संवर्त्तस्मृतिः

<MISSING_FIG href="../books_images/1681130992.jpg"/>

** प्रथमोऽध्यायः १.**

संवर्त्तमेकमासीनं सर्ववेदाङ्गपारगम् ।
ऋषयस्तमुपागम्य पप्रच्छुर्धर्मकाङ्क्षिणः ॥ १ ॥

भगवञ्छ्रोतुमिच्छामो द्विजानां धर्मसाधनम् ।
यथावद्धर्ममाचक्ष्व शुभाशुभविवेचनम् ॥ २ ॥

वामदेवादयः सर्वे तं पृच्छन्ति महौजसम् ।
तानब्रवीन्मुनीन्सर्वान्प्रीतात्मा श्रूयतामिति ॥ ३ ॥

स्वभावाद्विचरेद्यत्र कृष्णसारः सदा मृगः ।
धर्मदेशः स विज्ञेयो द्विजानां धर्मसाधनम् ॥ ४ ॥

उपनीतो द्विजो नित्यं गुरवे हितमाचरेत् ।
स्रग्गन्धमधुमांसानि ब्रह्मचारी विवर्जयेत् ॥ ५ ॥

सन्ध्यां प्रातः सनक्षत्रामुपासीत यथाविधि ।
सादित्यां पश्चिमां सन्ध्यामर्द्धास्तमितभास्करे ॥ ६ ॥

तिष्ठन्पूर्वं जपं कुर्यात्सावित्रीमार्कदर्शनात् ।
आसीनः पश्चिमां सन्ध्यां सम्यगृक्षविभावनात् ॥ ७ ॥

अग्निकार्यं च कुर्वीत मेधावी तदनन्तरम् ।
ततोऽधीयीत वेदं तु वीक्षमाणो गुरोर्मुखम् ॥ ८ ॥

प्रणवं प्राक् प्रयुञ्जीत व्याहृतीस्तदनन्तरम् ।
गायत्रीं चानुपूर्व्येण ततो वेदं समारभेत् ॥ ९ ॥

हस्तौ तु संयतौधार्यौजानुभ्यामुपरि स्थितौ ।
गुरोरनुमतं कुर्यात्पठन्नान्यमतिर्भवेत् ॥ १० ॥

सायम्प्रातस्तु भिक्षेत ब्रह्मचारी सदा व्रती ।
निवेद्य गुरवेऽश्नीयात्प्राङ्मुखों वाग्यतः शुचिः ॥ ११ ॥

सायम्प्रातर्द्विजातीनामशनं श्रुतिनोदितम् ।
नान्तरा भोजनं कुर्यादग्निहोत्री समाहितः ॥ १२ ॥

आचम्यैव तु भुञ्जीत भुक्त्वा चोपस्पृशेद्द्विजः ।
अनाचान्तस्तु योऽश्नीयात्प्रायश्चित्तीयते तु सः ॥ १३॥

अनाचान्तः पिबेद्यस्तु योऽपि वा भक्षयेद्द्विजः ।
गायत्र्यष्टसहस्रं तु जपं कुर्वन्विशुद्ध्यति ॥ १४ ॥

अकृत्वा पादशौचं तु तिष्ठन्मुक्तशिखोऽपि वा ।
विना यज्ञोपवीतेन त्वाचान्तोऽप्यशुचिर्भवेत् ॥ १५ ॥

आचामेद्ब्रह्मतीर्थेन चोपवीती ह्युदङ्मुखः ।
उपवीती द्विजो नित्यं प्राङ्मुखो वाग्यतः शुचिः ॥ १६ ॥

जले जलस्थश्चाचान्तःस्थलाचान्तो बहिः शुचिः ।
बहिरन्तःस्थ आचान्त एवं शुद्धिमवाप्नुयात् ॥ १७ ॥

आमणिबन्धाद्धस्तौ च पादावद्भिर्विशेाधयेत् ।
परिमृज्य द्विरास्यं तुद्वादशाङ्गानि च स्पृशेत् ॥ १८ ॥

स्नात्वा पीत्वा तथा क्षुत्वाभुक्त्वा स्पृष्ट्वा द्विजोत्तमः ।
अनेन विधिना सम्यगाचान्तः शुचितामियात् ॥ १९ ॥

शूद्रः शुद्ध्यति हस्तेन वैश्यो दन्तेषु वारिभिः ।
कण्ठागतैः क्षत्रियस्तु आचान्तः शुचितामियात् ॥ २० ॥

आसनारूढपादस्तु कृतावसक्थिकस्तथा ।
आरूढपादुको वापि न शुद्ध्यति कदाचन ॥ २१॥

उपासीत न चेत्सन्ध्यामग्निकार्यं न वा कृतम् ।
गायत्र्यष्टसहस्रं तु जपेत्स्नात्वा समाहितः ॥२२ ॥

सूतकान्नं नवश्राद्धं मासिकान्नं तथैव च ।
ब्रह्मचारी तु योऽश्नीयात्त्रिरात्रेणैव शुद्ध्यति ॥ २३ ॥

ब्रह्मचारी तु यो गच्छेत्स्त्रियं कामप्रपीडितः ।
प्राजापत्यं चरेत्कृच्छ्रमथत्वेकं सुयन्त्रितः ॥ २४ ॥

ब्रह्मचारी तु योऽश्नीयान्मधु मांसं कथञ्चन ।
प्राजापत्यं तु कृत्वासौ मौञ्जीं होमेन शुद्ध्यति ॥ २५ ॥

निर्वपेत्तु पुरोडाशं ब्रह्मचारी तु पर्वणि ।
मन्त्रैःशाकलहोमाङ्गैरग्नावाज्यं च होमयेत् ॥ २६ ॥

ब्रह्मचारी तु यः स्कन्देत्कामतः शुक्रमात्मनः ।
अवकीर्णिव्रतं कुर्यात्स्नात्वा शुद्ध्येदकामतः ॥ २७ ॥

भिक्षाटनमटित्वा तु स्वस्थोह्येकान्नमश्नुते ।
अस्नात्वा चैव यो भुङ्क्ते गायत्र्यष्टशतं जपेत् ॥ २८ ॥

