शंखस्मृतिः

** <MISSING_FIG href="../books_images/1682508295.jpg"/>**

स्वयम्भुवेनमस्कृत्य सृष्टिसंहारकारिणे ।
चातुर्वर्ण्यहितार्थाय शङ्खः शास्त्रमकल्पयत् ॥ १ ॥

यजनं याजनं दानं तथैवाध्यापनक्रिया ।
प्रतिग्रहश्चाध्ययनं विप्रकर्माणि निर्दिशेत् ॥ २ ॥

दानं चाध्ययनं चैव यजनं च यथाविधि ।
क्षत्रियस्य च वैश्यस्य कर्मेदं परिकीर्तितम् ॥ ३ ॥

क्षत्रियस्य विशेषेण प्रजानां परिपालनम् ।
कृषिगोरक्षवाणिज्यं विशश्च परिकीर्तितम् ।
शूद्रस्य द्विजशुश्रूषा सर्वशिल्पानि वाप्यथ ।
क्षमा सत्यं दमः शौचं सर्वेषामविशेषतः ॥ ५ ॥

ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः ।
तेषां जन्म द्वितीयं तु विज्ञेयं मौञ्जिबन्धनम् ॥ ६ ॥

आचार्यस्तु पिता प्रोक्तः सावित्री जननी तथा ।
ब्राह्मणक्षत्रियविशां मौञ्जीबन्धनजन्मनि ॥ ७ ॥

वृत्त्या शूद्रसमास्तावद्विज्ञेयास्ते विचक्षणैः ।
यावद्वेदे न जायन्ते द्विजा ज्ञेयास्ततः परम् ॥ ८ ॥

इति श्रीशङ्खस्मृतौ प्रथमोऽध्यायः ॥ १ ॥

<MISSING_FIG href="../books_images/1682508413.jpg"/>

द्वितीयोऽध्यायः २.

गर्भस्य स्फुटताज्ञानं निषेकः परिकीर्तितः।

पुरा तु स्पन्दनारत्कार्यं पुंसवनं विचक्षणैः॥ १ ॥

षष्ठेऽष्टमे वा सीमन्तो जाते वै जातकर्म च ।
आशौचे च व्यतिक्रान्ते नामकर्म विधीयते ॥ २ ॥

नामधेयं च कर्तव्यं वर्णानां च समाक्षरम् ।
माङ्गल्यं ब्राह्मणस्योक्तं क्षत्रियस्य बलान्वितम् ॥ ३ ॥

वैश्यस्य धनसंयुक्तं शूद्रस्य तु जुगुप्सितम् ।
शर्मोतम्ब्राह्मणस्योक्तंवर्मोतङ्क्षत्रियस्य तु ॥ ४ ॥

धनान्तं चैव वैश्यस्य दासान्तं चान्त्यजन्मनः ।
चतुर्थे मासि कर्तव्यं बालस्यादित्यदर्शनम् ॥ ५ ॥

षष्ठेऽन्नप्राशनं मासि चूडा कार्या यथाकुलम् ।
गर्भाष्टमेऽब्दे कर्तव्यं ब्राह्मणस्योपनायनम् ॥ ६ ॥

गर्भादेकादशे राज्ञो गर्भाद्द्वादशमे विशः ।
षोडशाब्दानि विप्रस्य राजन्यस्य द्विविंशतिः ॥ ७ ॥

विंशतिः सचतुष्का तु वैश्यस्य परिकीर्तिता ।
नातिवर्तेत सावित्रीमत ऊर्ध्वं निवर्तते ॥ ८ ॥

विज्ञातव्यास्त्रयोऽप्येते यथाकालमसंस्कृताः ।
सावित्रीपतिता व्रात्याः सर्वधर्मबहिष्कृताः ॥ ९ ॥

मौञ्जीज्याबन्धनानां तु क्रमान्मौञ्ज्यः प्रकीर्तिताः ।
मार्गवैयाघ्रबास्तानि चर्माणि ब्रह्मचारिणाम् ॥ १० ॥

पर्णपिप्पलबिल्वानां क्रमाद्दण्डाः प्रकीर्तिताः ।
केशदेशललाटास्य तुल्याः प्रोक्ताः क्रमेण तु ॥ ११ ॥

अवक्राःसत्वचःसर्वे अनग्न्येधास्तथैव च ।
वस्त्रोपवीते कार्पासक्षौमोर्णानां यथाक्रमम् ॥ १२॥

आदिमध्यावसानेषु भवच्छब्दोपलक्षितम् ।
भैक्ष्यस्याचरणं प्रोक्तं वर्णानामनुपूर्वशः ॥ १३ ॥

इति श्रीशङ्खस्मृतौ द्वितीयोऽध्यायः ॥ २ ॥

<MISSING_FIG href="../books_images/1682508413.jpg"/>

** तृतीयोऽध्यायः ३.**

उपनीय गुरुः शिष्यं शिक्षयेच्छौचमादितः ।
आचारमग्निकार्यं च सन्ध्योपासनमेव च ॥ १ ॥

स गुरुर्यःक्रियाः कृत्वा वेदमस्मै प्रयच्छति ।
भृतकाध्यापको यस्तु उपाध्यायः स उच्यते ॥ २ ॥

माता पिता गुरुश्चैव पूजनीयोःसदा नृणाम् ।
क्रियास्तस्याफलाः सर्वा यस्यैतनादृतास्त्रयः ॥ ३ ॥

प्रयतः कल्य उत्थाय स्नातो हुतहुताशनः ।
कुर्वीत प्रणतो भक्त्या गुरूणामभिवादनम् ॥ ४ ॥

अनुज्ञातस्तु गुरुणा ततोऽध्ययनमाचरेत् ।
कृत्वा ब्रह्माञ्जलिं पश्यन्गुरोर्वदनमानतः ॥ ५ ॥

ब्रह्मावसाने प्रारम्भेप्रणवं च प्रकीर्तयेत् ।
अनध्यायेष्वध्ययनं वर्जयेच्च प्रयत्नतः ॥ ६ ॥

चतुर्दशीं पञ्चदशीमष्टमीं राहुसूतकम् ।
उल्कापातं महीकम्पमाशौचं ग्रामविप्लवम् ॥ ७ ॥

इन्द्रप्रयाणं श्वहतं सर्वसङ्घातनिस्वनम् ।
वाद्यकोलाहलं युद्धमनध्यायान्विवर्जयेत् ॥ ८ ॥

नाधीयीताभियुक्तोऽपि यानगो न च नौगतः ।
देवायतनवल्मीकश्मशानशवसन्निधौ ॥ ९ ॥

भैक्ष्यचर्यां तथा कुर्याद्ब्राह्मणेषु यथाविधि ।
गुरुणा चाप्यनुज्ञातः प्राश्नार्यात्प्राङ्मुखः शुचिः ॥ १०॥

हितं प्रियं गुरोः कुर्यादंहकारविवर्जितः ।
उपास्य पश्चिमां सन्ध्यां पूजयित्वा हुताशनम् ॥ ११॥

अभिवाद्य गुरुं पश्चाद्गुरोर्वचनकृद्भवेत् ।
गुरोः पूर्वं समुत्तिष्ठेच्छयीत चरमं तथा ॥ १२ ॥

मधु मांसाञ्जनं श्राद्धं गीतं नृत्यं च वर्जयेत् ।
हिंसां परापवादं च स्त्रीलीलां च विशेषतः ॥ १३ ॥

मेखलामजिनं दण्डं धारयेच्च विशेषतः ।
अधःशायी भवेन्नित्यं ब्रह्मचारी समाहितः ॥ १४ ॥

एवं व्रतं तु कुर्वीत वेदस्वीकरणं बुधः ।
गुरवे च धनं दत्त्वा स्नायीत तदनुज्ञया ॥ १५ ॥

इति शङ्खस्मृतौ तृतीयोऽध्यायः ॥३ ॥

<MISSING_FIG href="../books_images/1682508413.jpg"/>


चतुर्थोऽध्यायः ४.

विन्देत विधिवद्भार्यामसमानार्षगोत्रजाम् ।
मातृतः पञ्चमीं चापि पितृतस्त्वथ सप्तमीम् ॥ १॥

ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः ।
गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमोऽधमः ॥ २ ॥

एभ्यो धर्म्यास्तु चत्वारः पूर्वं ये परिकीर्तिताः ।
गान्धर्वो राक्षसश्चैव क्षत्रियस्य तु शस्यते ॥ ३ ॥

सम्प्रार्थितः प्रयत्नेन ब्राह्मस्तु परिकीर्तितः ।
यज्ञस्थायर्त्विजे दैव आदायार्षस्तु गोद्वयम् ॥ ४ ॥

प्रार्थितः सम्प्रदानेन प्राजापत्यः प्रकीर्तितः ।
आसुरो द्रविणादानाद्गान्धर्वः समयान्मिथः ॥ ५ ॥

राक्षसो युद्धहरणात्पैशाचः कन्यकाछलात् ।
तिस्रस्तु भार्या विप्रस्यद्वे भार्येक्षत्रियस्य तु ॥ ६ ॥

एकैव भार्या वैश्यस्प तथा शूद्रस्य कीर्तिता ।
ब्राह्मणी क्षत्रिया वैश्या विप्रभार्याः प्रकीर्तिताः ॥ ७ ॥

क्षत्रिया चैव वैश्या च क्षत्रियस्य विधीयते ।
वैश्या च भार्या वैश्यस्य शूद्रा शूद्रस्य कीर्तिता ॥ ८ ॥

आपद्यपि न कर्तव्या शूद्रा भार्याद्विजन्मना।

तस्यां तस्य प्रसूतस्य निष्कृतिर्न विधीयते ॥ ९ ॥

तपस्वी यज्ञशीलस्तु सर्वधर्मभृतां वरः ।
ध्रुवं शूद्रत्वमायाति शूद्रश्राद्धे त्रयोदशे ॥ १० ॥

