पाराशरस्मृतिः

** <MISSING_FIG href="../books_images/1681204939.jpg"/>**

** प्रथमः खण्डः।**

अथातो हिमशैलाग्रे देवदारुवनालये ।
व्यासमेकाग्रमासीनमपृच्छन्नृषयः पुरा ॥ १ ॥

मानुषाणां हितं धर्मं वर्तमाने कलौ युगे ।
शौचाचारं यथावच्च वद सत्यवतीसुत ॥ २ ॥

तच्छ्रुत्वा ऋषिवाक्यं तु सशिष्योऽग्न्यर्कसन्निभः ।
प्रत्युवाच महातेजाः श्रुतिस्मृतिविशारदः ॥ ३ ॥

न चाहं सर्वतत्त्वज्ञः कथं धर्मं वदाम्यहम् ।
अस्मत्पितैव प्रष्टव्य इति व्यासः सुतोऽवदत् ॥ ४ ॥

ततस्ते ऋषयः सर्वे धर्मतत्त्वार्थकाङ्क्षिणः ।
ऋषिं व्यासं पुरस्कृत्य गता बदरिकाश्रमम् ॥ ५ ॥

नानापुष्पलताकीर्णं फलपुष्पैरलङ्कृतम् ।
नदीप्रस्रवणोपेतं पुण्यतीर्थोपशोभितम् ॥ ६ ॥

मृगपक्षिनिनादाढ्यं देवतायतनावृतम् ।
यक्षगन्धर्वसिद्धेश्च नृत्यगीतैरलङ्कृतम् ॥ ७ ॥

तस्मिन्नृषिसभामध्ये शक्तिपुत्रं पराशरम् ।
सुखासीनं महातेजा मुनिमुख्यगणावृतम् ॥ ८ ॥

कृताञ्जलिपुटो भूत्वा व्यासस्तु ऋषिभिः सह ।
प्रदक्षिणाभिवादेश्चस्तुतिभिः समपूजयत् ॥ ९ ॥

अथ सन्तुष्टहृदयः पराशरमहामुनिः ।
आह सुस्वागतं ब्रूहीत्यासीनो मुनिपुङ्गवः ॥ १० ॥

कुशलं सम्यगित्युक्त्वा व्यासः पृच्छत्यनन्तरम् ।
यदि जानासि मे भक्तिं स्नेहाद्वा भक्तवत्सल ॥ ११ ॥

धर्मं कथय मे तात अनुग्राह्यो ह्यहं तव ।
श्रुता म मानवा धर्मा वासिष्ठाः काश्यपास्तथा ॥ १२ ॥

गार्गीया गौतमीयाश्च तथा चौशनसाः स्मृताः ।
अत्रेर्विष्णोश्च संवर्ताद्दक्षादङ्गिरसस्तथा ॥ १३ ॥

शातातपाच्च हारीताद्याज्ञवल्क्यात्तथैव च ।
आपस्तम्बकृता धर्माः शङ्खस्य लिखितस्य च ॥ १४ ॥

कात्यायनकृताश्चैव तथा प्राचेतसान्मुनेः ।
श्रुता ह्येते भवत्प्रोक्ताः श्रौतार्था मे न विस्मृताः ॥ १५ ॥

अस्मिन्मन्वन्तरे धर्माः कृतत्रेतादिके युगे ।
सर्वे धर्माः कृते जाताः सर्वे नष्टाः कलौ युगे ॥ १६ ॥

चातुवर्ण्यसमाचारं किञ्चित्साधारणं वद॥

चतुर्णामपि वर्णानां कर्त्तव्यं धर्मकोविदैः ॥ १७ ॥

ब्रूहि धर्मस्वरूपज्ञ सूक्ष्मं स्थूलं च विस्तरात् ।
व्यासवाक्यावसानेषु मुनिमुख्यः पराशरः ।
धर्मस्य निर्णयं प्राह सूक्ष्मं स्थूलं च विस्तरात् ॥ १८ ॥

शृणु पुत्र प्रवक्ष्यामि शृण्वन्तु मुनयस्तथा ॥ १९ ॥

कल्पे कल्पे क्षये सत्या ब्रह्मविष्णुमहेश्वराः ।
श्रुतिस्मृतिसदाचारनिर्णेतारश्च सर्वदा ॥ २० ॥

न कश्चिद्वेदकर्ता च वेदं स्मृत्वा चतुर्मुखः ।
तथैव धर्मान्स्मरति मनुः कल्पान्तरेऽन्तरे ॥ २१ ॥

अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरे युगे ।
अन्ये कलियुगे नृृणां युगरूपानुसारतः ॥ २२ ॥

तपःपरं कृतयुगे त्रेतायां ज्ञानमुच्यते ।
द्वापरे यज्ञमेवार्दानमेव कलौ युगे ॥ २३ ॥

कृते तु मानवा धर्मास्त्रेतायां गौतमाः स्मृताः ।
द्वापरे शङ्खलिखिताः कलौ पाराशराः स्मृताः ॥ २४ ॥

त्यजेद्देशं कृतयुगे त्रेतायां ग्राममुत्सृजेत् ।
द्वापरे कुलमेकं तु कर्तारं तु कलौ युगे ॥ २५ ॥

कृते सम्भाषणादेव त्रेतायां स्पर्शनेन च ।
द्वापरे त्वन्नमादाय कलौपतति कर्मणा ॥ २६ ॥

कृते तात्क्षणिकः शापस्त्रेतायां दशभिर्दिनैः ।
द्वापरे चैकमासेन कलौ संवत्सरेण तु ॥ २७ ॥

अभिगम्य कृते दानं त्रेतास्वाहूय दीयते ।
द्वापरे याचमानाय सेवया दीयते कलौ ॥ २८ ॥

अभिगम्योत्तमं दानमाहूयैव तु मध्यमम् ।
अधमं याचमानाय सेवादानं तु निष्फलम् ॥ २९॥

जितो धर्मो ह्यधर्मेण सत्यं चैवानृतेन च ।
जिताश्चोरैश्च राजानः स्त्रीभिश्च पुरुषा जिताः ॥ ३० ॥

सीदन्ति चाग्निहोत्राणि गुरुपूजा प्रणश्यति ।
कुमार्यश्च प्रसूयन्ते तस्मिन्कलियुगे सदा ॥ ३१ ॥

कृते त्वस्थिगताःप्राणास्त्रेतायां मांसमाश्रिताः ।
द्वापरे रुधिरं चैव कलौ त्वन्नादिषु स्थिताः ॥ ३२ ॥

युगे युगे च ये धर्मास्तत्र तत्र च ये द्विजाः ।
तेषां निन्दा न कर्तव्या युगरूपा हि ते द्विजाः ॥ ३३॥

युगे युगे तु सामर्थ्यं शेषं मुनिविभाषितम् ।
पराशरेण चाप्युक्तं प्रायश्चित्तं विधीयते ॥ ३४ ॥

चातुवर्ण्यसमाचारं शृण्वन्तु ऋषिपुङ्गवाः ॥ ३५ ॥

पराशरमतं पुण्यं पवित्रं पापनाशनम् ।
चिन्तितं ब्राह्मणार्थाय धर्मसंस्थापनाय च ॥ ३६ ॥

चतुर्णामपि वर्णानामाचारो धर्मपालकः ।
आचारभ्रष्टदेहानां भवेद्धर्मः पराङ्मुखः ॥ ३७ ॥

षट्कर्माभिरतो नित्यं देवतातिथिपूजकः ।
हुतशेषं तु भुञ्जानो ब्राह्मणो नावसीदति ॥ ३८ ॥

सन्ध्या स्नानं जपो होमो देवतानां च पूजनम् ।
आतिथ्यं वैश्वदेवं च षट्कर्माणि दिने दिने ॥३९॥

इष्टो वा यदि वा द्वेष्यो मूर्खः पण्डित एव वा ।
सम्प्राप्तो वैश्वदेवां ते सोऽतिथिः स्वर्गसङ्क्रमः ॥ ४० ॥

दूराच्चोपगतं श्रान्तं वैश्वदेव उपस्थितम् ।
अतिथिं तं विजानीयान्नातिथिः पूर्वमागतः ॥ ४१ ॥

नैकग्रामीणमतिथिं सङ्गृह्णीत कदाचन ।
अनित्यमागतो यस्मात्तस्मादतिथिरुच्यते ॥ ४२ ॥

अतिथिं तत्र सम्प्राप्तं पूजयेत्स्वागतादिना ।
तथासनप्रदानेन पादप्रक्षालनेन च ॥ ४३ ॥

श्रद्धया चान्नदानेन प्रियप्रश्नोत्तरेण च ।
गच्छतश्चानुयानेन प्रीतिमुत्पादयेद् गृही ॥ ४४ ॥

अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ।
पितरस्तस्य नाश्नन्ति दश वर्षाणि पञ्च च ॥ ४५ ॥

काष्ठभारसहस्रेण घृतकुम्भशतेन च ।
अतिथिर्यस्य भग्नाशस्तस्य होमो निरर्थकः ॥ ४६ ॥

सुक्षेत्रे वापयेद्बीजं सुपात्रे निक्षिपेद्धनम् ।
सुक्षेत्रे च सुपात्रे च ह्युप्तं दत्तं न नश्यति॥ ४७ ॥

न पृच्छेद्गोत्रचरणे न स्वाध्यायं श्रुतं तथा ।
हृदये कल्पयेद्देवं सर्वदेवमयो हि सः ॥ ४८ ॥

अपूर्वः सुव्रती विप्रो ह्यपूर्वश्चातिथिस्तथा ।
वेदाभ्यासरतो नित्यं त्रयोऽपूर्वा दिने दिने ॥ ४९ ॥

वैश्वदेवे तु सम्प्राप्ते भिक्षुके गृहमागते ।
उद्धृत्य वैश्वदेवार्थं भिक्षां दत्त्वा विसर्जयेत् ॥ ५० ॥

तयोरन्नमदत्त्वा च भुक्त्वा चान्द्रायणं चरेत् ॥ ५१ ॥

दद्याच्च भिक्षात्रितयं परिव्राड्ब्रह्मचारिणाम् ।
इच्छया च ततो दद्याद्विभवे सत्यवारितम् ॥ ५२ ॥

यतिहस्तजलं दद्याद्भैक्षं दद्यात्पुनर्जलम्

तद्भैक्षं मेरुणा तुल्यं तज्जलं सागरोपमम् ॥ ५३ ॥

यस्य च्छत्रं हयश्चैव कुञ्जरारोहमृद्धिमत् ।
ऐन्द्रस्थानमुपासीत तस्मात्तं न विचारयेत् ॥ ५४ ॥

वैश्वदेवकृतं पापं शक्तो भिक्षुर्व्यपोहितुम् ।
नहि भिक्षुकृतं दोषं वैश्वदेवो व्यपोहति ॥ ५५ ॥

अकृत्वा वैश्वदेवं तु भुञ्जते ये द्विजातयः ।
तेषामन्नं न भुञ्जीत काकयोनिं व्रजन्ति ते ॥ ५६ ॥

अकृत्वा वैश्वदेवं तु भुञ्जते ये द्विजाधमाः ।
सर्वे ते निष्फला ज्ञेयाः पतन्ति नरकेऽशुचौ ॥ ५७ ॥

वैश्वदेवविहीना ये आतिथ्येन बहिष्कृताः ।
सर्वे ते नरकं यान्ति काकयोनिं व्रजन्ति च ॥ ५८ ॥

शिरो वेष्ट्य तु यो भुङ्क्ते दक्षिणाभिमुखस्तु यः ।
वामपादकरः स्थित्वा तद्वै रक्षांसि भुञ्जते ॥ ५९ ॥

यतये काञ्चनं दत्त्वा ताम्बूलं ब्रह्मचारिणे ।
चोरेभ्योऽप्यभयं दत्त्वा दातापि नरकं व्रजेत् ॥ ६० ॥

शुक्लवस्त्रं च यानं च ताम्बूलं धातुमेव च ।
प्रतिगृह्य कुलं हन्यात्प्रतिगृह्णाति यस्य च ॥ ६१ ॥

चोरो वा यदि चण्डालः शत्रुर्वा पितृघातकः ।
वैश्वदेवे तु सम्प्राप्ते सोऽतिथिः स्वर्गसङ्क्रमः ॥ ६२ ॥

न गृह्णाति तु यो विप्रो ह्यतिथिं वेदपारगम् ।
अदत्तं चान्नपात्रं तु भुक्त्वा भुङ्क्ते तु किल्बिषम् ॥ ६३॥

ब्राह्मणस्य मुखं क्षेत्रं निरुपममकण्टकम् ।
वापयेत्सर्वबीजानि सा कृषिः सर्वकामिका ॥ ६४ ॥

सुक्षेत्रे वाक्येद्बीजं सुपात्रे निक्षिपेद्धनम् ।
सुक्षेत्रे च सुपात्रे च ह्युप्तं तन्न विनश्यति ॥ ६५ ॥

अव्रता ह्यनधीयाना यत्र भैक्षचरा द्विजाः ।
तं ग्रामं दण्डयेद्राजा चोरभक्तप्रदो हि सः ॥ ६६ ॥

क्षत्रियो हि प्रजा राजञ्छस्त्रपाणिः प्रदण्डवान् ।
निर्जित्य परसैन्यानि क्षितिं धर्मेण पालयेत् ॥ ६७ ॥

न श्रीः कुलक्रमायाता भूषणोल्लिखिताऽपि वा ।
खड्गेनाक्रम्य भुञ्जीत वीरभोग्यां वसुन्धराम् ॥ ६८ ॥

फलं पुष्पं विचिनुयान्मूलच्छेदं न कारयेत् ।
मालाकार इवारामे न यथाङ्गारकारकः ॥ ६९ ॥

लाभकर्म तथा रत्नं गवां च परिपालनम् ।
कृषिकर्म च वाणिज्यं वैश्यवृत्तिरुदाहृता ॥ ७० ॥

शूद्रस्य द्विजशुश्रूषा परमो धर्म उच्यते ।
अन्यथा कुरुते किञ्चित्तद्भवेत्तस्य निष्फलम् ॥ ७१ ॥

लवणं मधु तैलं च दधि तक्रं घृतं पयः ।
न दुष्येच्छूद्रजातीनां कुर्यात्सर्वेषु विक्रयम् ॥ ७२ ॥

विक्रीणन्मद्यमांसानि ह्यभक्ष्यस्य च भक्षणम् ।
कुर्वन्नगम्यागमनं शूद्रः पतति तत्क्षणात् ॥ ७३ ॥

कपिलाक्षीरपानेन ब्राह्मणीगमनेन चः ।
वेदाक्षरविचारेण शूद्रस्य नरको ध्रुवम् ॥ ७४ ॥

इति पराशरीये धर्मशास्त्रे प्रथमोऽध्यायः ॥ १ ॥

** द्वितीयोऽध्यायः२**

अतः परं गृहस्थस्य कर्माचारं कलौ युगे ।
धर्म साधारणं शक्त्या चातुर्वर्ण्याश्रमागतम् ॥ १ ॥

तं प्रवक्ष्याम्यहं पूर्वं पाराशरवचो यथा ।
षट्कर्मसहितो विप्रः कृषिकर्म च कारयेत् ॥ २ ॥

क्षुधितं तृषितं श्रान्तं बलीवर्दन्न योजयेत् ।
हीनाङ्गं व्याधितं क्लीबं वृषं विप्रो न वाहयेत् ॥ ३ ॥

स्थिराङ्गं नीरुजं तृप्तं सुनर्दं षण्ढवर्जितम् ।
वाहयेद्दिवसस्यार्द्धं पश्चात्स्नानं समाचरेत् ॥ ४ ॥

जपं देवार्चनं होमं स्वाध्यायं चैवमभ्यसेत् ।
एकद्वित्रिचतुर्विप्रान्भोजयेत्सेनातकान्द्विजः ॥ ५ ॥

स्वयं कृष्टे तथा क्षेत्रे धान्यैश्चस्वयमर्ज्जितैः ।
निर्वपेत्पञ्चयज्ञांश्च क्रतुदीक्षां च कारयेत् ॥ ६ ॥

