शातातपस्मृतिः

प्रथमोऽध्यायः १ः

<MISSING_FIG href="../books_images/1683536747.jpg"/>

प्रायश्चित्तविहीनानां महापातकिनां नृणाम् ।
नरकान्ते भवेज्जन्म चिह्नाङ्कितशरीरिणाम् ॥ १ ॥

प्रतिजन्म भवेत्तेषां चिह्नं तत्पापसूचितम् ।
प्रायश्चित्ते कृतेयाति पश्चात्तापवतां पुनः ॥ २ ॥

महापातकजं चिह्नं सप्त जन्मानि जायते ।
उपपापोद्भवं पञ्च त्रीणि पापसमुद्भवम् ॥ ३ ॥

दुष्कर्मजा नृणां रोगा यान्ति चोपक्रमैः शमम् ।
जपैःसुरार्चनैर्होमैर्दानैस्तेषांशमो भवेत् ॥ ४ ॥

पूर्वजन्मकृतं पापं नरकस्य परिक्षये ।
बाधते व्याधिरूपेण तस्य जप्यादिभिः शमः ॥ ५॥

कुष्ठं च राजयक्ष्मा च प्रमेहोग्रहणी तथा ।
मूत्रकृच्छ्राश्मरीकासा अतिसारभगन्दरौ ॥ ६ ॥

दुष्टव्रणं गण्डमाला पक्षाघातोऽक्षिनाशनम् ।
इत्येवमादयो रोगा महापापोद्भवाः स्मृताः ॥ ७ ॥

जलोदरं यकृत्प्लीहाशूलरोगव्रणानि च ।
श्वासाजीर्णज्वरच्छर्दिभ्रममोहगलग्रहाः ॥ ८ ॥

रक्तार्बुदविसर्प्पाद्याउपपापोद्भवा गदाः ।
दण्डापतानकश्वित्रवपुःकम्पविचर्चिकाः ॥ ९ ॥

वल्मीकपुण्डरीकाद्या रोगाः पापसमुद्भवाः ।
अर्शआद्या नृणां रोगा अतिपापाद्भवन्ति हि ॥ १० ॥

अन्ये च बहवो रोगा जायन्तेवर्णसङ्करात् ।
उच्यन्ते च निदानानि प्रायश्चित्तानि वै क्रमात् ॥ ११॥

महापापेषु सर्व्वं स्यात्तदर्धमुपपातके ।
दद्यात् पापेषु षष्ठांशं कल्प्यं व्याधिबलाबलम् ॥ १२ ॥

अथ साधारणं तेषु गोदानादिषु कथ्यते ।
गोदाने वत्सयुक्ता गौः सुशीला च पयस्विनी ॥ १३ ॥

वृषदाने शुभोऽनड्वाञ्छुक्लाम्बरसकाञ्चनः ।
निवर्तनानिभूदाने दश दद्याद्विजातये ॥ १४ ॥

दक्षहस्तेन दण्डेन त्रिंशदण्डं निवर्त्तनम् ।
दश तान्येव गोचर्म्मदत्त्वा स्वर्गे महीयते ॥ १५ ॥

सुवर्णशतनिष्कं तु तदर्द्धार्द्धप्रमाणतः ।
अश्वदाने मृदुश्लक्ष्णमश्वं सोपस्करं दिशेत् ॥ १६ ॥

महिषीं माहिषे दाने दद्यात्स्वर्णायुधान्विताम् ।
दद्याद्गजं महादाने सुवर्णफलसंयुतम् ॥ १७ ॥

लक्षसङ्ख्यार्हणं पुष्पं प्रदद्याद्देवतार्चने ।
दद्याद्द्विसहस्राय मिष्टान्नं द्विजभोजने ॥ १८ ॥

रुद्रञ्जपेल्लक्षपुष्पैः पूजयित्वा च त्र्यम्बकम् ।
एकादश जपेद्रुद्रान्दशशांशङ्गुग्गुलैर्धृतैः॥ १९ ॥

हुत्वाभिषेचनं कुर्यान्मन्त्रैर्वरुणदैवतैः ।
शान्तिके गणशान्तिश्च ग्रहशान्तिकपूर्वकम् ॥ २० ॥

धान्यदाने शुभं धान्यं खारीषष्टिमितं स्मृतम् ।
वस्त्रदाने पट्टवस्त्रद्वयं कर्पूरसंयुतम् ॥ २१ ॥

दशपञ्चाष्टचतुर उपवेश्य द्विजान् शुभान् ।
विधाय वैष्णवीं पूजां सङ्कल्प्य निजकाम्यया ॥ २२ ॥

धेनुं दद्याद्विजातिभ्यो दक्षिणां चापि शक्तितः ।
अलङ्कृत्य यथाशक्ति वस्त्रालङ्करणैर्द्विजान् ॥ २३ ॥

याचेद्दण्डप्रमाणेन प्रायश्चित्तं यथोदितम्॥

तेषामनुज्ञया कृत्वा प्रायश्चित्तं यथाविधि ॥ २४ ॥

पुनस्तान्परिपूर्णार्थानर्च्चयेद्विधिवद्द्विजान्॥

सन्तुष्टा ब्राह्मणा दद्युरनुज्ञां व्रतकारिणे ॥ २५ ॥

जपच्छिद्रं तपश्छिद्रं यच्छिद्रं यज्ञकर्मणि ।
सर्वे भवति निश्छिद्रं यस्य चेच्छन्ति ब्राह्मणाः ॥२६॥

ब्राह्मणा यानि भाषन्ते मन्यन्ते तानि देवताः ।
सर्वदेवमया विप्रा न तद्वचनमन्यथा ॥ २७ ॥

उपवासो व्रतं चैव स्नानं तीर्थफलं तपः ।
विप्रैःसम्पादितं सर्वं सम्पन्नं तस्य तत्फलम् ॥२८॥

सम्पन्नमिति यद्वाक्यं वदन्ति क्षितिदेवताः ।
प्रणम्य शिरसा धार्यमग्निष्टोमफलं लभेत् ॥ २९ ॥

ब्राह्मणा जङ्गमं तीर्थं निर्जलं सार्वकामिकम् ।
तेषां वाक्योदकेनैव शुद्ध्यन्ति मलिना जनाः ॥ ३० ॥

तेभ्योऽनुज्ञामभिप्राप्य प्रगृह्य च तथाशिषः ।
भोजयित्वा द्विजाञ्छक्त्या भुञ्जीत सह बन्धुभिः ॥ ३१॥

इति शातातपस्मृतौ प्रथमोऽध्यायः ॥ १ ॥

<MISSING_FIG href="../books_images/1682508413.jpg"/>

द्वितीयोऽध्यायः २.