शूद्रहस्तेन योऽश्नीयात्पानीयं वा पिबेत्क्वचित् ।
अहोरात्रोषितोभूत्वा पञ्चगव्येन शुद्ध्यति ॥ २९ ॥

भुक्तं पर्युषितोच्छिष्टं भुक्त्वान्नं केशदूषितम् ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्ध्यति ॥ ३० ॥

शूद्राणां भाजने भुक्त्वा भुक्त्वा वा भिन्नभाजने ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्ध्यति ॥ ३१ ॥

दिवा स्वपिति यः स्वस्थोब्रह्मचारी कथञ्चन ।
स्नात्वा सूर्यं समीक्षेत गायत्र्यष्टशतं जपेत् ॥ ३२ ॥

एष धर्मः समाख्यातः प्रथमाश्नमवासिनाम् ।
एवं सवर्तमानस्तु प्राप्नोति परमां गतिम् ॥ ३३ ॥

अतो द्विजः समावृत्तः सवर्णांस्त्रियमुद्वहेत् ।
कुले महति सम्भूतां लक्षणैस्तु समन्विताम् ॥ ३४ ॥

ब्राह्मेणैव विवाहेन शीलरूपगुणान्विताम् ।
अतः पञ्चमहायज्ञान्कुर्यादहरहर्द्विजः ॥ ३५ ॥

न हापयेत्तु ताञ्छक्तः श्रेयस्कामः कदाचन ।
हानिं तेषां तु कुर्वीत सदा मरणजन्मनोः ॥ ३६ ॥

विप्रो दशाहमासीत दानाध्ययनवर्जितः ।
क्षत्रियो द्वादशाहानि वैश्यः पञ्चदशैव तु ॥ ३७ ॥

शूद्रःशुद्ध्यति मासेन संवर्त्तवचनं यथा ।
प्रेतायान्नं जलं देयं स्नात्वा तद्गोत्रजैः सह ॥ ३८ ॥

प्रथमेऽह्नितृतीऽये च सप्तमे नवमे तथा ।
चतुर्थेऽहनि कर्तव्यमस्थिसञ्चयनं द्विजैः ॥ ३९ ॥

ततः सञ्चयनादूर्ध्वमङ्गस्पर्शो विधीयते ।
चतुर्थेऽहनि विप्रस्य षष्ठे वै क्षत्रियस्य च ॥ ४० ॥

अष्टमे दशमे चैव स्पर्शः स्याद्वैश्यशूद्रयोः ।
जातस्यापि विधिर्दृष्टएष एव महर्षिभिः ॥ ४१ ॥

दशरात्रेण शुद्ध्येत विप्रोवेद विवर्जितः ।
जाते पुत्रे पितुः स्नानं सचैलं तु विधीयते ॥ ४२ ॥

माता शुद्ध्येद्दशाहेन स्नानात्तु स्पर्शनं पितुः ।
होमं तत्र प्रकुर्वीत शुष्कान्नेन फलेन वा ॥ ४३ ॥

पञ्चयज्ञविधानं तु न कुर्यान्मृत्युजन्मनोः ।
दशाहात्तुपरं सम्यग्विप्रोऽधीयीत धर्मवित् ॥ ४४ ॥

दानं तु विविधं देयमशुभानां विनाशनम् ।
यद्यदिष्टतमंलोके यच्चास्य दयितं भवेत् ॥ ४५ ॥

तत्तद्गुणवते देयं तदेवाक्षयमिच्छता ।
नानाविधानि द्रव्याणि धान्यानि सुबहूनि च ॥ ४६ ॥

समुद्रे यानि रत्नानि नरो विगतकल्मषः ।
दत्त्वागुणाढ्यविप्राय महतीं श्रियमाप्नुयात् ॥ ४७ ॥

गन्धमाभरणं माल्यं यः प्रयच्छति धर्मवित् ।
स सुगन्धः सदा हृष्टो यत्र तत्रोपजायते ॥ ४८ ॥

श्रोत्रियाय कुलीनायाभ्यर्थिने हि विशेषतः ।
यद्दानं दीयते भक्त्या तद्भवेत्सुमहत्फलम्॥ ४९ ॥

आहूय शीलसम्पन्नं श्रुतेनाभिजनेन च ।
शुचिं विप्रं महाप्राज्ञं हव्यकव्यैस्तु पूजयेत् ॥ ५० ॥

नानाविधानि द्रव्याणि रसवन्तीप्सितानि च ।
श्रेयस्कामेनदेयानि तदेवाक्षयमिच्छता॥ ५१ ॥

वस्त्रदाता सुवेषःस्याद्रूप्यदोरूपमेव च ।
हिरण्यदः समृद्धिं च तेजश्चायुश्चविन्दति ॥ ५२ ॥

भूताभयप्रदानेनसर्वान्कामानवाप्नुयात् ।
दीर्घमायुश्चलभते सुखी चैवसदा भवेत् ॥ ५३ ॥

धान्योदकप्रदायी च सर्पिर्दःसुखमेवते॥

अलङ्कृतस्त्वलङ्कारं दाताप्नोतिमहत्फलम् ॥ ५४ ॥

फलमूलानि विप्राय शाकानि विविधानि च ।
सुरभीणि चपुष्पाणि दत्त्वा प्राज्ञस्तुजायते ॥ ५५ ॥

ताम्बूलं चैव यो दद्याद्ब्राह्मणेभ्योविचक्षणः ।
मेधावी सुभगः प्राज्ञोदर्शनीयश्चजायते ॥ ५६ ॥

पादुकोपानहौछत्रं शयनान्यासनानि च ।
विविधानि च यानानि दत्त्वा द्रव्यपतिर्भवेत् ॥ ५७ ॥

दद्याद्यः शिशिरे वह्निं बहुकाष्ठं प्रयत्नतः ।
कायाग्निदीप्तिं प्राज्ञत्वं रूपं सौभाग्यमाप्नुयात् ॥ ५८ ॥