तिला रसा न विक्रेया विक्रेया धान्यतत्समाः ।
विप्रस्यैवंविधा वृत्तिस्तृणकाष्ठादिविक्रयः ॥ ७ ॥

ब्राह्मणश्चेत्कृषिं कुर्यात्तन्महादोषमाप्नुयात् ।
अष्टागवं धर्महलं षड्गवं वृत्तिलक्षणम् ॥ ८ ॥

चतुर्गवं नृशंसानां द्विगंव गोजिघांसुवत् ।
द्विगवं वाहयेत्पादं मध्याह्ने तु चतुर्गवम् ॥ ९ ॥

षङ्गवं तु त्रियामाहेऽष्टभिः पूर्णं तु वाहयेत् ।
न याति नरकेष्वेवं वर्तमानस्तु वै द्विजः ॥ १० ॥

दानं दद्याच्च वै तेषां प्रशस्तं स्वर्गसाधनम् ।
संवत्सरेण यत्पापं मत्स्यघाती समाप्नुयात् ॥ ११ ॥

अयोमुखेन काष्ठेन तदेकाहेन लाङ्गली ।
पाशको मत्स्यघाती च व्याधः शाकुनिकस्तथा ॥ १२ ॥

अदाता कर्षकश्चैव पञ्चैते समभागिनः ।
कण्डना पेषणी चुल्ली उदकुम्भी च मार्जनी ॥ १३ ॥

पञ्च सूना गृहस्थस्य अहन्यहनि वर्तते ।
वैश्वदेवो बलिर्भिक्षा गोग्रासो दन्तकारकः ॥ १४ ॥

गृहस्थः प्रत्यहं कुर्यात्सूनादोषैर्न लिप्यते ।
वृक्षं छित्त्वा महीं भित्त्वा हत्वा च कृमिकीटकान् ॥ १५ ॥

कर्षकः खलयज्ञेन सर्वपापैः प्रमुच्यते ।
यो न दद्याद्द्विजातिभ्यो राशिमूलमुपागतः ॥ १६ ॥

स चोरः स च पापिष्ठो ब्रह्मघ्नं तं विनिर्दिशेत् ।
राज्ञे दत्त्वा तु षड्भागं देवानां चैकविंशकम् ॥ १७ ॥

विप्राणां त्रिंशकं भागं सर्वपापैः प्रमुच्यते ।
क्षत्रियोऽपि कृषिं कृत्वा देवान्विप्रांश्च पूजयेत् ॥ १८ ॥

वैश्यः शूद्रस्तथा कुर्यात्कृषिवाणिज्यशिल्पकम् ।
विकर्मं कुर्वते शूद्रा द्विजशुश्रूषयोज्झिताः ॥ १९ ॥

भवन्त्यल्पायुषस्ते वै निरयं यान्त्यसंशयम् ।
चतुर्णामपि वर्णानामेष धर्मः सनातनः ॥ २० ॥

इति पराशरीये धर्मशास्त्रे द्वितीयोऽध्यायः ॥ २ ॥

<MISSING_FIG href="../books_images/1681205125.jpg"/>

** तृतीयोऽध्यायः ३**.

अतः शुद्धिं प्रवक्ष्यामि जनने मरणे तथा

दिनत्रयेण शुद्ध्यन्ति ब्राह्मणाः प्रेतसूतके ॥ १ ॥

क्षत्रियो द्वादशाहेन वैश्यः पञ्चदशाहकैः ।
शूद्रः शुद्ध्यति मासेन पराशरवचो यथा ॥ २ ॥

उपासने तु विप्राणामङ्गशुद्धिश्च जायते ।
ब्राह्मणानां प्रसूतौ तु देहस्पर्शो विधीयते ॥ ३ ॥

जातौ विप्रो दशाहेन द्वादशाहेन भूमिपः ।
वैश्यः पञ्चदशाहेन शूद्रो मासेन शुद्ध्यति ॥ ४ ॥

एकाहाच्छुद्ध्यते विप्रो योऽग्निवेदसमन्वितः ।
त्र्यहात्केवलवेदस्तु द्विहीनो दशभिर्दिनैः ॥ ५ ॥

जन्मकर्मपरिभ्रष्टः सन्ध्योपासनवर्जितः ।
नामधारकविप्रस्तु दशाहं सूतकी भवेत् ॥ ६ ॥

अजा गावो महिष्यश्च ब्राह्मणी नवसूतिकाः ।
दशरात्रेण संशुद्ध्यद्भूमिष्ठं च नवोदकम् ॥ ७ ॥

एकपिण्डास्तु दायादाः पृथग्दारनिकेतनाः ।
जन्मन्यपि विपत्तौ च तेषां तत्सूतकं भवेत् ॥ ८ ॥

तावत्तत्सूतकं गोत्रे चतुर्थपुरुषेण तु ।
दायाद्विच्छेदमाप्नोति पञ्चमो वात्मवंशजः ॥ ९ ॥

चतुर्थे दशरात्रं स्यात्षण्निशाः पुंसि पञ्चमे ।
षष्ठे चतुरहाच्छुद्धिः सप्तमे तु दिनत्रयात् ॥ १० ॥

भृग्वग्निमरणे चैव देशान्तरमृते तथा ।
बाले प्रेते च सन्न्यस्ते सद्यः शौचं विधीयते ॥ ११ ॥

देशान्तरमृतः कश्चित्सगोत्रः श्रूयते यदि ।
न त्रिरात्रमहोरात्रं सद्यः स्नात्वा शुचिर्भवेत् ॥ १२ ॥

देशान्तरगतो विप्रः प्रयासात्कालकारितात् ।
देहनाशमनुप्राप्तस्तिथिर्न ज्ञायते यदि॥ १३ ॥

कृष्णाष्टमी त्वमावास्या कृष्णा चैकादशी च या ।
उदकं पिण्डदानं च तत्र श्राद्धं च कारयेत् ॥ १४ ॥

अजातदन्ता ये बाला ये च गर्भाद्विनिःसृताः ।
न तेषामग्निसंस्कारो नाशौचं नोदकक्रिया ॥ १५ ॥

यदि गर्भो विपद्येत स्रवते वापि योषितः ।
यावन्मासं स्थितो गर्भो दिनं तावत्तु सूतकम् ॥ १६ ॥

