लिखितस्मृतिः

<MISSING_FIG href="../books_images/1683363447.jpg"/>

इष्टापूर्ते तु कर्तव्ये ब्राह्मणेन प्रयत्नतः ।
इष्टेन लभते स्वर्गं पूर्ते मोक्षमवाप्नुयात् ॥ १ ॥

एकाहमपि कर्तव्यं भूमिष्ठमुदकं शुभम् ।
कुलानि तारयेत्सप्त यत्र गौर्वितृषीभवेत् ॥ २ ॥

भूमिदानेन ये लोका गोदानेन च कीर्तिताः ।
ताल्ँलोकान्प्राप्नुयान्मर्त्यः पादपानां प्ररोपणे ॥ ३ ॥

वापीकूपतडागानि देवतायतनानि च ।
पतितान्युद्धरेद्यस्तु स पूर्तफलमश्नुते ॥ ४ ॥

अग्निहोत्रं तपः सत्यं वेदानां चैव पालनम् ।
आतिथ्यं वैश्वदेवं च इष्टमित्यभिधीयते ॥ ५ ॥

इष्टापूर्ते द्विजातीनां सामान्यो धर्म उच्यते ।
अधिकारी भवेच्छूद्रः पूर्तेधर्मे न वैदिके ॥ ६ ॥

यावदस्थि मनुष्यस्य गङ्गातोयेषु तिष्ठति ।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥ ७ ॥

देवतानां पितॄणां च जले दद्याज्जलाञ्जलिम् ।
असंस्कृतमृतानां च स्थले दद्याज्जलाञ्जलिम् ॥ ८ ॥

एकादशाहे प्रेतस्य यस्य चोत्सृज्यते वृषः ।
मुच्यते प्रेतलोकात्तु पितृलोकं स गच्छति ॥ ९॥

एष्टव्या बहवः पुत्रा यद्यप्येको गयां व्रजेत् ।
यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥ १० ॥

वाराणस्यां प्रविष्टस्तु कदाचिन्निष्क्रमेद्यदि ।
हसन्ति तस्य भूतानि अन्योऽयं करताडनैः ॥ ११ ॥

गयाशिरसि यत्किञ्चिन्नाम्ना पिण्डं तु निर्वपेत् ।
नरकस्थो दिवं याति स्वर्गस्थो मोक्षमाप्नुयात् ॥ १२

आत्मनो वा परस्यापि गयाक्षेत्रे यतस्ततः ।
यन्नाम्ना पातयेत्पिडं तं नयेद्ब्रह्म शाश्वतम् ॥ १३ ॥

लोहितो यस्तु वर्णेन शङ्खवर्णखुरस्तथा ।
लाङ्गूलशिरसा चैव स वै नीलवृषः स्मृतः ॥ १४ ॥

नवश्राद्धं त्रिपक्षे च द्वादशस्वेव मासिकम् ।
षण्मासौ चाब्दिकं चैव श्राद्धान्येतानि षोडश ॥ १५॥

यस्यैतानि न कुर्वीत एकोद्दिष्टानि षोडश ।
पिशाचत्वं स्थिरं तस्य दत्तैःश्राद्धशतैरपि ॥ १६ ॥

सपिण्डीकरणादूर्ध्वं प्रतिसंवत्सरं द्विजः ।
मातापित्रोः पृथक्कुर्यादेकोद्दिष्टं मृतेऽहनि ॥ १७॥

वर्षे वर्षे तु कर्तव्यं मातापित्रोस्तु सन्ततम् ।
सदैवं भोजयेच्छ्राद्धं पिण्डमेकं तु निर्वपेत् ॥१८॥

सङ्क्रातावुपरागे च पर्वण्यपि महालये ।
निर्वाप्यास्तु त्रपः पिण्डा एकतस्तु क्षयेऽहनि ॥ १९ ॥

