** <MISSING_FIG href="../books_images/1681131270.jpg"/>**
** प्रथमः खण्डः १.**
श्रीगणेशाय नमः।
अथातो गोभिलोक्तानामन्येषां चैव कर्मणाम् ।
अस्पष्टानां विधिं सम्पग्दर्शयिष्ये प्रदीपवत् ॥ १ ॥
त्रिवृदूर्ध्ववृतं कार्यं तन्तुत्रयमधोवृतम् ।
त्रिवृतं चोपवीतं स्यात्तस्यैको ग्रन्थिरिष्यते ॥ २ ॥
पृष्ठवंशे च नाभ्यां च धृतं यद्विन्दते कटिम् ।
तद्धार्यमुपवीतं स्यान्नातो लंवं न चोच्छ्रितम् ॥ ३ ॥
सदोपवीतिना भाव्यं सदा बद्धशिखेन च ।
विशिखो व्युपवीतश्च यत्करोति न तत्कृतम् ॥ ४ ॥
त्रिः प्राश्यापो द्विरुन्मृज्य मुखमेतान्युपस्पृशेत् ।
आस्यानासाक्षिकर्णांश्च नाभिवक्षःशिरोऽंसकान् ॥ ५ ॥
संहताभिस्त्र्यङ्गुलिभिरास्यमेवमुपस्पृशेत् ।
अङ्गुष्ठेन प्रदेशिन्यां घ्राणं चैवमुपस्पृशेत् ॥ ६ ॥
अङ्गुष्ठानामिकाभ्यां च चक्षुः श्रोत्रं पुनः पुनः ।
कनिष्ठाङ्गुष्ठयोर्नाभिंहृदयं तु तलेनवै ॥ ७ ॥
सर्वाभिस्तु शिरः पश्चाद्बाहू चाग्रेण संस्पृशेत् ।
यत्रोपदिश्यते कर्म कर्तुरगं न तूच्यते ।
दक्षिणस्तत्र विज्ञेयः कर्मणां पारगः करः ॥ ८ ॥
यत्र दिङ्नियमो न स्याज्जपहोमादिकर्म्मसु ।
तिस्रस्तत्र दिशः प्रोक्ता ऐन्द्रीसौम्यापराजिताः ॥ ९ ॥
तिष्ठन्नासीनः प्रह्णोवा नियमो यत्र नेदृशः ।
तदासीनेन कर्त्तव्यं न प्रह्वेण न तिष्ठता ॥ १० ॥
गौरी पद्मा शची मेधा सावित्री विजया जया ।
देवसेना स्वधा स्वाहा मातरोलोकमातरः ॥ ११ ॥
धृतिः पुष्टिस्तथा तुष्टिरात्मदेवतया सह ।
गणेशेनाधिका ह्येता वृद्धौ पूज्याश्च षोडश ॥१२ ॥
कर्म्मादिषु तु सर्व्वेषु मातरः सगणाधिपाः ।
पूजनीयाः प्रयत्नेन पूजिताः पूजयन्ति ताः ॥१३ ॥
प्रतिमासु च शुभ्रासु लिखित्वा वा पटादिषु ।
अपि वाक्षतपुञ्जेषु नैवेद्यैश्चपृथग्विधैः॥ १४ ॥
कुड्यलग्रांवसोर्द्धारां सप्तधारां घृतेन तु ।
कारयेत्पञ्चधारां वा नातिनीचां न चोच्छ्रिताम् ॥ १५॥
आयुष्याणि च शान्त्यर्थं जप्त्वा तत्र समाहितः ।
षड्भ्यः पितृभ्यस्तदनु भक्त्याश्राद्धमुपक्रमेत् ॥ १६ ॥
अनिष्ट्वा तु पितृृञ्छ्राद्धे न कुर्यात्कर्म वैदिकम् ।
तत्रापि मातरः पूर्वं पूजनीयाः प्रयत्नतः ॥ १७ ॥
वसिष्ठोक्तोविधिः कृत्स्नो द्रष्टव्योऽत्र निरामिषः ।
अतः परं प्रवक्ष्यामि विशेष इह यो भवेत् ॥ १८ ॥
इति श्रीकात्यायनस्मृतौ प्रथमःखण्डः समाप्तः ॥ १ ॥
<MISSING_FIG href="../books_images/1681130275.jpg"/>