औषधं स्नेहमाहारं रोगिणां रोगशान्तये ।
दत्त्वा स्याद्रोगरहितः सुखी दीर्घायुरेव च ॥ ५९ ॥

इन्धनानि च यो दद्याद्विप्रेभ्यः शिशिरागमे ।
नित्यं जयति सङ्ग्रामे श्रिया युक्तस्तु दीव्यते ॥ ६० ॥

अलङ्कृत्य तु यः कन्यांवराय सदृशाय वै ।
ब्राह्मेण तु विवाहेन दद्यात्तां तु सुपूजिताम् ॥ ६१ ॥

स कन्यायाः प्रदानेन श्रेयो विन्दति पुष्कलम् ।
साधुवादं कृतं सद्भिः कीर्तिं चाप्नोति पुष्कलाम् ॥६२॥

ज्योतिष्टोमातिरात्राणां शतं शतगुणीकृतम् ।
प्राप्नोति पुरुषो दत्त्वा होममन्त्रैश्च संस्कृताम् ॥ ६३ ॥

तान्दत्त्वा तु पिता कन्यां भूषणाच्छादनाशनः ।
पूजयन्स्वर्गमाप्नोति नित्यमुत्सववृद्धिषु ॥ ६४ ॥

रोमकाले तु सम्प्राप्ते सोमो भुङ्क्तेऽथ कन्यकाम्॥

रजोदृष्ट्वा तु गन्धर्वाः कुचौ दृष्ट्वा तु पावकः ॥६५ ॥

अष्टवर्षा भवेद्गौरी नववर्षा तुरोहिणी ।
दशवर्षा भवेत्कन्या अत ऊर्ध्वं रजस्वला ॥ ६६ ॥

माता चैव पिता चैव ज्येष्ठो भ्राता तथैव च ।
त्रयस्ते नरकं यान्तिदृष्ट्वा कन्यांरजस्वलाम्॥६७ ॥

तस्माद्विवाहयेत्कन्यांयावन्नर्तुमती भवेत् ।
विवाहो ह्यष्टवर्षायाः कन्यायास्तु प्रेशस्यते ॥ ६८ ॥

तैलामलकदाता च स्नानाभ्यङ्गप्रदायकः ।
नरः प्रहृष्टश्चासीत सुभगश्चोपजायते ॥ ६९ ॥

अनड्वाहौ तु यो दद्याद्द्विजे सीरेण संयुतौ ।
अलङ्कृत्य यथाशक्ति धूर्वहौशुभलक्षणौ॥ ७० ॥

सर्वपापविशुद्धात्मा सर्वकामसमन्वितः ।
वर्षाणि वसते स्वर्गे रोमसङ्ख्याप्रमाणतः ॥ ७१ ॥

धेनुं च यो द्विजेदद्यादलङ्कृत्य पयस्विनीम् ।
कांस्यवस्त्रादिभिर्युक्तां स्वर्गलोके महीयते ॥ ७२ ॥

भूमिं सस्यवतीं श्रेष्ठ ब्राह्मणेवेदपारगे ।
गां दत्त्वार्द्धप्रसूतां च स्वर्गलोके महीयते ॥ ७३ ॥

यावन्ति सस्यमूलानि गोरोमाणि च सर्वशः ।
नरस्तावन्ति वर्षाणि स्वर्गलोके महीयते ॥ ७४ ॥

यो ददाति शफै रौप्यैर्हेमशृङ्गीमरोगिणीम् ।
सवत्सांवामसाम्पीतां सुशीलां गां पयस्विनीम् ॥ ७५ ॥

तस्यां यावन्ति रोमाणि सर्वत्मायान्दिवं गतः ।
तावन्ति वत्सरान्तानि स नरो ब्रह्मणोऽन्तिके॥ ७६ ॥

यो ददाति बलवर्दमुक्तेन विधिना शुभम् ।
अव्यगगोप्रदानेन दत्तं दशगुणं फलम् ॥ ७७ ॥

अग्नेरपत्यं प्रथमं सुवर्णं भूर्वैष्णवी सूर्यसुताश्च गावः ।
लोकास्त्रयस्तेनभवन्तिदत्तायः काञ्चनङ्गाञ्चमहीचदद्यात्॥ ७८॥

सर्वेषामेव दानानामेकजन्मानुगं फलम् ।
हाटकक्षितिधेनूनां सप्तजन्मानुगं फलम् ॥ ७९ ॥

अन्नदस्तु भवेन्नित्यं सुतृप्तो निभृतः सदा ।
अम्बुदश्च सुखी नित्यं सर्वकर्मसमन्वितः ॥ ८० ॥

सर्वेषामेव दानानामन्नदानं परं स्मृतम् ।
सर्वेषामेव जन्तूनां यतस्तज्जीवितं परम् ॥ ८१ ॥

यस्मादन्नात्प्रजाः सर्वाः कल्पे कल्पेऽसृजत्प्रभुः ।
तस्मादन्नात्परं दानं विद्यते नहि किञ्चन।

अन्नाद्भूतानि जायन्ते जीवन्ति च न संशयः॥ ८२ ॥

मृत्तिकागोशकृद्दर्भानुपवीतं तथोत्तरम् ।
दत्त्वागुणाढ्यविप्राय कुले महति जायते ॥ ८३ ॥

मुखवासं तु यो दद्याद्दन्तधावनमेव च ।
शुचिगन्धसमायुक्तो अवाग्दुष्टः सदा भवेत् ॥ ८४ ॥

पादशौचं तु यो दद्यात्तथा तु गुदलिङ्गयोः ।
यः प्रयच्छति विप्राय शुद्धबुद्धिः सदा भवेत् ॥८५॥

औषधं पथ्यमाहारं स्नेहाभ्यङ्गं प्रतिश्रयम्॥

यः प्रयच्छति रोगिभ्यः स भवेद्याधिवर्जितः ॥ ८६ ॥

गुडमिक्षुरसं चैव लवणं व्यञ्जनानि च ।
सुरभीणि च पानानि दत्त्वात्यंसंसुखी भवेत् ॥ ८७ ॥

