ग्रासाच्छादनस्नानलेपनेषु प्राग्यामिनी स्यादनियुक्तायामुत्पन्न उत्पादयितुः पुत्रो भवतीत्याहुः स्याच्चेन्नियोगिनी दृष्टा लोभान्नास्ति नियोगः प्रायश्चित्तं वाप्युपनियुञ्ज्यादित्येके।

कृमार्य्युतुमती त्रिवर्षाण्युपासीतोर्ध्वं त्रिभ्यो वर्षेभ्यः पतिं विन्देत्तुल्यम् ॥ अथाप्युदाहरन्ति- पितुः प्रदानात्तु यदा हि पूर्वं कन्या वयो यैः समतीत्य दीपते। सा हन्ति दातारमपीक्षमाणा कालातिरिक्ता गुरुदक्षिणेव ॥ प्रयच्छेन्नग्निकां कन्यामृतुकालभयात्पिता ॥ ऋतुमत्यां हि तिष्ठन्त्यां दोषः पितरमृच्छति ॥ यावच्च कन्यामृतवः स्पृशन्ति तुल्यैः सकामामभियाच्यमानाम् ॥ भ्रूणानि तावन्ति हतानि ताभ्यां माता पितृभ्यामिति धर्मवादः ॥

अद्भिर्वाचा च दत्तानां म्रियेताथो वरो यदि ॥ न च मन्त्रोपनीता स्यात्कुमारी पितुरेव सा। यावच्चेदाहृता कन्या मन्त्रैर्यदि न संस्कृता ॥ अन्यस्मै विधिवद्देया यथा कन्या तथैव सा ॥ पाणिग्रहे मृते बाला केवलं मन्त्रसंस्कृता ॥ सा चेदक्षतयोनिः स्यात्पुनः संस्कारमर्हति इति ॥

प्रोषितपत्नी पञ्चवर्षा प्रवसेद्यद्यकामा यथा प्रेतस्य एवं च वर्तितव्यं स्यात्। एवं पञ्च ब्राह्मणीप्रजाता चत्वारि राजन्याप्रजाता त्रीणि वैश्याप्रजाता द्वे शूद्रा प्रजाता। अत ऊर्ध्वं समानोदकपिण्डजन्मर्षिगोत्राणां पूर्वः पूर्वो गरीयान्। न खलु कुलीने विद्यमाने परगामिनी स्यात्।
यस्यपूर्वेषां षण्णां न कश्चिद्दायादः स्यात् सपिण्डाःपुत्रस्थानीया वा तस्य धनं विभजेरंस्तेषामलाभे आचार्यान्तेवासिनौहरेयातां तयोरलाभे राजा हरेत्। न तु ब्राह्मणस्य राजा हरेद्ब्रह्मस्वं तु विषं घोरम्। न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते ॥ विषमेकाकिनं हन्ति ब्रह्मस्वं पुत्रपौत्रकम् ॥ इति ॥ त्रैविद्यसाधुर्यः सम्प्रयच्छेदिति ॥

इति वासिष्ठे धर्मशास्त्रे सप्तदशोऽध्यायः ॥ १७ ॥

अष्टादशोऽध्यायः १८.

शूद्रेण ब्राह्मण्यामुत्पन्नश्चाण्डालो भवतीत्याहुः। राजन्यायां वैश्यायामन्त्यावसायी। वैश्येन ब्राह्मण्यामुत्पन्नो रामको भवतीत्याहुः। राजन्यायां पुल्कसः। राजन्येन ब्राह्मण्यामुत्पन्नः सृतो भवतीत्याहुः ॥
अथाप्युदाहरन्ति - छिन्नोत्पन्नास्तु ये केचित्प्रातिलोम्यगुणाश्रिताः॥ गुणाचारपरिभ्रंशात्कर्मभिस्तान्विजानीयुरिति। एकान्तरद्व्यन्तरत्र्यन्तरानुजाता ब्राह्मणक्षत्रियवैश्यैरवच्छिन्ना अम्बष्ठा निषादा भवन्ति। शूद्रायां पारशवः पारयन्नेवजीवन्नेव शवो भवतीत्याहुः शव इति मृताख्या एतच्छावं यच्छूद्रस्तस्माच्छूद्रसमीपे तु नाध्येतव्यम् ॥
अथापि यमगीताञ्छोकानुदाहरन्ति ॥ श्मशानमेतत्प्रत्यक्षं ये शूद्राः पापचारिणः॥ तस्माच्छूद्रसमीपे च नाध्येतव्यं कदाचन ॥ न शूद्राय मतिं दद्यान्नोच्छिष्टं न हविष्कृतम् ॥