#1नीयते तु सपिण्डत्वं येषां शूद्रः कुलोद्भवः॥

सर्वे शूद्रत्वमायान्ति यदि स्वर्गजितश्च ते ।
सपिण्डीकरणं कार्यं कुलजस्य तथा ध्रुवम् ।
श्राद्धद्वादशकं कृत्वा श्राद्धे प्राप्ते त्रयोदशे ॥ १२ ॥

सपिण्डीकरणं चार्हेन्नच शूद्रः कथञ्चन ।
तस्मात्सर्वप्रयत्नेन शूद्रां भार्यां विवर्जयेत् ॥ १३ ॥

पाणिर्ग्राह्यः सवर्णासुगृह्णीयात्क्षत्रिया शरम् ।
वैश्या प्रतोदमादद्याद्वेदेन त्वग्रजन्मनः ॥ १४ ॥

सा भार्या या गृहे दक्षा सा भार्या या पतिव्रता ।
सा भार्या या पतिप्राणा सा भार्या या प्रजावती ॥ १५ ॥

लालनीया सदा भार्या ताडनीया तथैव च ।
ताडिता लालिता चैव स्त्री श्रीर्भवति नान्यथा ॥ १६ ॥

इति शङ्खस्मृतौ चतुर्थोऽध्यायः ॥ ४ ॥

<MISSING_FIG href="../books_images/1682508413.jpg"/>

** पञ्चमोऽध्यायः ५.**

पञ्चसूना गृहस्थस्यचुल्ली पेषण्युपस्करः ।
कण्डनी चोदकुम्भश्च तस्य पापस्य शान्तये ॥ १ ॥

पञ्चयज्ञविधानं तु गृही नित्यं न हापयेत् ।
पञ्चयज्ञविधानेन तत्पापं तस्य नश्यति ॥ २ ॥

देवयज्ञो भूतयज्ञः पितृयज्ञस्तथैव च ।
ब्रह्मयज्ञो नृयज्ञश्च पञ्च यज्ञाः प्रकीर्तिताः ॥ ३ ॥

होमो देवो बलिर्भौतः पित्र्यः पिण्डक्रिया स्मृतः ।
स्वाध्यायो ब्रह्मयज्ञश्च नृयज्ञोऽतिथिपूजनम् ॥ ४ ॥

वानप्रस्थो ब्रह्मचारी यतिश्चैव तथा द्विजः ।
गृहस्थस्य प्रसादेन जविन्त्येते यथाविधि ॥ ५ ॥

गृहस्थ एव यजते गृहस्थस्तपते तपः ।
ददाति च गृहस्थश्च तस्माच्छ्रेयान्गृहाश्रमी ॥ ६ ॥

यथा भर्ता प्रभुः स्त्रीणां वर्णानां ब्राह्मणो यथा ।
अतिथिस्तद्वदेवास्य गृहस्थस्य प्रभुः स्मृतः ॥ ७ ॥

न व्रतैर्नोपवासैश्च धर्मेण विविधेन च ।
नारी स्वर्गमवाप्नोति प्राप्नोति पतिपूजनात् ॥ ८ ॥

न व्रतैर्नोपवासैश्च न च यज्ञैः पृथग्विधैः॥

राजा स्वर्गमवाप्नोति प्राप्नोति परिपालनात् ॥ ९ ॥

न स्नानेन न मौनेन नैवाग्निपरिचर्यया ।
ब्रह्मचारी दिवं याति संयाति गुरुपूजनात् ॥ १० ॥

नाग्निशुश्रूषया क्षान्त्या स्नानेन विविधेन च ।
वानप्रस्थो दिवं याति याति भोजनवर्जनात् ॥ ११ ॥

न दण्डैर्न च मौनेन शून्यागाराश्रयेण च ।
यतिः सिद्धिमवाप्नोति योगेनाप्नोत्यनुत्तमम् ॥ १२ ॥

न यज्ञैर्दक्षिणावद्भिर्वह्निशुश्रुषयातथा ।
गृही स्वर्गमवाप्नोति यथा चातिथिपूजनात् ॥ १३ ॥

तस्मात्सर्वप्रयत्नेन गृहस्थोऽतिथिमागतम् ।
आहारशयनाद्येन विधिवत्प्रतिपूजयेत् ॥ १४ ॥

सायं प्रातश्च जुहुयादग्निहोत्रं यथाविधि ।
दर्शं च पौर्णमासं च जुहुयाद्विधिवत्तथा ॥१५ ॥

यजेत पशुबन्धैश्च चातुर्मास्यैस्तथैव च ।
त्रैवर्षिकाधिकालस्तु पिबेत्सोममतन्द्रितः॥ १६ ॥

इष्टिं वैश्वानरीं कुर्यात्तथा चाल्पधनो द्विजः ।
न भिक्षेत धनं शूद्रात्सर्वन्दद्याच्च भिक्षितम् ॥ १७ ॥

व्रतं तु न त्यजेद्विद्वानृत्विजं पूर्वमेव च ।
कर्मणा जन्मना शुद्धं विद्यया च वृणीत तम् ॥१८॥

एतैरेव गुणैर्युक्तं धर्मार्जितधनं तथा ।
याजयेत सदा विप्रो ग्राह्यस्तस्मात्प्रतिग्रहः ॥ १९ ॥

इति शङ्खस्मृतौ पञ्चमोऽध्यायः ॥ ५ ॥

<MISSING_FIG href="../books_images/1682508413.jpg"/>

** षष्ठोऽध्यायः ६.**

गृहस्थस्तु यदा पश्येद्वलीपलितमात्मनः ।
अपत्यस्यैव चापत्यं तदारण्यं समाश्रयेत् ॥ १ ॥

पुत्रेषु दारान्निक्षिप्य तया वानुगतो वनम् ।
अग्नीनुपचरेन्नित्यं वन्यमाहारमाहरेत् ॥२ ॥

य आहारो भवेत्तेन पूजयेत्पितृदेवताः ।
तेनैव पूजयेन्नित्यमतिथिं समुपागतम् ॥ ३ ॥

ग्रामादाहृत्य वाश्नीयादष्टौ ग्रासान्समाहितः ।
स्वाध्यायं च तथा कुर्याज्जटाश्च बिभृयात्तथा ॥ ४ ॥

तपसा शोषयेन्नित्यंस्वयं चैव कलेवरम् ।
आर्द्रवासास्तु हेमन्तेग्रीष्मे पञ्चतपास्तथा ॥ ५ ॥

प्रावृष्याकाशशायी च नक्ताशी च सदा भवेत् ।
चतुर्थकालिको वा स्यात्षष्ठकालिक एव वा ॥ ६ ॥

वृक्षैर्वापि नयेत्कालं ब्रह्मचर्यं च पालयेत् ।
एवं नीत्वा वने कालन्द्विजो ब्रह्माश्रमी भवेत् ॥ ७ ॥

इति शङ्खस्मृतौ षष्ठोऽध्यायः ॥ ६ ॥

<MISSING_FIG href="../books_images/1682508413.jpg"/>

** सप्तमोऽध्यायः ७.**

कृत्वेष्टिं विधिवत्पश्चात्सर्ववेदसदक्षिणाम् ।
आत्मन्यग्नीन्समारोप्य द्विजो ब्रह्माश्रमी भवेत् ॥ १ ॥

विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने ।
अतीते पात्रसम्पातेनित्यं भिक्षां यतिश्चरेत् ।
सप्तागारांश्चरेद्भैक्ष्यं भिक्षितं नानुभिक्षयेत् ॥ २ ॥

न व्यथेच्च तथाऽलाभेयथालब्धेन वर्तयेत् ।
न स्वादयेत्तथैवान्नं नाश्नीयात्कस्यचिद्गृहे ॥ ३ ॥

मृन्मयालाबुपात्राणि यतीनां च विनिर्दिशेत् ।
तेषां सम्मार्जनाच्छुद्धिरद्भिश्चैव प्रकीर्तिता ॥ ४ ॥

कौपीनाच्छादनं वासो विभृयादव्यथश्चरन् ।
शून्यागारनिकेतः स्याद्यत्र सायङ्गृहो मुनिः ॥ ५ ॥

दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत् ।
सत्यपूतांवदेद्वाचं मनःपूतं समाचरेत् ॥ ६ ॥

सर्वभूतसमो मेघः समलोष्टाश्मकाञ्चनः ।
ध्यानयोगरतो भिक्षुः प्राप्नोति परमां गतिम् ॥ ७ ॥

जन्मना यस्तु निर्मुक्तो मरणेन तथैव च ।
आधिभिर्व्याधिभिश्चैव तं देवा ब्राह्मणं विदुः ॥ ८ ॥

अशुचित्वं शरीरस्य प्रियाप्रियविपर्ययः ।
गर्भवासे च वसते तस्मान्मुच्येत नान्यथा ॥ ९ ॥

जगदेतन्निराक्रन्दं निःसारकमनर्थकम् ।
भोक्तव्यमिति निर्द्दिष्टो मुच्यते नात्र संशयः ॥ १० ॥

प्राणायामैर्दहेद्दोषान्धारणाभिश्च किल्बिषम् ।
प्रत्याहारेण संसर्गान्ध्यानेनानीश्वरान्गुणान् ॥ ११ ॥

सव्याहृतिं सप्रणवाङ्गायत्रीं शिरसा सह ।
त्रिः पठेदायतप्राणः प्राणायामः स उच्यते ॥ १२ ॥

मनसः संयमस्तज्ज्ञैर्धारणेति निगद्यते ।
संहारश्चेन्द्रियाणां च प्रत्याहारः प्रकीर्तितः ॥ १३ ॥

हृदिस्थध्यानयोगेन देवदेवस्य दर्शनम् ।
ध्यानं प्रोक्तं प्रवक्ष्यामि ध्यानयोगमतः परम् ॥ १४ ॥

हृदिस्था देवताः सर्वा हृदि प्राणाः प्रतिष्ठिताः ।
हृदि ज्योतींषि सूर्यश्च हृदि सर्वं प्रतिष्ठितम् ॥ १५ ॥

स्वदेहमरणिङ्कृत्वा प्रणवं चोत्तरारणिम् ।
ध्याननिर्मन्थनाभ्यासाद्विष्णुं पश्येद्धृदि स्थितम् ॥ १६ ॥