आचतुर्थाद्भवेत्स्रावः पातः पञ्चमषष्ठयोः ॥

अत ऊर्ध्वं प्रसूतिः स्याद्दशाहं सूतकं भवेत् ॥ १७ ॥

दन्तजातेऽनुजाते च कृतचूडे च संस्थिते ॥

अग्निसंस्करणं तेषां त्रिरात्रमशुचिर्भवेत् ॥ १८ ॥

आदन्ताज्जन्मतः सद्य आचूडान्नैशिकी स्मृता ॥

त्रिरात्रमाव्रतादेशाद्दशरात्रमतः परम् ॥ १९ ॥

ब्रह्मचारी गृहे येषां हूयते च हुताशनः ॥

सम्पर्कं चेन्न कुर्वन्ति न तेषां सूतकं भवेत् ॥ २० ॥

सम्पर्काददुष्यते विप्रो जनने मरणे तथा ॥

सम्पर्काच्च निवृत्तस्य न प्रेतं नैव सूतकम् ॥ २१ ॥

शिल्पिनः कारुका वैद्या दासीदासाश्च नापिताः ॥

राजानः श्रोत्रियाश्चैव सद्यःशौचाः प्रकीर्तिताः ॥ २२ ॥

सघ्रतो मन्त्रपूतश्च आहिताग्निश्च यो द्विजः ॥

राज्ञश्च सूतकं नास्ति यस्य चेच्छति पार्थिवः ॥ २३ ॥

उद्यतो निधने दाने आर्तो विप्रो निमन्त्रितः ॥

तदैव ऋषिभिर्दृष्टं यथा कालेन शुद्ध्यति ॥ २४ ॥

प्रसवे गृहमेधी तु न कुर्यात्सङ्करं यदि ॥

दशाहाच्छुध्यते माता त्ववगाह्य पिता शुचिः ॥ २५ ॥

सर्वेषां शावमाशौचं मातापित्रोस्तु सूतकम् ॥

सूतकं मातुरेव स्यादुपस्पृश्य पिता शुचिः ॥२६ ॥

यदि पत्न्यां प्रसूतायां सम्पर्कं कुरुते द्विजः ॥

सूतकं तु भवेत्तस्य यदि विप्रः षडङ्गवित् ॥ २७ ॥

सम्पर्क्काज्जायते दोषो नान्यो दोषोऽस्ति वै द्विजे ॥

तस्मात्सर्वप्रयत्नेन सम्पर्कं वर्जयेद्बुधः ॥ २८ ॥

विवाहोत्सवयज्ञेषु त्वन्तरा मृतसूतके ॥

पूर्वसङ्कल्पितं द्रव्यं दीयमानं न दुष्यति ॥ २९ ॥

अन्तरा तु दशाहस्य पुनर्मरणजन्मनी ॥

तावत्स्यादशुचिर्विप्रो यावत्पूर्वं न गच्छति ॥ ३० ॥

ब्राह्मणार्थं विपन्नानां बन्दीगोग्रहणे तथा ॥

आहवेषु विपन्नानामेकरात्रमशौचकम् ॥ ३१ ॥

द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ ॥

परिव्राड्योगयुक्तश्च रणे चाभिमुखो हतः ॥ ३२ ॥

यत्र यत्र हतः शूरः शत्रुभिः परिवेष्टितः ॥

अक्षयाल्ँलभते लोकान्यदि क्लीबं न भाषते ॥ ३३ ॥

सन्न्यस्तं ब्राह्मणं दृष्ट्वा स्थानाच्चलति भास्करः ॥

एष मे मण्डलं भित्त्वा परं स्थानं प्रयास्यति ॥ ३४ ॥

यस्तु भग्नेषु सैन्येषु विद्रवत्सु समन्ततः ॥

परित्राता यदा गच्छेत्स च क्रतुफलं लभेत् ॥ ३५ ॥

यस्य च्छेदक्षतं गात्रं शरमुद्गरयष्टिभिः ॥

देवकन्यास्तु तं वीरं हरन्ति रमयन्ति च ॥ ३६ ॥

देवाङ्गनासहस्राणि शूरमायोधने हतम्॥

त्वरमाणाः प्रधावन्ति मम भर्ता ममेति च ॥ ३७ ॥

यं यज्ञसङ्घैस्तपसा च विप्राः स्वर्गैषिणो वात्र यथैव यान्ति ॥

क्षणेन यान्त्येव हि तत्र वीराः प्राणान्सुयुद्धेन परित्यजन्ति ॥ ३८ ॥

जितेन लभ्यते लक्ष्मीर्मृतेनापि वराङ्गना ॥

क्षणध्वंसिनि कायेऽस्मिन्का चिन्ता मरणे रणे ॥ ३९ ॥

ललाटदेशे रुधिरं स्रवच्च यस्याहवे तु प्रविशेत वक्रम् ॥

तत्सोमपानेन किलास्य तुल्यं सङ्ग्रामयज्ञे विधिवच्च दृष्टम् ॥४०॥

अनाथं ब्राह्मणं प्रेतं ये वहन्ति द्विजातयः ॥

पदे पदे यज्ञफलमानुपूर्व्याल्लभन्ति ते ॥ ४१ ॥

न तेषामशुभं किञ्चित्पापं वा शुभकर्मणाम् ॥

जलावगाहनात्तेषां सद्यः शौचं विधीयते ॥ ४२ ॥

असगोत्रमबन्धुं च प्रेतीभूतं द्विजोत्तमम् ॥

वहित्वा च दहित्वा च प्राणायामेन शुद्ध्यति ॥ ४३ ॥

अनुगम्येच्छया प्रेतं ज्ञातिमज्ञातिमेव वा ॥

स्नात्वा सचैलं स्पष्ट्वाऽग्निं घृतं प्राश्य विशुद्ध्यति ॥ ४४ ॥

क्षत्रियं मृतमज्ञानाद्ब्राह्मणो योऽनुगच्छति ॥

एकाहमशुचिर्भूत्वा पञ्चगव्येन शुन्द्ध्यति॥ ४५ ॥

शवं च वैश्यमज्ञानाद्ब्राह्मणो ह्यनुगच्छति ॥

कृत्वा शौचं द्विरात्रं च प्राणायामान्षडाचरेत् ॥ ४६ ॥

प्रेतीभूतं तु यः शूद्रं ब्राह्मणो ज्ञानदुर्बलः ॥

अनुगच्छेन्नीयमानं त्रिरात्रमशुचिर्भवेत् ॥ ४७ ॥

त्रिरात्रे तु ततः पूर्णे नदीं गत्वा समुद्रगाम् ॥

प्राणायामशतं कृत्वा घृतं प्राश्य विशुद्ध्यति ॥ ४८ ॥

विनिवर्त्य यदा शूद्रा उदकान्तमुपस्थिताः ॥

द्विजैस्तदानुगन्तव्या एष धर्मः सनातनः ॥ ४९ ॥

तस्माद्द्विजो मृतं शूद्रं न स्पृशेतच दाहयेत ॥

दृष्टे सूर्यावलोकेन शुद्धिरेषा पुरातनी ॥ ५० ॥

इति पराशरीये धर्मशास्त्रे तृतीयोऽध्यायः ॥ ३ ॥

<MISSING_FIG href="../books_images/1681205188.jpg"/>

** चतुर्थोऽध्यायः ४**.

अतिमानादतिक्रोधात्स्नेहाद्वा यदि वा भयात् ॥

उद्बध्नीयात्स्त्री पुमान्वा गतिरेषा विधीयते ॥ १॥

पूयशोणितसम्पूर्णे त्वन्धे तमसि मज्जति ॥

षष्टिवर्षसहस्राणि नरकं प्रतिपद्यते ॥ २ ॥

नाशौचं नोदकं नाग्निं नाश्रुपातं च कारयेत ॥

वोढारोऽग्निप्रदातारः पाशच्छेदकरास्तथा॥ ३ ॥

तप्तकृच्छ्रेण शुद्ध्यन्तीत्येवमाह प्रजापतिः ॥

गोभिर्हतं तथोद्बद्धं ब्राह्मणेन तु घातितम् ॥ ४ ॥

संस्पृशन्ति तु ये विप्रा वोढारब्धाग्निदाश्च ये।

अन्ये ये चानुगन्तारः पाशच्छेदकराश्च ये ॥ ५ ॥

तप्तकृच्छ्रेण शुद्धास्ते कुर्युर्ब्राह्मणभोजनम् ॥

अनडुत्सहितां गां च दद्युर्विप्रायदक्षिणाम् ॥ ६ ॥

त्र्यहमुष्णं पिबेद्वारि त्र्यहमुष्णं पयः पिबेत् ॥

त्र्यहमुष्णं पिबेत्सर्पिर्वायुभक्षो दिनत्रयम् ॥ ७ ॥

षट्पलं तु पिबेदम्भस्त्रिपलं तु पयः पिबेत् ॥

पलमेकं पिबेत्सर्पिस्तप्तकृच्छ्रं विधीयते ॥ ८ ॥

यो वै समाचरेद्विप्रः पतितादिष्वकामतः ॥

पञ्चाहं वा दशाहं वा द्वादशाहमथापि वा ॥ ९ ॥

मासार्द्धम्मासमेक वा मासद्वयमथापि वा ॥

अष्टार्द्धमर्द्धमेकं वा भवेदूर्ध्वंहि तत्समः ॥ १० ॥

त्रिरात्रं प्रथमे पक्षे द्वितीये कृच्छ्रमाचरेत् ॥

तृतीयेचैव पक्षे तु कृच्छ्रं सान्तपनं चरेत् ॥ ११ ॥

चतुर्थे दशरात्रं स्यात्पराकःपञ्चमे मतः ॥

कुर्याच्चान्द्रायणंषष्ठे सप्तमे त्वैन्दवद्वयम् ॥ १२ ॥

शुद्ध्यर्थमष्टमे चैव षण्मासं कृच्छ्रमाचरेत् ॥

पक्षसङ्ख्याप्रमाणेन सुवर्णान्यपि दक्षिणा ॥ १३ ॥

ऋतुस्नाता तु या नारी भर्तारं नोपसर्पति ॥

सा मृता नरकं याति विधवा च पुनः पुनः ॥ १४ ॥

ऋतुस्नातां तु यो भार्यांसन्निधौ नोपगच्छति ॥

घोरायां भ्रूणहत्यायां युज्यते नात्र संशयः ॥ १५ ॥

दरिद्रं व्याधितं धूर्तं भर्तारं याऽवमन्यते ॥

सा शुनी जायते मृत्वा सूकरी च पुनः पुनः ॥ १६ ॥

पत्त्यौ जीवति या नारी उपोष्य व्रतमाचरेत् ॥

आयुष्यं हरते भर्तुः सा नारी नरकं व्रजेत् ॥ १७ ॥

अपृष्ट्वा चैव भर्त्तारं या नारी कुरुते व्रतम् ॥

सर्वन्तद्राक्षसान्गच्छेदित्येवं मनुरब्रवीत् ॥ १८ ॥

बान्धवानां सजातीनां दुर्वृत्तं कुरुते तु या ॥

गर्भपातं च या कुर्यान्नतां सम्भाषयेत्क्वचित् ॥ १९ ॥

यत्पापं ब्रह्महत्याया द्विगुणं गर्भपातने॥

प्रायश्चित्तं न तस्यास्ति तस्यास्त्यागो विधीयते ॥ २० ॥

न कार्यमावसथ्येन नाग्निहोत्रेण वा पुनः ॥

स भवेत्कर्मचाण्डालो यस्तु धर्मपराङ्मुखः ॥ २१ ॥

स क्षेत्री लभते बीजं न बीजी भागमर्हति ॥ २२ ॥

तद्वत्परस्त्रियः पुत्रौ द्वौ सुतौ कुण्डगोलकौ॥

पत्यौजीवति कुण्डस्तु मृते भर्तरि गोलकः ॥ २३ ॥

औरस्रः क्षेत्रजश्चैव दत्तः कृत्रिमकः सुतः ॥

दद्यान्माता पिता वापि स पुत्रो दत्तको भवेत् ॥ २४ ॥

परिवित्तिः परिवेत्ता यया च परिविद्यते ॥

सर्वे ते नरकं यान्ति दातृयाजकपञ्चमाः ॥ २५ ॥

द्वौ कुच्छ्रौपरिवित्तेस्तु कन्यायाः कृच्छ्र एव च ॥

कृच्छ्रातिकृच्छ्रौ दातुस्तु होता चान्द्रायणं चरेत् ॥२६॥

कुब्जवामनषण्ढेषु गद्गदेषु जडेषु च ॥

जात्यन्धे बधिरे मूके न दोषः परिविन्दतः॥ २७ ॥

पितृव्यपुत्रः सापत्नः परनारीसुतस्तथा ॥

दाराग्निहोत्रसंयोगे न दोषः परिवेदने ॥ २८ ॥

ज्येष्ठो भ्राता यदा तिष्ठेदाधानं नैव कारयेत् ॥

अनुज्ञातस्तु कुर्वीत शङ्खस्य वचनं यथा ॥ २९ ॥

नष्टे मृते प्रव्रजिते क्लीबेच पतितेऽपतौ ॥

पञ्चस्वापत्सु नारीणां पतिरन्योविधीयते ॥ ३० ॥

मृते भर्त्तरि या नारी ब्रह्मचर्यव्रते स्थिता ॥

सा मृता लभते स्वर्गं यथा ते ब्रह्मचारिणः ॥ ३१ ॥

तिस्रः कोट्योऽर्धकोटी च यानि लोमानि मानवे ॥

तावत्कालं वसेत्स्वर्गे भर्त्तारं याऽनुगच्छति ॥ ३२ ॥

व्यालग्राही यथा व्यालं बलादुद्धरते बिलात् ॥

एवं स्त्री पतिमुद्धृत्यतेनैव सह मोदते ॥ ३३ ॥

॥ इति पराशरीये धर्मशात्रे चतुर्थोऽध्यायः ॥ ४ ॥

<MISSING_FIG href="../books_images/1681215987.jpg"/>

** पञ्चमोऽध्यायः ५.**

वृकश्वानशृगालादिदष्टो यस्तु द्विजोत्तमः ॥

स्नात्वा जपेत्स गायत्रीम्पवित्रां वेदमातरम् ॥ १॥

गवां शृङ्गोदकस्नानान्महानद्योस्तु सङ्गमे॥

समुद्रदर्शनाद्वापि शुना दष्टः शुचिर्भवेत् ॥ २ ॥

वेदविद्याव्रतस्नातः शुना दष्टोद्विजो यदि ॥

स हिरण्योदके स्नात्वा घृतं प्राश्य विशुद्ध्यति ॥ ३ ॥

सव्रतस्तु शुना दष्टो यस्त्रिरात्रमुपावसेत् ॥

घृतं कुशोदकं पीत्वा व्रतशेषं समापयेत् ॥ ४ ॥

अव्रतःसव्रतोवापि शुना दष्टो भवेद्द्विजः ॥

प्रणिपत्य भवेत्पूतोविप्रैश्चक्षुर्निरीक्षितः॥ ५ ॥

शुना घ्राताऽवलीढस्यनखैर्विलिखितस्य च ॥

आद्भिः प्रक्षालनं प्रोक्तमग्निना चोपचृलनम् ॥ ६ ॥

ब्राह्मणी तु शुना दष्टा जम्बुकेन वृकेण वा ॥

उदितं ग्रहनक्षत्रं दृष्ट्वा सद्यः शुचिर्भवेत्॥ ७ ॥

कृष्णपक्षे यदा सोमो न दृश्येत कदाचन ॥

यां दिशं व्रजते सोमस्तां दिशं चावलोकयेत् ॥ ८ ॥

असद्ब्राह्मणके ग्रामे शुना दष्टो द्विजोत्तमः ॥

वृषम्प्रदक्षिणीकृस्यसद्यः स्नात्वाशुचिर्भवेत् ॥ ९ ॥

चण्डालेन श्वपाकेन गोभिर्विप्रैर्हतो यदि ॥

आहिताग्निर्मृतो विप्रो विषेणात्मा हतो यदि ॥ १० ॥

दहेत्तं ब्राह्मणं विप्रोलोकाग्नौमन्त्रवर्जितम् ॥

स्पृष्ट्वा चोह्य च दग्ध्वा च सपिण्डेषु च सर्वदा ॥ ११ ॥

प्राजापत्यं चरेत्पश्चाद्विप्राणामनुशासनात् ॥

दग्ध्वास्थीनि पुनर्गृह्य क्षीरैः प्रक्षालयेद्द्विजः ॥ १२ ॥

स्वेनाग्निना स्वमन्त्रेण पृथगेतत्पुनर्दहेत् ॥

आहिताग्निर्द्द्विजः कश्चित्प्रवसन्कालचोदितः ॥ १३ ॥

देहनाशमनुप्राप्तस्तस्याग्निर्वसते गृहे ॥

प्रेताग्निहोत्रसंस्कारः श्रूयतां मुनिपुङ्गवाः ॥ १४ ॥

कृष्णाजिनं समास्तीर्यकुशैस्तु पुरुषाकृतिम् ॥

षट्शतानि शतं चैव पलाशानां च वृन्ततः ॥ १५ ॥

चत्वारिंशच्छिरे दद्याच्छतं कण्ठे तु विन्यसेत् ॥

बाहुभ्यां दशकं दद्यादङ्गुलीषु दशैव तु ॥ १६ ॥

शतं तु जघने दद्याद्द्विशतं तूदरे तथा ॥

दद्यादष्टौ वृषणयोः पञ्च मेढ्रेतु विन्यसेत् ॥ १७ ॥

एकविंशतिमूरुभ्यां द्विशतं जानुजङ्घयोः ॥

पादाङ्गुष्ठेषु दद्यात्षट्यज्ञपात्रं ततो न्यसेत् ॥ १८ ॥

शम्यां शिश्नेविनिक्षिप्य अरणिं मुष्कयोरपि ॥

जुहूं च दक्षिणे हस्ते वामे तूपभृतं न्यसेत् ॥ १९ ॥

पृष्ठे तूलूखलं दद्यात्पृष्ठे च मुशलं न्यसेत् ॥

उरसि क्षिप्य दृषदं तण्डुलाज्यतिलान्मुखे ॥ २० ॥

श्रोत्रे च प्रोक्षणीं दद्यादाज्यस्थालीं च चक्षुषोः ॥

कर्णे नेत्रे मुखे घ्राणे हिरण्यशकलं न्यसेत् ॥ २१ ॥

अग्निहोत्रोपकरणमशेषं तत्र विन्यसेत् ॥

असौ स्वर्गाय लोकाय स्वाहेत्येकाहुतिं सकृत् ॥ २२ ॥

दद्यात्पुत्रोऽथवा भ्राताऽप्यन्यो वापि च बान्धवः ॥

यथा दहनसंस्कारस्तथा कार्यं विचक्षणैः॥ २३ ॥

ईदृशं तु विधिं कुर्याद्ब्रह्मलोके गतिः स्मृता ॥

दहन्ति ये द्विजास्तं तु ते यान्ति परमां गतिम् ॥ २४ ॥