ब्रह्महानरकस्यान्ते पाण्डुकुष्ठी प्रजायते ।
प्रायश्चित्तं प्रकुर्वीत स तत्पातकशान्तये ॥ १ ॥

चत्वारः कलशाः कार्य्याः पञ्चरत्नसमन्विताः ।
पञ्चपल्लवसंयुक्ताः सितवस्त्रेण संयुताः ॥ २ ॥

अश्वस्थानादिमृद्युक्तास्तीर्थोदकसुपूरिताः ।
कषायपञ्चकोपेता नानाविधफलान्विताः ॥ ३ ॥

सर्वौषधिसमायुक्ताः स्थाप्याः प्रतिदिशं द्विजैः ।
रौप्यमष्टदलं पद्मं मध्यकुम्भोपरि न्यसेत् ॥ ४ ॥

तस्योपरि न्यसेद्देवं ब्रह्माणं च चतुर्मुखम् ।
पलार्द्धार्द्धप्रमाणेन सुवर्णेन विनिर्मितम् ॥ ५ ॥

अर्चेत्पुरुषसूक्तेन त्रिकालं प्रतिवासरम् ।
यजमानः शुभैर्गन्धैः पुष्पैर्धूपैर्यथाविधि ॥ ६ ॥

पूर्वादिकुम्भेषु ततो ब्राह्मणा ब्रह्मचारिणः ।
पठेयुः स्वस्ववेदांस्ते ऋग्वेदप्रभृतीञ्छनैः ॥ ७ ॥

दशांशेन ततो होमो ग्रहशान्तिपुरःसरम् ।
मध्यकुण्डे विधातव्यो घृताक्तैस्तिलहेमभिः ॥ ८ ॥

द्वादशाहमिदं कर्म समाप्य द्विजपुङ्गवः ।
तत्र पीठे यजमानमभिषिञ्चेद्यथाविधि ॥ ९ ॥

ततो दद्याद्यथाशक्ति गोभूहेमतिलादिकम् ।
ब्राह्मणेभ्यस्तथा देयमाचार्य्याय निवेदयेत् ॥ १० ॥

आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः ।
प्रीताः सर्व्वेव्यपोहन्तु मम पापं सुदारुणम् ॥ ११ ॥

इत्युदीर्य मुहुर्भक्त्या तमाचार्यङ्क्षमापयेत् ।
एवंविधाने विहिते श्वेतकुष्ठी विशुद्ध्यति ॥ १२ ॥

कुष्ठी गोवधकारी स्यान्नरकान्तेऽस्यनिष्कृतिः ।
स्थापयेद्घटमेकन्तुपूर्वोक्तद्रव्यसंयुतम् ॥ १३ ॥

रक्तचन्दनलिप्ताङ्गं रक्तपुष्पाम्बरान्वितम् ।
रक्तकुम्भं तु तं कृत्वा स्थापयेद्दक्षिणां दिशम् ॥ १४ ॥

ताम्रपात्रं न्यसेत्तत्र तिलचूर्णेन पूरितम् ।
तस्योपरि न्यसेद्देवं हेमनिष्कमयं यमम् ॥ १५ ॥

यजेत्पुरुषसूक्तेन पापं मे शाम्यताम्मिति ।
सामपारायणं कुर्यात्कलशे तत्र सामवित् ॥ १६ ॥

दशांशं सर्षपैर्हुत्वा पावमान्याभिषेचने।

विहिते धर्म्मराजानमाचार्य्याय निवेदयेत् ॥ १७ ॥

यमोऽपि महिषारूढो दण्डपाणिर्भयावहः ।
दक्षिणाशापतिर्देवो मम पापं व्यपोहतु ॥ १८ ॥

इत्युच्चार्य्य विसृज्यैनं मासं सद्भक्तिमाचरेत् ।
ब्रह्मगोवधयोरेषा प्रायश्चित्तेन निष्कृतिः ॥ १९ ॥

पितृहा चेतनाहीनो मातृहान्धः प्रजायते ।
नरकान्ते प्रकुर्वीत प्रायश्चित्तं यथाविधि ॥ २० ॥

प्राजापत्यानि कुर्व्वीत त्रिंशच्चैव विधानतः ।
व्रतान्ते कारयेन्नावं सौवर्णपलसम्मिताम् ॥ २१ ॥

कुम्भं रौप्यमयं चैव ताम्रपात्राणि पूर्ववत् ।
निष्कहेम्ना तु कर्तव्यो देवः श्रीवत्सलाञ्छनः ॥ २२ ॥

पट्टवस्त्रेण संवेष्ट्य पूजयेत्तं विधानतः ।
नावन्द्विजाय तान्दद्यात्सर्वोपस्करसंयुताम् ॥ २३ ॥

वासुदेव जगन्नाथ सर्वभूताशयस्थित ।
पातकार्णवमग्नम्मां तारय प्रणतार्तिहृत् ॥ २४ ॥

इत्युदीर्य्यप्रणम्याथ ब्राह्मणाय विसर्जयेत् ।
अन्येभ्योऽपि यथाशक्ति विप्रेभ्यो दक्षिणां ददेत् ॥ २५ ॥

स्वसृघाती तु बधिरो नरकान्ते प्रजायते ।
मूको भ्रातृवधे चैव तस्येयं निष्कृतिः स्मृता ॥ २६ ॥