** द्वितीयः खण्डः २.**
प्रातरामन्त्रितान्विप्रान्युग्मानुभयतस्तथा ।
उपवेश्य कुशान्दद्यादृजुनैव हि पाणिना ॥ १ ॥
हरिता यज्ञिया दर्भाः पीतकाः पाकयज्ञियाः ।
समूलाः पितृदैवत्याः कल्माषा वैश्वदेविकाः ॥ २ ॥
हरिता वै सपिञ्जूलाः शुष्काः स्निग्धाः समाहिताः ।
रत्निमात्रप्रमाणेन पितृतीर्थेन संस्तृताः ॥ ३ ॥
पिण्डार्थं ये स्तृता दुर्भास्तर्पणार्थं तथैव च ।
घृतैः कृते च विण्मूत्रे त्यागस्तेषां विधीयते ॥ ४ ॥
दक्षिणं पातयेज्जानुं देवान्परिचरन्सदा ।
पातयेदितरं जानुं पितृृन्परिचरन्नपि ॥ ५ ॥
निपातो नहि सव्यस्य जानुनो विद्यते क्वचित् ।
सदा परिचरेद्भक्त्या पितृृनप्यत्र देववत् ॥ ६ ॥
पितृभ्य इति दत्तेषु उपवेश्य कुशेषु तान् ।
गोत्रनामभिरामन्त्र्य पितुनर्घ्यं प्रदापयेत् ॥ ७ ॥
नात्रापसव्यकरणं न पित्र्यं तीर्थमिष्यते ।
पात्राणां पूरणादीनि दैवेनैव हि कारयेत् ॥ ८ ॥
ज्येष्ठोत्तरकरान्युग्मान्कराग्राग्रपवित्रकान् ।
कृत्वार्घ्यं सम्प्रदातव्यं नैकैकस्यात्र दीयते ॥ ९ ॥
अनन्तगर्भिणं साग्रं कौशं द्विदलमेव च ।
प्रादेशमात्रं विज्ञेयं पवित्रं यत्र कुत्रचित् ॥ १० ॥
एतदेव हि पिञ्जूल्या लक्षणं समुदाहृतम् ।
आज्यस्योत्पवनार्थं यत्तदप्येतावदेव तु ॥ ११ ॥
एतत्प्रमाणामेवैके कौशीमेवार्द्रमञ्जरीम् ।
शुष्कां वा शीर्णकुसुमां पिञ्जूलीं परिचक्षते ॥ १२ ॥
पित्र्यमन्त्रानुद्रवण आत्मालम्भेऽधमेक्षणे ।
अधोवायुमुत्सर्गे प्रहासेऽनृतभाषणे ॥ १३ ॥
मार्जारमूषकस्पर्शेआक्रुष्टे क्रोधसम्भवे ।
निमित्तेष्वेषु सर्वत्र कर्म्म कुर्वन्नपः स्पृशेत् ॥ १४ ॥
इति कात्यायनस्मृतौ द्वितीयः खण्डः ॥ २ ॥
<MISSING_FIG href="../books_images/1681130275.jpg"/>
** तृतीयः खण्डः ३.**
अक्रिया त्रिविधा प्रोक्ता विद्वद्भिः कर्म्मकारिणाम् ।
अक्रिया चपरोक्ता चतृतीया चायथाक्रिया ॥ १ ॥
स्वशाखाश्रयमुत्सृज्य परशाखाश्रयं च यः ।
कर्तुमिच्छति दुर्मेधा मोघं तत्तस्य चेष्टितम् ॥ २ ॥
यन्नाम्नातं स्वशाखायां परोक्तमविरोधि च ।
विद्वद्भिस्तदनुष्ठेयमग्निहोत्रादिकर्म्मवत् ॥ ३ ॥
प्रवृत्तमन्यथा कुर्य्याद्यदि मोहात्कथञ्चन।
यतस्तदन्यथाभूतं तत एव समापयेत् ॥ ४ ॥
समाप्ते यदि जानीयान्मयैतदयथाकृतम् ।
तावदेव पुनः कुर्यान्नावृत्तिः सर्व्वकर्म्मणः ॥ ९ ॥
प्रधानस्याक्रिया यत्र साङ्गं तत्क्रियतेपुनः ।
तदङ्गस्याक्रियायां च नावृत्तिर्नैव तत्क्रिया ॥ ६ ॥