नचास्योपदिशेद्धर्मं न चास्य व्रतमादिशेत् ॥

यश्चास्योपदिशेद्धर्मं यश्चास्य व्रतमादिशेत् ॥

सोऽसंवृत्तं तमो घोरं सह तेन प्रपद्यते ॥ इति।

व्रणद्वारे कृमिर्यस्य सम्भवेत कदाचन ॥

प्राजापत्येन शुद्ध्येत हिरण्यं गौर्वासो दक्षिणेति।

 नाग्निचित्परामुपेयात् कृष्णवर्णायाः सरमाया इव न धर्माय न धर्मायेति ॥

इति वासिष्ठे धर्मशास्त्रेऽष्टादशोऽध्यायः ॥ १८ ॥

एकोनविंशोऽध्यायः १९.

धर्मे राज्ञः पालनं भूतानां तस्यानुष्ठानात् सिद्धिः भयकारणं ह्यपालनं वै एतत्। सूत्रमाहुर्विद्वांसस्तस्माद्गार्हस्थ्यनैयमिकेषु पुरोहिते दद्याद्द्विजातये ब्राह्मणः पुरोहितो राष्ट्रं दधातीति। तस्य भयमपालनादसामर्थ्याच्च ॥

देशधर्मजातिधर्मकुलधर्मान् सर्वान् वैताननुप्रविश्य राजा चतुरो वर्णान् स्वधर्मे स्थापयेत्तेष्वधर्मपरेषु दण्डं तु देशकालधर्माधर्मवयोविद्यास्थान विशेषैर्दिशेत् आगमादृष्टाभावात् पुष्पफलोपगान्यदेयानि हिंस्यात् कर्षणकरणार्थं चोपहत्या। गार्हस्थ्यं गां चमानोन्माने रक्षिते स्याताम्। अधिष्ठानान्नोनीहारसार्थानामस्मान्न मूल्यमात्रं नैहारिकं स्यान्महामहस्थः स्यात्। सम्मानयेदवाहनीयद्विगुणकारिणी स्यात्। प्रत्येकं प्रयास्यः पुमान् शतं वाराद्ध्यं वा तदेतदप्यर्थाः स्त्रियः स्युः कराष्टौ मानाधारमध्यमः पादः कार्षापणस्य। निरुक्तोन्तरी मानाकरः श्रोत्रियो राजपुमानथ प्रव्रजितबालवृद्धतरुणप्रदाता प्रागामिकाः कुमार्यो मृतापत्याश्च बाहुभ्यामुत्तरशतगुणं दद्यान्नदीकक्षवनशैलोपमाङ्गा निष्कराः स्युस्तदुपजीविनो वा दद्युः। प्रतिमासमुद्वाहकरैस्तवागमयेद्राजनि च प्रेते दद्यात्। प्रासङ्गिकं तेन मातृवृत्तिर्व्याख्याता। राजमहिष्याः पितृव्यमातुलांशजापितृव्यान् राजा बिभृयात्तद्गामित्वादंशस्य स्युस्तद्बन्धूंश्चान्याश्च राजपत्न्यो ग्रासाच्छादनं लभेरन् अनिच्छन्तो वा प्रव्रजेरन् क्लीबोन्मत्तांशजा वापि ॥

मानवं श्लोकमुदाहरन्ति - न रिक्तकार्षापणमस्ति शुल्कं न शिल्पवृत्तौन शिशौ न धर्मे ॥ न भैक्षवृत्तौ न हुतावशेषे न श्रोत्रिये प्रव्रजिते न यज्ञे इति ॥

स्तेनाभिशस्तदुष्टशस्त्रधारिसहोढव्रणसम्पन्नव्यपविष्टेष्वेकेषां दण्डोत्सर्गे राजैकरात्रमुपवसेत् त्रिरात्रं पुरोहितः कृच्छ्रमदण्ड्यदण्डने पुरोहितस्त्रिरात्रं वा ॥

अथाप्युदाहरन्ति ॥ अन्नादे भ्रूणहा मार्ष्टि पत्यौ भार्यापचारिणी ॥ गुरौ शिष्यश्च याज्यश्च स्तेनो राजनिकिल्बिषम् ॥ राजभिर्धृतदण्डास्तु कृत्वा पापानि मानवाः ॥ निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥ एनो राजानमृच्छत्यप्युत्सृजन्तं सकिल्बिषम् ॥ तं चेन्न घातयेद्राजा राजधर्मेण दुष्यति इति ॥

राज्ञामन्येषु कार्येषु सद्यः शौचं विधीयते ॥ तथा तान्यपि नित्यानि काल एवात्र कारणम् ॥ इति ॥ यमगीतं च श्लोकमुदाहरन्ति ॥ नात्र दोषोऽस्ति राज्ञां वै व्रतिनां नच मन्त्रिणाम् ॥ ऐन्द्रस्थानमुपासीना ब्रह्मभूता हि ते सदा ॥ इति ॥

इति श्रीवाशिष्ठे धर्मशास्त्रे एकोनविंशोऽध्यायः ॥ १९ ॥

विंशोऽध्यायः २०.