सोऽपि पापविशद्ध्यर्थं चरेच्चान्द्रायणव्रतम् ।
व्रतान्ते पुस्तकं दद्यात्सुवर्णपलसंयुतम् ॥ २७ ॥

इमं मन्त्रं समुच्चार्य ब्रह्माणीं तां विसर्जयेत् ।
सरस्वति जगन्मातः शब्दब्रह्मादिदेवते ॥ २८ ॥

दुष्कर्मकरणात्पापात् पाहि मां परमेश्वरि ।
बालघाती च पुरुषो मृतवत्सः प्रजायते ॥ २९ ॥

ब्राह्मणोद्वाहनं चैव कर्तव्यं तेन शुद्धये ।
श्रवणं हरिवंशस्य कर्तव्यं च यथाविधि ॥ ३० ॥

महारुद्रजपं चैव कारयेच्च यथाविधि ।
षडङ्गैकादशै रुद्रैरुद्रः समभिधीयते ॥ ३१ ॥

रुद्रैस्तथैकादशभिर्महारुद्रः प्रकीर्तितः ।
एकादशभिरेतैस्तु ह्यतिरुद्रश्च कथ्यते ॥ ३२ ॥

जुहुयाच्च दशांशेन दूर्वयाऽयुतसङ्ख्यया ।
एकादश स्वर्णनिष्काः प्रदातव्याः सदक्षिणाः ॥ ३३ ॥

पलान्येकादश तथा दद्याद्वित्तानुसारतः ।
अन्येभ्योऽपि यथाशक्ति द्विजेभ्यो दक्षिणां दिशेत् ॥ ३४॥

स्त्रापयेद्दम्पतीन् पश्चान्मन्त्रैर्वरुणदैवतैः॥

आचार्याय प्रदेयानि वस्त्रालङ्करणानि च ॥ ३५ ॥

गोत्रहा पुरुषःकुष्ठी निर्वंशश्चोपजायते ।
स च पापविशुद्ध्यर्थं प्राजापत्यशतं चरेत् ॥३६ ॥

व्रतान्ते मेदिनीं दत्त्वा शृणुयादथ भारतम् ॥३७ ॥

स्त्रीहन्ता चातिसारी स्पादश्वत्थान्रोपयेद्दश॥

दद्याच्च शर्कराधेनुं भोजयेच्च शतं द्विजान् ॥ ३८ ॥

राजहा क्षयरोगी स्यादेषा तस्य च निष्कृतिः ।
गोभूहिरण्यमिष्टान्नजलवस्त्रप्रदानतः ॥ ३९ ॥

घृतधेनुप्रदानेन तिलधेनुप्रदानतः ।
इत्यादिना क्रमेणैव क्षयरोगः प्रशाम्यति ॥ ४० ॥

रक्तार्बुदी वैश्यहन्ता जायते स च मानवः ।
प्राजापत्यानि चत्वारि सप्तधान्यानि चोत्सृजेत् ॥४१॥

दण्डापतानकयुतः शूद्रहन्ता भवेन्नरः ।
प्राजापत्यं सकृच्चैवं दद्याद्धेनुं सदक्षिणाम् ॥ ४२ ॥

कारूणां च वधे चैव रूक्षभावः प्रजायते ।
तेन तत्पापशुद्ध्यर्थं दातव्यो वृषभः सितः ॥ ४३ ॥

सर्वकार्य्येष्वसिद्धार्थो गजघाती भवेन्नरः ।
प्रासादं कारयित्वा तु गणेशप्रतिमां न्यसेत् ॥ ४४ ॥

गणनाथस्य मन्त्रं तु मन्त्री लक्षमितं जपेत् ।
कुलित्थशाकैः पूपैश्च गणशान्तिपुरस्सरम् ॥ ४५ ॥

उष्ट्रेविनिहते चैव जायते विकृतस्वरः ।
स तत्पापविशुद्ध्यर्थं दद्यात्कर्पूरकं फलम् ॥ ४६ ॥

अश्वे विनिहते चैव वक्रतुण्डः प्रजायते ।
शतं पलानि दद्याच्च चन्दनान्यधनुत्तये ॥ ४७ ॥

महिषीघातने चैव कृष्णगुल्मः प्रजायते ।
खरे विनिहते चैव खररोमा प्रजापते ।
निष्कत्रयस्य प्रकृतिं सम्प्रदद्याद्धिरण्मयीम् ॥ ४८ ॥

तरक्षौ निहते चैव जायते केकरेक्षणः ।
दद्याद्रत्नमयीधेनुं स तत्पातकशान्तये ॥ ४९ ॥

शूकरे निहते चैव दन्तुरो जायते नरः ।
स दद्यात्तु विशुद्ध्यर्थं घृतकुम्भं सदक्षिणम् ॥ ५० ॥

हरिणे निहते खञ्जः शृगाले तु विपादकः ।
अश्वस्तेन प्रदातव्यः सौवर्णपलनिर्म्मितः ॥ ५१ ॥

अजाभिघातने चैव अधिकाङ्गः प्रजायते ।
अजा तेन प्रदातव्या विचित्रवस्त्रसंयुता ॥ ५२ ॥

उरभ्रे निहते चैव पाण्डुरोगः प्रजायते ।
कस्तूरिकापलं दद्याद्ब्राह्मणाय विशुद्धये ॥ ५३ ॥

मार्जारे निहते चैव पीतपाणिः प्रजायते ।
पारावतं ससौवर्णं प्रदद्यान्निष्कमात्रकम् ॥ ५४ ॥

शुकसारिकयोर्घाते नरः स्खलितवाग्भवेत् ।
सच्छास्त्रपुस्तकं दद्यात्सविप्राय सदक्षिणम् ॥ ५५ ॥

बकघाती दीर्घनासोदद्याद्गां धवलप्रभाम् ।
काकघाती कर्णहीनो दद्याद्गामसितप्रभाम् ॥ ५६ ॥

हिंसायां निष्कृतिरियं ब्राह्मणे समुदाहृता ।
तदर्धार्द्धप्रमाणेन क्षत्रियादिष्वनुक्रमात् ॥ ५७ ॥

इति शातातपीये कर्म्मविपाके हिंसाप्रायश्चित्तविधिर्नाम द्वितीयोऽध्यायः ॥ २ ॥

तृतीयोऽध्यायः ३.