दानैश्च विविधैः सम्यक्फलमेतदुदाहृतम् ।
विद्यादानेन सुमतिर्ब्रह्मलोके महीयते ॥ ८८।

अन्योन्यान्नप्रदा विप्रा अन्योन्यप्रतिपूजकाः ।
अन्योन्यं प्रतिगृह्णन्ति तारयन्ति तरन्ति च ॥ ८९ ॥

दानान्येतानि देयानि तथान्यानि विशेषतः ।
दानार्द्धं कृपणार्थिभ्यः श्रेयस्कामेन धीमता ॥ ९० ॥

ब्रह्मचारियतिभ्यस्तु वपनं यस्तु कारयेत् ।
नखकर्मादिकं चैव चक्षुष्माञ्जायते नरः ॥ ९१ ॥

देवागारे द्विजातीनां दीपं दद्याच्चतुष्पथे ।
मेधावी ज्ञानसम्पन्नश्चक्षुष्मान्स सदा भवेत् ॥ ९२ ॥

नित्ये नैमित्तिके काम्ये तिलान्दत्वा स्वशक्तितः ।
प्रजावान्पशुमांश्चैव धनवाञ्जायते नरः ॥ ९३ ॥

यो यदाभ्यर्थितो विप्रैर्यद्यत्सम्प्रतिपादयेत् ।
तृणकाष्ठादिकं चैव गोप्रदानसमं भवेत् ॥ ९४ ॥

वने शयीत तिमसिन यज्ञे चानृतं वदेत् ।
अपवदेन्न विप्रस्य न दानं परिकीर्तयेत् ॥ ९५ ॥

यज्ञोऽनृतेन क्षरति तपः क्षरति विस्मयात् ।
आयुर्विप्रापवादेन दानं च परिकीर्तनात् ॥ ९६ ॥

चत्वार्येतानि कर्माणि सन्ध्यायां वर्जयेद्बुधः ।
आहारं मैथुनं निद्रां तथा सम्पाठमेव च ॥ ९७ ॥

आहाराज्जायते व्याधी रौद्रो गर्भश्च मैथुनात् ।
निद्रातो जायतेऽलक्ष्मीः सम्पाठादायुषः क्षयः ॥ ९८ ॥

ऋतुमतीं यो भार्या सन्निधौ नोपगच्छति ।
तस्या रजसि तं मासं पितरस्तस्य शेरते ॥ ९९ ॥

कृत्वा गृह्याणि कर्माणि स्वभार्यापोषणे रतः ।
ऋतुकालाभिगामी च प्राप्नोति परमां गतिम् ॥ १०० ॥

उषित्वैवङ्गृहे विप्रो द्वितीयादाश्रमात्परम् ।
वलीपलितसंयुक्तस्तृतीयं तु समाश्रयेत् ॥ १०१ ॥

वनं गच्छेत्ततः प्राज्ञः सभार्यस्त्वेक एव वा ।
गृहीत्वा चाग्निहोत्रं चहोमं तत्र न हापयेत् ॥ १०२ ॥

कृत्वाचैव पुरोडाशं वन्यैर्मेध्यैर्यथाविधि ।
भिक्षां च भिक्षवे दद्याच्छाकमूलफलादिभिः ॥ १०३ ॥

कुर्यादध्ययनं नित्यमग्निहोत्रपरायणः ।
इष्टिं पार्वायणीयां तु प्रकुर्यात्प्रतिपर्वसु ॥ १०४ ॥

उषित्वैवं वने विप्रो विधिज्ञः सर्वकर्मसु ।
चतुर्थमाश्रमं गच्छेज्जितक्रोध्रोजितेन्द्रियः ॥ १०५ ॥

अग्निमात्मनि संस्थाप्य द्विजः प्रव्रजितां भवेत् ।
वेदाभ्यासरतो नित्यमात्मविद्यापरायणः ॥ १०६ ॥

अष्टौ भिक्षाः समादाय स मुनिः सप्त पञ्चवा॥

अद्भिःप्रक्षाल्य ताः सर्वा भुञ्जीत सुसमाहितः ॥१७॥

अरण्ये निर्जने तत्र पुनरासीत मुक्तवत् ।
एकाकी चिन्तयेन्नित्यं मनोवाक्कायकर्मभिः ॥ १०८ ॥

मृत्युं च नाभिनन्देत जीवितं वा कथञ्चन।

कालमेव प्रतीक्षेत यावदायुः समाप्यते ॥ १०९ ॥

संसेव्य चाश्रमान्सर्वाञ्जितक्रोधो जिन्तेन्द्रियः॥

ब्रह्मलोकमवाप्नोति वेदशास्त्रार्थविद्द्विजः ॥ ११० ॥

आश्रमेषु च सर्वेषु प्रोक्तोऽयं प्राश्निको विधिः॥

अतः परं प्रवक्ष्यामि प्रायश्चित्तविधिं शुभम् ॥ १११ ॥

ब्रह्मघ्नश्च सुरापश्च स्तेयी च गुरुतल्पगः ।
महापातकिनस्त्वेते तत्संयोगी व पञ्चमः ॥ ११२ ॥

ब्रह्मघ्नश्च वनं गच्छेद्वल्कवासा जटी ध्वजी ।
वन्यान्येव फलान्यश्नन्सर्वकामविवर्जितः ॥ ११३ ॥

भिक्षार्थी विचरेद्ग्रामं वन्यैर्यदि न जीवति॥

चातुर्वण्यं चरेद्भैक्ष्यं बद्धाङ्गी संयतः सदा॥ ११४॥

भिक्षास्त्वेवं सामादाय वनं गच्छेत्ततः पुनः ।
वनवासी स पापः स्यात्सर्वकालमतन्द्रितः॥ ११५ ॥

ख्यापयन्मुच्य ते पापाद्ब्रह्महा पापकृत्तमः ।
अनेन तु विधानेन द्वादशाब्दव्रतं चरेत् ॥ ११६ ॥

सानेयम्येन्द्रियग्रामं सर्वम्भूतहिते रतः॥

ब्रह्महत्यापनोदाय ततो मुच्येत किल्बिषात्॥ ११७ ॥

अतः परं सुरापस्य निष्कृतिं श्रोतुमर्हथ ।
गौडी माध्वी च पैष्टी च विज्ञेया त्रिविधा सुरा ॥ ११८ ॥