हृद्यर्कश्चन्द्रमाः सूर्यः सोममध्ये हुताशनः ।
तेजोमध्ये स्थितं सत्त्वं सत्त्वमध्ये स्थितोऽच्युतः ॥ १७॥

अणोरणीयान्महतो महीयानात्मास्य जन्तोर्निहितो गुहायाम् ।
तेजोमयं पश्यति वीतशोको धातुः प्रसादान्महिमानमात्मनः॥ १८॥

वासुदेवस्तमोऽन्धानां पर्णैरपि विधीयते ।
अज्ञानपटसंवीतैरिन्द्रियैर्विषयेच्छुभिः ॥ १९ ॥

एष वै पुरुषो विष्णुर्व्यक्ताव्यक्तः सनातनः ।
एष धाता विधाता च पुराणो निष्कलः शिवः ॥ २० ॥

वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् ।
यं वैविदित्वा न बिभेति मृत्योर्नान्यः पन्था विद्यतेऽयनाय ॥२१॥

पृथिव्यापस्तथा तेजो वायुराकाशमेव च ।
पञ्चैतानि विजानीयान्महाभूतानि पण्डितः ॥२२ ॥

चक्षुः श्रोत्रं स्पर्शनं च रसनं घ्राणमेव च ।
बुद्धीन्द्रियाणि जानीयात्पञ्चेमानि शरीरके ॥ २३ ॥

रूपं शब्दस्तथा स्पर्शो रसो गन्धस्तथैव च ।
इन्द्रियार्थान्विजानीयात्पञ्चैव सततं बुधः ॥ २४ ॥

हस्तौ पादावुपस्थं च जिह्वा पायुस्तथैव च ।
कर्मेन्द्रियाणि पञ्चैव नित्यमस्मिञ्छरीरके ॥ २५ ॥

मनो बुद्धिस्तथैवात्मा ह्यव्यक्तं च तथैव च ।
इन्द्रियेभ्यः पराणीह चत्वारि कथितानि च ॥ २६ ॥

चतुर्विंशत्यथैतानि तत्त्वानि कथितानि च ।
तथात्मानं तद्व्यतीतं पुरुषं पञ्चविशकम् ॥ २७ ॥

यं तु ज्ञात्वा विमुच्यन्ते ये जनाः साधुवृत्तयः ।
तदिदं परमं गुह्यमेतदक्षरमुत्तमम् ॥ २८ ॥

अशब्दरसमस्पर्शमरूपं गन्धवर्जितम् ।
निर्दुःखमसुखं शुद्धं तद्विष्णोः परमं पदम् ॥ २९ ॥

अजं निरञ्जनं शान्तमव्यक्तं ध्रुवमक्षरम् ।
अनादिनिधनं ब्रह्म तद्विष्णोः परमं पदम् ॥ ३० ॥

विज्ञानसारथिर्यस्तु मनःप्रग्रहबन्धनः ।
सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥ ३१ ॥

वालाग्रशतशो भागः कल्पितस्तु सहस्रधा ।
तस्य शततमाद्भागाज्जीवः सूक्ष्म उदाहृतः ॥ ३२ ॥

इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा तथा परः ॥ ३३ ॥

महतः परमव्यक्तमव्यक्तात्पुरुषः परः ॥

पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः ॥ ३४ ॥

एष सर्वेषु भूतेषु तिष्ठत्यविकलः सदा ॥

दृश्यते त्वग्र्ययाबुद्ध्या सूक्ष्मया सूक्ष्मबुद्धिभिः ॥ ३५ ॥

इति शङ्खस्मृतौ सप्तमोऽध्यायः ॥ ७ ॥

<MISSING_FIG href="../books_images/1682508413.jpg"/>

** अष्टमोऽध्यायः ८.**

नित्यं नैमित्तिकं काम्यं क्रियाङ्ग मलकर्षणम् ॥

क्रियास्नानं तथा षष्ठं षोढा स्नानं प्रकीर्तितम् ॥ १ ॥

अस्नातः पुरुषोऽनर्होजप्याग्निहवनादिषु ॥

प्रातःस्नानं तदर्थं च नित्यस्नानं प्रकीर्तितम् ॥ २ ॥

चण्डालशवभूषाद्यं स्पृष्ट्वा स्नानं रजस्वलाम् ॥

स्नानानर्हस्तु यः स्नाति स्नानं नैमित्तिकं च तत् ॥ ३ ॥

पुष्पस्नानादिकं स्नानं दैवज्ञविधिचोदितम् ॥

तद्धि काम्यं समुद्दिष्टं नाकामस्तत्प्रयोजयेत् ॥ ४ ॥

जप्तुकामः पवित्राणि अर्चिष्यन्देवतां पितॄन् ॥

स्नानं समाचरेद्यस्तु क्रियाङ्गं तत्प्रकीर्तितम् ॥ ५ ॥

#2मलापकर्षणार्थाय स्नानमभ्यङ्गपूर्वकम् ॥

मलापकर्षणार्थाय प्रवृत्तिस्तस्य नान्यथा ॥ ६ ॥

सरित्सु देवखातेषु तीर्थेषु च नदीषु च ॥

क्रियास्त्रानं समुद्दिष्टं स्नानं तत्र महाक्रिया ॥ ७ ॥

तत्र काम्यं तु कर्तव्यं यथावद्विधिचोदितम् ॥

नित्यं नैमित्तिकं चैव क्रियाङ्गं मलकर्षणम् ॥ ८ ॥

तीर्थाभावे तु कर्तव्यमुष्णोदकपरोदकैः ॥

स्नानं तु वह्नितप्तेन तथैव परवारिणा ॥ ९ ॥

शरीरशुद्धिर्विज्ञाता न तु स्नानफलं भवेत् ॥

अद्भिर्गात्राणि शुद्धयन्ति तीर्थस्नानात्फलं भवेत् ॥ १० ॥

सरःसुं देवखातेषु तीर्थेषु च नदीषु च ॥

स्नानमेव क्रिया तस्मात्स्नानात्पुण्यफलं स्मृतम् ॥ ११ ॥

तीर्थं प्राप्यानुषङ्गेण स्नानं तीर्थे समाचरेत् ॥

स्नानजं फलमाप्नोति तीर्थयात्राफलेन तु ॥ १२ ॥

सर्वतीर्थानि पुण्यानि पापघ्नानि सदा नृणाम् ॥

परास्परानपेक्षाणि कथितानि मनीषिभिः ॥ १३ ॥

सर्वे प्रस्रवणाः पुण्याः सरांसि च शिलोच्चयाः ॥

नद्यः पुण्यास्तथा सर्वा जाह्नवी तु विशेषतः ॥ १४ ॥

यस्य पादौ च हस्तौ च मनश्चैव सुसंयतम् ॥

विद्या तपश्चकीर्तिश्च स तीर्थफलमश्नुते ॥ १५ ॥

नृणां पापकृतां तीर्थे पापस्य शमनं भवेत् ॥

यथोक्तफलदं तीर्थं भवेच्छुद्धात्मनां नृणाम् ॥ १६ ॥

इति श्रीशङ्खस्मृतौअष्टमोऽध्यायः ॥ ८ ॥

<MISSING_FIG href="../books_images/1682508413.jpg"/>

** नवमोऽध्यायः ९.**

क्रियास्नानं तु वक्ष्यामि यथावद्विधिपूर्वकम् ॥

मृद्भिरद्भिश्चकर्त्तव्यं शौचमादौ यथाविधि ॥ १ ॥

जले निमग्नउन्मज्ज्य उपस्पृश्य यथाविधि ॥

जलस्यावाहनं कुर्यात्तत्प्रवक्ष्याम्यतः परम् ॥ २ ॥

प्रपद्ये वरुणं देवमम्भसां पतिमूर्जितम् ॥

याचितं देहि मे तीर्थं सर्वपापापनुत्तये ॥ ३ ॥

तीर्थमावाहयिष्यामि सर्वाघविनिषूदनम् ॥

सान्निध्यमस्मिन्सत्तोयेभज त्वं मदनुग्रहात् ॥ ४ ॥

रुद्रान्प्रपद्ये वरदान्सर्वानप्सुसदस्तथा ॥

सर्वानप्सुसदश्चैवप्रपद्ये प्रणतः स्थितः ॥ ५ ॥

देवमप्सुसदं वह्निं प्रपद्येऽघनिषूदनम् ॥

अपः पुण्याः पवित्राश्च प्रपद्ये शरणं तथा ॥ ६ ॥

रुद्रश्चाग्निश्चसर्पांश्च वरुणश्चाप एव च ॥

शमयन्त्वाशु मे पापं मां रक्षन्तु च सर्वशः ॥ ७ ॥

इत्येवमुक्त्वा कर्तव्यं ततः सम्मार्जनं जले ॥

आपोहिष्ठेति तिसृभिर्यथावदनुपूर्वशः ॥ ८ ॥

हिरण्यवर्णेति वदेदग्निश्च तिसृभिस्तथा ॥

शन्नोदेवीति च तथा शन्न आपस्तथैव च ॥ ९ ॥

इदमापः प्रवहत तथा मन्त्रमुदीरयेत् ॥

एवं मन्त्रान्समुच्चार्य छन्दांसि ऋषिदेवताः ॥ १० ॥

अघमर्षणसूक्तस्य संस्मरन्प्रयतः सदा ॥

छन्द आनुष्टुभं तस्य ऋषिश्चैवाघमर्षणः ॥ ११ ॥

देवता भाववृत्तन्तु पापघ्नस्यप्रकीर्तितः ॥

ततोऽम्भसि निमग्नस्तु त्रिः पठेदघमर्षणम् ॥ १२ ॥

यथाश्वमेधः क्रतुराट् सर्वपापप्रणाशनः ॥

तथाघमर्षणं सूक्तं सर्वपापप्रणाशनम् ॥ १३ ॥

अनेन स्नात्वा अम्मध्ये स्रातवान्धौतवाससा ॥

परिवर्तितवासास्तु तीर्थतीरमुपस्पृशेत् ॥ १४ ॥

उदकस्याप्रदानाच्च स्नानशाटीं न पीडयेत् ॥

अनेन विधिना स्नातस्तीर्थस्य फलमश्नुते ॥ १५ ॥

इति शङ्खस्मृतौ नवमोऽध्यायः ॥९ ॥

<MISSING_FIG href="../books_images/1682508413.jpg"/>

** दशमोऽध्यायः १०.**

अतः परं प्रवक्ष्यामि शुभामाचमनक्रियाम् ॥

कायं कनिष्ठिकामूले तीर्थमुक्तं मनीषिभिः ॥ १ ॥

अङ्गुष्ठमूले च तथा प्राजापत्यं विचक्षणैः ॥

अङ्गुल्यग्रेस्मृतं दिव्यं पित्र्यं तर्जनिमूलकम् ॥ २ ॥

प्राजापत्येन तीर्थेन त्रिः प्राश्नीयाज्जलं द्विजः ॥

द्विः प्रमृज्य मुखं पश्चात्खान्याद्भिः समुपस्पृशेत् ॥ ३ ॥

हृद्गाभिः पूयते विप्रःकण्ठगाभिश्च भूमिपः ॥

तालुगाभिस्तथा वैश्यः शूद्रः स्पृष्टाभिरन्ततः ॥ ४ ॥

अन्तर्जानुः शुचौ देशे प्राङ्मुखः सुसमाहितः ॥

उदङ्मुखो वा प्रयतो दिशश्चानवलोकयन् ॥५॥

अद्भिः समुद्धृताभिस्तु हीनाभिः फेनबुद्बुदैः ॥

वह्निना चाप्यतप्ताभिरक्षाराभिरुपस्पृशेत् ॥ ६ ॥

तर्जन्यङ्गुष्ठयोगेन स्पृशेन्नासापुटद्वयम् ॥

अङ्गुष्ठमध्ययोगेन स्पृशेन्नेत्रद्वयं ततः ॥ ७ ॥

अङ्गुष्ठानामिकायोगे श्रवणौसमुपस्पृशेत् ॥

कनिष्ठाङ्गुष्ठयोगेन स्पृशेत्स्कन्धद्वयं ततः ॥ ८ ॥

सर्वासामेव योगेन नाभिं च हृदयं तथा ॥

संस्पृशेच्च तथा मूर्ध्नि एष आचमने विधिः ॥ ९ ॥

त्रिः प्राश्नीयाद्यदम्भस्तु प्रीतास्तेनास्य देवताः ॥

ब्रह्मा विष्णुश्च रुद्रश्च भवन्तीत्यनुशुश्रुम ॥ १० ॥

गङ्गा च यमुना चैव प्रीयते परिमार्जनात् ॥

नासत्यदस्त्रौ प्रीयेते स्पृष्टे नासापुटद्वये ॥ ११ ॥

स्पृष्टे लोचनयुग्मे तु प्रीयेते शशिभास्करौ ॥

कर्णयुग्मे तथा स्पृष्टे प्रीयेते अनिलानलौ॥ १२ ॥

स्कन्धयोः स्पर्शनादस्यप्रीयन्ते सर्वदेवताः ॥

मूर्ध्नःसंस्पर्शनादस्य प्रीतस्तु पुरुषो भवेत् ॥ १३ ॥

विना यज्ञोपवीतेन तथा मुक्तशिखो द्विजः ॥

अप्रक्षालितपादस्तु आचान्तोऽप्यशुचिर्भवेत् ॥ १४ ॥

बहिर्जानुरूपस्पृश्य एकहस्तार्पितैर्जलैः ॥

सोपानत्कस्तथा तिष्ठन्नैव शुद्धिमवाप्नुयात् ॥ १५ ॥

आचम्य च पुरा प्रोक्तं तीर्थसम्मार्जनं तु यत् ॥

उपस्पृशेत्ततः पश्चान्मन्त्रेणानेन धर्मतः ॥ १६ ॥

अन्तश्चरति भूतेषु गुहायां विश्वतोमुखः ॥

त्वं यज्ञस्त्वं वषट्कार आपोज्योती रसोऽमृतम् ॥१७॥

आचम्य च ततः पश्चादादित्याभिमुखो जलम् ॥

उदुत्यञ्जातवेदसमिति मन्त्रेण निःक्षिपेत् ॥ १८ ॥

एष एव विधिः प्रोक्तः सन्ध्यायाश्च द्विजातिषु ॥

पूर्वां सन्ध्यां जपंस्तिष्ठेदासीनः पश्चिमां तथा ॥ १९ ॥

ततो जपेत्पवित्राणि पवित्रं चाथ शक्तितः ॥

ऋषयो दीर्घसन्ध्यत्वाद्दीर्घमायुरवाप्नुयुः ॥ २० ॥

सर्ववेदपवित्राणि वक्ष्याम्यहमतः परम् ॥

येषां जपैश्च होमैश्च पूयन्तेमानवाः सदा ॥ २१ ॥

इति शङ्खस्मृतौ दशमोऽध्यायः ॥ १० ॥

<MISSING_FIG href="../books_images/1682508413.jpg"/>  

एकादशोऽध्यायः ११.

अघमर्षणं देववृत्तं शुद्धवत्यश्च तत्समाः ॥

कूष्माण्ड्यःपावमान्यश्च सावित्र्यश्च तथैव च ॥ १ ॥

अभीष्टद्रुपदा चैव स्तोमानि व्याहृतीस्तथा ॥

भारुण्डानि च सामानि गायत्री चौशनं तथा ॥ २ ॥

पुरुषवृत्तं च भाषं च तथा सोमव्रतानि च ॥

अब्लिङ्गं बार्हस्पत्यं च वाक्सूक्तममृतं तथा ॥ ३ ॥

शतरुद्रियमथर्वशिरस्त्रिसुपर्णं महाव्रतम् ॥

गोसूक्तमश्वसूक्तं च त्विन्द्रसूक्तं च सामनी ॥ ४ ॥

त्रीण्याज्यदोहानि रथन्तरं च ह्यग्निव्रतं वामदेवव्रतं च ॥

एतानि गीतानि पुनन्ति जन्तूञ्जातिस्मरत्वं लभते यदीच्छेत्॥ ५ ॥

इति शङ्खस्मृतावेकादशोऽध्यायः ॥ ११ ॥

<MISSING_FIG href="../books_images/1682508413.jpg"/>

द्वादशोऽध्यायः १२.

इति वेदपवित्राण्यभिहितानि एभ्यः सावित्री विशिष्यते ॥ नास्त्यघमर्षणात्परमन्तजलन सावित्र्या समं जप्यं न व्याहृतिसमं हुतम् ॥ कुशशय्यामासीनः कुशोत्तरीयो वा कुशपवित्रपाणिः प्राङ्मुखः सूर्याभिमुखो वा अक्षमालामुपादायदेवताध्यायी जपं कुर्यात् ॥ सुवर्णमणिमुक्तास्फटिकपद्माक्षरुद्राक्षपुत्रजीवकानामन्यतमानादायमालां कुर्यात् ॥ कुशग्रन्थिङ्कृत्वा वामहस्तोपायनैर्वागणयेत् आदौ देवतामार्षं छन्दःस्मरेत् ततः प्रणवसव्याहृतिकामादावन्ते च शिरसा गायत्रीमावर्तयेत् ॥अथास्याः सविता देवता ऋषिर्विश्वामित्रो गायत्रीछन्दः ॐकार प्रणवाद्याः ॐभूः ॐ भुवः ॐ स्वः ॐ महःॐ जनः ॐ तपः ॐ सत्यमिति व्याहृतयः ॐ आपो ज्योतीरसोऽमृतं ब्रह्म भूर्भुवः स्वरोमिति शिरः ॥ भवन्ति चात्रश्लोकाः ॥

सव्याहृतिकां सप्रणवां गायत्रीं शिरसा सह ॥

ये जपन्ति सदा तेषां न भयं विद्यते क्वचित् ॥१ ॥

शतजप्ता तु सा देवी दिनपापप्रणाशिनी ॥

सहस्रजप्ता तु तथा पातकेभ्यः समुद्धरेत् ॥ २ ॥

दशसाहस्रजप्ता तु सर्वकल्मषनाशिनी ॥

सुवर्णस्तेयकृद्विप्रोब्रह्महा गुरुतल्पगः ॥

सुरापश्च विशुद्ध्येत लक्षजप्यान्न संशयः ॥ ३ ॥

प्राणायामत्रयं कृत्वा स्नानकाले समाहितः ॥

अहोरात्रकृतात्पापात्तत्क्षणादेव मुच्यते ॥ ४ ॥

सव्याहृतिकाः सप्रणवाः प्राणायामास्तु षोडश ॥

अपि भ्रूणहनं मासात्पुनन्त्यहरहः कृताः ॥ ५ ॥

हुता देवी विशेषेण सर्वकामप्रदायिनी ॥

सर्वपापक्षयकरी वरदा भक्तवत्सला ॥ ६ ॥

शान्तिकामस्तु जुहुयात्सावित्रीमक्षतैः शुचिः ॥

हृन्तुकामोऽपमृत्युं च घृतेन जुहुयात्तथा ॥ ७ ॥

श्रीकामस्तु तथा पद्मैर्बिल्वैः काञ्चनकामुकः ॥

ब्रह्मवर्चसकामस्तु पयसा जुहुयात्तथा ॥ ८ ॥

घृतप्लुतैस्तिलैर्वह्निञ्जुहुयात्सुसमाहितः ॥

गायत्र्ययुतहोमाच्च सर्वपापैः प्रमुच्यते ॥ ९ ॥

पापात्मा लक्षहोमेन पातकेभ्यः प्रमुच्यते ॥

अभीष्टं लोकमाप्नोति प्राप्नुयात्काममीप्सितम् ॥१०॥

गायत्री वेदजननी गायत्री पापनाशिनी ॥

गायत्र्याःपरमं नास्ति दिवि चेह च पावनम् ॥ ११ ॥

हस्तत्राणप्रदा देवी पततां नरकार्णवे ॥

तस्मात्तामभ्यसेन्नित्यं ब्राह्मणो नियतः शुचिः ॥ १२ ॥

गायत्रीजप्यनिरतं हव्यकव्येषु भोजयेत् ॥

तस्मिन्न तिष्ठते पापमब्बिन्दुरिवपुष्करे ॥ १३ ॥

जप्येनैव तु संसिद्ध्येद्ब्राह्मणो नात्र संशयः ॥

कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ॥ १४ ॥

उपांशु स्याच्छतगुणः साहस्रो मानसः स्मृतः ॥

नोच्चैर्जाप्यं बुधः कुर्यात्सावित्र्यास्तु विशेषतः ॥ १५ ॥

सावित्रीजाप्यनिरतः स्वर्गमाप्नोति मानवः ॥

गायत्रीजाप्यनिरतो मोक्षोपायं च विन्दति ॥ १६ ॥

तस्मात्सर्वप्रयत्नेन स्नातः प्रयतमानसः ॥

गायत्रीं तुजपेद्भक्त्यासर्वपापप्रणाशिनीम् ॥ १७ ॥

इति शङ्खस्मृतौ द्वादशोऽध्यायः ॥१२ ॥

<MISSING_FIG href="../books_images/1682508413.jpg"/>

त्रयोदशोऽध्यायः १३.