एकोद्दिष्टं परित्यज्य पार्वणं कुरुते द्विजः ।
अकृतं तद्विजानीयात्स मातापितृघातकः ॥ २० ॥

अमायां वैक्षयो यस्यप्रेतपक्षेऽथवा यदि ।
सपिण्डीकरणादूर्ध्वं तस्योक्तः पार्वणो विधिः ॥ २१ ॥

त्रिदण्डग्रहणादेव प्रेतत्वं नैव जायते ।
अहन्येकादशे प्राप्ते पार्वणन्तु विधीयते ॥ २२ ॥

यस्य संवत्सरादर्वाक्सपिण्डीकरणं स्मृतम् ।
प्रत्यहं तत्सोदकुम्भं दद्यात्संवत्सरं द्विजः ॥ २३ ॥

पत्या चैकेन कर्तव्यं सपिण्डीकरणं स्त्रियः ।
पितामह्यापि तत्तस्मिन्सत्येवन्तु क्षयेऽहनि ।
तस्यां सत्यां प्रकर्तव्यं तस्याः श्वश्व्रेति निश्चितम् ॥ २४॥

विवाहे चैव निर्वृत्ते चतुर्थेऽहनि रात्रिषु ।
एकत्वं सा गता भर्तुः पिण्डे गोत्रे च सूतके ॥ २५ ॥

स्वगोत्राद् भ्रश्यते नारी उद्वाहात्सप्तमे पदे ।
भर्तृगोत्रेण कर्तव्या दानपिण्डोदकक्रिया ॥ २६ ॥

द्विमातुः पिण्डदानं तु पिण्डे पिण्डे द्विना मतः ।
षण्णां देयास्त्रयः पिडा एवं दातान मुह्यति ॥ २७ ॥

अथ चेन्मन्त्रविद्युक्तः शारीरैः पङ्क्तिदूषणैः ।
अदोषं तं यमः प्राह पङ्क्तिपावन एव सः ॥ २८ ॥

अग्नौकरणशेषन्तु पितृपात्रे प्रदापयेत् ।
प्रतिपाद्य पितॄणां च न दद्याद्वैश्वदैविके ॥ २९ ॥

अनग्निको यदा विप्रः श्राद्धं करोति पार्व्वणम् ।
तत्र मातामहानां च कर्तव्यमुभयं सदा ॥ ३० ॥

अपुत्रा ये मृताः केचित्पुरुषा वा स्त्रियोऽपि वा ।
तेभ्य एव प्रदातव्यमेकोद्दिष्टं न पार्वणम् ॥ ३१ ॥

यस्मिन्राशौ गते सूर्ये विपत्तिः स्याद्द्विजन्मनः ।
तस्मिन्नहनि कर्तव्या दानपिण्डोदकक्रियाः ॥ ३२ ॥

वर्षवृद्ध्यभिषेकादि कर्तव्यमधिकं न तु ।
अधिमासे तु पूर्वं स्याच्छ्राद्धं संवत्सरादपि ॥ ३३ ॥

स एव हेयो दिष्टस्य येन केन तु कर्मणा ।
अभिघातान्तरं कार्य्यन्तत्रैवाहः कृतं भवेत् ॥ ३४ ॥

शालाग्नौपचते अन्नं लौकिकेनापि नित्यशः ।
यस्मिन्नेव पचेदन्नं तस्मिन्होमो विधीयते ॥ ३५ ॥

वैदिके लौकिके वापि नित्यं हुत्वा ह्यतन्द्रितः ।
वैदिके स्वर्गमाप्नोति लौकिके हन्ति किल्बिषम् ॥३६॥

अग्नौव्याहृतिभिः पूर्वं हुत्वा मन्त्रैस्तु शाकलैः ।
संविभागं तु भूतेभ्यस्ततोऽश्नीयादनग्निमान् ॥ ३७ ॥

उच्छेषणं तु नोत्तिष्ठेद्यावद्विप्रविसर्जनम् ।
ततो गृहबलिं कुर्यादिति धर्मोव्यवस्थितः ॥ ३८ ॥