यथैवैका तथा सर्वा न पातव्या द्विजोत्तमैः॥

सुरापस्तु सुरां तप्तां पिबेत्तत्पापमोक्षकः ॥ ११९॥

गोमूत्रमग्निवर्णं वा गोमयं वा तथाविधम् ॥

घृतं वा त्रीणि पेयानिसुरापो व्रतमाचरेत् ॥ १२० ॥

मुच्यतेतेन पानेन प्रायश्चित्ते कृते सति ॥

अरण्येवा वसेत्सम्यक्सर्वकामविवर्जितः ॥ १२१ ॥

चान्द्रायणानि वा त्रीणि सुरापव्रतमाचरेत् ॥

एवं शुद्धिः सुरापस्य भवेदिति न संशयः ॥१२२ ॥

मद्यभाण्डोदकं पीत्वा पुनः संस्कारमर्हति ॥

स्तेयं कृत्वा सुवर्णस्य स्तेयं राज्ञे निवेदयेत् ॥ १२३॥

ततो मुशलमादाय स्तेनं हन्यात्सकृन्नृपः ॥

यदि जीवति स स्तेनस्ततः स्तेयाद्विमुच्यते ॥ १२४ ॥

अरण्ये चीरवासा वा चरेद्ब्रह्मणो व्रतम् ॥

एवं शुद्धिः कृता स्तेये संवर्तवचनं यथा ॥ १२५ ॥

गुरुतल्पे शयानस्तु तप्ते स्वप्यादयोमये ॥

समालिङ्गेत्स्त्रियं वापि दीप्तां कार्ष्णायसा कृताम् १२६॥

चान्द्रायणानि कुर्याच्च चत्वारि त्रीणि वा द्विजः ॥

मुच्यते च ततः पापात्प्रायश्चित्ते कृते सति ॥ १२७ ॥

एभिः सम्पर्कमायाति यः कश्चित्पापमोहितः ॥

तत्तत्पापविशुद्ध्यर्थं तस्य तस्य व्रतं चरेत् ॥ १२८ ॥

क्षत्रियस्य वधं कृत्वा त्रिभिः कृच्छ्रैर्विशुद्ध्यति ॥

कुर्याच्चैवानुरूपेण त्रीणि कृच्छ्राणि संयतः ॥ १२९ ॥

वैश्यहत्यां तु सम्प्राप्तः कथञ्चित्काममोहितः ॥

कृच्छ्रातिकृच्छ्रौकुर्वीत स नरो वैश्यघातकः ॥ १३० ॥

कुर्याच्छूद्रवधे विप्रस्तप्तकृच्छ्रं यथाविधि ॥

एवं शुद्धिमवाप्नोति संवर्त्तवचनं यथा ॥ १३१ ॥

गोघ्नस्यातः प्रवक्ष्यामि निष्कृतिं तत्त्वतः शुभाम् ॥ १३२ ॥

गोघ्नःकुर्वीत संस्कारं गोष्ठे गोरूपसन्निधौ ॥

तत्रैव क्षितिशायी स्यान्मासार्द्धं संयतेन्द्रियः ॥ १३३ ॥

स्नानं त्रिषवर्णं कुर्यान्नखलोमविवर्जितः ॥

सक्तुयावकभिक्षाशी पयोदधिशकृन्नरः ॥ १३४ ॥

एतानि क्रमशोऽश्नीयाद्द्विजस्तत्पापमोक्षकः ॥

गायत्रीं च जपेन्नित्यं पवित्राणि च शक्तितः ॥ १३५ ॥

पूर्णे चैवार्द्धमासे च स विप्रान्भोजयेद्द्विजः ॥

भुक्तवत्सु च विप्रेषु गां च दद्याद्विचक्षणः ॥ १३६ ॥

व्यापन्नानां बहूनां तु रोधने बन्धनेऽपि वा ॥

भिषङ्मिथ्योपचार च द्विगुणं व्रतमाचरेत् ॥ १३७ ॥

एका चेद्बहुभिः काचिद्दैवाद्व्यापादिता क्वचित् ॥

पादं पादं तु हत्यायाश्चरेयुस्ते पृथक्पृथक् ॥ १३८ ॥

यन्त्रणे गोश्चिकित्सार्थे मूढगर्भविमोचने ॥

यदि तत्र विपत्तिः स्यान्न स पापेन लिप्यते ॥१३९ ॥

औषधं स्नेहमाहारं दद्याद्गोब्राह्मणेषु च ॥

दीयमाने विपत्तिः स्यात्पुण्यमेव न पातकम् ॥ १४० ॥

प्रायश्चित्तस्य पापं तु रोधेषु व्रतमाचरेत् ॥

द्वौ पादौ बन्धने चैव पादोनं यन्त्रणे तथा ॥ १४१ ॥

पाषाणैर्लगुडैर्दण्डैस्तथा शस्त्रादिभिर्नरः ॥

निपातने चरेत्सर्वं प्रायश्चित्तं दिनत्रयम् ॥ १४२ ॥

हस्तिनं तुरगं हत्वा महिषोष्ट्रकपींस्तथा ॥

एषां वधे द्विजः कुर्यात्सप्तरात्रमभोजनम् ॥

व्याघ्रंश्वानं खरं सिंहमृक्षं सूकरमेव च ॥

एतान्हत्वा द्विजो मोहात्त्रिरात्रेणैव शुद्धयति ॥ १४४॥

सर्वासामेव जातीनां मृगाणां वनचारिणाम् ॥

अहोरात्रोषितस्तिष्ठेज्जपन्वै जातवेदसम्॥ १४५ ॥

हंस काकं बलकां च बर्हिकारण्डवावपि ॥

सारसं चाषभासौ च हत्वा त्रिदिवसं क्षिपेत् ॥ १४६ ॥

चक्रवाकं तथा क्रौञ्चं सारिकाशुकतित्तिरीन् ॥

श्येनगृध्रानुकांश्च पारावतमथापि वा ॥ १४७ ॥

टिट्टिभं जालपादं च कोकिलं कुक्कुटं तथा ॥