स्नातः कृतजप्यस्तदनु प्राङ्मुखो दिव्येन तीर्थेन देवानुदकेन तर्पयेत् ॥ अथ तर्पणविधिः ॥ ॐ भगवन्तं शेषं तर्पयामि ॥ कालाग्निरुद्रन्तु ततो रुक्मभौमं तथैव च ॥ श्वेतभौमं ततः प्रोक्तं पातालानां च सप्तमम् ॥ १ ॥ जम्बूद्वीपं ततः प्रोक्तं शाकद्वीपं ततः परम् ॥ गोमेदपुष्करे तद्वच्छाकाख्यं च ततः परम् ॥ २ ॥ शार्वरं ततः स्वधामानं ततः हिरण्यरोमाणं ततः कल्पस्थायिनो लोकांस्तर्पयेत् ॥ लवणोदं ततः दधिमण्डोदं, ततः सुरोदं ततः घृतोदं ततः क्षीरोदं ततः इक्षूदं तत्स्वादूदं ततः इति सप्तसमुद्रकम् प्रत्यृचं पुरुषसूक्तेनोदकाञ्जलीन् दद्यात् पुष्पाणि च तथा भक्त्या ॥ अथ कृतापसव्योदक्षिणामुखोऽन्तर्जानुःपित्र्येण पितॄणां यथाश्राद्धं प्रकाममुदकं दद्यात् ॥ सौवर्णेन पात्रेण राजतेनौदुम्बरेण खड्गपात्रेणान्यपात्रेण वोदकं पितृतीर्थं स्पृशन्दद्यात् ॥ पित्रे पितामहाय प्रपितामहाय मात्रे मातामहाय प्रमातामहाय मात्रे मातामह्यै प्रमातामह्यै सप्तमान्पुरुषान् पितृपक्षे यावतां नाम जानीयात् पितृपक्षाणां तर्पणं कृत्वा गुरूणां मातृपक्षाणां तर्पणं कुर्यात् ॥ मातृपक्षाणां तर्पणं कृत्वा सम्बन्धिबान्धवानां कुर्यात् ॥ तेषां कृत्वा सुहृदां कुर्यात् ॥ भवन्ति चात्र श्लोकाः ॥

विना रौप्यसुवर्णेन विना ताम्रतिलेन च ॥

विना दर्भैश्च मन्त्रैश्च पितॄणां नोपतिष्ठते ॥ १ ॥

सौवर्णरजताभ्यां च खड्गेनौदुम्बरेण च ॥

दत्तमक्षयतां याति पितॄणां तु तिलोदकम् ॥ २ ॥

हेम्ना तु सह यद्दत्तं क्षीरेण मधुना सह ॥

तदप्यक्षयतां याति पितॄणां तु तिलोदकम् ॥ ३ ॥

कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन वा ॥

पयोमूलफलैर्वापि पितॄणां प्रीतिमावहन् ॥ ४ ॥

स्नातः सन्तर्पणं कृत्वा पितॄणां तु तिलाम्भसा ॥

पितृयज्ञमवाप्नोति प्रीणाति च पितृृंस्तथा ॥ ५ ॥

इति शङ्खस्मृतौ त्रयोदशोऽध्यायः ॥ १३ ॥

<MISSING_FIG href="../books_images/1682508413.jpg"/>

चतुर्दशोऽध्यायः १४.