सुरापः श्यावदन्तः स्यात्प्राजापत्यन्तरं तथा ।
शर्करायास्तुलाः सप्त दद्यात्पापविशुद्धये ॥ १ ॥

जपित्वा तु महारुद्रं दशांश जुहुयात्तिलैः॥

ततोऽभिषेकः कर्तव्यो मन्त्रैर्वरुणदैवतैः॥ २ ॥

मद्यपो रक्तपित्तीस्यात्स दद्यात्सर्पिषो घटम् ।
मधुनोऽर्धघटं चैव सहिरण्यं विशुद्धये ॥ ३ ॥

अभक्ष्यभक्षणे चैव जायते कृमिकोदरः ।
यथावत्तेन शुद्ध्यर्थमुपोष्यं भीष्मपञ्चकम् ॥ ४ ॥

उदक्यावीक्षितं भुक्त्वा जायते कृमिलोदरः ।
गोमूत्रयावकाहारस्त्रिरात्रेणैवशुद्ध्यति ॥ ५ ॥

भुक्त्वा चास्पृश्य संस्पृष्टं जायते कृमिलोदरः ।
त्रिरात्रं समुपोष्याथ स तत्पापात्प्रमुच्यते ॥ ६॥

परान्नविघ्नकरणादजीर्णमभिजायते ।
लक्षहोमं स कुर्वीत प्रायश्चित्तं यथाविधि ॥ ७ ॥

मन्दोदराग्निर्भवति सति द्रव्ये कदन्नदः ।
प्राजापत्यत्रयं कुर्याद्भोजयेच्च शतं द्विजान् ॥ ८ ॥

विषदः स्याच्छर्दिरोगी दद्याद्दश पयस्विनीः ।
मार्गहा पादरोगी स्यात्सोऽश्वदानं समाचरेत् ॥९॥

पिशुनो नरकस्यान्ते जायते श्वासकासवान् ।
घृतं तेन प्रदातव्यं सहस्रपलसम्मितम् ॥ १० ॥

धूर्तोऽपस्माररोगी स्यात्स तत्पापविशुद्धये ।
ब्रह्मकूर्चमयीं धेनुन्दद्याद्गाश्च सदक्षिणाः ॥ ११ ॥

शूली परोपतापेन जायते तत्प्रमोचने ।
सोऽन्नदानं प्रकुर्वीत तथा रुद्रं जपेन्नरः ॥ १२ ॥

दावाग्निदायकश्चैव रक्तातीसारवान्भवेत् ।
तेनोदपानं कर्तव्यं रोपणीयस्तथा वटः ॥ १३ ॥

सुरालये जलेवापि शकृन्मूत्रं करोति यः ।
गुदरोगो भवेत्तस्य पापरूपः सुदारुणः ॥ १४ ॥

मासं सुरार्चनेनैव गोदानद्वितयेन तु ।
प्राजापत्येन चैकेन शाम्यन्ति गुदजा रुजः ॥ १५ ॥

गर्भपातनजा रोगा यकृत्प्लीहजलोदराः ।
तेषां प्रशमनार्थाय प्रायश्चित्तमिदं स्मृतम् ॥ १६ ॥

एतेषु दद्याद्विप्राय जलधेनुं विधानतः ।
सुवर्णरूप्यताम्राणां पलत्रयसमन्विताम् ॥ १७ ॥

प्रतिमाभङ्गकारी च ह्यप्रतिष्ठः प्रजायते ।
संवत्सरत्रयं सिञ्चेदश्वत्थं प्रतिवासरम् ॥ १८ ॥

उद्वाहयेत्तमश्वत्थं स्वगृह्योक्तविधानतः ।
तत्र संस्थापयेद्देवं विघ्नराजं सुपूजितम् ॥ १९ ॥

दुष्टवादी खण्डितः स्यात्स वै दद्याद्द्विजातये ।
रूप्यं पलद्वयन्दुग्धं घटद्वयसमन्वितम् ॥ २० ॥

खल्लीटःपरनिन्दावान्धेनुं दद्यात्सकाञ्चनाम् ।
परोपहासकृत्काणः स गां दद्यात्समौक्तिकाम् ॥ २१ ॥

सभायां पक्षपाती च जायते पक्षघातवान् ।
निष्कत्रयमितं हेम स दद्यात्सत्यवर्त्तिनाम् ॥ २२ ॥

इति शातातपीये कर्मविपाके प्रकीर्णप्रायश्चित्तं नाम

तृतीयोऽध्यायः ॥ ३ ॥

चतुर्थोऽध्यायः ४.

कुलघ्नो नरकस्यान्ते जायते विप्रहेमहृत् ।
स तु स्वर्णशतं दद्यात्कृत्वा चान्द्रायणत्रयम् ॥ १ ॥

औदुम्बरी ताम्रचौरो नरकान्ते प्रजायते ।
प्राजापत्यं स कृत्वात्र ताम्रं पलशतं दिशेत् ॥ २ ॥