एषां वधे नरः कुर्यादेकरात्रमभोजनम् ॥ १४८ ॥

पूर्वोक्तानां तु सर्वेषां हंसादीनामशेषतः ॥

अहोरात्रोषितस्तिष्ठेज्जपन्वै जातवेदसम् ॥ १४९ ॥

मण्डूकं चैव हत्वा च सर्पमार्जारमूषकान् ॥

त्रिरात्रोपोषितस्तिष्ठेत्कुर्याद्ब्राह्मणभोजनम् ॥ १५० ॥

अनस्थ्नोब्राह्मणो हत्वा प्राणायामेन शुद्ध्यति ॥

अस्यिमतां वधे विप्रः किञ्चिद्दद्याद्विचक्षणः ॥ १५१ ॥

यश्चण्डालीं द्विजो गच्छेत्कथञ्चित्काममोहितः ॥

त्रिभिः कृच्छ्रैस्तु शुद्ध्येत प्राजापत्यानुपूर्वकैः ॥ १५२ ॥

पुंश्चलीगमनं कृत्वाकामतोऽकामतोऽपि वा ॥

कृच्छ्रचान्द्रायणे तस्य पावनं परमं स्मृतम् ॥ १५३ ॥

शैलूषीं रजकीं चैव वेणुचर्मोपजीविनीम् ॥

एता गत्वा द्विजो मोहाच्चरेच्चान्द्रायणव्रतम् ॥ १५४ ॥

क्षत्रियामथ वैश्यां वा गच्छेद्यः काममोहितः ॥

तस्य सान्तपनः कृच्छ्रो भवेत्पापापनोदनः ॥ १५५ ॥

शूद्रान्तु ब्राह्मणो गत्वा मासं मासार्द्धमेव वा ॥

गोमूत्रयावकाहारो मासार्द्धेन विशुद्ध्यति ॥ १५६ ॥

विप्रामस्वजनाङ्गत्वा प्राजापत्येन शुद्ध्यति ॥

स्वजनां तु द्विजो गत्वा प्राजापत्यं समाचरेत् ॥ १५७ ॥

क्षत्रियां क्षत्रियो गत्वा तदेव व्रतमाचरेत् ॥

नरो गोगमनं कृत्वा कुर्याच्चान्द्रायणं व्रतम् ॥ १५८ ॥

मातुलानीं तथा श्वश्रूं सुतां वै मातुलभ्य च ॥

एता गत्वा स्त्रियो मोहात्पराकेण विशुद्ध्यति ॥ १५९ ॥

गुरोर्दुहितरं गत्वा स्वसारं पितुरेव च ॥

तस्या दुहितरं चैव चरेच्चान्द्रायणंव्रतम् ॥१६० ॥

पितृव्यदारगमने भ्रातुर्भार्यागमे तथा ॥

गुरुतल्पव्रतं कुर्यान्निष्कृतिर्नान्यथा भवेत् ॥१६१ ॥

पितृभार्यां समारुह्य मातृवर्जान्नराधमः ॥

भगिनीम्मातुराप्तां च स्वसारं चान्यमातृजाम् ॥ १६२ ॥

एतास्तिस्रः स्त्रियो गत्वा तप्तकृच्छ्रं समाचरेत् ॥

कुमारीगमने चैतद्व्रतमेतत्समाचरेत् ॥ १६३ ॥

पशुवेश्याभिगमने प्राजापत्यं विधीयते ॥

सखिभार्यां समारुह्य श्वश्रूं वा श्यालिकां तथा ॥ १६४॥

मातरं योऽधिगच्छेच्च स्वसारं पुरुषाधमः ॥

न तस्य निष्कृतिर्गच्छेत्स्वां चैव तनुजां तथा ॥ १६५ ॥

नियमस्थां व्रतस्थां वा योऽभिगच्छेत्स्त्रियं द्विजः ॥

स कुर्यात्प्राकृतं कृच्छ्रं धेनुं दद्यात्पयस्विनीम् ॥१६६॥

रजस्वलां तु यो गच्छेद्गर्भिणीं पतितां तथा ॥

तस्य पापविशुद्ध्यर्थमतिकृच्छ्रो विधीयते ॥ १६७ ॥

वैश्यजाम्ब्राह्मणो गत्वा कृच्छ्रमेकं समाचरेत् ॥

एवं शुद्धिः समाख्याता संवर्तस्य वचो यथा ॥ १६८ ॥

कथञ्चिद्ब्राह्मणीङ्गत्वा क्षत्रियो वैश्य एव च।

गोमूत्रयावकाहारोमासोनैकेन शुद्ध्यति ॥ १६९ ॥

शूद्रस्तु ब्राह्मणीं गच्छेत्कदाचित्काममोहितः ॥

गोमूत्रपावकाहारोमासेनैकेन शुद्ध्यति ॥ १७० ॥

ब्राह्मणींशूद्रसम्पर्के कदाचित्समुपागते॥

कृच्छ्रचान्द्रायणं तस्याः पावनं परमं स्मृतम् ॥ १७१ ॥

चण्डालं पुल्कसं चैव श्वपाकं पतितं तथा ॥

एताञ्छ्रेष्ठाः स्त्रियोगत्वा कुर्युश्चान्द्रायणत्रयम् ॥ १७२ ॥

अतः परं प्रदुष्टानां निष्कृतिं श्रोतुमर्हथ ॥

सन्न्यस्थदुर्मतिः कश्चिदपत्यार्थं स्त्रियं व्रजेत् ॥ १७३ ॥

कुर्यात्कुच्छ्रं समानं तत्षण्मासांस्तदनन्तरम् ॥

विषाग्निश्यामशबलास्तेषामेवं विनिर्दिशेत् ॥ १७४ ॥

स्त्रीणां तथा च चरणेह्यधिमासगमे तथा।

पतनेष्वप्ययं दृष्टः प्रायश्चित्तविधिः शुभः ॥ १७५ ॥

नृणां विप्रतिपत्तौ च पावनः प्रेत्य चेह च ॥

गोविप्रप्रहते चैव तथा चैवात्मघातिनि ॥ १७६ ॥