ब्राह्मणान्न परीक्षेत दैवे कर्मणि धर्मवित् ॥

पित्र्ये कर्मणि सम्प्राप्ते युक्तमाहुः परीक्षणम् ॥ १ ॥

ब्राह्मणा ये विकर्मस्था बैडालव्रतिकास्तथा ॥

ऊनाङ्गा अतिरिक्ताङ्गा ब्राह्मणाः पङ्क्तिदूषकाः ॥ २ ॥

गुरूणां प्रतिकूलाश्च वेदाग्न्युत्सादिनश्च ये॥

गुरूणां त्यागिनश्चैव ब्राह्मणाः पङ्क्तिदूषकाः ॥ ३ ॥

अनध्यायेष्वधीयानाः शौचाचारविवर्जिताः ॥

शूद्रान्नरससम्पुष्टा ब्राह्मणाः पङ्क्तिदूषकाः ॥ ४ ॥

षडङ्गवित्रिसुपर्णो बह्वृचो ज्येष्ठसामगः ॥

त्रिणाचिकेतः पञ्चाग्निर्ब्राह्मणः पङ्क्तिपावनः ॥ ५ ॥

ब्रह्मदेयानुसन्तानो ब्रह्मदेयाप्रदायकः ॥

ब्रह्मदेयापतिर्यश्च ब्राह्मणः पङ्क्तिपावनः ॥ ६ ॥

ऋग्यजुःपारगो यश्च साम्नां यश्चापि पारगः ॥

अथर्वाङ्गिरसोऽध्येता ब्राह्मणः पङ्क्तिपावनः ॥ ७ ॥

नित्यं योगरतो विद्वान्समलोष्टाश्मकाञ्चनः ॥

ध्यानशीलो हि यो विद्वान्ब्राह्मणः पङ्क्तिपावनः ॥ ८ ॥

द्वौ दैवे प्राङ्मुखौ त्रींश्च पित्र्ये वादङ्मुखांस्तथा ॥

भोजयोद्विविधान्विप्रानेकैकमुभयत्र वा ॥ ९ ॥

भोजयेदथवाऽप्येकं ब्राह्मणं पङ्क्तिपावनम् ॥

दैवेकृत्वा तु नैवेद्यं पश्चाद्वह्नौ तु तत्क्षिपेत् ॥ १० ॥

उच्छिष्टसन्निधौ कार्यं पिण्डनिर्वपणं बुधैः ॥

अभावे च तथा कार्यमग्निकार्यं यथाविधि ॥११॥

श्राद्धं कृत्वा प्रयत्नेन त्वराक्रोधविवर्जितः ॥

उञ्छमन्नं द्विजातिभ्यः श्रद्धया विनिवेदयेत् ॥ १२ ॥

अन्यत्र पुष्पमूलेभ्यः पीठकेभ्यश्च पण्डितः ॥

भोजयेद्विविधान्विप्रान्गन्धमाल्यसमुज्ज्वलान् ॥ १३ ॥

यत्किञ्चित्पच्यते गेहे भक्ष्यं वा भोज्यमेव वा ॥

अनिवेद्य न भोक्तव्यं पिण्डमूले कदाचन ॥ १४ ॥

उग्रगन्धान्यगन्धानि चैत्यवृक्षभवानि च ॥

पुष्पाणि वर्जनीयानि रक्तवर्णानि यानि च ॥१५ ॥

तोयोद्भवानि देयानि रक्तान्यपि विशेषतः ॥

ऊर्णासूत्रं प्रदातव्यं कार्पासमथवा नवम् ॥ १६ ॥

दशां विवर्तयेत्प्राज्ञो यद्यनाहतवस्त्रजा ॥

घृतेन दीपो दातव्यस्तिलतैलेन वा पुनः ॥ १७ ॥

धूपार्थं गुग्गुलं दद्याद् घृतयुक्तं मधूत्कटम् ॥

चन्दनं च तथा दद्यात्पिष्ट्वा च कुङ्कुमं शुभम् ॥ १८ ॥

भूतृणं सुरसं शिग्रुं पालकं सिन्धुकं तथा ॥

कूष्माण्डालाबुवार्ताककोविदारांश्च वर्जयेत् ॥ १९ ॥

पिप्पलीमरिचं चैव तथा वै पिण्डमूलकम् ॥

कृतं च लवणं सर्वं वंशाग्रं तु विवर्जयेत् ॥२०॥

राजमाषान्मसूरांश्च चणकान्कोरदूषकान् ॥

लोहितान्वृक्षनिर्यासाञ्छ्राद्धकर्मणि वर्जयेत् ॥ २१ ॥

आम्रमामलकीभिक्षुं मृद्वीकादधिदाडिमान् ॥

विदारीञ्चैव रम्भाद्या दद्याच्छ्राद्धे प्रयत्नतः ॥ २२ ॥

धानालाजान्मधुयुतान्सक्तूञ्छर्करया तथा ॥

दद्याच्छ्राद्धे प्रयत्नेन शृङ्गाटकविसेतकान् ॥ २३ ॥

भोजयित्वा द्विजान्भक्त्या स्वाचान्तान्दत्तदक्षिणान् ॥

अभिवाद्य पुनर्विप्राननुव्रज्य विसर्जयेत् ॥ २४ ॥

निमन्त्रितस्तु यः श्राद्धे मैथुनं सेवते द्विजः ॥

श्राद्धं दत्त्वा च भुक्त्वा च युक्तः स्यान्महतैनसा॥ २५॥

कालशाकं सशल्कं च मांसं वाध्रर्णिसस्य च ॥

खड्गमांसन्तथानन्तं यमः प्रोवाच धर्मवित् ॥ २६ ॥

यद्ददाति गयास्थश्च प्रभासे पुष्करे तथा ॥

प्रयागे नैमिषारण्ये सर्वमानन्त्यमश्नुते ॥ २७ ॥

गङ्गायमुनयोस्तीर अयोध्यामरकण्टके ॥

नर्मदायां गयातीर्थेसर्वमानन्त्यमश्नुते ॥ २८ ॥

वाराणस्यां कुरुक्षेत्रे भृगुतुङ्गे हिमालये ॥

सप्तवेण्यृषिकूपे च तदप्यक्षयमुच्यते ॥ २९ ॥

म्लेच्छदेशे तथा रात्रौ सन्ध्यायां च विशेषतः ॥

न श्राद्धमाचरेत्प्राज्ञो म्लेच्छदेशे न च व्रजेत् ॥ ३० ॥

हस्तिच्छायासु यद्दत्तं यद्दत्तं राहुदर्शने ॥

विषुवत्ययने चैव सर्वमानन्त्यमश्नुते ॥ ३१ ॥

प्रौष्ठपद्यामतीतायां मघायुक्तां त्रयोदशीम् ॥

प्राप्य श्राद्धं प्रकर्तव्यं मधुना पायसेन वा ॥ ३२ ॥

प्रजां पुष्टिं यज्ञः स्वर्गमारोग्यं च धनं तथा ॥

नृृणां श्राद्धैःसदा प्रीताः प्रयच्छन्ति पितामहाः ॥ ३३ ॥

इति श्रीशङ्खस्मृतौ चतुर्दशोऽध्यायः ॥ १४ ॥

<MISSING_FIG href="../books_images/1682508413.jpg"/>

पञ्चदशोऽध्यायः १५.

जनने मरणे चैव सपिण्डानां द्विजोत्तमः ॥

त्र्यहाच्छुद्धिमवाप्नोति योऽग्निवेदसमन्वितः ॥ १ ॥

सपिण्डता तु पुरुषे सप्तमे विनिवर्तते ॥

नामधारकविप्रस्तु दशाहेन विशुद्ध्यति ॥ २ ॥

क्षत्रियो द्वादशाहेन वैश्यः पक्षेण शुद्ध्यति ॥

मासेन तु तथा शूद्रः शुद्धिमाप्नोति नान्तरा ॥ ३ ॥

रात्रिभिर्मासतुल्याभिर्गर्भस्रावे विशुद्ध्यति ॥

अजातदन्तबाले तु सद्यः शौचं विधीयते ॥ ४ ॥

अहोरात्रात्तथा शुद्धिर्बाले त्वकृतचूडके ॥

तथैवानुपनीते तु त्र्यहाच्छुध्यन्ति बान्धवाः ॥ ५ ॥

अनूढानां तु कन्यानां तथैव शूद्रजन्मनाम्।

अनूढभार्यः शूद्रस्तु षोडशाद्वत्सरात्पराम् ॥ ६ ॥

मृत्युं समधिगच्छेच्चेन्मासात्तस्यापि बान्धवाः ॥

शुद्धिं समधिगच्छेयुर्नात्र कार्या विचारणा ॥ ७ ॥

पितृवेश्मनि या कन्या रजः पश्यत्यसंस्कृता ॥

तस्यां मृतायां नाशौचं कदाचिदपि शाम्यति ॥ ८ ॥

हीनवर्णा तु या नारी प्रमादात्प्रसवं व्रजेत् ॥

प्रसवे मरणे तज्जमाशौचं नोपशाम्यति ॥ ९ ॥

समानं खल्वशौचं तु प्रथमेन समापयेत् ॥

असमानं द्वितीयेन धर्मराजवचो यथा ॥ १० ॥

देशान्तरगतः श्रुत्वा कुल्यानां मरणोद्भवौ ॥

यच्छेषं दशरात्रस्य तावदेवाशुचिर्भवेत् ॥ ११ ॥

अतीते दशरात्रे तु त्रिरात्रमशुचिर्भवेत् ॥

तथा संवत्सरेऽतीते स्नात एव विशुद्ध्यति ॥ १२ ॥

अनौरसेषु पुत्रेषु भार्यास्वन्यगतासु च ॥

परपूर्वासु च स्त्रीषु त्र्यहाच्छुद्धिरिहेष्यते ॥ १३ ॥

मातामहे व्यतीते तु चाचार्ये च तथा मृते ॥

गृहे दत्तासु कन्यासु मृतासु तु त्र्यहस्तथा ॥ १४ ॥

निवासराजनि प्रेते जाते दौहित्रके गृहे ॥

आचार्यपत्नीपुत्रेषु प्रेतेषु दिवसेन च ॥१५ ॥

मातुले पक्षिणीं रात्रिं शिष्यर्त्विग्बान्धवेषु च ॥

सब्रह्मचारिण्येकाहमनूचाने तथा मृते ॥ १६ ॥

एकरात्रिं त्रिरात्रं च षड्रात्रं मासमेव च ॥

शूद्रेसपिण्डे वर्णानामाशौचं क्रमशः स्मृतम् ॥ १७ ॥

त्रिरात्रमथ षड्रात्रं पक्षं मासं तथैव च ॥

वैश्ये सपिण्डे वर्णानामाशौचं क्रमशः स्मृतम् ॥ १८ ॥

सपिण्डे क्षत्रिये शुद्धिः षड्रात्रं ब्राह्मणस्य तु ॥

वर्णानां परिशिष्टानां द्वादशाहं विनिर्द्दिशेत् ॥ १९ ॥

सपिण्डे ब्राह्मणे वर्णाः सर्व एवाविशेषतः ॥

दशरात्रेण शुध्येयुरित्याह भगवान्यमः ॥ २० ॥

भृग्वग्न्यनशनाम्भोभिर्मृतानामात्मघातिनाम् ॥

पतितानां च नाशौचं शस्त्रविद्युशुद्धताश्च ये ॥ २१ ॥

यतिव्रतिब्रह्मचारिनृपकारुकदीक्षिणः ॥

नाशौचभाजः कथिता राजाज्ञाकारिणश्च ये ॥ २२ ॥

यस्तु भुक्तं पराशौचे वर्णी सोऽप्यशुचिर्भवेत् ॥

अशौचशुद्धौ शुद्धिश्चतस्याप्युक्ता मनीषिभिः॥ २३ ॥

पराशौचे नरो भुक्त्वा कृमियोनौ प्रजायते ॥

भुक्त्वान्नम्म्रियते यस्य तस्य योनौ प्रजायते ॥ २४ ॥

दानं प्रतिग्रहो होमः स्वाध्यायः पितृकर्म च ॥

प्रेतपिण्डे क्रियावर्जमाशौचे विनिवर्तते ॥ २५ ॥

इति शङ्खस्मृतौ भाषाटीकायां पञ्चदशोऽध्यायः ॥ १५ ॥

<MISSING_FIG href="../books_images/1682508413.jpg"/>

षोडशोऽध्यायः १६.