मधुमध्विति यस्तत्र त्रिर्जपोऽशितुमिच्छताम् ।
गायत्र्यनन्तरं सोऽत्र मधुमन्त्रविवर्जितः ॥ ७ ॥
अन्य एव जपः कार्य्यः सोमसामादिकः शुभः ॥ ८ ॥
यस्तत्र प्रकरोऽन्नस्य तिलवद्यववत्तथा ।
उच्छिष्टसन्निधौ सोऽत्र तृप्तेषु विपरीतकः ॥ ९ ॥
सम्पन्नमिति तृप्ताः स्थप्रश्नस्थाने विधीयते ।
सुसम्पन्नमिति प्रोक्ते शेषमन्नं निवेदयेत् ॥ १० ॥
प्रागग्रेष्वथ दर्भेषु आद्यमामन्त्र्य पूर्ववत् ।
अपः क्षिपेत्मूलदेशेऽवनेनिक्ष्वेति पात्रतः ॥ ११ ॥
द्वितीयं च तृतीयं च मध्यदेशाग्रदेशयोः ।
मातामहप्रभृतींस्त्रीनतेषामेव वामतः॥ १२॥
सर्वस्मादन्नमुद्धृत्य व्यञ्जनैरुपसिच्य च ।
संयोज्य यवकर्कन्धूदधिभिः प्राङ्मुखस्ततः ॥ १३ ॥
अवनेजनवत्पिण्डान्दत्त्वा बिल्वप्रमाणकान् ।
तत्पात्रक्षालनेनाथ पुनरप्यवनेजयेत् ॥ १४ ॥
इति कात्यायनस्मृतौ तृतीयः खण्डः ॥ ३ ॥
<MISSING_FIG href="../books_images/1681130275.jpg"/>
** चतुर्थः खण्डः ४.**
उत्तरोत्तरदानेन पिण्डानामुत्तरोत्तरः ।
भवेदधश्चाधराणामधरः श्राद्धकर्मणि ॥ १ ॥
तस्माच्छ्राद्धेषु सर्व्वेषु वृद्विमत्स्वितरेषु च ।
मूलमध्याग्रदेशेषु ईषत्सक्तूंश्च निर्वपेत् ॥ २ ॥
गन्धादीन्निःक्षिपेत्तूष्णीन्तत आचामयेद्द्विजान् ।
अन्यत्राप्येष एव स्याद्यवादिरहितो विधिः ॥ ३ ॥
दक्षिणाप्लवनेदेशे दक्षिणाभिमुखस्य च ।
दक्षिणाग्रेषु दर्भेषु एषोऽन्यत्र विधिः स्मृतः ॥ ४ ॥
अथाग्रभूभिमासिञ्चेत्सुसम्प्रोक्षितमस्त्विनि ।
शिवा आपः सन्त्विति च युग्मानेवोदकेन च ॥ ५ ॥
सौमनस्यमस्त्विति च पुष्पदानमनन्तरम् ।
अक्षतं चारिष्टं चास्त्वित्यक्षतान्प्रतिपादयेत् ॥ ६ ॥
अक्षय्योदकदानं तु अर्घ्यदानवदिष्यते ।
षष्ठ्यैव नित्यं तत्कुर्य्यान्न चतुर्थ्या कदाचन ॥ ७ ॥
अर्घ्येऽक्षय्योदके चैव पिण्डदानेऽवनेजने ।
तन्त्रस्यतु निवृत्तिः स्यात्स्वधावाचन एव च ॥ ८ ॥
प्रार्थनासु प्रतिप्रोक्ते सर्व्वास्वेव द्विजोत्तमैः ।
पवित्रान्तर्हितान्पिण्डान्सिञ्चेदुत्तानपात्रकृत् ॥ ९ ॥
युग्मानेव स्वस्तिवाच्यमङ्गुष्ठाग्रग्रहं सह ।
कृत्वा धुर्य्यस्य विप्रस्य प्रणम्यानुव्रजेत्ततः ॥ १० ॥
एष श्राद्धविधिः कृत्स्न उक्तः सङ्क्षेपतो मया ।
ये विदन्ति न मुह्यन्ति श्राद्धकर्मसु ते क्वचित् ॥ ११ ॥
इदं शास्त्रं च गुह्यं च परिसङ्ख्यानमेव च ।
वसिष्ठोक्तं च यो वेद स श्राद्धं वद नेतरः ॥ १२ ॥