अन्यथा कुर्वते कर्म त्वात्मबुद्ध्या प्रचोदिताः ॥

भवन्त्यल्पायुषस्ते वै पतन्ति नाकेऽशुचौ ॥ २५ ॥

** इति पराशरीये धर्मशास्त्रे पञ्चमोऽध्यायः ॥ ५ ॥**

<MISSING_FIG href="../books_images/1681212870.jpg"/>


** षष्ठोऽध्यायः ६.**

अतः परं प्रवक्ष्यामि प्राणिहत्यासु निष्कृतिम् ॥

पराशरेण पूर्वोक्तं मन्वर्थेऽपि च विस्तृताम् ॥ १ ॥

क्रौञ्चसारसहंसांश्च चक्रवाकं च कुक्कुटम् ॥

जालपादं च शरभं हत्वाऽहोरात्रतः शुचिः ॥ २ ॥

बलाकाटिट्टिभौवापि शुकपारावतावपि ॥

अटीनबकघाती च शुद्ध्यते नक्तभोजनात् ॥३ ॥

वृक्काककपोतानां सारीतित्तिरघातकः ॥

अन्तर्जले उभे सध्ये प्राणायामेन शुद्ध्यति ॥ ४ ॥

गृध्रश्येनशशादीनामुलूकस्य च घातकः ॥

अपक्वाशी दिनं तिष्ठेत्त्रिकालं मारुताशनः ॥ ५॥

वल्गुलीटिट्टिभानां च कोकिलाखञ्जरीटके ॥

लाविकारत्त्कपक्षेषु शुद्ध्यते नक्तभोजनात् ॥ ६ ॥

कांरडवचकोराणां पिङ्गलाकुररस्यच ॥

भारद्वाजादिकं हत्वा शिवं सम्पूज्य शुद्ध्यति ॥ ७॥

भेरुण्डचाषभासांश्चपारावतकपिञ्जलौ॥

पक्षिणां चैव सर्वेषामहोरात्रमभोजनम् ॥ ८ ॥

हत्वा मूषकमार्जारसर्पाजगरडुण्डुभान् ॥

कृसरं भोजयेद्विप्राल्ँलोहदण्डं च दक्षिणाम् ॥ ९ ॥

वृकजम्बुकऋक्षाणां तरक्षूणां च घातकः ॥

तिलप्रस्थं द्विजे दद्याद्वायुभक्षो दिनत्रयम् ॥ ११ ॥

गजस्य च तुरङ्गस्य महिषोष्ट्रनिपातने।

प्रायश्चित्तमहोरात्रं त्रिसन्ध्यमवगाहनम् ॥ १२ ॥

कुरङ्गं वानरं सिंहं चित्रं व्याघ्रञ्च घातयन् ॥

शुद्ध्यते स त्रिरात्रेण विप्राणां तर्पणेन च ॥ १३ ॥

मृगरोहिद्वराहाणामवेर्बस्तस्य घातकः ॥

अफालकृष्टमश्नीयादहोरात्रमुपोष्य सः ॥ १४ ॥

एवं चतुष्पदानां च सर्वेषां वनचारिणाम् ॥

अहोरात्रोषितस्तिष्ठेज्जपन्वै जातवेदसम् ॥ १५ ॥

शिल्पिनं कारुकं शूद्रं स्त्रियं वा यस्तु घातयेत् ॥

प्राजापत्यद्वयं कृत्वा वृषैकादश दक्षिणा ॥ १६ ॥

वैश्यं वा क्षत्रियं वापि निर्दोषं योऽभिघातयेत् ॥

सोऽतिकृच्छ्रद्वयं कुर्याद्गोविंशद्दक्षिणां ददेत् ॥ १७ ॥

वैश्यंशूद्रं क्रियासक्तं विकर्मस्थं द्विजोत्तमम् ॥

हत्वा चान्द्रायणं तस्य त्रिंशद्गाश्चैव दक्षिणा ॥ १८ ॥

चण्डालं हतवान्कश्चिद्ब्राह्मणो यदि कञ्चन ॥

प्राजापत्यं चरेत्कृच्छ्रं गोद्वयं दक्षिणां ददेत् ॥ १९ ॥

क्षत्रियेणापि वैश्येन शूद्रेणैवेतरेण च ॥

चण्डालस्य वधे प्राप्तेकृच्छ्रार्द्धेन विशुद्ध्यति ॥ २० ॥

चोरः श्वपाकश्चण्डालो विप्रेणाभिहतो यदि ॥

अहोरात्रोषितः स्नात्वा पञ्चगव्येन शुद्ध्यति ॥ २१ ॥

श्वपाकं चापि चण्डालं विप्रःसम्भाषते यदि।

द्विजसम्भाषणं कुर्यात्सावित्रीं च सकृज्जपेत् ॥ २२ ॥

चण्डालैः सह सुप्त्वा तु त्रिरात्रमुपवासयेत् ॥

चण्डालकपथं गत्वा गायत्रीस्मरणाच्छुचिः॥ २३ ॥

चण्डालदर्शने सद्य आदित्यमवलोकयेत् ॥

चण्डालस्पर्शने चैव सचैलं स्नानमाचरेत् ॥ २४ ॥

चण्डालखातवापीषु पीत्वा सलिलमग्रतः ॥

अज्ञानाच्चैकनक्तेन त्वहोरात्रेण शुद्ध्यति ॥ २५ ॥

चण्डालभाण्डं संस्पृश्य पीत्वा कूपगतं जलम् ॥

गोमूत्रयावकाहारस्त्रिरात्राच्छुद्धिमाप्नुयात् ॥ २६ ॥

चण्डालघटसंस्थं तु यत्तोयं पिबति द्विजः ॥

तत्क्षणात्क्षिपते यस्तु प्राजापत्यं समाचरेत् ॥ २७ ॥

यदि न क्षिपते तोयं शरीरे यस्य जीर्यति ॥

प्राजापत्यं न दातव्यं कृच्छ्रं सान्तपनं चरेत् ॥ २८ ॥

चरेत्सान्तपनं विप्रः प्राजापत्यमनन्तरः ॥

तदर्धन्तु चरेद्वैश्यः पादं शूद्रस्य दापयेत् ॥ २९ ॥

भाण्डस्थमन्त्यजानां तु जलं दधि पयः पिबेत् ॥

ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चैव प्रमादतः॥ ॥ ३० ॥

ब्रह्मकूर्चोपवासेन द्विजातीनां तु निष्कृतिः ॥

शूद्रस्य चोपवासेन तथा दानेन शक्तितः ॥ ३१ ॥

भुङ्क्तेऽज्ञानाद्द्विजश्रेष्ठश्चण्डालान्नङ्कथञ्चन ॥

गोमूत्रपावकाहारो दशरात्रेण शुद्ध्यति ॥ ३२ ॥

एकैकं ग्रासमश्नीयाद्गोमूत्रे यावकस्य च ॥

दशाहं नियमस्थस्य व्रतं तत्तु विनिर्द्दिशेत् ॥ ३३ ॥

अविज्ञातस्तु चण्डालो यत्र वेश्मनि तिष्ठति ॥

विज्ञाते तूपसन्न्यस्य द्विजाः कुर्युरनुग्रहम् ॥ ३४ ॥

मुनिवक्त्रोद्गतान्धर्मान्गायन्तो वेदपारगाः ॥

पतन्तमुद्धरेयुस्तं धर्मज्ञाः पापसङ्करात् ॥ ३५ ॥

दध्नाच सर्पिषा चैव क्षीरगोमूत्रयावकम् ॥

भुञ्जीत सह भृत्यैश्च त्रिसन्ध्यमवगाहनम् ॥ ३६ ॥

त्र्यहं भुञ्जीत दध्नाचत्र्यहं भुञ्जीत सर्पिषा ॥

त्र्यहं क्षीरेण भुञ्जीत एकैकेन दिनत्रयम् ॥ ३७ ॥

भावदुष्टं न भुञ्जीत नोच्छिष्टं कृमिदूषितम् ॥

दधिक्षीरस्य त्रिपलं पलमेकं घृतस्य तु ॥ ३८ ॥

भस्मना तु भवेच्छुद्धिरुभयोः कांस्यताम्रयोः ॥

जलशौचेन वस्त्राणां परित्यागेन मृण्मयम् ॥ ३९ ॥

कुसुम्भगुडकार्पासलवणं तैलसर्पिषी।

द्वारे कृत्वा तु धान्यानि दद्याद्वेश्मनि पावकम् ॥ ४०॥

एवं शुद्धस्ततः पश्चात्कुर्याद्ब्राह्मणतर्पणम् ॥

त्रिशतं गा वृषं चैकं दद्याद्विप्रेषु दक्षिणाम् ॥ ४१ ॥

पुनर्लेपनखातेन होमजाप्येन शुद्ध्यति ॥

आधारेण च विप्राणां भूमिदोषो न विद्यत ॥ ४२ ॥

चण्डालैःसह सम्पर्कं मासम्मासार्द्धमेव वा ॥

गोमूत्रयावकाहारोमासार्द्धेन विशुद्ध्यति ॥ ४३ ॥

रजकी चर्मकारी च लुब्धकी वेणुजीविनी ॥

चातुर्वर्ण्यस्यतु गृहे त्वविज्ञातानुतिष्ठति ॥ ४४ ॥

ज्ञात्वा तु निष्कृतिं कुर्यात्पूर्वोक्तस्यार्द्धमेव तु ॥

गृहदाहं न कुर्वीत शेषं सर्वं च कारयेत् ॥ ४५ ॥

गृहस्याभ्यन्तरं गच्छेच्चण्डोलो यदि कस्यचित् ॥

तमागाराद्विनिःसार्य मृद्भाण्डं तु विसर्जयेत् ॥ ४६ ॥

रसपूर्णं तु मृद्भाण्डं न त्यजेत्तु कदाचन ॥

गोमयेन तु सम्मिश्रैर्जलेः प्रोक्षेद्गृहं तथा ॥ ४७ ॥

ब्राह्मणस्य व्रणद्वारे पूयशोणितसम्भवे ॥

कृमिरुत्पद्यते यस्य प्रायश्चित्तं कथं भवेत् ॥ ४८ ॥

गवां मूत्रपुरीषेण दधिक्षीरेण सर्पिषा ॥

त्र्यहं स्नात्वाच पीत्वा च कृमिदष्टः शुचिर्भवेत् ॥४९॥

क्षत्रियोऽपि सुवर्णस्य पञ्च माषान्प्रदाय तु ॥

गोदक्षिणां तु वैश्यस्याप्युपवासं विनिर्दिशेत्

शूद्राणां नोपवासः स्याच्छूद्रोदानेन शुद्ध्यति ॥ ५० ॥

अच्छिद्रमिति यद्वाक्यं वदन्ति क्षितिदेवताः ॥

प्रणम्य शिरसा ग्राह्यमग्निष्टोमफलं हि तत् ॥ ५१ ॥

जपच्छिद्रं तपश्छिद्रं यच्छिद्रंयज्ञकर्मणि ॥

सर्वं भवति निश्छिद्रम्ब्राह्मणैरुपपादितम् ॥ ५२ ॥

व्याधिव्यसनिनि श्रान्ते दुर्भिक्षे डामरे तथा ॥

उपवासो व्रतं होमो द्विजसम्पादितानि वा ॥ ५३ ॥

अथवा ब्राह्मणास्तुष्टाः सर्वेकुर्वन्त्यनुग्रहम् ॥

सर्वान्कामानवाप्नोति द्विजसम्पादितैरिह॥ ५४ ॥

दुर्बलेऽनुग्रहः प्रोक्तस्तथा वै बालवृद्धयोः॥

ततोऽन्यथा भवेद्दोषस्तस्मान्नानुग्रहःस्मृतः ॥ ५५ ॥

स्नेहाद्वा यदि वा लोभाद्भयादज्ञानतोऽपि वा ॥

कुर्वत्यनुग्रहं ये तु तत्पापं तेषु गच्छति ॥ ५६ ॥

शरीरस्यात्यये प्राप्ते वदन्ति नियमं तु ये ॥

महत्कार्योपरोधेन नास्वस्थस्य कदाचन ॥ ५७ ॥

स्वस्थस्य मूढाः कुर्वन्ति वदन्ति नियमं तु ये ॥

ते तस्य विघ्नकर्तारः पतन्ति नरकेऽशुचौ ॥ ५८ ॥

स्वयमेव व्रतं कृत्वा ब्राह्मणं योऽवमन्यते ॥

वृथा तस्योपवासः स्यान्न स पुण्येन युज्यते ॥ ५९॥

स एव नियमो ग्राह्योयमेकोऽपि वदेद्द्विजः ॥

कुर्याद्वाक्यं द्विजानां तु ह्यन्यथा भ्रूणहा भवेत् ॥६०॥

ब्राह्मणा जङ्गमं तीर्थं तीर्थभूता हि साधवः ॥

तेषां वाक्योदकेनैव शुद्ध्यन्ति मलिना जनाः ॥ ६१ ॥

ब्राह्मणा यानि भाषन्ते मन्यन्ते तानि देवताः ॥

सर्वदेवमयो विप्रो न तद्वचनमन्यथा ॥ ६२ ॥

उपवासो व्रतं चैव स्नानं तीर्थं जपस्तपः ॥

विप्रैः सम्पादितं यस्य सम्पूर्णं तस्य तत्फलम् ॥ ६३॥

अन्नाद्येकीटसंयुक्ते मक्षिकाकेशदूषिते ॥

तदन्तरा स्पृशेच्चापस्तदन्नं भस्मना स्पृशेत् ॥ ६४ ॥

भुञ्जानश्चैव यो विप्रः पादं हस्तेन संस्पृशेत् ॥

स्वमुच्छिष्टमसौभुङ्क्ते यो भुङ्क्ते भुक्तभाजने ॥ ६५ ॥

पादुकास्थो न भुञ्जति पर्यङ्कस्थःस्थितोऽपि वा ॥

श्वानचण्डालदृक्चैव भोजनं परिवर्जयेत् ॥ ६६ ॥

यदन्नं प्रतिषिद्धं स्यादन्नशुद्धिस्तथैव च ॥

यथा पराशरेणोक्तं तथैवाहं वदामि वः ॥ ६७ ॥

शृतं द्रोणाढकस्यान्नङ्काकश्वानोपघातितम् ॥

केनेदं शुद्ध्यते चेति ब्राह्मणेभ्यो निवेदयेत् ॥ ६८ ॥

काकश्वानावलीढं तु द्रोणान्नं न परित्यजेत् ॥

वेदवेदाङ्गविद्विप्रैर्धर्मशास्त्रानुपालकैः ॥ ६९ ॥

प्रस्था द्वात्रिंशतिर्द्रोणः स्मृतो विप्रस्य आढकः ॥

ततो द्रोणाऽऽढकस्यान्नं श्रुतिस्मृतिविदो विदुः ॥ ७० ॥

काकश्वानावलीढं तु गवाघ्रातं खरेण वा ॥

स्वल्पमन्नं त्यजेद्विप्रःशुद्धिर्द्रोणाढके भवेत् ॥ ७१ ॥

अन्नस्योद्धृत्य तन्मात्रं यच्च लालाहतं भवेत् ॥

सुवर्णोदकमभ्युक्ष्य हुताशेनैव तापयेत् ॥ ७२ ॥

हुताशनेन संस्पृष्टं सुवर्णसलिलेन च ॥

स्नेहो वा गोरसो वापि तत्र शुद्धिः कथं भवेत् ॥७४॥

अल्पं परित्यजेत्तत्र स्नेहस्योत्पवनेन च ॥

अनलज्वालया शुद्धिर्गोरसस्य विधीयते ॥ ७५ ॥

इति पराशरीये धर्मशास्त्रे षष्ठोऽध्यायः ॥ ६ ॥

<MISSING_FIG href="../books_images/1681213291.jpg"/>

** सप्तमोऽध्यायः ७.**

अथातो द्रव्यशुद्धिस्तु पराशरवचो यथा ॥

दारवाणां सुपात्राणां तत्क्षणाच्छुद्धिरिष्यते ॥ १ ॥

मार्जनाद्यज्ञपात्राणां पाणिना यज्ञकर्मणि ॥

चमसानां ग्रहाणां च शुद्धिः प्रक्षालनेन च ॥ २ ॥

चरूणां सुक्स्रुवाणां च शुद्धिरुष्णेन वारिणा ॥

भस्मना शुद्ध्यते कांस्यं ताम्रमम्लेन शुद्ध्यति ॥ ३॥

रजसा शुद्ध्यते नारी विकलं या न गच्छति ॥

नदी वेगेन शुद्ध्येत लेपो यदि न दृश्यते ॥ ४ ॥

वापीकूपतडागेषु दूषितेषु कथञ्चन ॥

उद्धृत्य वै कुम्भशतं पञ्चगव्येन शुद्ध्यति ॥ ५ ॥

अष्टवर्षा भवेद्गौरी नववर्षा तु रोहिणी ॥

दशवर्षा भवेत्कन्या अत ऊर्ध्वं रजस्वला ॥ ६ ॥

प्राप्ते तु द्वादशे वर्षे यः कन्यां न प्रयच्छति ॥

मासि मासि रजस्तस्याः पिबन्ति पितरोऽनिशम् ॥ ७ ॥

माता चैव पिता चैव ज्येष्ठो भ्राता तथैव च ॥

त्रयस्ते नरकं यान्ति दृष्ट्वा कन्यां रजस्वलाम् ॥ ८ ॥

यस्तां समुद्वहेत्कन्याम्ब्राह्मणो मदमोहितः ॥

असम्भाष्योह्यपाङ्क्तेयः स विप्रो वृषलीपतिः ॥ ९ ॥

यः करोत्येकरात्रेण वृषलीसेवनं द्विजः ॥

स भैक्ष्यभुग्जपन्नित्यं त्रिभिर्वर्षैर्विशुद्ध्यति ॥ १० ॥

अस्तङ्गते यदा सूर्ये चाण्डालं पतितं स्त्रियः ॥

सूतिकां स्पृशते चैव कथं शुद्धिर्विधीयते ॥ ११ ॥

जातवेदं सुवर्णं च सोममार्गं विलोक्य च ॥

ब्राह्मणानुमतश्चैव स्नानं कृत्वा विशुद्ध्यति ॥ १२ ॥

स्पृष्ट्वा रजस्वलाऽन्योन्यं ब्राह्मणी ब्राह्मणीं तथा ॥

तावत्तिष्ठेन्निराहारा त्रिरात्रेणैव शुद्ध्यति ॥ १३ ॥

स्पृष्ट्वा रजस्वलाऽन्योन्यं ब्राह्मणी क्षत्रियां तथा ॥

अर्द्धकृच्छ्रं चरेत्पूर्वा पादमेकं त्वनन्तरा ॥ १४ ॥

स्पृष्ट्वा रजस्वलाऽन्योन्यं ब्राह्मणी वैश्यजां तथा ॥

पादहीनं चरेत्पूर्वा पादमेकमनन्तरा ॥ १५ ॥

स्पृष्ट्वा रजस्वलाऽन्योन्यं ब्राह्मणी शूद्रजां तथा ॥

कृच्छ्रेण शुद्ध्यते पूर्वा शूद्रा दानेन शुद्ध्यति ॥ १६ ॥

स्नाता रजस्वलाया तु चतुर्थेऽहनि शुद्ध्यति ॥