नैवाश्रुपतनं कार्यं सद्भिः श्रेयोऽभिकाङ्क्षिभिः

एषामन्यतमं प्रेतं यो वहेत दहेत वा ॥ ९७७ ॥

कृत्वा चोदकदान तु चरच्चान्द्रायणव्रतम्

तच्छवं केवलं स्पृष्ट्वा अश्रु नो पातितं यदि ॥ १७८ ॥

पूर्वकेष्वप्यकारी चेदेकाहं क्षपणं तथा ॥

महापातकिनां चैव तथा चैवात्मघातिनाम् ॥ १७९ ॥

उदकं पिण्डदानं च श्राद्धं चैव हि यत्कृतम् ॥

नोपतिष्ठति तत्सर्वं राक्षसैर्विप्रलुप्यते ॥ १८० ॥

चण्डालैस्तु हता ये च द्विजां दंष्ट्रिसरीसृपैः ॥

श्राद्धं तेषां न कर्तव्यं ब्रह्मदण्डताश्च ये ॥ १८१ ॥

कृत्वा मूत्रपुरीषे तु भुक्त्वोच्छिष्टस्तथा द्विजः ॥

श्वादिस्पृष्टोजपेद्देव्याःसहस्रं स्नानपूर्वकम् ॥ १८२ ॥

चण्डालं पतितं स्पृष्ट्वा शवमन्त्यजमेव च ॥

उदक्यां सूतिकां नारीं सवासाः स्नानमाचरेत् ॥ १८३ ॥

स्पृष्टेन संस्पृशेद्यस्तु स्नानं तस्य विधीयते ॥

ऊर्ध्वमाचमनं प्रोक्तं द्रव्याणां प्रोक्षणं तथा ॥ १८४ ॥

चण्डालाद्यैस्तु संस्पृष्ट उच्छिष्टश्चेद्द्विजोत्तमः ॥

गोमूत्रयावकाहारस्त्रिरात्रेण विशुद्ध्यति ॥ १८५ ॥

शुना पुष्पवती स्पृष्टा पुष्पवत्यान्यया तथा ॥

शेषाण्यहान्युपवसेत्स्नात्वा शुद्ध्येद्घृताशनात् ॥ १८६॥

चण्डालभाण्डसंस्पृष्टं पिबेत्कूपगतं जलम् ॥

गोमूत्रयावकाहारस्त्रिरात्रेण विशुद्ध्यति ॥ १८७ ॥

अन्त्यजैःस्वीकृते तीर्थे तडागेषु नदीषु च ॥

शुद्ध्यते पञ्चगव्येन पीत्वा तोयमकामतः ॥ १८८ ॥

सुराघटप्रपातोऽयं पीत्वा नालीजलं तथा ॥

अहोरात्रोषितो भूत्वा पञ्चगव्यं पिबेद्द्विजः ॥ १८९ ॥

कूपे विण्मूत्रसंस्पृष्टाः प्राश्य चापो द्विजातयः ॥

त्रिरात्रेणैव शुद्ध्यन्ति कुम्भे सान्तपनं स्मृतम् ॥ १९० ॥

वापीकूपतडागानामुपहतानां विशोधनम् ॥

अपां घटशतोद्धारः पञ्चगव्यं च निक्षिपेत् ॥ १९१ ॥

स्त्रीक्षीरमाविकं पीत्वा सन्धिन्याश्चैव गोः पयः ॥

तस्य शुद्धिस्त्रिरात्रेण द्विजानां चैव भक्षणे ॥ १९२ ॥

विण्मूत्रभक्षणे चैव प्राजापत्यं समाचरेत् ॥

श्वकाकोच्छिष्टगोच्छिष्टभक्षणे तु त्र्यहं द्विजः ॥ १९३ ॥

विडालमूषिकोच्छिष्टे पञ्चगव्यं पिबेद्द्विजः ॥

शूद्रोच्छिष्टं तथा भुक्त्वा त्रिरात्रेणैव शुद्ध्यति ॥ १९४ ॥

पालाण्डुंलशुनं जग्ध्वा तथैव ग्रामकुक्कुटम् ॥

छत्राकं विड्वराहं च चरेत्सान्तपनं द्विजः ॥ १९५ ॥

श्वबिडालखरोष्ट्राणां कपेर्गोमायुकाकयोः ॥

प्राश्य मूत्रपुरीषे वा चरेच्चान्द्रायणं व्रतम् ॥ १९६ ॥

अन्नं पर्युषितं भुक्त्वा केशकीटैरुपस्कृतम् ॥

पतितैः प्रेक्षितं वापि पञ्चगव्यं द्विजः पिबेत् ॥ १९७ ॥

अन्त्यजाभाजने भुक्त्वा उदक्याभाजने तथा ॥

गोमूत्रयावकाहारोमासार्द्धेन विशुद्ध्यति ॥ १९८ ॥

गोमांसं मानुषं चैव शुनो हस्तात्समाहृतम् ॥

अभक्ष्यं तद्भवेत्सर्वं भुक्त्वा चान्द्रायणं चरेत् ॥ १९९ ॥

चण्डाले सङ्करे विप्रःश्वपाके पुल्कसेऽपि वा ॥

गोमूत्रयावकाहारोमासार्द्धेन विशुद्ध्यति ॥ २०० ॥

पतितेन तु सम्पर्कं मासं प्रासार्द्धमेव वा ॥

गोमूत्रयावकाहारान्मासार्द्धेन विशुद्ध्यति ॥ २०१ ॥

पतिताद्द्रव्यमादत्ते भुङ्क्ते वा ब्राह्मणो यदि ॥

कृत्वा तस्य समुत्सर्गमतिकृच्छ्रं चरेद्द्विजः ॥ २०२ ॥

यत्र यत्र च सङ्कीर्णमात्मानं मन्यते द्विजः ॥

तत्र तत्र तिलैर्होमोगायत्र्या प्रत्यहं द्विजः ॥ २०३ ॥

एष एव मया प्रोक्तः प्रायश्चित्तविधिः शुभः ॥

अनादिष्टेषु पापेषु प्रायश्चित्तं न चोच्यते ॥ २०४ ॥