मृन्मयं भाजनं सर्वं पुनः पाकेन शुद्ध्यति ॥

मद्यैर्मूत्रैःपुरीषैर्वा ष्ठीवनैःपूयशोणितैः ॥ १ ॥

संस्पृष्टं नैव शुद्ध्यत पुनः पाकेन मृन्मयम् ॥

एतैरेव तथा स्पृष्टं ताम्रसौवर्णराजतम् ॥ २ ॥

शुद्ध्यत्यावर्तितं पश्चादन्यथा केवलाम्भसा ॥

अम्लोदकेन ताम्रस्य सीसस्य त्रपुणस्तथा ॥ ३ ॥

क्षारेण शुद्धिः कांस्यस्य लोहस्य च विनिर्दिशेत् ॥

मुक्तामणिप्रवालानां शुद्धिः प्रक्षालनेन तु ॥ ४ ॥

अब्जानां चैव भाण्डानां सर्वस्याश्ममयस्य च ॥

शाकवर्जं मूलफलद्विदलानां तथैव च ॥ ५ ॥

मार्ज्जनाद्यज्ञपात्राणां पाणिना यज्ञकर्मणि ॥

उष्णाम्भसा तथा शुद्धिं सस्नेहानां विनिर्दिशेत् ॥ ६ ॥

शयनासनयानानां सशूर्पशकटस्य च ॥

शुद्धिः सम्प्रोक्षणाद्यज्ञे करकेन्धनयोस्तथा ॥ ७ ॥

मार्जनाद्वेश्मनां शुद्धिः क्षितेः शोधस्तु तक्षणात् ॥

सम्मार्जितेन तोयेन वाससां शुद्धिरिष्यते ॥ ८ ॥

बहूनां प्रोक्षणाच्छुद्धिर्धान्यादीनां विनिर्दिशेत् ॥

प्रोक्षणात्संहतानां च दारवाणाञ्च तक्षणात् ॥ ९ ॥

सिद्धार्थकानां कल्केन शृङ्गदन्तमयस्य च ॥

गोवालैःफलपात्राणामस्थ्नांशृङ्गवतां तथा ॥ १० ॥

निर्यासानां गुडानां च लवणानां तथैव च ॥

कुसुम्भकुङ्कुमानां च ऊर्णाकार्पासयोस्तथा ॥ ११ ॥

प्रोक्षणात्कथिता शुद्धिरित्याह भगवान्यमः ॥

भूमिस्थमुदकं शुद्धं शुचि तोयं शिलागतम् ॥ १२ ॥

वर्णगन्धरसैर्दुष्टैर्वर्जितं यदि तद्भवेत् ॥

शुद्धं नदीगतं तोयं सर्वदैव सुखाकरम् ॥ १३ ॥

शुद्धं प्रसारितं पण्यं शुद्धे चाजाश्वयोर्मुखे ॥

मुखवर्जं तु गौः शुद्धा मार्जारश्चाश्रमे शुचिः ॥ १४ ॥

शय्या भार्या शिशुर्वस्त्रमुपवीतङ्कमण्डलुः ॥

आत्मनः कथितं शुद्धं न शुद्धं हि परस्यच ॥ १५ ॥

नारीणां चैव वत्सानां शकुनीनां शुभं मुखम् ॥

रात्रौ प्रस्रवणे वृक्षे मृगयायां सदा शुचि ॥ १६ ॥

शुद्धा भर्तुश्चतुर्थऽह्नि स्नानेन स्त्री रजस्वला ॥

दैवे कर्मणि पित्र्ये च पञ्चमेऽहनि शुद्ध्यति ॥ १७ ॥

रथ्याकर्दमतोयेन ष्ठीवनाद्येन वाप्यथ ॥

नाभेरूर्ध्वं नरः स्पृष्टः सद्यः स्नानेन शुद्ध्यति ॥ १८ ॥

कृत्वा मूत्रं पुरीषं वा स्नात्वा भोक्तुमनास्तथा ॥

भुक्त्वा क्षुत्त्वा तथा सुप्त्वा पीत्वा चाम्भोऽवगाह्य च ॥ १९॥

रथ्यामाक्रम्य वाचामेद्वासो विपरिधाय च ॥

कृत्वा मूत्रं पुरीषं च लेपगन्धापहं द्विजः ॥ २० ॥

उद्धृतेनाम्भसा शौचं मृदा चैव समाचरेत् ॥

पायौ च मृत्तिकाः सप्त लिङ्गे द्वे परिकीर्तिते ॥ २१ ॥

एकस्मिन्विंशतिर्हस्ते द्वयोर्देयाश्चतुर्द्दश ॥

तिस्रस्तु मृत्तिका ज्ञेयाः कृत्वा नखविशोधनम् ॥२२॥

तिस्रस्तु पादयोर्ज्ञेयाः शौचकामस्य सर्वदा ॥

शौचमेतद्गृहस्थानां द्विगुणं ब्रह्मचारिणाम् ॥ २३ ॥

त्रिगुणं तु वनस्थानां यतीनां तु चतुर्गुणम् ॥

मृत्तिका च विनिर्द्दिष्टा त्रिपर्व पूर्यते यया ॥ २४ ॥

इति शङ्खस्मृतौ षोडशोऽध्यायः ॥ १६ ॥

<MISSING_FIG href="../books_images/1682508413.jpg"/>

सप्तदशोऽध्यायः १७.