अनभिसन्धिकृते प्रायश्चित्तमपराधे सविकृतेऽप्येक। गुरुरात्मवतां शास्ता राजा शास्ता दुरात्मनाम् ॥ इह प्रच्छन्नपापानां शास्ता वैवस्वतो यम इति। तत्र च सूर्याभ्युदयतः सन्नहस्तिष्ठेत्सावित्रीं च जपेदेवं सूर्याभिनिर्मुक्तो रात्रावासीत् ॥

कुनखी श्यावदन्तस्तु कृच्छ्रं द्वादशरात्रं चरित्वा पुनर्निविशेत्। अथ दिधिषूपतिः कृच्छ्रं द्वादशरात्रं चरित्वा निर्विशेत् तां चैवोपयच्छेद्दिधिषूपतिः कृच्छ्रातिकृच्छ्रौ चरित्वा निर्विशेत् चरणमहरहस्तद्वक्ष्यामः। ब्रह्मघ्नः कृच्छ्रं द्वादशरात्रं चरित्वा पुनरुपनीतो वेदमाचार्य्यात्। गुरुतल्पगः सवृषणं शिश्नमुत्कृत्याञ्जलाताधाय दक्षिणामुखो गच्छेत् यत्रैवप्रतिहन्यात्तत्र तिष्ठेदाप्रलयन्निष्कालको वा घृताक्तस्तप्तां सूर्मिं परिष्वजेन्मरणान्मुक्तो भवतीति विज्ञायते। आचार्य्यपुत्रशिष्यभार्यासु चैवंयोनिषु च गुर्वीं सखीं गुरुसखीं च पतितां च गत्वा कृच्छ्राब्दं चरेत् एतदेव चाण्डालपतितान्नभोजनेषु ततः पुनरुपनयनवपनादीनां तु निवृत्तिः ॥

मानवं चात्र श्लोकमुदाहरन्ति ॥ वपनं मेखला दण्डो भैक्षर्यव्रतानि च ॥ निवर्त्तन्ते द्विजातीनां पुनःसंस्कारकर्मणि ॥ इति ॥

सर्वमद्यपाने क्लीबव्यवहारेषु विण्मूत्ररेतोऽभ्यवहारेषु चैवम् ।

मद्यभाण्डे स्थिता अपो यदि कश्चिद्द्विजोऽर्थवत्॥ पद्मोदुम्बरबिल्वपलाशानामुदकं पीत्वात्रिरात्रेणैव शुद्ध्यति। अभ्यासे सुराया अग्निवर्णां तां द्विजः पिबेत्।

भ्रूणहनं च वक्ष्यामः। ब्राह्मणं हत्वा भ्रूणहा भवत्यविज्ञातं च गर्भम्। अविज्ञाता हि गर्भाः पुमांसो भवन्ति तस्मात् पुंस्कृत्य जुहुयात्। लोमानि मृत्योर्जुहोमि लोमभिर्मृत्युं वासय इति प्रथमान्त्वयं मृत्योर्जुहोमि त्वचा मृत्युं वासय इति द्वितीयं लोहितं मृत्योर्जुहोमि लोहितेन मृत्युं वासय इति तृतीय त्वचं मृत्योर्जुहोमि त्वचा मृत्युं वासय इति चतुर्थीं मांसानि मृत्योर्जुहोमि मांसैर्मृत्युं वासय इति पञ्चमीं मेदो मृत्योर्जुहोमि मेदसा मृत्युं वासय इति षष्ठीमस्थीनि मृत्योर्जुहोमि अस्थिभिर्मृत्युं वासय इति सप्तमीं मज्जानं मृत्योर्जुहोमि मज्जाभिर्मृत्युं वासय इति अष्टमीम्। राजार्थे ब्राह्मणार्थे वा ग्रामेऽभिमुखमात्मानं घातयेत्। त्रिरञ्जितो वापराधः पूतो भवतीति विज्ञायते। द्विरुक्तं कृतः कनीयो भवतीति।