दानैर्होमेर्जपैर्नित्यं प्राणायामैर्द्विजोत्तमः ॥

पातकेभ्यः प्रमुच्येत वेदाभ्यासान्न संशयः ॥ २०५ ॥

सुवर्णदानं गोदानं भूमिदानं तथैव च ॥

नाशयत्याशु पापानि ह्यन्यजन्मकृतान्यपि ॥ २०६ ॥

तिलं धेनुं च यो दद्यात्संयताय द्विजातये ॥

ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः ॥ २०७ ॥

मावमास तु सम्प्राप्तेपौर्णमास्यामुपोषितः ॥

ब्राह्मणेभ्यस्तिलान्दत्त्वा सर्वपापैः प्रमुच्यते ॥ २०८ ॥

उपवासी नरो भूत्वा पौर्णमास्यां तु कार्तिके ॥

हिरण्यं वस्त्रमन्नं च दत्त्वा तरति दुष्कृतम् ॥ २०९ ॥

अयने विषुवे चैव व्यतीपाते दिनक्षये ॥

चन्द्रसूर्यग्रहे चैव दत्ते भवति चाक्षयम् ॥

अमावास्यां च द्वादश्यां सङ्क्रान्तौ च विशेषतः ॥

एताः प्रशस्तास्तिथयो भानुवारस्तथैव च ॥ २११॥

तत्र स्नानं जपो होमो ब्राह्मणानां च भोजनम् ॥

उपवासस्तथा दानमेकैकं पावयेन्नरम् ॥ २१२ ॥

स्नातः शुचिर्धौतवासाः शुद्धात्मा विजितेन्द्रियः ॥

सात्त्विकं भावमास्थाय दानं दद्याद्विचक्षणः ॥ २१३ ॥

सप्तव्याहृतिभिः कार्यों द्विजैर्होमोजितात्मभिः ॥

उपपातकशुद्ध्यर्थं सहस्रपरिसङ्ख्यया ॥ ११४ ॥

महापातकसंयुक्तोलक्षहोमं सदा द्विजः ॥

मुच्यते सर्वपापेभ्यो गायत्र्या चैव पावितः ॥ २१५ ॥

अभ्यसेच्च तथा पुण्यां गायत्री वेदमातरम् ॥

गत्वारण्ये नदीतीरे सर्वपापविशुद्धये ॥ २१६ ॥

स्नात्वा ह्याचम्य विधिवत्ततः प्राणान्समापयेत् ॥

प्राणायामैस्त्रिभिः पूतोगायत्रीं तु जपेद्द्विजः ॥ २१७ ॥

अक्लिन्नवासाः स्थलगः शुचौ देशे समाहितः ॥

पवित्रपाणिराचान्तोःगायत्र्या जपमाचरेत् ॥ २१८ ॥

ऐहिकामुप्मिकं पापं सर्व निरवशेषतः ॥

पञ्चरात्रणे गायत्रीं जपमानो व्यपोहति ॥ २१९ ॥

गायत्र्यास्तु परं नास्ति शोधनं पापकर्मणाम् ॥

महाव्याहृतिसंयुक्तां प्रणवेन च सञ्जपेत् ॥ २२० ॥

ब्रह्मचारी निराहारः सर्वभूतहिते रतः ॥

गायत्र्या लक्षजप्येन सर्वपापैः प्रमुच्यते ॥ २२१ ॥

अयाज्ययाजनं कृत्वा भुक्त्वा चान्नं विगर्हितम् ॥

गायत्र्यष्टसहस्रं तु जपं कृत्वा विशुद्ध्यति॥ २२२ ॥

अहन्यहनि योऽधीतेगायत्रीं वै द्विजोत्तमः ॥

मासेन मुच्येत पापादुरगः कञ्चुकाद्यथा ॥ २२३ ॥

गायत्रीं यस्तु विप्रो वै जपेत नियतः सदा ॥

स याति परमं स्थानं वायुभूतः स्वमूर्तिमान् ॥ २२४ ॥

प्रणवेन च संयुक्ता व्याहृतीः सप्त नित्यशः ॥

गायत्रीं शिरसा सार्द्धं मनसा त्रिः पिबेद्द्विजः ॥

निगृह्य चात्मनः प्राणान्प्राणायामोविधीयते ॥

प्राणायामत्रयं कुर्यान्नित्यमेव समाहितः ॥ २२६ ॥

मानसं वाचिकं पापं कायेन वै च यत्कृतम् ॥

तत्सर्वं नाशमायाति प्राणायामप्रभावतः ॥ २२७ ॥

ऋग्वेदमभ्यसेद्यस्तु यजुःशाखामथापि वा ॥

सामानि सरहस्यानि सर्वपापैः प्रमुच्यते ॥ २२८ ॥

पावमानीं तथा कौत्सीं पौरुषं सूक्तमेव च ॥

जप्त्वा पापैः प्रमुच्येत सपित्र्यं माधुच्छन्दसम् ॥ २२९ ॥

मण्डलं ब्राह्मणं रुद्रसूक्तोक्ताश्च बृहद्यथा ॥

वामदेव्यं बृहत्साम सर्वपापैः प्रमुच्येत ॥ २३० ॥

चान्द्रायणं तु सर्वेषा पापानां पावनं परम् ॥

कृत्वा शुद्धिमवाप्नोति परमं स्थानमेव च ॥ २३१ ॥

धर्मशास्त्रमिदं पुण्यं संवर्तेन तु भाषितम् ॥

अधीत्यब्राह्मणो गच्छेद्ब्रह्मणः सद्म शाश्वतम् ॥ २३२ ॥

इति संवर्त्तप्रणीतं धर्मशास्त्रं समाप्तम् ॥ ८ ॥

संवर्त्तस्मृतिः समाप्ता ॥ ८ ॥

<MISSING_FIG href="../books_images/1681130275.jpg"/>

** श्रीः।**