कुर्याद्रजोनिवृत्तौ तु दैवपित्र्यादिकर्मं च ॥ १७ ॥

रोगेण यद्रजः स्त्रीणामन्वहं तु प्रवर्त्तते ॥

नाशुचिः सा ततस्तेन तत्स्याद्वैकारिकं मलम् ॥ १८ ॥

साध्वाचारा न तावत्स्याद्रजो यावत्प्रवर्त्तते ॥

रजोनिवृत्तौगम्या स्त्री गृहकर्मणि चैव हि ॥ १९ ॥

प्रथमेऽहनि चण्डाली द्वितीये ब्रह्मघातिनी।

तृतीये रजकी प्रोक्ता चतुर्थेऽहनि शुद्ध्यति ॥ २० ॥

आतुरे स्नान उत्पन्ने दशकृत्वो ह्यनातुरः ॥

स्नात्वा स्नात्वा स्पृशेदेनं ततः शुद्ध्येत्स आतुरः ॥ २१ ॥

उच्छिष्टोच्छिष्टसंस्पृष्टः शुना शूद्रेण वा पुनः ॥

उपोष्य रजनीमेकां पञ्चगव्येन शुद्ध्यति ॥ २२ ॥

अनुच्छिष्टेन शूद्रेण स्पर्शे स्नानं विधीयते ॥

तेनोच्छिष्टेन संस्पृष्टः प्राजापत्यं समाचरेत् ॥ २३ ॥

भस्मना शुद्ध्यते कांस्यं सुरया यन्न लिप्यते ॥

सुरामात्रेण संस्पृष्टं शुद्ध्यतेऽग्न्युपलेपनैः ॥ २४ ॥

गवाघ्रातानि कांस्यानि श्वकाकोपहतानि च ॥

शुद्ध्यन्ति दशभिः क्षारैः शूद्रोच्छिष्टानि यानि च ॥ २५ ॥

गण्डूषं पादशौचं च कृत्वा वे कांस्यभाजने ॥

षण्मासान्भुवि निक्षिप्य उद्धृत्यपुनराहरेत् ॥ २६ ॥

आयसेष्वायसानां च सीसस्याग्नौविशोधनम् ॥

दन्तमस्थि तथा शृङ्गं रौप्यं सौवर्णभाजनम् ॥ २७ ॥

मणिपात्राणि शङ्खश्चेत्येतान्प्रक्षालयेज्जलैः ॥

पाषाणे तु पुनर्घर्ष एषा शुद्धिरुदाहृता ॥ २८ ॥

मृन्मये दहनाच्छुद्धिर्धान्यानां मार्जनादपि ॥

वेणुवल्कलचीराणां क्षौमकार्पासवाससाम् ॥२९॥

और्णनेत्रपटानां च प्रोक्षणाच्छुद्धिरिष्यते ॥ ३० ॥

मुञ्जोपस्करशूर्पाणां शणस्य फलचर्मणाम् ॥

तृणकाष्ठस्य रज्जूनामुदकाभ्युक्षणं मतम् ॥ ३१ ॥

तूलिकाद्युपधानानि रक्तवस्त्रादिकानि च ॥

शोषयित्वार्कतापेन प्रोक्षणाच्छुद्धतामियुः ॥ ३२ ॥

मार्जारमक्षिकाकीटपतङ्गकृमिदर्दुराः ॥

मेध्यामेध्यं स्पृशन्तोनोच्छिष्टं मनुरब्रवीत् ॥ ३३ ॥

महीं स्पृष्ट्वा गतं तोयं याश्चाप्यन्योन्यविप्रुषः ॥

भुक्तोच्छिष्टं तथा स्नेंहनेच्छिष्टं मनुरब्रवीत् ॥ ३४ ॥

ताम्बूलेक्षुफलान्येव भुक्ते स्नेहानुलेपने ॥

मधुपर्के च सोमे च नोच्छिष्टं धर्मतो विदुः ॥ ३५ ॥

रथ्याकर्द्दमतोयानि नावः पन्थास्तृणानि च ॥

मारुतार्केण शुद्ध्यन्ति पक्वेष्टकचितानि च ॥ ३६ ॥

अदुष्टा सन्तता धारा वातोद्धूताश्च रेणवः ॥

स्त्रियो वृद्धाश्च बालाश्च न दुष्यन्ति कदाचन ॥ ३७ ॥

क्षुते निष्ठीवने चैव दन्तोच्छिष्टे तथानृते ॥

पतितानां च सम्भाषे दक्षिणं श्रवणं स्पृशेत् ॥ ३८ ॥

अग्निरापश्च वेदाश्च सोमसूर्यानिलास्तथा ॥

एते सर्वेऽपि विप्राणां श्रोत्रे तिष्ठन्ति दक्षिणे ॥ ३९॥

प्रभासादीनि तीर्थानि गङ्गाद्याः सरितस्तथा ॥

विप्रस्य दक्षिणे कर्णे सान्निध्यं मनुरब्रवीत् ॥ ४० ॥

देशभङ्गे प्रवासे वा व्याधिषु व्यसनेष्वपि ॥

रक्षेदेव स्वदेहादि पश्चाद्धर्मं समाचरेत् ॥ ४१ ॥

येन केन च धर्मेण मृदुना दारुणेन वा ॥

उद्धरेद्दीनमात्मानं समर्थो धर्ममाचरेत् ॥ ४२ ॥

आपत्काले तु निस्तीर्णे शौचाचारं न चिन्तयेत् ॥

शुद्धिं समुद्धरेत्पश्चात्स्वस्थो धर्मं समाचरेत् ॥ ४३ ॥

इति पराशरीये धर्मशास्त्रे सप्तमोऽध्यायः ॥ ७ ॥

<MISSING_FIG href="../books_images/1681213622.jpg"/>

** अष्टमोऽध्यायः८.**

गवाम्बन्धनयोक्त्रेषु भवेन्मृत्युरकामतः ॥

अकामकृतपापस्य प्रायश्चित्तं कथं भवेत् ॥ १ ॥

वेदवेदाङ्गविदुषां धर्मशास्त्रं विजानताम् ॥

स्वकर्मरतविप्राणां स्वकम्पापं निवेदयेत् ॥ २ ॥

अत ऊर्ध्वं प्रवक्ष्यामि उपस्थानस्य लक्षणम् ॥

उपस्थितो हि न्यायेन व्रतादेशं समर्हति ॥ ३ ॥

सद्यो निःसंशये पापे न भुञ्जीतानुपस्थितः ॥

भुञ्जानो वर्द्धयेत्पापं पर्षद्यत्र न विद्यते ॥ ४ ॥

संशये तु न भोक्तव्यं यावत्कार्यविनिश्चयः ॥

प्रमादस्तु न कर्त्तव्यो यथैवासंशयस्तथा ॥ ५ ॥

कृत्वा पापं न गूहेत गृह्यमानं विवर्द्धते ॥

स्वल्पं वा प्रभूतं वा धर्मविद्भ्योनिवेदयेत् ॥ ६ ॥

तेऽपि पापकृतां वैद्या हन्तारश्चैव पाप्मनाम् ॥

व्याधितस्य यथा वैद्या बुद्धिमन्तो रुजापहाः ॥ ७ ॥

प्रायश्चित्ते समुत्पन्ने ह्रिमान्सत्यपरायणः ॥

मुहुरार्जवसम्पन्नः शुद्धिं गच्छेत मानवः ॥ ८ ॥

सचैलं वाग्यतः स्नात्वा क्लिन्नवासाः समाहितः।

क्षत्रियो वाथ वैश्यो वा ततः पर्षदमाव्रजेत् ॥ ९ ॥

उपस्थाय ततः शीघ्रमार्तिमान्धरणिं व्रजेत् ॥

गात्रैश्च शिरसा चैव न च किञ्चिदुदाहरेत् ॥ १० ॥

सावित्र्याश्चापि गायत्र्याः सन्ध्योपास्त्यग्निकार्ययोः ॥

अज्ञानात्कृषिकर्तारो ब्राह्मणा नामधारकाः ॥ ११ ॥

अव्रतानाममन्त्राणां जातिमात्रोपजीविनाम् ॥

सहस्रशः समेतानां परिषत्त्वं न विद्यते ॥ १२ ॥

यद्वदन्ति तमोमूढा मूर्खा धर्ममतद्विदः॥

तत्पापं शतधा भूत्वा तद्वक्तृृनधिगच्छति ॥ १३ ॥

अज्ञात्वा धर्मशास्त्राणि प्रायश्चित्तं ददाति यः ॥

प्रायश्चित्ती भवेत्पूतः किल्बिषं पर्षदि व्रजेत् ॥ १४ ॥

चत्वारो वा त्रयो वापि यं ब्रूयुर्वेदपारगाः ॥

स धर्म इति विज्ञेयो नेतरैस्तु सहस्रशः ॥ १५ ॥

प्रमाणमार्गं मार्गन्तोयेऽधर्मं प्रवदन्ति वै ॥

तेषामुद्विजते पापं सद्भूतगुणवादिनाम् ॥ १६ ॥

यथाश्मनिस्थितं तोयं मारुतार्केण शुद्ध्यति ॥

एवं परिषदादेशान्नाशयेत्तत्र दुष्कृतम् ॥ १७ ॥

नैव गच्छति कर्तारं नैव गच्छति पर्षदम् ॥

मारुतार्कादिसंयोगात्पापं नश्यति तोयवत् ॥ १८ ॥

चत्वारो वा त्रयो वापि वेदवन्तोऽग्निहोत्रिणः ॥

ब्राह्मणानां समर्था ये परिषत्साविधीयते ॥ १९ ॥

अनाहिताग्नयो येऽन्ये वेदवेदाङ्गपारगाः ॥

पञ्च त्रयो वा धर्मज्ञाः परिषत्सा प्रकीर्तिता ॥ २० ॥

मुनीनामात्मविद्यानां द्विजानां यज्ञयाजिनाम् ॥

वेदव्रतेषुस्नातानामेकोऽपि परिषद्भवेत् ॥ २१ ॥

पञ्च पूर्वं मया प्रोक्तास्तेषां चासम्भवे त्रयः ॥

स्ववृत्तिपरितुष्टा ये परिषत्सा प्रकीर्तिता ॥ २२ ॥

अत ऊर्ध्वं तु ये विप्राः केवलं नामधारकाः ॥

परिषत्त्वं न तेष्वस्ति सहस्रगुणितेष्वपि ॥ २३ ॥

यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः ॥

ब्राह्मणस्त्वनधीयानस्त्रयस्ते नामधारकाः ॥ २४ ॥

ग्रामस्थानं यथा शून्यं यथा कूपस्तु निर्जलः ॥

यथा हुतमनग्नौच अमन्त्रो ब्राह्मणस्तथा ॥ २५ ॥

यथा षण्ढोऽफलः स्त्रीषु यथा गौरुषराऽफला ॥

यथा चाज्ञेऽफलं दानं तथा विप्रोऽनृचोऽफलः ॥ २६ ॥

चित्रकर्म यथानेकैरङ्गैरुन्मील्यते शनैः ॥

ब्राह्मण्यमपि तद्विद्धि संस्कारैर्मन्त्रपूर्वकैः ॥ २७ ॥

प्रायश्चित्तं प्रयच्छन्ति ये द्विजा नामधारकाः ॥

ते द्विजाः पापकर्माणः समेता नरकं ययुः ॥ २८ ॥

ये पठन्ति द्विजा वेदं पञ्चयज्ञरताश्च ये ॥

त्रैलोक्यं तारयन्त्येव पञ्चेन्द्रियरता अपि ॥ २९ ॥

सम्प्रणीतः श्मशानेषु दीप्तोऽभिः सर्वभक्षकः ॥

तथा च वेदविद्विप्रः सर्वभक्षोऽपि दैवतम् ॥ ३० ॥

अमेध्यानि तु सर्वाणि प्रक्षिप्यन्ते यथोदके ॥

तथैव किल्विषं सर्वं प्रक्षिपेच्च द्विजानले ॥ ३१ ॥

गायत्रीरहितो विप्रः शूद्रादप्यशुचिर्भवेत् ॥

गायत्रीब्रह्मतत्त्वज्ञाः सम्पूज्यन्ते जनैर्द्विजाः ॥ ३२ ॥

दुःशीलोऽपि द्विजः पूज्यो न तु शूद्रो जितेन्द्रियः ॥

कः परित्यज्य गां दुष्टां दुहेच्छीलवतीं खरीम् ॥ ३३ ॥

धर्मशास्त्ररथारूढा वेदखङ्गधरा द्विजाः ॥

क्रीडार्थमपि यदूब्रूयुः स धर्मः परमः स्मृतः ॥ ३४॥

चातुर्वेद्योऽविकल्पी व अङ्गविद्धर्मपाठकः ॥

त्रयश्चाश्रमिणो मुख्याः पर्षदेषा दशावरा ॥ ३५॥

राज्ञश्चानुमते स्थित्वा प्रायश्चित्तं विनिर्दिशेत् ॥

स्वयमेव न कर्त्तव्यं कर्तव्या स्वल्पनिष्कृतिः ॥ ३६ ॥

ब्राह्मणांस्तानतिक्रम्य राजा कर्तुं यदीच्छति ॥

तत्पापं शतधा भूत्वा राजानमनुगच्छति ॥ ३७ ॥

प्रायश्चित्तं सदा दद्याद्देवतायतनाग्रतः ॥

आत्मकृच्छ्रं ततः कृत्वा जपेद्वै वेदमातरम् ॥३८॥

सशिखं वपनं कृत्वा त्रिसन्ध्यमवगाहनम् ॥

गवां मध्ये वसेद्रात्रौदिवा गाश्चाप्यनुव्रजेत् ॥ ३९ ॥

उष्णे वर्षति शीते वा मारुते वाति वा भृशम् ॥

न कुर्वीतात्यनस्त्राणं गोरकृत्वा तु शक्तितः ॥ ४० ॥

आत्मनो यदि वाऽन्येषां गृहे क्षेत्रेऽथवा खले ॥

भक्षयन्तीं न कथयेत्पिबन्तं चैव वत्सकम् ॥ ४१ ॥

पिबन्तीषु पिबेत्तोयं संविशन्तीषु संविशेत् ॥

पतितां पङ्कलग्नांवा सर्वप्राणैः समुद्धरेत् ॥ ४२ ॥

ब्राह्मणार्थे गवार्थे वा यस्तु प्राणान्परित्यजेत् ॥

मुच्यते ब्रह्महत्याया गोप्ता गोब्राह्मणस्य च ॥ ४३ ॥

गोवधस्यानुरूपेण प्राजापत्यं विनिर्दिशेत् ॥

प्राजापत्यं ततः कृच्छ्रं विभजेत चतुर्विधम् ॥४४॥

एकाहमेकभक्ताशी एकाहं नक्तभोजनः ॥

अयाचिताश्येकमहरेकाहं मारुताशनः ॥ ४५ ॥

दिनद्वयं चैकभक्तो द्विदिनं नक्तभोजनः ॥

दिनद्वयमयाची स्याद्द्विदिनं मारुताऽशनः ॥ ४६ ॥

त्रिदिनं चैकभक्ताशी त्रिदिनं नक्तभोजनः ॥

दिनत्रयमयाची स्यात्त्रिदिनं मारुताशनः ॥ ४७ ॥

चतुरहं त्वेकभक्ताशी चतुरहं नक्तभोजनः ॥

चतुर्दिनमयाची स्याच्चतुरहं मारुताशनः ॥ ४८ ॥

प्रायश्चित्ते ततस्तीर्णे कुर्याद्ब्राह्मणभोजनम् ॥

विप्राणां दक्षिणां दद्यात्पवित्राणि जपेद्द्विजः ॥ ४९ ॥

ब्राह्मणान्भोजयित्वा तु गोघ्नःशुद्ध्येन्न संशयः ॥ ५०॥

इति पराशरीये धर्मशास्त्रेऽष्टमोऽध्यायः ॥ ८ ॥

<MISSING_FIG href="../books_images/1681214039.jpg"/>

** नवमोऽध्यायः ९.**

गवां संरक्षणार्थाय न दुव्येद्रोधबन्धयोः ॥

तद्वधं तु न तं विन्द्यात्कापाकामकृतं तथा ॥ १ ॥

दण्डादूर्ध्वं यदान्येन प्रहाराद्यदि पातयेत् ॥

प्रायश्चित्तं तदा प्रोक्तं द्विगुणं गोवधे चरेत् ॥ २ ॥

रोधबन्धनयोक्त्राणि घातश्चेति चतुर्विधम् ॥

एकपादं चरेद्रोधे द्वौ पादौबन्धने चरेत् ॥ ३ ॥

योक्त्रेषु तु त्रिपादं स्याच्चरेत्सर्वं निपातने।

गोघाटे वा गृहे वापि दुर्गेष्वप्यसमस्थले ॥ ४ ॥

नदष्विथ समुद्रेषु त्वन्येषु च नदीमुखे ॥

दग्धदेशे मृता गावः स्तम्भनाद्रोध उच्यते ॥ ५ ॥

योक्त्रदामकरारैश्च कण्ठाभरणभूषणैः ॥

गृहे चापि वने वापि बद्धा स्याद्गौर्मृता यदि ॥ ६ ॥

तदेव बन्धनं विद्यात्कामाकामकृतं च यत् ॥

हले वा शकटे पङ्क्तौ पृष्ठे वा पीडितो नरैः ॥ ७ ॥

गोपतिर्मृत्युमाप्नोति योक्त्रोभवति तद्वधः ॥

मत्तः प्रमत्त उन्मत्तश्चेतनोवाऽप्यचेतनः ॥ ८ ॥

कामाकामकृतक्रोधो दण्डैर्हन्यादथोपलैः ॥

प्रहृता वा मृता वापि तद्धि हेतुर्निपातने ॥ ९ ॥

अङ्गुष्ठमात्रस्थूलस्तु बाहुमात्रः प्रमाणतः ॥

आर्द्रस्तु सपलाशश्चदण्ड इत्यभिधीयते ॥ १० ॥

मूर्च्छितः पतितो वापि दण्डेनाभिहतः स तु ॥

उत्थितस्तु यदा गच्छेत्पञ्च सप्त दशाथवा ॥ ११ ॥

ग्रासं वा यदि गृह्णीयात्तोयं वापि पिबद्येदि ॥

पूर्वव्याध्युपसृष्टश्चेत्प्रायश्चित्तं न विद्यते ॥

पिण्डस्थे पादमेकं तु द्वौ पादौ गर्भसम्मिते ॥

पादोनं व्रतमुद्दिष्टं हत्वा गर्भमचेतनम् ॥ १३ ॥

पादेऽङ्गरोमवपनं द्विपादे श्मश्रुणोऽपि च ॥

त्रिपादे तु शिखावर्जंसशिखं तु निपातने ॥ १४ ॥

पादे वस्त्रयुगं चैव द्विपादे कांस्यभाजनम् ॥

त्रिपादे गोवृषं दद्याच्चतुर्थे गोद्वयं स्मृतम् ॥ १५ ॥

निष्पन्नसर्वगात्रेषु दृश्यते वा सचेतनः ॥