कांस्यहारी च भवति पुण्डरीकसमन्वितः ॥

कांस्यं पलशतं दद्यादलङ्कृत्य द्विजातये ॥ ३ ॥

रीतिहृत्पिङ्गलाक्षः स्यादुपोष्य हरिवासरम् ॥

रीतिं पलशतं दद्यादलङ्कृत्य द्विजं शुभम् ॥ ४ ॥

मुक्ताहारी च पुरुषों जायते पिङ्गमूर्द्धजः ॥

मुक्ताफलशतं दद्यादुपोष्य सविधानतः ॥ ५ ॥

त्रपुहारी च पुरुषो जायते नेत्ररोगवान् ॥

उपोष्य दिवसं सोऽपि दद्यात्पलशतं त्रपु ॥ ६ ॥

सीसहारी च पुरुषो जायते शीर्षरोगवान् ॥

उपोष्य दिवसं दद्याद्धृतधेनुं विधानतः ॥ ७ ॥

दुग्धहारी च पुरुषो जायते बहुमूत्रकः ॥

स दद्याद्दुग्धधेनुं च ब्राह्मणाय यथाविधि ॥ ८ ॥

दधिचोर्य्येण पुरुषो जायते मदवान्यतः ॥

दधिधेनुः प्रदातव्या तेन विप्राय शुद्धये ॥ ९ ॥

मधुचारेस्तु पुरुषो जायते नेत्ररोगवान् ॥

स दद्यान्मधुधेनुं च समुपोष्य द्विजातये ॥ १० ॥

इक्षोर्विकारहारी च भवेदुदरगुल्मवान् ॥

गुडधेनुः प्रदातव्या तेन तद्दोषशान्तये ॥ ११ ॥

लोहहारी च पुरुषः कर्बुराङ्गः प्रजायते ॥

लोहं पलशतं दद्यादुपोष्यस तु वासरम् ॥ १२ ॥

तैलचारैस्तु पुरुषो भवेत्कण्ड्वादिपीडितः ॥

उपोष्य स तु विप्राय दद्यात्तैलघटद्वयम् ॥ १३ ॥

आमान्नहरणाच्चैव दन्तहीनः प्रजायते ॥

स दद्यादश्विनौहेमनिष्कद्वयविनिर्मितौ ॥ १४ ॥

पक्कान्नहरणाच्चैव जिह्वारोगः प्रजायते ॥

गायत्र्याः स जपेल्लक्षं दशांशं जुहुयात्तिलैः ॥ १५ ॥

फलहारी च पुरुषो जायते व्रणिताङ्गुलिः ॥

नानाफलानामयुतं स दद्याच्च द्विजन्मने ॥ १६ ॥

ताम्बूलहरणाच्चैव श्वेतौष्ठः सम्प्रजायते ॥

स दक्षिणां प्रदद्याच्च विद्रुमस्य द्वयं वरम् ॥ १७ ॥

शाकाहारी च पुरुषो जायते नीललोचनः ॥

ब्राह्मणाय प्रदद्याद्वै महानीलमणिद्वयम् ॥ १८ ॥

कन्दमूलस्य हरणाद्ध्रस्वपाणिः प्रजायते ॥

देवतायतनं कार्य्यमुद्यानं तेन शक्तितः ॥ १९ ॥

सौगन्धिकस्य हरणाद्दुर्गन्धाङ्गः प्रजायते ॥

स लक्षमेकं पद्मानां जुहुयाज्जातवेदसि ॥ २० ॥

दारुहारी च पुरुषः स्विन्नपाणिः प्रजायते ॥

स दद्याद्विदुषे शुद्धौ काश्मीरजपलद्वयम् ॥ २१ ॥

विद्यापुस्तकहारी च किल मूकः प्रजायते ॥

न्यायेतिहासं दद्यात्स ब्राह्मणाय सदक्षिणम् ॥ २२ ॥

वस्त्रहारी भवेत्कुष्ठीसम्प्रदद्यात्प्रजापतिम् ॥

हेमनिष्कमितं चैव वस्त्रयुग्मं द्विजातये ॥ २३ ॥

ऊर्णाहारी लोमशः स्यात्स दद्यात्कम्बलान्वितम् ॥

स्वर्णनिष्कमितं हेम वह्निं दद्याद्द्विजातये ॥ २४ ॥

पट्टसूत्रस्य हरणान्निर्लोमा जायते नरः ॥

तेन धेनुः प्रदातव्या विशुद्ध्यर्थं द्विजन्मने ॥ २५ ॥

औषधस्यापहरणे सूर्यावर्तः प्रजायते ॥

सूर्यायार्घ्यःप्रदातव्यो माषं देयं च काञ्चनम् ॥२६॥

रक्तवस्त्रप्रवालादिहारी स्याद्रक्तवातवान् ॥

सवस्त्रां महिषीं दद्यान्मणिरागसमन्विताम् ॥ २७ ॥

विप्ररत्नापहारी चाप्यनपत्यः प्रजायते ॥

तेन कार्य्यं विशुद्ध्यर्थं महारुद्रजपादिकम् ॥ २८ ॥

मृतवत्सोदितः सर्वो विधिरत्र विधीयते ॥

दशांशहोमः कर्तव्यो पलाशेन यथाविधि ॥ २९ ॥

देवस्वहरणाच्चैव जायते विविधो ज्वरः ॥

ज्वरो महाज्वरश्चैवं रौद्रो वैष्णव एव च ॥ ३० ॥

ज्वरोरौद्रं जपेत्कर्णे महारुद्रं महाज्वरे ॥

अतिरौद्रं जपेद्रौद्रे वैष्णवे तद्द्वयं जपेत् ॥ ३१ ॥

नानाविधद्रव्यचौरो जायते ग्रहणीयुतः ॥

तेनान्नोदकवस्त्राणि हेम देयं च शक्तितः ॥ ३२ ॥

इति शातातपीये कर्मविपाके स्तेयप्रायश्चित्तं नाम चतुर्थोऽध्यायः ॥

<MISSING_FIG href="../books_images/1682508413.jpg"/>

पञ्चमोऽध्यायः ५.