दर्भाः कृष्णाजिनं मन्त्रा ब्राह्मणाश्च विशेषतः ।
नैते निर्माल्यतां यान्ति योक्तव्यास्ते पुनः पुनः ॥३९॥

पानमाचमनं कुर्यात्कुशपाणिः सदा द्विजः ।
भुक्त्वानोच्छिष्टतां याति एष एव विधिः सदा ॥४०॥

पान आचमने चैव तर्पणे दैविके सदा ।
कुशहस्तो न दुष्येत यथा पाणिस्तथा कुशः ॥ ४१ ॥

वामपाणौकुशान्कृत्वा दक्षिणेन उपस्पृशेत् ।
विनाचामन्ति ये मूढा रुधिरेणाचमन्ति ते ॥ ४२ ॥

नीवीमध्येषु ये दर्भा ब्रह्मसूत्रेषु ये कृताः ।
पवित्रांस्तान्विजानीयाद्यथा कायस्तथा कुशाः ॥ ४३ ॥

पिण्डे कृतास्तु ये दर्भा यैः कृतं पितृतर्पणम्।

मूत्रोच्छिष्टपुरीषं च तेषां त्यागो विधीयते ॥ ४४ ॥

दैवपूर्वं तु यच्छ्राद्धमदैवं चापि यद्भवेत् ।
ब्रह्मचारी भवेत्तत्र कुर्याच्छ्राद्धं तु पैतृकम् ॥ ४५ ॥

मातुः श्राद्धं तु पूर्वं स्यात्पितृणान्तदनन्तरम् ।
ततो मातामहानां च वृद्धौ श्राद्धत्रयं स्मृतम् ॥ ४६ ॥

ऋतुर्दक्षो वसुः सत्यः कालकामौ धूरिलोचनौ ।
पुरुरवाआर्द्रवाश्च विश्वेदेवाः प्रकीर्तिताः ॥ ४७ ॥

आगच्छन्तु महाभागा विश्वेदेवा महाबलाः ।
ये चात्र विहिताः श्राद्धे सावधाना भवन्तु ते ॥ ४८ ॥

इष्टिश्राद्धे क्रतुर्दक्षो वसुः सत्यश्च दैविके ॥ ४९ ॥

कालः कामोऽग्निकार्य्येषु अधरे धूरिलोचनौ॥

पुरूरवा आर्द्रवाश्च पार्व्वणेषु नियोजयेत् ॥५० ॥

यस्यास्तु न भवेद्भ्राता न विज्ञायेत वा पिता ।
नोपयच्छेत तां प्राज्ञः पुत्रिकाधर्म्मशङ्कया ॥ ५१ ॥

अभ्रातृकां प्रदास्यामि तुभ्यं कन्यामलङ्कृताम् ।
अस्यां यो जायते पुत्रः स मे पुत्रो भविष्यति ॥ ५२ ॥

मातुः प्रथमतः पिण्डं निर्व्वपेत्पुत्रिकासुतः ।
द्वितीये तु पितुस्तस्यास्तृतीयं तत्पितुः पितुः ॥ ५३ ॥

मृन्मयेषु च पात्रेषु श्राद्धे यो भोजयेत्पितृृन् ।
अन्नदाता पुरोधाश्च भोक्ता च नरकं व्रजेत् ॥ ५४ ॥

अलाभे मृन्मयं दद्यादनुज्ञातस्तु तैर्द्विजैः ।
घृतेन प्रोक्षणं कार्य्यं मृदः पात्रं पवित्रकम् ॥ ५५ ॥

श्राद्धं कृत्वा परश्राद्धे यस्तु भुञ्जीत विह्वलः ।
पतन्ति पितरस्तस्य लुप्तपिण्डोदकक्रियाः ॥ ५६ ॥