अङ्गप्रत्यङ्गसम्पूर्णो द्विगुणं गोव्रतं चरेत् ॥ १६ ॥

पाषाणेनैव दण्डेन गावो येनाभिघातिताः ॥

शृङ्गभङ्गे चरेत्पादं द्वौ पादौ नेत्रवातने ॥ १७ ॥

लाङ्गूले पादकृच्छ्रं तु द्वौ पादावस्थिभञ्जने ॥

त्रिपादं चैव कर्णे तु चरेत्सर्वं निपातने ॥ १८ ॥

शृङ्गभङ्गेऽस्थिभङ्गे च कटिभङ्गे तथैव च ॥

यदि जीवति षण्मासान्प्रायश्चित्तं न विद्यते ॥ १९ ॥

व्रणभङ्गेच कर्तव्यः स्नेहाभ्यङ्गस्तु पाणिना ॥

यवसश्चोपहर्तव्यो यावद्दृढवलो भवेत् ॥ २० ॥

यावत्सम्पूर्णंसर्वाङ्गस्तावत्तं पोषयेन्नरः ॥

गोरूपं ब्राह्मणस्याग्रेनमस्कृत्वा विसर्जयेत् ॥ २१ ॥

यद्य सम्पूर्णसर्वाङ्गोहीनदेहो भवेत्तदा ॥

गोघातकस्य तस्यार्द्धं प्रायश्चित्तं विनिर्दिशेत् ॥ २२ ॥

काष्ठलोष्टकपाषाणैः शस्त्रेणैबोद्धतो बलात् ॥

व्यापादयति यो गां तु तस्य शुद्धिं विनिर्दिशेत् ॥ २३ ॥

चरेत्सान्तपनं काष्ठे प्राजापत्यं तु लोष्टके ॥

तप्तकृच्छ्रं तु पाषाणे शस्त्रेणैवातिकृच्छ्रकम् ॥ २४ ॥

पञ्च सान्तपने गावः प्राजापत्ये तथा त्रयः ॥

तप्तकृच्छ्रे भवन्त्यष्टावतिकृच्छ्रे त्रयोदश ॥ २५ ॥

प्रमापणे प्राणभृतां दद्यात्तत्प्रतिरूपकम् ॥

तस्यानुरूपं मूल्यं वा दद्यादित्यब्रवीन्मनुः ॥ २६ ॥

अन्यत्राङ्कनलक्ष्मभ्यां वाहने मोचने तथा ॥

सायं सङ्गोपनार्थं च न दुष्येद्रोधबन्धयोः ॥ २७ ॥

अतिदाहेऽतिवाहे च नासिकाभेदने तथा ॥

नदीसर्वतसञ्चारे प्रायश्चित्तं विनिर्दिशेत् ॥ २८ ॥

अतिदाहे चरेत्पादन्द्वौ पादौ वाहने चरेत् ॥

नासिक्ये पादहीनं तु चरेत्सर्वं निपातने ॥ २९ ॥

दहनात्तु विपद्येत अनाड्वान्योक्त्रयन्त्रितः ॥

उक्तं पराशरेणैव ह्येकपादं यथाविधि ॥ ३० ॥

रोधनं बन्धनं चैव भारप्रहरणं तथा ॥

दुर्गप्रेरणयोक्त्रञ्च निमित्तानि वधस्य षट् ॥ ३१ ॥

बन्धपाशसुगुप्ताङ्गो म्रियते यदि गोपशुः ॥

भुवने तस्य पापी स्यात्प्रायश्चित्तार्द्धमर्हति ॥ ३२ ॥

न नारिकैलैर्न च शाणवालैर्न चापि मौञ्जैर्न च वल्कशृङ्खलैः ॥

एतैस्तु गावो न निबन्धनीया बद्धा तु तिष्ठेत्तरशुं गृहीत्वा॥ ३३॥

कुशैः काशैश्च बध्नीयाद्गोपशुं दक्षिणामुखम् ॥

पाशलग्नाग्निदग्धेषु प्रायश्चित्तं न विद्यते ॥ ३४ ॥

यदि तत्र भवेत्काष्ठं प्रायश्चित्तं कथं भवेत् ॥

जपित्वा पावनीं देवीं मुच्यते तत्र किल्बिषात् ॥ ३५ ॥

प्रेरयन्कूपवापीषु वृक्षच्छेदेषु पातयन् ॥

गवाशनेषु विक्रीणंस्ततः प्राप्नोति गोवधम्॥ ३६ ॥

आराधितस्तु यः कश्चिद्भिन्नकक्षो यदा भवेत् ॥

श्रवणं हृदयं भिन्नं भग्नोवा कूपसङ्कटे ॥ ३७ ॥

कूपादुत्क्रमणेचैव भग्नोवा ग्रीवपादयोः ॥

स एव म्रियते तत्र त्रोन्यादांस्तु समाचरेत् ॥ ३८ ॥

कूपखाते तटाबन्धेनदीबन्धेप्रपासु च ॥

पानीयेषु विपन्नानां प्रायश्चित्तं न विद्यते ॥ ३९॥

कूपखातेतटाखाते दीर्घखाते तथैव च ॥

स्वल्पेषु धर्मखातेषु प्रायश्चितं न विद्यते ॥ ४० ॥

वेश्मद्वारे निवासेषु यो नरः खातमिच्छति ॥

स्वकार्ये गृहखातेषु प्रायश्चित्तं विनिर्दिशेत् ॥ ४१ ॥

निशि बन्धनिरुद्धेषुसर्वव्याघ्रहतेषु च ॥

अग्निविद्युद्विपन्नानां प्रायश्चितं न विद्यते ॥ ४२ ॥

ग्रामघाते शरौघेण वेश्मभङ्गनिपातने ॥

अतिवृष्टिहतानां च प्रायश्चित्तं न विद्यते ॥ ४२ ॥

सङ्ग्रामेऽपहृतानां च ये दग्धा वेश्मकेषु च ॥

दावाग्निग्रामघातेषु प्रायश्चित्तं न विद्यते ॥ ४४ ॥

यन्त्रित गौश्चिकित्सार्थं मूढगर्भविमोचने ॥

यत्नेकृते विपद्येत प्रायश्चित्तं न विद्यते ॥ ४५॥

व्यापन्नानां बहूनां च रोधने बन्धनेऽपि वा ॥

भिषङ्मिथ्यापचारेण प्रायश्चित्तं विनिर्दिशेत् ॥ ४६ ॥

गोवृषाणां विपत्तौ च यावन्तः प्रेक्षका जनाः ॥

अनिवारयतां तेषां सर्वेषां पातकं भवेत् ॥ ४७ ॥

एको हतो यैर्बहुभिः समेतैर्न ज्ञायते यस्य हतोऽभिघातात् ॥

दिव्येन तेषामुपलभ्य हन्ता निवर्तनीयो नृपसन्नियुक्तैः ॥ ४८ ॥

एका चेद्बहुभिः काचिद्देवाद्व्यापादिता क्वचित् ॥

पादं पादं तु हत्यायाश्चरेयुस्ते पृथक्पृथक् ॥ ४९ ॥

हते तु रुधिरं दृश्यं व्याधिग्रस्तः कृशो भवेत् ॥

लाला भवति दंष्ट्रेषु एवमन्वेषणं भवेत् ॥ ५० ॥

ग्रासार्थं चोदितो वापि ह्यध्वानं नैव गच्छति ॥

मनुना चैवमेकेन सर्वशास्त्राणि जानता ॥

प्रायश्चित्तं तु तेनोक्तं गोघ्नश्चान्द्रायणं चरेत् ॥ ५१ ॥

केशानां रक्षणार्थाय द्विगुणं व्रतमाचरेत् ॥

द्विगुणे व्रत आदिष्टे दक्षिणा द्विगुणा भवेत् ॥ ५२ ॥

राजा वा राजपुत्रो वा ब्राह्मणो वा बहुश्रुतः ॥

अकृत्वा वपनं तेषां प्रायश्चित्तं विनिर्दिशेत् ॥ ५३ ॥

यस्य न द्विगुणं दानं केशश्च परिरक्षितः ॥

तत्पापं तस्य तिष्ठेत त्यक्त्वा च नरकं व्रजेत् ॥ ५४ ॥

यत्किञ्चित्क्रियतेपापं सर्वं केशेषु तिष्ठति ॥

सर्वान्केशान्समुद्धृत्य च्छेदयेदङ्गुलिद्वयम् ॥ ५५ ॥

एवं नारीकुमारीणां शिरसो मुण्डनं स्मृतम् ॥

न स्त्रियां केशवपनं न दूरे शयनासनम् ॥ ५६ ॥

न च गोष्ठे वसेद्रात्रौ न दिवा गा अनुब्रजेत् ॥

नदीषु सङ्गमे चैव अरण्येषु विशेषतः ॥ ५७ ॥

न स्त्रीणामजिनं वासो व्रतमेवं समाचरेत् ॥

त्रिसन्ध्यं स्नानमित्युक्तं सुराणामर्चनं तथा ॥ ५८ ॥

बन्धुमध्ये व्रतं तासां कृच्छचान्द्रायणादिकम् ॥

गृहेषु सततं तिष्ठेच्छुचिर्नियममाचरेत् ॥ ५९ ॥

इह यो गोवधं कृत्वा प्रच्छादयितुमिच्छति ॥

स याति नरकं घोरं कालसूत्रमसंशयम् ॥ ६० ॥

विमुक्तो नरकात्तरमान्मर्त्यलोके प्रजायते ॥

क्लीबोदुःखी च कुष्ठी च सप्तजन्मानि वै नरः ॥ ६१ ॥

तस्मात्प्रकाशयेत्पापं स्वधर्मं सततं चरेत् ॥

स्त्रीबालभृत्यरोगार्तेष्वतिकोपं विवर्जयेत् ॥ ६२ ॥

इति पराशरीये धर्मशास्त्रे नवमोऽध्यायः ॥ ८ ॥

<MISSING_FIG href="../books_images/1681214221.jpg"/>

** दशमोऽध्यायः १०.**

चातुर्वर्ण्येषु सर्वेषु हितां वक्ष्यामि निष्कृतिम् ॥

अगम्यागमने चैव शुद्धौचान्द्रायणं चरेत् ॥१॥

एकैकं ह्रासयेद्ग्रासं कृष्णे शुक्ले च वर्द्धयेत् ॥

अमावस्यां न भुञ्जीत ह्येष चान्द्रायणो विधिः ॥२ ॥

कुक्कुटाण्डप्रमाणं तु ग्रासं वै परिकल्पयेत् ॥

अन्यथा जातदोषेण न धर्मो न च शुद्ध्यते ॥ ३ ॥

प्रायश्चित्ते ततश्चीर्णे कुर्याद्ब्राह्मणभोजनम् ॥

गोद्वयं वस्त्रयुग्मं च दद्याद्विप्रेषु दक्षिणाम् ॥ ४ ॥

चण्डालीं वा श्वपाकीं वा ह्यनुगच्छति यो द्विजः ॥

त्रिरात्रमुपवासी च विप्राणामनुशासनात् ॥ ५ ॥

सशिखं वपनं कृत्वा प्राजापत्यद्वयं चरेत् ॥

ब्रह्मकूर्चं ततः कृत्वा कुर्याद्ब्राह्मणतर्पणम् ॥ ६ ॥

गायत्रीं च जपेन्नित्यं दद्याद्गोमिथुनद्वयम् ॥

विप्राय दक्षिणां दद्याच्छुद्धिमाप्नोत्यसंशयम् ॥ ७ ॥

गोद्वयं दक्षिणां दद्याच्छुद्धिं पाराशरोऽब्रवीत् ॥

क्षत्रियो वाथ वैश्यो वा चण्डालीं गच्छतो यदि ॥ ८ ॥

प्राजापत्यद्वयं कुर्याद्दद्याद्गोमिथुनद्वयम् ॥ ९ ॥

श्वपाकीं वाथ चाण्डालीं शूद्रो वा यदि गच्छति ॥

प्राजापत्यं चरेत्कृच्छ्रं चतुर्गोमिथुनं ददेत् ॥ १० ॥

मातरं यदि गच्छेत्तु भगिनीं स्वसुतां तथा ॥

एतास्तु मोहितो गत्वा त्रीणि कृच्छ्राणि सञ्चरेत् ॥ ११ ॥

चान्द्रायणत्रयं कुर्याच्छिरश्छेदेन शुद्ध्यति ॥

मातृष्वसृगमे चैव आत्ममेढ्रनिकृन्तनम् ॥ १२ ॥

अज्ञानेन तु यो गच्छेत्कुर्याच्चान्द्रायणद्वयम् ॥

दश गोमिथुनं दद्याच्छुद्धिं पाराशरोऽब्रवीत् ॥ १३ ॥

पितृदारान्समारुह्य मातुराप्तं च भ्रातृजाम् ॥

गुरुपत्नीं स्नुषां चैव भ्रातृभार्यां तथैव च ॥ १४ ॥

मातुलानीं सगोत्रां च प्राजापत्यत्रयं चरेत् ॥

गोद्वयं दक्षिणां दत्त्वामुच्यते नात्र संशयः ॥१५॥

पशुवेश्यादिगमने महिष्युष्ट्रयौकपीं तथा ॥

खरीं च शूकरीं गत्वा प्राजापत्यं समाचरेत् ॥ १६ ॥

गोगामी च त्रिरात्रेण गामेकां ब्राह्मणे ददेत् ॥

महिष्युष्ट्रीखरीगामी त्वहोरात्रेण शुद्ध्यति ॥१७॥

डामरे समरे वापि दुर्भिक्षे वा जनक्षये ॥

बन्दिग्राहे भयार्तोवा सदा स्वस्त्रीं निरीक्षयेत् ॥ १८ ॥

चण्डालैःसह सम्पर्कं या नारी कुरुते ततः ॥

विप्रान्दशवरान्कृत्वा स्वयं दोषं प्रकाशयेत् ॥ १९ ॥

आकण्ठसम्मिते कूपे गोमयोदककर्द्दमे ॥

तत्र स्थित्वा निराहारा त्वहोरात्रेण निष्क्रमेत् ॥ २० ॥

सशिखं वपनं कृत्वा भुञ्जीयाद्यावकौदनम् ॥

त्रिरात्रमुपवासित्वा त्वेकरात्रं जले वसेत् ॥ २१ ॥

शङ्खपुष्पीलतामूलं पत्रं वा कुसुमं फलम् ॥

सुवर्णं पञ्चगव्यं च क्वाथयित्वा पिबेज्जलम् ॥ २२ ॥

एकभक्तं चरेत्पश्चाद्यावत्पुष्पवती भवेत् ॥

व्रतं चरति तद्यावत्तावत्संवसते बहिः ॥ २३ ॥

प्रायश्चित्ते ततश्चीर्णे कुर्याद्ब्राह्मणभोजनम् ॥

गोद्वयन्दक्षिणां दद्याच्छुद्धिं पाराशरोऽब्रवीत् ॥ २४ ॥

चातुर्वर्ण्यस्य नारीणां कृच्छ्रं चान्द्रायणं व्रतम् ॥

यथा भूमिस्तथा नारी तस्मात्तां न तु दूषयेत् ॥ २५ ॥

बन्दिग्राहेण या भुक्ता हत्वा बद्धा बलाद्भयात् ॥

कृत्वा सान्तपनं कृच्छ्रं शुद्ध्येत्पाराशरोऽब्रवीत् ॥ २६ ॥

सकृद्भुक्तातु या नारी नेच्छन्ती पापकर्मभिः ॥

प्राजापत्येन शुद्ध्येत ऋतुप्रस्रवणेन च ॥ २७ ॥

पतत्यर्द्धं शरीरस्य यस्य भार्या सुरां पिबेत् ॥

पतितार्द्धशरीरस्य निष्कृतिर्न विधीयते ॥ २८ ॥

गायत्रीं जपमानस्तु कृच्छ्रंसान्तपनं चरेत् ॥ २९ ॥

गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ॥

एकरात्रोपवासश्च कृच्छ्रं सान्तपनं स्मृतम् ॥ ३० ॥

जारेण जनयेद्गर्भं मृते त्यक्ते गते पतौ॥

तां त्यजेदपरे राष्ट्रे पतितां पापकारिणीम् ॥ ३१ ॥

ब्राह्मणी तु यदा गच्छेत्परपुंसा समन्विता ॥

सा तु नष्टा विनिर्दिष्टा न तस्या गमनं पुनः ॥ ३२ ॥

कामान्मोहाच्च या गच्छेत्त्यक्त्वा बन्धून्सुतान्पतिम् ॥

सापि नष्टा परे लोके मानुषेषु विशेषतः ॥ ३३ ॥

मदमोहगतानारी क्रोधाद्दण्डादिताडिता ॥

अद्वितीयं गता चैव पुनरागमनं भवेत् ॥ ३४ ॥

दशमे तु दिने प्राप्ते प्रायश्चित्तं न विद्यते ॥

दशाहं न त्यजेन्नारी त्यजेदृ्वष्टश्रुतां तथा ॥ ३५ ॥

भर्त्ताचैव चरेत्कृच्छ्रं कृच्छ्रार्द्धं चैव बान्धवाः ॥

तेषां भुक्त्वा च पीत्वा च त्वहोरात्रेण शुद्ध्यति ॥ ३६ ॥

ब्राह्मणी तु यदा गच्छेत्परपुंसा विवर्जिता ॥

गत्वा पुंसां शतं याति त्यजेयुस्तां तु गोत्रिणः ॥ ३७ ॥

पुंसो यदि गृहं गच्छेत्तदाऽशुद्धं गृहं भवेत् ॥

पितृमातृगृहं यच्च जारस्यैव तु तद् गृहम् ॥ ३८ ॥

उल्लिख्य तद्गृहं पश्चात्पञ्चगव्येन सेचयेत् ॥

त्यजेच्च मृन्मयं पात्रं वस्त्रं काष्ठं च शोधयेत् ॥ ३९ ॥

सम्भाराञ्छोधयेत्सर्वान्गोकेशैश्च फलोद्भवान् ॥

ताम्राणि पञ्चगव्येन कांस्यानि दशभस्मभिः ॥ ४० ॥

प्रायश्चित्तं चरेद्विप्रो ब्राह्मणैरुपपादयेत् ॥

गोद्वयं दक्षिणां दद्यात्प्राजापत्यद्वयं चरेत् ॥ ४१ ॥

इतरेषामहोरात्रं पञ्चगव्यं च शोधनम् ॥

उपवासैर्व्रतैःपुण्यैः स्नानसन्ध्यार्चनादिभिः ॥ ४२ ॥

जपहोमदयादानैः शुद्ध्यन्ते ब्राह्मणादयः ॥

आकाशं वायुरग्निश्च मेध्यं भूमिगतं जलम् ॥ ४३ ॥

न दुष्यन्ति च दर्भाश्च यज्ञेषु चमसा यथा ॥ ४४ ॥

इति पराशरीये धर्मशास्त्रे दशमोऽध्यायः ॥ १० ॥

<MISSING_FIG href="../books_images/1681216207.jpg"/>

एकादशोऽध्यायः ११.