मातृगामी भवेद्यस्तु लिङ्गं तस्य विनश्यति ॥

चाण्डालीगमने चैव हीनकोशः प्रजायते ॥ १ ॥

तस्य प्रतिक्रियां कर्तुं कुम्भमुत्तरतो न्यसेत् ॥

कृष्णवस्त्रसमाच्छन्नं कृष्णमाल्पविभूषितम् ॥ २ ॥

तस्योपरि न्यसेद्देवङ्कांस्यपात्रे धनेश्वरम् ॥

सुवर्णनिष्कषट्केन निर्मितं नरवाहनम् ॥ ३ ॥

यजेत्पुरुषसूक्तेन धनदं विश्वरूपिणम् ॥

अथर्ववेदविद्विप्रो ह्याथर्वणं समाचरेत् ॥ ४ ॥

सुवर्णपुत्तिकां कृत्वा निष्कविंशतिसङ्ख्यया ॥

दद्याद्विप्राय सम्पूज्य निष्पापोऽहमिति ब्रुवन् ॥ ५ ॥

निधीनामधिपो देवः शङ्करस्यप्रियः सखा ॥

सौम्याशाधिपतिः श्रीमान्मम पापं व्यपोहतु ॥ ६ ॥

इमं मन्त्रं समुच्चार्य्यआचार्याय यथाविधि ॥

दद्याद्देवं हीनकोशे लिङ्गनाशे विशुद्धये ॥ ७ ॥

गुरुजायाभिगमनान्मूत्रकृच्छ्रः प्रजायते ॥

तेनापि निष्कृतिः कार्य्या शास्त्रदृष्टेन कर्म्मणा ॥ ८ ॥

स्थापयेत्कुम्भमेकं तु पश्चिमायां शुभे दिने ॥

नीलवस्त्रसमाच्छन्नं नीलमाल्यविभूषितम् ॥ ९ ॥

तस्योपरि न्यसेद्देवं ताम्रपात्रे प्रचेतसम् ॥

सुवर्णनिष्कषट्केन निर्म्मितं यादसाम्पतिम् ॥ १० ॥

यजेत्पुरुषसूक्तेन वरुणं विश्वरूपिणम् ॥

सामविद्ब्राह्मणस्तत्र सामवेदं समाचरेत् ॥ ११ ॥

सुवर्णपुत्तिकां कृत्वा निष्कविंशतिसङ्ख्यया ॥

दद्याद्विप्राय सम्पूज्य निष्पापोऽहमिति ब्रुवन् ॥ १२ ॥

यादसामधिपो देवो विश्वेषामपि पावनः ॥

संसाराब्धौ कर्णधारो वरुणः पावनोऽस्तु मे ॥ १३ ॥

इमं मन्त्रं समुच्चार्थआचार्याय यथाविधि ॥

दद्याद्देवमलङ्कृत्य मूत्रकृच्छ्रप्रशान्तये ॥ १४ ॥

स्वसुतागमने चैव रक्तकुष्ठं प्रजायते ॥

भगिनीगमने चैव पीतकुष्ठं प्रजायते ॥ १५ ॥

तस्य प्रतिक्रियां कर्त्तुम्पूर्वतः कलशं न्यसेत् ॥

पीतवस्त्रसमाच्छन्नं पीतमाल्यविभूषितम् ॥ १६ ॥

तस्योपरि न्यसेत्स्वर्णपात्रे देवं सुरेश्वरम् ॥

सुवर्णनिष्कषट्केन निर्मितं वज्रधारिणम् ॥१७॥

यजेत्पुरुषसूक्तेन वासवं विश्वरुपिणम्॥

यजुर्वेदं तत्र साम ऋग्वेदं च समाचरेत् ॥ १८ ॥

सुवर्णपुत्तिकां कृत्वा सुवर्णदशकेन तु ॥

दद्याद्विप्राय सम्पूज्य निष्पापोऽहमिति ब्रुवन् ॥ १९ ॥

देवानामधिपो देवो वज्री विष्णुनिकेतनः ॥

शतयज्ञः सहस्राक्षः पापं मम निकृन्ततु ॥ २० ॥

इमं मन्त्रं समुच्चार्य्यआचार्याय यथाविधि ॥

दद्याद्देवं सहस्राक्षं सपापस्यापनुत्तये ॥ २१ ॥

भ्रातृभार्याभिगमनाद्गलत्कुष्ठं प्रजायते ॥

स्ववधूगमने चैव कृष्णकुष्ठं प्रजायते ॥ २२ ॥

तेन कार्यविशुद्ध्यर्थं प्रागुक्तस्यार्द्धमेव हि ॥

दशांशहोमः सर्वत्र घृताक्तैः क्रियते तिलैः ॥ २३ ॥

यदगम्याभिगमनाज्जायते ध्रुवमण्डलम् ॥

कृत्वा लोहमयीं धेनुं पलषष्टिप्रमाणतः ॥ २४ ॥

कार्पासभाण्डसंयुक्तां कांस्यदोहां सवत्सिकाम् ॥

दद्याद्विप्राय विधिवदिमं मन्त्रमुदीरयेत् ॥

सुरभी वैष्णवी माता मम पापं व्यपोहतु ॥ २५ ॥

तपस्विनीसङ्गमने जायते चाश्मरीगदः ॥

स तु पापविशुद्ध्यर्थं प्रायश्चित्तं समाचरेत् ॥ २६ ॥

दद्याद्विप्राय विदुषे मधुधेनुं यथोदिताम् ॥

तिलद्रोणशतं चैव हिरण्येन समन्वितम् ॥ २७ ॥

पितृष्वस्रभिगमनाद्दक्षिणांशव्रणीभवेत् ॥

तेनापि निष्कृतिः कार्या अजादानेन शक्तितः ॥२८॥

मातुलान्यां तु गमने पृष्ठकुब्जः प्रजायते ॥

कृष्णाजिनप्रदानेन प्रायश्चित्तं समाचरेत् ॥ २९ ॥

मातृष्वस्रभिगमने वामाङ्गे व्रणवान्भवेत्॥

तेनापि निष्कृतिः कार्या सम्यग्दासप्रदानतः ॥ ३० ॥

मृतभार्याभिगमने मृतभार्यः प्रजायते ॥

तत्पातकविशुद्ध्यर्थं द्विजमेकं विवाहयेत् ॥ ३१ ॥

सगोत्रस्रीप्रसङ्गेन जायते च भगन्दरः ॥

तेनापि निष्कृतिः कार्या महिषीदानयत्नतः ॥ ३२ ॥

तपस्विनीप्रसङ्गेन प्रमेही जायते नरः ॥

मासं रुद्रजपः कार्योदद्याच्छक्त्या च काञ्चनम् ॥ ३३॥

दीक्षितस्त्रीप्रसङ्गेन जायते दुष्टरक्तदृक् ॥

स पातकविशुद्ध्यर्थं प्राजापत्यद्वयं चरेत् ॥ ३४ ॥

स्वजातिजायागमने जायते हृदयव्रणी ॥

तत्पापस्य विशुद्ध्यर्थं प्राजापत्यद्वयं चरेत् ॥ ३५ ॥

पशुयोनौच गमने मूत्राघातः प्रजायते॥

तिलपात्रद्वयं चैव दद्यादात्मविशुद्धये ॥ ३६ ॥

अश्वयोनौ च गमनाद्गुदस्तम्भः प्रजायते ॥

सहस्रकमलस्नानं मासं कुर्याच्छिवस्य च ॥ ३७ ॥

एते दोषा नराणां स्युर्नरकान्ते न संशयः ॥

स्त्रीणामपि भवन्त्येते तत्तत्पुरुषसङ्गमात् ॥ ३८ ॥

इति श्रीशातातपीये कर्म्मविपाकेऽगम्यागमनप्रायश्चित्तं नाम पञ्चमोऽध्यायः ॥ ५॥

<MISSING_FIG href="../books_images/1682508413.jpg"/>

षष्ठोऽध्यायः ६.