श्राद्धं दत्त्वाच भुक्त्वाच अध्वानं योऽधिगच्छति॥

भवन्ति पितरस्तस्य तन्मासं पांसुभोजनाः ॥ ५७ ॥

पुनर्भोजनमध्वानं भाराध्ययनमैथुनम् ।
दानं प्रतिग्रहं होमं श्राद्धं कृत्वाष्ट वर्जयेत् ॥ ५८ ॥

अध्वगामी भवेदश्वः पुनर्भोक्ता च वायसः ।
कर्म्मकृज्जायते दासः स्त्रीगमेन च सूकरः ॥ ५९ ॥

दशकृत्वः पिबेदापः सावित्र्याचाभिमन्त्रिताः ।
ततः सन्ध्यामुपासीत शुद्ध्येत तदनन्तरम् ॥ ६० ॥

आर्द्रवासास्तु यत्कुर्याद्बहिर्जानु च यत्कृतम् ।
सर्वं तन्निष्फलं कुर्य्याज्जपं होमं प्रतिग्रहम् ॥ ६१ ॥

चान्द्रायणं नवश्राद्धे पराको मासिके तथा ।
पक्षत्रये तु कृच्छ्रं स्यात्षण्मासे कृच्छ्रमेव च ॥ ६२ ॥

ऊनाब्दिके द्विरात्रं स्यादेकाहः पुनराब्दिके ।
शावे मासं तु भुक्त्वा वा पादकृच्छ्रं विधीयते ॥ ६३ ॥

सर्पविप्रहतानां च शृङ्गिदंष्ट्रिसरीसृपैः ।
आत्मनस्त्यागिनां चैव श्राद्धमेषां न कारयेत् ॥ ६४ ॥

गोभिर्हतं तथोद्बद्धं ब्राह्मणेन तु घातितम् ।
तं स्पृशन्ति च ये विप्रा गोजाश्वाश्च भवन्ति ते ॥ ६५ ॥

अग्निदाता तथा चान्ये पाशच्छेदकराश्च ये ।
तप्तकृच्छ्रेण शुद्ध्यन्ति मनुराह प्रजापतिः ॥ ६६ ॥

त्र्यहमुष्णं पिबेदापस्त्र्यहमुष्णं पयः पिबेत् ।
त्र्यहमुष्णं घृतं पीत्वा वायुभक्षो दिनत्रयम् ॥ ६७ ॥

गोभूहिरण्यहरणे स्त्रीणां क्षेत्रगृहस्य च ।
यमुद्दिश्य त्यजेत्प्राणांस्तमाहुर्ब्रह्मघातकम् ॥ ६८ ॥

उद्यताः सह धावन्ते यद्येको धर्मघातकः ।
सर्व्वे ते शुद्धिमृच्छन्ति स एको ब्रह्मघातकः ॥ ६९ ॥

पतितान्नं यदा भुङ्क्तेभुङ्क्ते चण्डालवेश्मनि ।
स मासार्द्ध चरेद्वारि माम्पं कामकृतेन तु ॥ ७० ॥

यो येन पतितेनैव स्पर्शे स्नानं विधीयते ।
तेनैवोच्छिष्टसंस्पृष्टः प्राजापत्यं समाचरेत् ॥ ७१ ॥

ब्रह्महाच सुरापायी स्तेयी च गुरुतल्यगः ।
महान्ति पातकान्याहुस्तत्संसर्गी च पञ्चमः ॥ ७२ ॥

स्नेहाद्वा यदि वा लोभाद्भयादज्ञानतोऽपि वा ।
कुर्वन्त्यनुग्रहं ये च तत्पापं तेषु गच्छति ॥ ७३ ॥

उच्छिष्टोच्छिष्टसंस्पृष्टो ब्राह्मणस्तु कदाचन ।
तत्क्षणात्कुरुते स्नानमाचामेन शुचिर्भवेत् ॥ ७४ ॥