अमेध्यरेतो गोमांसं चण्डालान्नमथापि वा ॥

यदिभुक्तं तु विप्रेण कृच्छ्रं चान्द्रायणं चरेत् ॥ १ ॥

क्षत्रियो वाथ वैश्यश्चेदर्धकृच्छ्रं च कायिकम् ॥ २ ॥

पञ्चगव्यं पिबेच्छूद्रो ब्रह्मकूर्चं पिबेद्द्विजः ॥

एकद्वित्रिचतुर्गावो दद्याद्विप्राद्यनुक्रमात् ॥३॥

शुद्रान्नं सूतकान्नं च ह्यभोज्यस्यान्नमेव च ॥

शङ्कितम्प्रतिषिद्धान्नं पूर्वोच्छिष्टं तथैव च ॥ ४ ॥

यदि भुक्तं तु विप्रेण अज्ञानादापदापि वा ॥

ज्ञात्वा समाचरेत्कृच्छ्रम्ब्रह्मकूर्चं तु पावनम् ॥ ५ ॥

व्यालैर्नकुलमार्जारैरन्नमुच्छिष्टितं यदा ॥

तिलदर्भोदकैः प्रोक्ष्य शुद्ध्यते नात्र संशयः ॥ ६ ॥

शूद्रोऽप्यभोज्यं भुक्त्वान्नं पञ्चगव्येन शुद्ध्यति ॥

क्षत्रियो वापि वैश्यश्च प्राजापत्येन शुद्ध्यति ॥ ७ ॥

एकपङ्क्त्युपविष्टानां विप्राणां सहभोजने ॥

यद्येकोऽपि त्यजेत्पात्रं शेषमन्नं न भोजयेत् ॥ ८ ॥

मोहाद्भुञ्जीत यस्तत्र पङ्क्तावुच्छिष्टभोजने ॥

प्रायश्चित्तं चरेद्विप्रः कृच्छ्रंसान्तपनं तथा ॥ ९ ॥

पीयूषं श्वेतलशुनं वृन्ताकफलगृञ्जने ॥

पलाण्डुं वृक्षनिर्यासान्देवस्वं कवकानि च ॥ १० ॥

उष्ट्रीक्षीरमवीक्षीरमज्ञानाद्भुञ्जते द्विजः ॥

त्रिरात्रमुपवासेन पञ्चगव्येन शुद्ध्यति ॥ ११ ॥

मण्डूकं भक्षयित्वा तु मूषिकामांसमेव च ॥

ज्ञात्वा विप्रस्त्वहोरात्रं यावकान्नेन शुद्ध्यति ॥ १२ ॥

क्षत्रियश्चापि वैश्यश्च क्रियावन्तौशुचिव्रतौ ॥

तद्गृहेषु द्विजैर्भोज्यं हव्यकव्येषु नित्यशः ॥१३ ॥

घृतं क्षीरं तथा तैलं गुडन्तैलेन पाचितम् ॥

गत्वा नदीतटे विप्रो भुञ्जीयाच्छूद्रभाजने ॥ १४ ॥

मद्यमांसरतं नित्यं नीचकर्मप्रवर्तकम् ॥

तं शूद्रं वर्जयेद्विप्रः श्वपाकमिव दूरतः ॥ १५ ॥

द्विजशुश्रूषणरतान्मद्यमांसविवर्जितान् ॥

स्वकर्मनिरतान्नित्यं ताञ्च्छूद्रान्न त्यजेद्द्विजः ॥ १६ ॥

अज्ञानाद्भुञ्जते विप्राः सूतके मृतकेऽपि वा ॥

प्रायश्चित्तं कथं तेषां वर्णे वर्णे विनिर्द्दिशेत् ॥ १७ ॥

गायत्र्यष्टसहस्रेण शुद्धिः स्याच्छूद्रसूतके ॥

वैश्ये पञ्चसहस्रेण त्रिसहस्त्रेण क्षत्रिये ॥ १८ ॥

ब्राह्मणस्य यदा भुङ्क्ते द्विसहस्रं तु दापयेत् ॥

अथवा वामदेव्येन साम्ना चैकेन शुद्ध्यति ॥ १९ ॥

शुष्कान्नं गोरसंस्नेहं शूद्रवेषेण चाहृतम् ॥

पक्वंविप्रगृहे भुङ्क्ते भोज्यं तं मनुरब्रवीत् ॥ २० ॥

आपत्कोल तु विप्रेण भुङ्क्ते शूद्रगृहे यदि ॥

मनस्तापेन शुद्ध्येत द्रुपदां वा सकृज्जपेत् ॥ २१ ॥

दासनापितगोपालकुलमित्रार्द्धसीरिणः।

एते शूद्रेषु भोज्यान्ना यश्चात्मानं निवेदयेत् ॥ २२ ॥

शूद्रकन्यासमुत्पन्नो ब्राह्मणेन तु संस्कृतः ॥

असंस्काराद्भवेद्दासः संस्कारादेव नापितः ॥ २३ ॥

क्षत्रियाच्छूद्रकन्यायां समुत्पन्नस्तु यः सुतः ॥

स गोपाल इति ख्यातो भोज्यो विप्रैर्न संशयः ॥ २४ ॥

वैश्यकन्यासमुद्भूतोब्राह्मणेन तु संस्कृतः ॥

स ह्यार्द्धिकइति ज्ञेयो भोज्यो विप्रैर्न संशयः ॥ २५ ॥

भाण्डस्थिमभोज्येषु जलं दधि घृतं पयः ॥

अकामतस्तु यो भुङ्क्तेप्रायश्चित्तं कथं भवेत् ॥ २६ ॥

ब्राह्मणः क्षत्रियो वैश्यः शूद्रो तूपसर्पति ॥

ब्रह्मकूर्चोपवासेन याज्यवर्णस्य निष्कृतिः ॥ २७॥

शूद्राणां नोपवासः स्याच्छूद्रो दानेन शुद्ध्यति ॥

ब्रह्मकूर्चमहोरात्रं श्वपाकमपि शोधयेत् ॥ २८ ॥

गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ॥

निर्दिष्टं पञ्चगव्यं च पवित्रं पापशोधनम् ॥ २९ ॥

गोमूत्रं कृष्णवर्णायाः श्वेतायाश्चैव गोमयम् ॥

पयश्च ताम्रवर्णाया रक्ताया गृह्यते दधि ॥ ३० ॥

कपिलाया घृतं ग्राह्यं सर्वं कापिलमेव वा ॥

मूत्रमेकपलं दद्यादङ्गुष्ठार्धन्तु गोमयम् ॥ ३१ ॥

क्षीरं सप्तपलं दद्याद्दधि त्रिपलमुच्यते ॥

घृतमेकपलं दद्यात्पलमेकं कुशोदकम् ॥ ३२ ॥

गायत्र्यादाय गोमूत्रं गन्धद्वारेति गोमयम् ॥

आप्यायस्वेति च क्षीरं दधिक्राव्णस्तथा दधि ॥ ३३ ॥

तेजोऽसि शुक्रमित्याज्यं देवस्य त्वा कुशोदकम् ॥

पञ्चगव्यमृचा पूतं स्थापयेदग्निसन्निधौ ॥ ३४ ॥

आपोहिष्ठेति चालोड्य मानस्तोकेति मन्त्रयेत् ॥

सप्तावरासु ये दर्भा अच्छिन्नाग्राः शुकत्विषः ॥ ३५ ॥

एतैरुद्धृत्य होतव्यं पञ्चगव्यं यथाविधि ॥

इरावती इदंविष्णुर्मानस्तोके च शंवती ॥ ३६ ॥

एताभिश्चैव होतव्यं हुतशेषं पिबेद्द्विजः ॥

आलोड्य प्रणवेनैव निर्मथ्य प्रणवेन तु ॥ ३७ ॥

उद्धृत्य प्रणवेनैवं पिबेच्च प्रणवेन तु ॥

यत्त्वगस्थिगतं पापं देहे तिष्ठति देहिनाम् ॥ ३८ ॥

ब्रह्मकूर्चं दहेत्सर्वं यथैवाग्निरिवैन्धनम् ॥

पवित्रं त्रिषु लोकेषु देवताभिरधिष्ठितम् ॥ ३९ ॥

वरुणश्चैव गोमूत्रे गोमये हव्यवाहनः ॥

दध्निवायुः समुद्दिष्टः सोमः क्षीरे घृते रविः ॥ ४० ॥

पिबतः पतितं तोयं भाजने मुखनिःसृतम् ॥

अपेयं तद्विजानीयाद्भुक्त्वा चान्द्रायणं चरेत् ॥४१ ॥

कूपे च पतितं दृष्ट्वा श्वशृगालौ च मर्कटम् ॥

अस्थिचर्मादिपतितः पीत्वाऽमेध्या अपो द्विजः ॥४२॥

नारं तु कुणपं काकं विड्वराहं खरोष्ट्रकम् ॥

गावयं सौप्रतीकं च मायूरं खड्गकं तथा ॥ ४३ ॥

वैयाघ्रमार्क्षं सैंहं वा कूपे यदि निमज्जति ॥

तडागस्याप्यदुष्टस्य पीतं स्यादुदकं यदि ॥४४ ॥

प्रायश्चित्तं भवेत्पुंसः क्रमेणैतेन सर्वशः ॥

विप्रः शुध्येत्त्रिरात्रेण क्षत्रियस्तु दिनद्वयात् ॥ ४५ ॥

एकाहेन तु वैश्यस्तु शूद्रोनक्तेन शुद्ध्यति ॥४६ ॥

परपाकनिवृत्तस्य परपाकरतस्य च ॥

अपचस्यच भुक्त्वान्नं द्विजश्चान्द्रायणं चरेत् ॥ ४७

अपचस्य तु यद्दानं दातुरस्य कुतः फलम् ॥

दाता प्रतिगृहीता च द्वौ तौ निरयगामिनौ॥ ४८ ॥

गृहीत्वाग्निंसमारोप्य पञ्चयज्ञान्न निर्वपेत् ॥

परपाकनिवृत्तोऽसौ मुनिभिः परिकीर्तितः ॥ ४९ ॥

पञ्चयज्ञान्स्वयं कृत्वा परान्नेनोपजीवति ॥

सततं प्रातरुत्थाय परपाकरतस्तु सः ॥ ५० ॥

गृहस्थधर्मो यो विप्रो ददाति परिवर्जितः ॥

ऋषिभिर्धर्मतत्त्वज्ञैरपचः परिकीर्तितः ॥ ५१ ॥

युगे युगे तु ये धर्मास्तेषु तेषु च ये द्विजाः ॥

तेषां निन्दा न कर्त्तव्या युगरूपा हि ते द्विजाः ॥ ५२ ॥

हुङ्कारं ब्राह्मणस्योक्त्वा त्वङ्कारं च गरीयसः ॥

स्नात्वा तिष्ठन्नहःशेषमभिवाद्य प्रसादयेत् ॥ ५३ ॥

ताडयित्वा तृणेनापि कण्ठे बद्धापि वाससा ॥

विवादेनापि निर्जित्य प्रणिपत्य प्रसादयेत् ॥ ५४ ॥

अवगूर्य त्वहोरात्रं त्रिरात्रं क्षितिपातने ॥

अतिकृच्छ्रं च रुधिरे कृच्छ्रोऽभ्यन्तरशोणिते ॥ ५५ ॥

नवाहमतिकृच्छ्रीस्यात्पाणिपूरान्नभोजनः ॥

त्रिरात्रमुपवासः स्यादतिकृच्छ्रः स उच्यते ॥ ५६ ॥

सर्वेषामेव पापानां सङ्करे समुपस्थिते ॥

दशसाहस्रमभ्यस्ता गायत्री शोधनं परम् ॥ ५७ ॥

इति पराशरीये धर्म्मशास्त्रे एकादशोऽध्यायः ॥ ११ ॥

<MISSING_FIG href="../books_images/1681216207.jpg"/>

** द्वादशोऽध्यायः १२.**

दुःस्वप्नं यदि पश्येत्तु वान्ते वा क्षुरकर्मणि ॥

मैथुने प्रेतधूम्रे व स्नानमेव विधीयते ॥ १ ॥

अज्ञानात्प्राश्य विण्मूत्रं सुरासंस्पृष्टमेव च ॥

पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ॥ २ ॥

अजिनं मेखला दण्डो भैक्षचर्या व्रतानि च ॥

निवर्त्तन्ते द्विजातीनां पुनःसंस्कारकर्मणि ॥ ३ ॥

विण्मूत्रस्य च शुद्ध्यर्थं प्राजापत्यं समाचरेत् ॥

पञ्चगव्यं च कुर्वीत स्नात्वा पीत्वा शुचिर्भवेत् ॥ ४ ॥

जलाग्निपतने चैव प्रव्रज्यानाशकेषु च ॥

प्रत्यवसितवर्णानां कथं शुद्धिर्विधीयते ॥ ५ ॥

प्राजापत्यद्वयेनैव तीर्थाभिगमनेन च ॥

वृषैकादशदानेन वर्णाः शुद्ध्यन्ति ते त्रयः ॥ ६ ॥

ब्राह्मणस्य प्रवक्ष्यामि वनं गत्वा चतुष्पथे ॥

सशिखं वपनं कृत्वा प्राजापत्यद्वयं चरेत् ॥ ७ ॥

गोद्वयं दक्षिणां दद्याच्छुद्धिं पाराशरोऽब्रवीत् ॥

मुच्यते तेन पापेन ब्राह्मगत्वं च गच्छति ॥ ८ ॥

स्नानानि पञ्च पुण्यानि कीर्तितानि मनीषिभिः ॥

आग्नेयं वारुणं ब्राह्मं वायव्यं दिव्यमेव च ॥ ९ ॥

आग्नेयं भस्मना स्नानमवगाह्य तु वारुणम् ॥

आपोहिष्ठेति च ब्राह्मं वायव्यं गोरजः स्मृतम् ॥१०॥

यत्तु सातपवर्षेण स्नानं तद्दिव्यमुच्यते ॥

तत्र स्नात्वा तु गङ्गायां स्नातो भवति मानवः ॥ ११॥

स्नातुं यान्तं द्विजं सर्वे देवाः पितृगणैः सह ॥

वायुभूतास्तु गच्छन्ति तृषार्ताः सलिलार्थिनः ॥ १२ ॥

निराशास्ते निवर्त्तन्ते वस्त्रनिष्पीडने कृते ॥