अश्वशूकरशृङ्ग्यद्रिद्रुमादिशकटेन च ॥

भृग्वग्निदारुशस्त्राश्मविषोद्बन्धनजैर्मृताः ॥ १ ॥

व्याघ्राहिगजभूपालचोरवैरिवृकाहताः ॥

काष्ठशल्यमृता ये च शौचसंस्कारवर्जिताः ॥ २ ॥

विषूचिकान्नकवलदवातीसारतो मृताः ॥

डाकिन्यादिग्रहैर्ग्रस्ताविद्युत्पातहताश्च ये ॥ ३ ॥

अस्पृश्या अपवित्राश्च पतिताः पुत्रवर्जिताः ॥

पञ्चत्रिंशत्प्रकारैश्च नाप्नुवन्ति गतिम्मृताः ॥ ४ ॥

पित्राद्याः पिण्डभाजः स्युस्त्रयो लेपभुजस्तथा ॥

ततो नान्दीमुखाः प्रोक्तास्त्रयोऽप्यश्रुमुखास्त्रयः ॥ ५ ॥

द्वादशैते पितृगणास्तर्पिताः सन्ततिप्रदाः ॥

गतिहीनाः सुतादीनां सन्ततिं नाशयन्ति ते ॥ ६ ॥

दश व्याघ्रादिनिहता गर्भं निघ्नन्त्यमी क्रमात् ॥

द्वादशास्त्रादिनिहता आकर्षन्ति च बालकम् ॥ ७ ॥

विषादिनिहता घ्नन्ति दशसु द्वादशस्वपि ॥

वर्षैकबालकं कुर्यादनपत्योऽनपत्यताम् ॥ ८ ॥

व्याघ्रेण हन्यते जन्तुः कुमारीगमनेन च ॥

विषदश्चैव सर्पेण गजेन नृपदुष्टकृत् ॥ ९ ॥

राज्ञा राजकुमारघ्नश्चौरेण पशुहिंसकः ॥

वैरिणा मित्रभेदी च बकवृत्तिर्वृकेण तु ॥ १० ॥

गुरुघाती च शय्यायां मत्सरी शौचवर्जितः ॥

द्रोही संस्काररहितः शुना निक्षेपहारकः ॥ ११ ॥

नरो विहन्यतेऽरण्ये शूकरेण च पाशिकः ॥

कृमिभिः कृत्तिवासाश्च कृमिणा च निकृन्तनः ॥१२॥

शृङ्गिणा शङ्करद्रोही शकटेन चसूचकः ॥

भृगुणा मेदिनीचौरो वह्निना यज्ञहानिकृत् ॥ १३ ॥

दवेन दक्षिणाचौरः शस्त्रेण श्रुतिनिन्दकः ॥

अश्मना द्विजनिन्दाकृद्विषेण कुमतिप्रदः ॥ १४ ॥

उद्बन्धनेन हिंस्रः स्यात्सेतुभेदी जलेन तु ॥

द्रुमेण राजदन्तिहृदतिसारेण लोहहृत् ॥ १५ ॥

डाकिन्याद्यैश्चम्रियते स दर्पकार्यकारकः ॥

अनध्यायेऽप्यधीयाना म्रियते विद्युता तथा ॥ १६ ॥

अस्पृश्यस्पर्शसङ्गी च वान्तमाश्रित्य शास्त्रहृत् ॥

पतितो मदविक्रेताऽनपत्यो द्विजवस्त्रहृत् ॥ १७ ॥

अथ तेषां क्रमेणैव प्रायश्चित्तं विधीयते ॥

कारयेन्निष्कमात्रं तु पुरुषं प्रेतरूपिणम् ॥ १८ ॥

चतुर्भुजं दण्डहस्तं महिषासनसंस्थितम् ॥

पिष्टैः कृष्णतिलैः कुर्यात्पिण्डं प्रस्थप्रमाणतः ॥ १९ ॥

मध्वाज्यशर्करायुक्त स्वर्णकुण्डलसंयुतम् ॥

अकालमूलं कलशं पञ्चपल्लवसंयुतम् ॥ २० ॥

कृष्णवस्त्रसमाच्छन्नं सर्वौषधिसमन्वितम् ॥

तस्योपरि न्यसेद्देवं पात्रं धान्यफलैर्युतम् ॥ २१ ॥

सप्तधान्यं तु सफलं तत्र तत् सफलं न्यसेत् ॥

कुम्भोपरि च विन्यस्य पूजयेत्प्रेतरूपिणम् ॥ २२ ॥

कुर्यात्पुरुषसूक्तेन प्रत्यहं दुग्धतर्पणम् ॥

षडङ्गं च जपेद्रुद्रङ्कलशे तत्र वेदवित् ॥ २३ ॥

यमसूक्तेन कुर्वीत यमपूजादिकं तथा ॥

गायत्र्याश्चैव कर्तव्यो जपः स्वात्मविशुद्धये ॥ २४ ॥

गृहशान्तिकपूर्वं च दशांशं जुहुयात्तिलैः॥

अज्ञातनामगोत्राय प्रेताय सतिलोदकम् ॥ २५ ॥

प्रदद्यात्पितृतीर्थेन पिण्डं मन्त्रमुदीरयेत् ॥

इमं तिलमयं पिण्डं मधुसर्पिः समन्वितम् ॥ २६ ॥

ददामि तस्मै प्रेताय यः पीडां कुरुते मम ॥