कुब्जवामनषण्ढेषु गद्गदेषु जडेषु च ।
जात्यन्धे बधिरे मूके न दोषः परिवेदने ॥ ७५ ॥

क्लीबेदेशान्तरस्थे च पतिते व्रजितेऽपि वा ।
योगशास्त्राभियुक्ते च न दोषः परिवेदने ॥ ७६ ॥

पूरणे कूपवापीनां वृक्षच्छेदनपातने ।
विक्रीणीते गजं चाश्वं गोवधं तस्य निर्दिशेत् ॥ ७७ ॥

पादेऽङ्गरोमवपनं द्विपादे श्मश्रु केवलम् ।
तृतीये तु शिखावर्जं चतुर्थे तु शिखावपः ॥ ७८ ॥

चण्डालोदकसंस्पर्शे स्नानं येन विधीयते ।
तेनैवेच्छिष्टसंस्पृष्टः प्राजापत्यं समाचरेत् ॥ ७९ ॥

चण्डालस्पृष्टभाण्डस्थं यत्तोयं पिबति द्विजः ।
तत्क्षणात्क्षिपते यस्तु प्राजापत्यं समाचरेत् ॥ ८० ॥

यदि नोत्क्षिप्यते तोयं शरीरे तस्य जीर्य्यति ।
प्राजापत्यं न दातव्यं कृच्छ्रं सान्तपनं चरेत् ॥ ८१ ॥

चरेत्सान्तपनं विप्रः प्राजापत्यं तु क्षत्रियः ।
तदर्धं तु चरेद्वैश्यः पादं शूद्रे तु दापयेत् ॥ ८२ ॥

रजस्वला यदा स्पृष्टा शुना सूकरवापसैः ।
उपोष्य रजनीमेकां पञ्चगव्येन शुद्ध्यति ॥ ८३ ॥

अज्ञानतः स्नानमात्रमा नाभेस्तु विशेषतः ।
अत ऊर्ध्वं त्रिरात्रं स्यात्तदीयस्पर्शने मतम् ॥ ८४ ॥

बालश्चैव दशाहे तु पञ्चत्वं यदि गच्छति ।
सद्य एव विशुद्ध्येत नाशौचं नोदकक्रिया ॥ ८५ ॥

शावसूतक उत्पन्ने सूतकं तु यदा भवेत् ।
शावेन शुध्यते सूतिर्न सूतिः शावशोधिनी ॥ ८६ ॥

षष्ठेन शुद्ध्येतैकाहं पञ्चमे द्व्यहमेव तु ।
चतुर्थ सप्तरात्रं स्यात्रिपुरुषे दशमेऽहनि ॥ ८७ ॥

मरणारब्धमाशौचं संयोगो यस्य नाग्निभिः ।
आ दाहात्तस्य विज्ञेयं यस्य वैतानिको विधिः ॥ ८८ ॥

आमं मांसं घृतं क्षौद्रं स्नेहाश्च फलसभवाः ।
अन्यभाण्डस्थिता ह्येते निष्क्रान्ताः शुचयः स्मृताः॥ ८९॥

मार्जनीरजसा सक्ते स्नानवस्त्रघटोदके॥

नवाम्भसि तथा चैवहन्ति पुण्यं दिवाकृतम् ॥ ९० ॥

दिवा कपित्थच्छायायां रात्रौ दधिषु सक्तुषु ।
धात्रीफलेषु सर्व्वत्र अलक्ष्मीर्वसते सदा ॥ ९१ ॥

यत्र यत्र च सङ्कीर्णमात्मानं मन्यते द्विजः ।
तत्र तत्र तिलैर्होमं गायत्र्यष्टशतं जपेत् ॥ ९२ ॥

इति श्रीमहर्षिलिखितप्रोक्ते धर्मशास्त्रेभाषाटीका सम्पूर्णा ॥ १४ ॥

इति लिखितस्मृतिः समाप्ता ॥ ४१ ॥

<MISSING_FIG href="../books_images/1682508413.jpg"/>