नित्यं त्रिषवणस्नायी कृत्वा पर्णकुटीं वने ॥

अधःशायी जटाधारी पर्णमूलफलाशनः ॥ १ ॥

ग्रामं विशेच्च भिक्षार्थं स्वकर्म परिकीर्तयन् ॥

एककालं समश्नीयाद्वर्षे तु द्वादशे गते ॥ २ ॥

हेमस्तेयी सुरापश्च ब्रह्महा गुरुतल्पगः ॥

व्रतेनैतेन शुद्ध्यन्ते महापातकिनस्त्विमे ॥ ३ ॥

यागस्थं क्षत्रियं हत्वा वैश्यं हत्वा च याजकम् ॥

एतदेव व्रतं कुर्यादात्रे3यीविनिषूदकः ॥ ४ ॥

कूटसाक्ष्यं तथैवोक्त्वा निक्षेपमपहृत्य च ॥

एतदेव व्रतं कुर्यात्त्यक्त्वा च शरणागतम् ॥ ५ ॥

आहिताग्नेः स्त्रियं हत्वा मित्रं हत्वा तथैव च ॥

हत्वा गर्भमविज्ञातमेतदेव व्रतं चरेत् ॥ ६ ॥

वनस्थं च द्विजं हत्वा पार्थिवं च कृतागसम् ॥

एतदेव व्रतं कुर्याद्द्विगुणं च विशुद्धये ॥ ७ ॥

क्षत्रियस्य च पादोनं वधेऽर्द्धं वैश्यघातने ॥

अर्द्धमेव सदा कुर्यात्स्त्रीवधे पुरुषस्तथा ॥ ८ ॥

पादं तु शूद्रहत्यायामुदक्यागमने तथा ॥

गोवधे च तथा कुर्यात्परदारगतस्तथा ॥ ९ ॥

पशून्हत्वा तथा ग्राम्यान्मासं कृत्वा विचक्षणः ॥

आरण्यानां वधे तद्वत्तदर्धन्तु विधीयते ॥ १० ॥

हत्वा द्वि4जं तथा सर्पजलेशयबिलेशयान् ॥

सप्तरात्रं तथा कुर्याद्व्रतं ब्रह्महणस्तथा ॥ ११ ॥

अनस्थ्नां तु शतं हत्वा सास्थ्नां दशशतं तथा ॥

ब्रह्महत्याव्रतं कुर्यात्पूर्णं संवत्सरं नरः ॥ १२ ॥

यस्य यस्य च वर्णस्य वृत्तिच्छेदं समाचरेत् ॥

तस्य तस्य वधे प्रोक्तं प्रायश्चित्तं समाचरेत् ॥ १३ ॥

अपहृत्य तु वर्णानां भुवं प्राप्य प्रमादतः ॥

प्रायश्चित्तं वधप्रोक्तं ब्राह्मणानुमतं चरेत् ॥ १४ ॥

गोजाश्वस्यापहरणे मणीनां रजतस्य च ॥

जलापहरणे चैव कुर्यात्संवत्सरं व्रतम् ॥ १५ ॥

तिलानां धान्यवस्त्राणां मद्यानामामिषस्य च ॥

संवत्सरार्द्धं कुर्वीत व्रतमेतत्समाहितः ॥ १६ ॥

तृणेक्षुकाष्ठतक्राणां रसानामपहारकः ॥

मासमेकं व्रतं कुर्याद्दन्तानां सर्पिषां तथा ॥ १७ ॥

लवणानां गुडानां च मूलानां कुसुमस्य च ॥

मासार्द्धं तु व्रतं कुर्यादेतदेव समाहितः ॥१८ ॥

लोहानां वैदलानां च सूत्राणां चर्मणां तथा ॥

एकरात्रं व्रतं कुर्यादेतदेव समाहितः ॥ १९ ॥

भुक्त्वा पलाण्डुं लशुनं मद्यं च करकाणि च ॥

नारं मलं तथा मांसं विड्वराहं खरं तथा ॥ २० ॥

गोधेयकुञ्जरोष्ट्रं च सर्वं पाञ्चनखं तथा ॥

क्रव्यादं कुक्कुटं ग्राम्यं कुर्यात्संवत्सरं व्रतम् ॥ २१ ॥

भक्ष्याः पञ्चनखास्त्वेते गोधाकच्छपशल्लकाः ॥

खड्गश्च शशकश्चैव तान्हत्वा च चरेद्व्रतम् ॥ २२ ॥

हंसं मद्गुरक काकं काकोलं खञ्जरीटकम् ॥

मत्स्यादांश्च तथा मत्स्यान्बलाकं शुकसारिके ॥ २३ ॥

चक्रवाकं प्लवं कोकं मण्डूकं भुजगं तथा ॥

मासमेकं व्रतं कुर्यादेतच्चैव न भक्षयेत् ॥ २४ ॥

राजीवान्सिंहतुण्डांश्च शकुलांश्चतथैव च ॥

पाठीनरोहितौभक्ष्यौमत्स्येषु परिकीर्तितौ॥ २५ ॥

जलेचरांश्च जलजान्मुखाग्रनखविष्किरान् ॥

रक्तपादाञ्जालपादान्सप्ताहं व्रतमाचरेत् ॥ २६ ॥

तित्तिरं च मयूरं च लावकं च कपिञ्जलम् ॥

वार्ध्रीणसं वर्तकं च भक्ष्यानाह यमस्तथा ॥ २७ ॥

भुक्त्वा चोभयतोदन्तांस्तथैकशफदंष्ट्रिणः ॥

तथा भुक्त्वा तु मांसं वै मासार्धं व्रतमाचरेत् ॥ २८ ॥

स्वयं मृतं तथा मांसं माहिषं त्वाजमेव च ॥

गोश्चक्षीरं विवत्सायाः सन्धिन्याश्च तथा पयः ॥

सन्धिन्यमेध्यं भक्षित्वा पक्षं तु व्रतमाचरेत् ॥ २९ ॥

क्षीराणि यान्यभक्ष्याणि तद्विकाराशने बुधः ॥

सप्तरात्रं व्रतं कुर्याद्यदेतत्परिकीर्तितम् ॥ ३० ॥

लोहितान्वृक्षनिर्यासान्व्रश्चनप्रभवांस्तथा ॥

केवलानि च शुक्तानि तथा पर्युषितं च यत् ॥

गुडशुक्तं तथा भुक्त्वा त्रिरात्रं च व्रती भवेत् ॥ ३१ ॥

दधि भक्ष्यं च शुक्तेषु यञ्चान्यद्दधिसम्भवम् ॥

गुडशुक्तं तु भक्ष्यं स्यात्ससर्पिष्कमिति स्थितिः ॥ ३२॥

यवगोधूमजाः सर्वे विकाराः पयसश्च ये ॥

राजवाडवकुल्यं च भक्ष्यं पर्युषितं भवेत् ॥ ३३ ॥

राजीवपक्वम्मांसं च सर्वयत्नेन वर्जयेत् ॥

संवत्सरं व्रतं कुर्यात्प्राश्यैताञ्ज्ञानतस्तु तान् ॥ ३४ ॥

शूद्रान्नं ब्राह्मणो भुक्त्वा तथा रङ्गावतारिणः ॥

चिकित्सकस्य क्षुद्रस्य तथा स्त्रीमृगजीविनः ॥ ३५ ॥

षण्ढस्य कुलटायाश्च तथा बन्धनचारिणः ॥

बद्धस्य चैव चोरस्यअवीरायाः स्त्रियस्तथा ॥ ३६ ॥

चर्मकारस्य वेनस्य क्लीबस्य पतितस्य च ॥

रुक्मकारस्य धूर्तस्य तथा वार्धुषिकस्य च ॥ ३७ ॥

कदर्यस्य नृशंसस्य वेश्यायाः कितवस्य च ॥

गणान्नं भूमिपालान्नमन्नं चैव श्वजीविनाम् ॥ ३८ ॥

मौञ्जिकान्नं सूतिकान्नं भुक्त्वा मासं व्रतं चरेत् ॥

शूद्रस्य सततं भुक्त्वा षण्मासान्व्रतमाचरेत् ॥ ३९ ॥

वैश्यस्य तु तथाभुक्त्वा त्रीन्मासान्व्रतमाचरेत् ॥

क्षत्रियस्य तथा भुक्त्वा द्वौ मासौ व्रतमाचरेत् ॥ ४० ॥

ब्राह्मणस्य तथा भुक्त्वा मासमेकं व्रतं चरेत् ॥

अपः सुराभाजनस्थाः पीत्वा पक्षं व्रतं चरेत् ॥४१॥

मद्यभाण्डगताः पीत्वा सप्तरात्रं व्रतं चरेत् ॥

शूद्रोच्छिष्टाशने मासं पक्षमेकं तथा विशः ॥ ४२ ॥

क्षत्रियस्य तु सप्ताहं ब्राह्मणस्य तथा दिनम् ॥

अथ श्राद्धाशने विद्वान्मासमेकं व्रती भवेत् ॥ ४३ ॥

परिवित्तिः परिवेत्ता यया च परिविन्दति ॥

व्रतं संवत्सरं कुर्युर्दातृयाजकपञ्चमाः ॥ ४४ ॥

काकोच्छिष्टं गवाघ्रातं भुक्त्वा पक्षं व्रती भवेत् ॥ ४५ ॥

दूषितं केशकीटैश्चमूषिकालाङ्गलेन च ॥

मक्षिकामशकेनापि त्रिरात्रं तु व्रती भवेत् ॥ ४६ ॥

वृथाकृसरसंयावपायसापूपशष्कुलीः ॥

भुक्त्वा त्रिरात्रं कुर्वीत व्रतमेतत्समाहितः ॥ ४७ ॥

नील्या चैव क्षतो विप्रः शुना दष्टस्तथैव च ॥

त्रिरात्रं तु व्रतं कुर्यात्पुंश्चलीदशनक्षतः ॥ ४८ ॥

पादप्रतापनं कृत्वा वह्निं कृत्वा तथाप्यधः ॥

कुशैः प्रमृज्य पादौ च दिनमेकं व्रती भवेत् ॥ ४९ ॥

नीलीवस्त्रं परीधाय भुक्त्वा स्नानार्हणस्तथा ॥

त्रिरात्रं च व्रतं कुर्याच्छित्त्वा गुल्मलतास्तथा ॥ ५० ॥

अध्यास्य शयनं यानमासनं पादुके तथा ॥

पलाशस्य द्विजश्रेष्ठास्रिरात्रं तु व्रती भवेत् ॥ ५१ ॥

वाग्दुष्टं भावदुष्टं च भाजने भावदूषिते ॥

भुक्त्वान्नं ब्राह्मणः पश्चात्त्रिरात्रं तु व्रती भवेत् ॥ ५२ ॥

क्षत्रियस्तु रणे दत्त्वा पृष्ठं प्राणपरायणः ॥

संवत्सरं व्रतं कुर्याच्छित्त्वा पिप्पलपादप5म् ॥५३॥

दिवा च मैथुनं कृत्वा स्नात्वा नग्नस्तथाम्भसि॥

नग्नां परस्त्रियं दृष्ट्वादिनमेकं व्रती भवेत् ॥ ५४ ॥

क्षिप्त्वाग्नावशुचिद्रव्यं तदेवाम्भसि मानवः ॥

मासमेकं व्रतं कुर्यादुपक्रुध्य तथा गुरुम् ॥ ५५ ॥

पीतावशेषं पानीयं पीत्वा च ब्राह्मणः क्वचित् ॥

त्रिरात्रं तु व्रतं कुर्याद्वामहस्तेन वा पुनः ॥ ५६ ॥

एकपङ्क्त्युपविष्टेषु विषमं यः प्रयच्छति ॥

यश्चयावदसौ पक्वङ्कुर्यात्तु ब्राह्मणो व्रतम् ॥ ५७ ॥

धारयित्वा तुलाञ्चैव विषमं कारयेद्बुधः ॥

सुरालवणमद्यानां दिनमेकं व्रती भवेत् ॥ ५८ ॥

मांसस्य विक्रयं कृत्वा कुर्याच्चैव महाव्रतम् ॥

विक्रीय पाणिना मद्यं तिलानि च तथाचरेत् ॥५९॥

हुङ्कारं ब्राह्मणस्योक्त्वा त्वङ्कारं च गरीयसः ॥

दिनमेकं व्रत कुर्यात्प्रयतः सुसमाहितः ॥ ६० ॥

प्रेतस्य प्रेतकार्याणि कृत्वा च धनहारकः ॥

वर्णानां यद्व्रतं प्रोक्तं तद्व्रतं प्रयतश्चरेत् ॥ ६१ ॥

कृत्वा पापं न गूहेत गूहमानं विवर्द्धते ॥

कृत्वा पापं बुधः कुर्यात्पर्षदानुमतं व्रतम् ॥ ६२ ॥

तस्करश्वापदाकीर्णे बहुव्याधमृगे वने ॥

न व्र6तं ब्राह्मणः कुर्यात्प्राणबाधभयात्सदा ॥ ६३ ॥

सर्वत्र जीवनं रक्षेज्जीवन्पापमपोहति ॥

व्रतैः कृच्छ्रैश्च दानैश्च इत्याह भगवान्यमः ॥ ६४ ॥

शरीरं धर्मसर्वस्वं रक्षणीय प्रयत्नतः ॥

शरीरात्स्रवते धर्मः पर्वतात्सलिलं यथा ॥ ६५ ॥

आलोच्य धर्मशास्त्राणि समत्य ब्राह्मणैः सह।

प्रायश्चित्तं द्विजो दद्यात्स्वेच्छया न कदाचन ॥ ६६ ॥

इति शङ्खस्मृतौ सप्तदशोऽध्यायः ॥ १७ ॥

<MISSING_FIG href="../books_images/1682508413.jpg"/>

अष्टादशोऽध्यायः १८.

त्र्यहं त्रिषवणस्नायी स्नाने स्नानेऽघमर्षणम् ॥

निमग्नस्त्रिः पठेदप्सु न भुञ्जीत दिनत्रयम् ॥ १ ॥

वीरासनं च तिष्ठेत गां दद्याच्च पयस्विनीम् ॥

अघमर्षणमित्येतद्व्रतं सर्वाघनाशनम् ॥ २ ॥

त्र्यहं सायं त्र्यहं प्रातस्त्र्यहमद्यादयाचितम् ॥

त्र्यहं परं च नाश्नीयात्प्राजापत्यं चरन्व्रतम् ॥ ३ ॥

त्र्यहमुष्णं पिबेत्तोयं त्र्यहमुष्णं घृतं पिबेत् ॥

त्र्यहमुष्णं पयः पीत्वा वायुभक्षस्त्र्यहं भवेत् ॥ ४ ॥

तप्तकृच्छ्रं विजानीयाच्छीतैः शीतमुदाहृतम् ॥

द्वादशाहोपवासेन पराकः परिकीर्तितः ॥ ५ ॥

विधिनोदकसिद्धान्नं समश्नीयात्प्रयत्नतः ॥

सक्तून्हि सोदकान्मासं कृच्छ्रं वारुणमुच्यते ॥ ६ ॥

बिल्वैरामलकैर्वापि पद्माक्षैरथवा शुभैः ॥

मासेन लोकैस्त्रीकृच्छ्रः कथ्यते बुधिसत्तमैः ॥ ७ ॥

गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ॥

एकरात्रोपवासश्च कृच्छ्रं सान्तपनं स्मृतम् ॥ ८ ॥

एतैस्तु त्र्यहमभ्यस्तैर्महासान्तपनं स्मृतम् ॥ ९॥

पिण्याकं वामतक्राञ्चुसक्तूनां प्रतिवासरम् ॥

उपवासान्तराभ्यासात्तुलापुरुष उच्यते ॥ १० ॥

गोपुरीषाशनो भूत्वा मासं नित्यं समाहितः ॥

व्रतं तु वार्द्धिकं कुर्यात्सर्वपापापनुत्तये ॥ ११ ॥

ग्रासं चन्द्रकलावृद्ध्या प्राश्नीयाद्वर्द्धयन्सदा ॥

ह्रासयेच्च कलाहानौ व्रतं चान्द्रायणं स्मृतम् ॥ १२ ॥

मुण्डस्त्रिषवणस्नायी अधःशायीजितेन्द्रियः ॥

स्त्रीशूद्रपतितानां च वर्जयेत्पारभाषणम् ॥ १३ ॥

पवित्राणि जपेच्छक्त्या जुहुयाच्चैव शक्तितः ॥

अयं विधिः स विज्ञेयः सर्वकृच्छ्रेषु सर्वदा ॥ १४ ॥

पापात्मानस्तु पापेभ्यः कृच्छ्रैःसन्तारिता नराः ॥

गतपापा दिवं यान्ति नात्र कार्या विचारणा ॥ १५ ॥

शङ्खप्रोक्तमिदं शास्त्रं योऽधीते बुद्धिमान्नरः ॥

सर्वपापविनिर्मुक्तस्स्वर्गलोके महीयते ॥ १६ ॥

इति शङ्खस्मृतौ अष्टादशोऽध्यायः ॥ १८ ॥

इति शङ्खस्मृतिः समाप्ता ॥ १३ ॥


  1. “वहेदग्निमित्यपि पाठः ।” ↩︎

  2. “मलापकर्षणं स्नानं भवेदभ्यङ्गपूर्वकमिति पाठान्तरम् ।” ↩︎

  3. “आत्रेयी - रजस्वला ।” ↩︎

  4. “द्विजं-पक्षिणम्” ↩︎

  5. “वृक्ष फलप्रदम् इति पाठान्तरम्” ↩︎

  6. “सुरालवणपात्रेषु भुक्त्वा क्षीरं व्रतं चरेत् । इतिपाठ. ।” ↩︎