तस्मान्न पीडयेद्वस्त्रमकृत्वा पितृतर्पणम् ॥ १३ ॥

रोमकूपेष्ववस्थाप्य यस्तिलैस्तर्पयेत्पितॄन् ॥

तर्पितास्तेन ते सर्वे रुधिरेण मलेन च ॥ १४ ॥

अवधूनोति यः केशान्स्नात्वा प्रस्रवतो द्विजः ॥

आचामेद्वा जलस्थोऽपि स बाह्यःपितृदैवतैः ॥ १५ ॥

शिरः प्रावृत्य कण्ठं वा मुक्तकक्षशिखोऽपि वा ॥

विना यज्ञोपवीतेन आचान्तोऽप्यशुचिर्भवेत् ॥ १६ ॥

जले स्थलस्थो नाचामेज्जलस्थश्चेद्बहिः स्थले ॥

उभे स्पृष्ट्वा समाचामेदुभयत्र शुचिर्भवेत् ॥ १७ ॥

स्नात्वा पीत्वा क्षुते सुप्ते भुक्त्वा रथ्योपसर्प्पणे ॥

आचान्तःपुनराचामेद्वासो विपरिधाय च ॥ १८ ॥

क्षुते निष्ठीवने चैव दन्तोच्छिष्टे तथाऽनृते ॥

पतितानां च सम्भाषे दक्षिणं श्रवणं स्पृशेत् ॥ १९ ॥

भास्करस्य करैःपूतं दिवा स्नानं प्रशस्यते ॥

अप्रशस्तं निशि स्नानं राहोरन्यत्र दर्शनात् ॥ २० ॥

मरुतो वसवो रुद्रा आदित्याश्चाथ देवताः ॥

सर्वे सोमे प्रलीयन्ते तस्माद्दानं तु सङ्ग्रहे ॥ २१ ॥

खलयज्ञे विवाहे च सङ्क्रान्तौग्रहणे तथा ॥

शर्वर्य्यान्दानमस्त्येव नान्यत्र तु विधीयते ॥ २२ ॥

पुत्रजन्मनि यज्ञे च तथा चात्ययकर्मणि ॥

राहोश्चदर्शने दानं प्रशस्तं नान्यदा निशि ॥ २३ ॥

महानिशा तु विज्ञेया मध्यस्थं प्रहरद्वयम् ॥

प्रदोषपश्चिमौ यामौदिनवत्स्नानमाचरेत् ॥ २४ ॥

चैत्यवृक्षश्चितिः पूयश्चण्डालः सोमविक्रयी ॥

एतांस्तु ब्राह्मणः स्पृष्ट्वा सवासा जलमाविशेत् ॥ २५ ॥

अस्थिसञ्चयनात्पूर्वं रुदित्वा स्नानमाचरेत् ॥

अन्तर्दशाहे विप्रस्य ह्यूर्ध्वमाचमनं स्मृतम् ॥ २६ ॥

सर्वं गङ्गासमं तोयं राहुग्रस्ते दिवाकरे।

सोमग्रहे तथैवोक्तं स्नानदानादिकर्मसु ॥ २७ ॥

कुशैः पूतं भवेत्स्नानं कुशेनोपस्पृशेद्द्विजः ॥

कुशेन चोद्धृतं तोयं सोमपानसमं भवेत् ॥ २८ ॥

अग्निकार्यात्परिभ्रष्टाः सन्ध्योपासनवर्जिताः ॥

वेदं चैवानधीयानाः सर्वे ते वृषलाः स्मृताः ॥ २९ ॥

तस्माद्वृषलभीतेन ब्राह्मणेन विशेषतः ॥

अध्येतव्योऽप्येकदेशो यदि सर्वं न शक्यते ॥ ३० ॥

शूद्रान्नरसपुष्टस्याधीयमानस्य नित्यशः ॥

जपतो जुह्वतोवापि गतिरूर्ध्वा न विद्यते ॥ ३१॥

शूद्रान्नं शूद्रसम्पर्कःशूद्रेण तु सहासनम् ॥

शूद्राज्ज्ञानागमश्चापि ज्वलन्तमपि पातयेत् ॥ ३२ ॥

यः शूद्र्यापाचयेन्नित्यं शूद्री च गृहमेधिनी ॥

वर्जितः पितृदेवेभ्यो रौरवं याति स द्विजः ॥ ३३॥

मृतसूतकपुष्टाङ्गं द्विजं शूद्रान्न भोजिनम् ॥

अहं तं न विजानामि कां कां योनिं गमिष्यति ॥ ३४॥

गृध्रोद्वादशजन्मानि दशजन्मानि सूकरः ॥

श्वयोनौ सप्तजन्मानि हीत्येवं मनुरब्रवीत् ॥ ३५ ॥

दक्षिणार्थं तु यो विप्रः शूद्रस्य जुहुयाद्धविः ॥

ब्राह्मणस्तु भवेन्छूद्रः शूद्रस्तु ब्राह्मणो भवेत् ॥३६ ॥

मौनव्रतं समाश्रित्य आसीनो न वदेद्द्विजः ॥

भुञ्जानो हि वदेद्यस्तु तदन्नं परिवर्जयेत् ॥ ३७ ॥

अर्द्धभुक्ते तु यो विप्रस्तस्मिन्पात्रे जलं पिबेत् ॥

हतं दैवं च पित्र्यं च ह्यात्मानं चोपघातयेत् ॥ ३८ ॥

भुञ्जानेषु तु विप्रेषु योऽग्रे पात्रं विमुञ्चति ॥

स मूढः स च पापिष्ठो ब्रह्मघ्नः स खलूच्यते ॥ ३९ ॥

भाजनेषु च तिष्ठत्सु स्वस्ति कुर्वन्ति ये द्विजाः ॥

न देवास्तृप्तिमायान्ति निराशाः पितरस्तथा ॥ ४० ॥

अस्नात्वा वै न भुञ्जीत तथैवाग्रिमपूज्य च ॥

न पर्णपृष्ठे भुञ्जीत रात्रौ दीपं विना तथा ॥ ४१ ॥

गृहस्थस्तु दयायुक्तो धर्ममेवानुचिन्तयेत् ॥

पोष्यवर्गार्थसिद्ध्यर्थं न्यायवर्ती स बुद्धिमान् ॥ ४२ ॥

न्यायोपार्जितवित्तेन कर्त्तव्यं ह्यात्मरक्षणम् ॥

अन्यायेन तु यो जीवेत्सर्वकर्मबहिष्कृतः ॥ ४३ ॥

अग्निचित्कपिला सत्री राजा भिक्षुर्महोदधिः ॥

दृष्टमात्राः पुनन्त्येते तस्मात्पश्येत्तु नित्यशः ॥ ४४ ॥

अरणिं कृष्णमार्जारं चन्दनं सुमणिं घृतम् ॥

तिलान्कृष्णाजिनं छागं गृहे चैतानि रक्षयेत् ॥ ४५ ॥

गवां शतं सैकवृषं यत्र तिष्ठत्ययन्त्रितम् ॥

तत्क्षेत्रं दशगुणितं गोचर्म परिकीर्तितम् ॥ ४६ ॥

ब्रह्महत्यादिभिर्मर्त्योमनोवाक्कायकर्मभिः ॥

एतग्दोचर्मदानेन मुच्यते सर्वकिल्बिषैः ॥ ४७ ॥

कुटुम्बिने दरिद्राय श्रोत्रियाय विशेषतः ॥

यद्दानं दीयते तस्मै तद्दानं शुभकारकम् ॥ ४८ ॥

वापीकूपतडागाद्यैर्वाजपेयशतैर्मखैः ॥

गवां कोटिप्रदानेन भूमिहर्ता नशुद्ध्यति ॥ ४९ ॥

अष्टादशदिनादर्वाक्स्नानमेव रजस्वला ॥

अत ऊर्ध्वं त्रिरात्रं स्यादुशना मुनिरब्रवीत् ॥५० ॥

युगं युगद्वयं चैव त्रियुगं च चतुर्युगम् ॥

चण्डालसूतिकोदक्यापतितानामधः क्रमात् ॥ ५१ ॥

ततः सन्निधिमात्रेण सचैलं स्नानमाचरेत् ॥

स्नात्वावलोकयेत्सूर्यमज्ञानात्स्पृशते यदि॥ ५२ ॥

विद्यमानेषु हस्तेषु ब्राह्मणो ज्ञानदुर्बलः ॥

तोयं पिबति वक्रेण श्वयोनौजायते ध्रुवम् ॥ ५३॥

यस्तु क्रुद्धः पुमान्ब्रूयाज्जायायास्तु अगम्यताम् ॥

पुनरिच्छति चेदेनां विप्रमध्ये तु श्रावयेत् ॥ ५४ ॥

श्रान्तः क्रुद्धस्तमोऽन्धो वा क्षुत्पिपासाभयार्दितः ॥

दानं पुण्यमकृत्वा वा प्रायश्चित्तं दिनत्रयम् ॥ ५५ ॥

उपस्पृशेत्रिषवणं महानद्युपसङ्गमे ॥

चीर्णान्ते चैव गां दद्याद्ब्राह्मणान्भोजयेद्दश ॥ ५६ ॥

दुराचारस्य विप्रस्य निषिद्धाचरणस्य च ॥

अन्नं भुक्त्वा द्विजः कुर्याद्दिनमेकमभोजनम् ॥ ५७ ॥

सदाचारस्य विप्रस्य तथा वेदाङ्गवेदिनः ॥

भुक्त्वान्नं मुच्यते पापादहोरात्रान्तरान्नरः ॥ ५८ ॥

ऊर्ध्वोच्छिष्टमधोच्छिष्टमन्तरिक्षमृतौ तथा ॥

कुच्छ्रत्रयं प्रकुर्वीत ह्यशौचमरणे तथा ॥ ५९ ॥

कृच्छ्रं देव्य1युतं चैव प्राणायामशतद्वयम् ॥

पुण्यतीर्थे चार्द्रशिराः स्नानं द्वादशसङ्ख्यया ॥ ६० ॥

द्वियोजनं तीर्थयात्रा कृच्छ्रमेकं प्रकल्पितम् ॥ ६१ ॥

गृहस्थः कामतः कुर्याद्रेतसः स्खलनं यदि ॥

सहस्रं तु जपेद्देव्याः प्राणायामैस्त्रिभिः सह ॥ ६२ ॥

चतुर्विद्योपपन्नस्तु विधिवद्ब्रह्मघातके ॥

समुद्रसेतुगमनं प्रायश्चित्तं समादिशेत् ॥ ६३ ॥

सेतुबन्धपथे भिक्षां चातुर्वर्ण्यात्समाचरेत् ॥

वर्जयित्वा विकर्मस्थांश्छत्रोपानहवर्जितः ॥ ६४ ॥

अहं दुष्कृतकर्मा वै महापातककारकः॥

गृहद्वारेषु तिष्ठामि भिक्षार्थी ब्रह्मघातकः ॥ ६५ ॥

गोकुलेषु वसेच्चैव ग्रामेषु नगरेषु च ॥

तपोवनेषु तीर्थेषु नदीप्रस्रवणेषु च ॥ ६६ ॥

एतेषु ख्यापयन्नेनः पुण्यं गत्वा तु सागरम् ॥

दशयोजनविस्तीर्णं शतयोजनमायतम् ॥ ६७॥

रामचन्द्रसमादिष्टं नलसञ्चयसञ्चितम् ॥

सेतुं दृष्ट्वा समुद्रस्य ब्रह्महत्यां व्यपोहति ॥ ६८ ॥

सेतुं दृष्ट्वा विशुद्धात्मा त्ववगाहेत सागरम् ॥

यजेत् वाश्वमेधेन राजा तु पृथिवीपतिः ॥ ६९ ॥

पुनः प्रत्यागतो वेश्म वासार्थमुपसर्पति ॥

सपुत्रः सहभृत्यश्च कुर्याद्ब्राह्मणभोजनम् ॥ ७० ॥

गाश्चैवैकशतं दद्याच्चातुर्विद्येषु दक्षिणाम् ॥

ब्राह्मणानां प्रसादेन ब्रह्महा तु विमुच्यते ॥ ७१ ॥

विन्ध्यादुत्तरतो यस्य संवासः परिकीर्तितः ॥

पराशरमतं तस्य सेतुबन्धस्य दर्शनात् ॥ ७२ ॥

सवनस्थां स्त्रियं हत्वा ब्रह्महत्याव्रतं चरेत् ॥ ७३ ॥

सुरापश्च द्विजः कुर्यान्नदीं गत्वा समुद्रगाम् ॥

चान्द्रायणे ततश्चीर्णे कुर्याद्ब्राह्मणभोजनम् ॥ ७४ ॥

अनडुत्सहितां गां च दद्याद्विप्रेषु दक्षिणाम् ॥ ७५ ॥

सुरापानं सकृत्कृत्वा अग्निवर्णां सुरां पिबेत् ॥

स पावयेदिहात्मानमिह लोके परत्र च ॥ ७६ ॥

अपहृत्य सुवर्णं तु ब्राह्मणस्य ततः स्वयम् ॥

गच्छेन्मुशलमादाय राजानं स्ववधाय तु ॥ ७७ ॥

हतः शुद्धिमवाप्नोति राज्ञाऽसौ मुक्त एव च ॥

कामतस्तु कृतं यत्स्यान्नान्यथा वधमर्हति ॥ ७८ ॥

आसनाच्छ्यनाद्यानात्सम्भाषात्सहभोजनात् ॥

सङ्क्रामन्तीह पापानि तैलबिन्दुरिवाम्भसि ॥ ७९ ॥

चान्द्रायणं यावकं च तुलापुरुष एव च ॥

गवां चैवानुगमनं सर्वपापप्रणाशनम् ॥ ८० ॥

एतत्पाराशरं शास्त्रं श्लोकानां शतपञ्चकम् ॥

द्विर्नवत्या समायुक्तं धर्मशास्त्रस्य सङ्ग्रहः ॥ ८१ ॥

यथाध्ययनकर्माणि धर्मशास्त्रमिदं तथा ॥

अध्येतव्यं प्रयत्नेन नियतं स्वर्गकामिना ॥ ८२ ॥

इति श्रीपराशरीये धर्मशास्त्रे सकलप्रायश्चित्तनिर्णये पं० श्यामसुन्दर

लालत्रिपाठिकृत भाषाटीकायां द्वादशोऽध्यायः ॥ १२ ॥

इति पाराशरस्मृतिः समाप्ता ॥ ११ ॥

<MISSING_FIG href="../books_images/1681563326.jpg"/>

** श्रीः।**


  1. “देव्या गायत्र्या अयुतम् दशसहस्रसङ्ख्याकगायत्रीजप इत्यर्थः ।” ↩︎