तदप्युदाहरन्ति ॥ पतितं पतितेत्युक्त्वा चोरं चोरेति वा पुनः ॥ वचसा तुल्यदोषः स्यान्न मिथ्यादोषतां व्रजेत् ॥ इति।

एवं राजन्यं हत्वाष्टौवर्षाणि चरेत्। षड्वैश्यं त्रीणि शूद्रम्ब्राह्मणीं चात्रेयीं हत्वा सवनगतौ च राजन्यवैश्यौच। आत्रेयीं वक्ष्यामो रजस्वलामृतुस्नातामात्रेयीमाहुः। अत्रेत्येषामपत्यं भवतीति चात्रेयी। राजन्यहिंसायां वैश्यहिंसायां शूद्रं हत्वा सन्त्सरं ब्राह्मणसुवर्णहरणात् प्रकीर्य्यकेशान् राजानमभिधावेत् स्तेनोऽस्मि भोः शास्तु भवानिति तस्मै राजौदुम्बरं शस्त्रं दद्यात्तेनात्मानं प्रमापयेन्मरणात् पूतो भवतीति विज्ञायते। निष्कालको वा घृताक्तो गोमयाग्निना पादप्रभृत्यात्मानमधिदाहयेन्मरणात् पूतो भवतीति विज्ञायते॥

अथाप्युदाहरन्ति ॥ पुरा कालात्प्रमीतानामानाकविधिकर्मणाम् ॥ पुनरापन्नदेहानामङ्गं भवति तच्छृणु ॥ स्तेनः कुनखी भवति श्वित्री भवति ब्रह्महा ॥ सुरापः श्यावदन्तस्तु दुश्चर्मा गुरुतल्पगः ॥ इति। पतितैः सम्प्रयोगे च ब्राह्मेण वा योनेन वा तेभ्यः सकाशान्मात्रा उपलब्धास्तासां परित्यागस्तैश्च न संवसेदुदीचीं दिशं गत्वाऽनश्नन् संहिताध्ययनमधीयानः पूतो भवतीति विज्ञायते ॥

अथाप्युदाहरन्ति ॥ शरीरपातनाच्चैव तपसाध्ययनेन च ॥ मुच्यते पापकृत्पापाद्दानाच्चापि प्रमुच्यते ॥ इति विज्ञायते ॥

इति श्रीवासिष्ठे धर्मशास्त्रे विंशतितमोऽध्यायः ॥ २० ॥

एकविंशोऽध्यायः २१.

शूद्रश्चेद्ब्राह्मणीमभिगच्छेद्वीरणैर्वेष्टयित्वा शुद्रमग्नौ प्रास्येद्ब्राह्मण्याः शिरसि वापनं कारयित्वा सर्पिषाभ्यज्य नग्नां खरमारोप्य महापथमनुव्राजयेत् पूता भवतीति विज्ञायते ॥ वैश्यश्चेद्ब्राह्मणीमभिगच्छेल्लोहितदर्भैर्वेष्टयित्वा वैश्यमग्नौ प्रास्येद्ब्राह्मण्याः शिरसि वापनं वारयित्वा सर्पिषाभ्यज्य नग्नां गोरथमारोप्य महापथमनुसंव्राजयेत् पूता भवतीति विज्ञायते। राजन्यश्चेद्ब्राह्मणीमभिगच्छेच्छरपत्रैर्वेष्टयित्वा राजन्यमग्नौ प्रास्येद्ब्राह्मण्याः शिरोवापनं कारयित्वा सर्पिषाभ्यज्य नग्नांरक्तखरमारोप्य महापथमनुव्राजयेत् ॥ एवं वैश्यो राजन्यायां शूद्रश्च राजन्यावैश्ययोः।

मनसा भर्तुरतिचारे त्रिरात्रं यावकं क्षीरं भुञ्जानाधः शयाना त्रिरात्रमप्सु निम्नगायाः सावित्र्यष्टशतेन शिरोभिर्वा जु3हुयात्पूता भवतीति विज्ञायते ॥

इति श्रीवासिष्ठे धर्मशास्त्रे एकविंशतितमोऽध्यायः ॥ २१ ॥

समाप्तेयं वासिष्ठस्मृतिः।

<MISSING_FIG href=”../books_images/1683551097.jpg"/>

[TABLE]

]


  1. “बीजहाइति ठान्तरपाम् ।” ↩︎

  2. “पञ्चम्यन्तमिदमगुरोरन्यस्योच्छिष्टमभोज्यमित्यर्थः ।” ↩︎

  3. “ब्राह्मणद्वारेति बोध्यम् ।” ↩︎