सजलान्कृष्णकलशांस्तिलपात्रसमन्वितान् ॥ २७॥

द्वादश प्रेतमुद्दिश्य दद्यादेकं च विष्णवे ॥

ततोऽभिषिञ्चेदाचार्यो दम्पती कलशोदकैः ॥ २८ ॥

शुचिर्वरायुधधरो मन्त्रैर्वरुणदैवतैः॥

यजमानस्ततो दद्यादाचार्याय स दक्षिणाम् ॥ २९ ॥

ततो नारायणबलिः कर्तव्यः शास्त्रनिश्चयात्॥

एष साधारणविधिरगतीनामुदाहृतः ॥ ३० ॥

विशेषस्तु पुनर्ज्ञेयो व्याघ्रादिनिहतष्वेपि ॥

व्याघ्रेण निहते प्रेते परकन्यां विवाहयेत् ॥ ३१ ॥

सर्पदंशे नागबलिर्देयः सर्वेषु काञ्चनम् ॥

चतुर्निष्कमितं हेम गजं दद्याद्गजैर्हते ॥ ३२ ॥

राज्ञा विनिहते दद्यात्पुरुषं तु हिरण्मयम् ॥

चोरेण निहते धेनु वैरिणा निहते वृषम् ॥ ३३ ॥

वृकेण निहते दद्याद्यथाशक्ति च काञ्चनम् ॥

शय्यामृते प्रदातव्या शय्या तूलीसमन्विता ॥ ३४ ॥

निष्कमात्रसुवर्णस्य विष्णुना समधिष्ठिता ॥

शौचहीने मृते चैव द्विनिष्कस्वर्णजं हरिम् ॥ ३५ ॥

संस्कारहीने च मृते कुमारं च विवाहयेत् ॥

शुना हते च निक्षेपं स्थापयेन्निजशक्तितः ॥ ३६ ॥

शूकरेण हते दद्यान्महिषं दक्षिणान्वितम् ॥

कृमिभिश्च मृते दद्याद्गोधूमान्नन्द्विजातये ॥ ३७ ॥

शृङ्गिणा च हते दद्याद्वृषभं वस्त्रसंयुतम् ॥

शकटेन मृते दद्यादश्वं सोपस्करान्वितम् ॥ ३८ ॥

भृगुपाते मृते चैव प्रदद्याद्धान्यपर्वतम् ॥

अग्निना निहते दद्यादुपानहं स्वशक्तितः ॥ ३९ ॥

दवेन निहते चैव कर्तव्या सदने सभा।

शस्त्रेण निहते दद्यान्महिषीं दक्षिणान्विताम् ॥ ४० ॥

अश्मना निहते दद्यात्सवत्सां गां पयस्विनीम् ॥

विषेण च मृते दद्यान्मेदिनीं क्षेत्रसंयुताम् ॥ ४१ ॥

उद्बन्धनमृते चापि प्रदद्याद्गाम्पयस्विनीम् ॥

मृते जलेन वरुणं हैमं दद्यात्त्रिनिष्ककम् ॥ ४२ ॥

वृक्षं वृक्षहते दद्यात्सौवर्णं स्वर्णसंयुतम् ॥

अतिसारमृते लक्षं सावित्र्याः संयतो जपेत् ॥ ४३ ॥

डाकिन्यादिमृते चैव जपेद्रुद्रंयथोचितम् ॥

विद्युत्पातेन निहते विद्यादानं समाचरेत् ॥ ४४ ॥

अस्पर्शे च मृते कार्यं वेदपारायणं तथा ॥

सच्छास्त्रपुस्तकं दद्याद्वान्तमाश्रित्य संस्थिते ॥ ४५ ॥

पातित्येन मृते कुर्यात्प्राजापत्यानि षोडश ॥

मृते चापत्यरहिते कृच्छ्राणां नवतिं चरेत् ॥ ४६ ॥

निष्कत्रयमितं स्वर्णं दद्यादश्वंहयाहते ॥

कपिना निहते दद्यात् कपिं कनकनिर्मितम् ॥ ४७ ॥

विषूचिकामृते स्वादु भोजयेच्च शतं द्विजान् ॥

तिलधेनुः प्रदातव्या कण्ठेऽन्नकवले मृते ॥ ४८ ॥

केशरोगमृते चापि अष्टौ कृच्छ्रान्समाचरेत् ॥

एवं कृते विधानेन विदध्यादौर्द्ध्वदेहिकम् ॥ ४९ ॥

ततः प्रेतत्त्वनिर्मुक्ताः पितरस्तर्पितास्तथा ॥

दद्युः पुत्रांश्च पौत्रांश्च आयुरारोग्यसम्पदः ॥ ५० ॥

इति शातातपप्रोक्तो विपाकः कर्मणामयम् ॥

शिष्याय शरभङ्गाय विनयात्परिपृच्छते ॥ ५१ ॥

इति शातातपीये कर्मविपाके अगतिप्रायश्चित्तं नाम षष्ठोऽध्यायः ॥ ६ ॥

इति शातातपस्मृतिः समाप्ता ॥ १७ ॥

<MISSING_FIG href="../books_images/1683537620.jpg"/>