इति कात्यायनस्मृतौ चतुर्थः खण्डः ॥ ४ ॥
<MISSING_FIG href="../books_images/1681130275.jpg"/>
** पञ्चमः खण्डः ५.**
असकृद्यानि कर्म्माणि क्रियेरन्कर्मकारिभिः ।
प्रतिप्रयोगं नैताः स्युर्मातरः श्राद्धमेव च ॥ १ ॥
आधाने होमयोश्चैव वैश्वदेवे तथैव च ।
बलिकर्म्मणि दर्शे चपौर्णमासे तथैव च ॥ २ ॥
नवयज्ञे च यज्ञज्ञा वदन्त्येवं मनीषिणः ।
एकमेव भवेच्छ्राद्धमेतेषु न पृथक्पृथक् ॥ ३ ॥
नाष्टकासु भवेच्छ्राद्धं न श्राद्धे श्राद्धामिष्यते ।
न सोष्यन्तीजातकर्म्म प्रोषितागतकर्म्मसु ॥ ४ ॥
विवाहादिः कर्म्मगणो य उक्तो
गर्भाधानं शुश्रुम यस्य चान्ते ।
विवाहादावेकमेवात्र कुर्याच्छ्राद्धं
नादौ कर्म्मणः कर्म्मणः स्यात् ॥ ५ ॥
प्रदोषे श्राद्धमेकं स्याद्गोनिष्क्रामप्रवेशयोः ।
न श्राद्धे युज्यते कर्तुं प्रथमे पुष्टिकर्म्मणि ॥ ६ ॥
हलाभियोगादिषु तु षट्सु कुर्यात्पृथक्पृथक् ।
प्रतिप्रयोगमप्येषामादावेकं तु कारयेत् ॥ ७ ॥
बृहत्पत्रक्षुद्रपशुस्वस्त्यर्थं परिविष्यतोः ।
सूर्य्येन्द्वोःकर्म्मणी ये तु तयोः श्राद्धं न विद्यते ॥ ८ ॥
न दशाग्रन्थिके चैव विषवद्दष्टकर्म्मणि ।
कृमिदष्टचिकित्सायां नैवशेषेषु विद्यते ॥ ९ ॥
गणशः क्रियमाणेषु मातृभ्यः पूजनं सकृत् ।
सकृदेव भवेच्छ्राद्धमादौन पृथगादिषु ॥ १० ॥
यत्र यत्र भवेच्छ्राद्धं तत्र तत्र च मातरः ।
प्रासङ्गिकमिदं प्रोक्तमतः प्रकृतमुच्यते ॥ ११ ॥
इति कात्यायनस्मृतौ पञ्चमः खण्डः ॥ ५ ॥
<MISSING_FIG href="../books_images/1681130275.jpg"/>
** षष्ठः खण्डः ६.**
आधानकाला ये प्रोक्तास्तथा याश्चाग्नियोनयः ।
तदाश्रयोऽग्निमादध्यादग्निमानग्रजो यदि ॥ १ ॥
दारादिगमनाधाने यः कुर्य्यादग्रजाग्रिमः ।
परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्व्वजः ॥ २ ॥
परिवित्तिपरिवेत्तारौ नरकं गच्छतो ध्रुवम् ।
अपि चीर्णप्रायश्चित्तौ पादोनफलभागिनौ॥ ३ ॥
देशान्तरस्थक्लीबैकवृषणानसहोदरान् ।
वेश्यातिसक्तपतितशूद्रतुल्यातिरोगिणः ॥ ४ ॥
जडमूकान्धबधिरकुब्जवामनकुण्डकान् ।
अतिवृद्धानभार्यांश्च कृषिसक्तान्नृपस्य च ॥ ५ ॥
धनवृद्धिप्रसक्त्तांश्च कामतः कारिणस्तथा ।
कुलटोन्मत्तचारांश्चपरिविन्दन्न दुष्यति ॥ ६ ॥
धनवार्धुषिकं राजसेवकं कर्म्मकं तथा ।
प्रोषितं च प्रतीक्षेत वर्षत्रयमपि त्वरन् ॥ ७ ॥
प्रोषितं यद्यशृण्वानमब्दादूर्ध्वं समाचरेत् ।
आगते तु पुनस्तस्मिन्पादं तच्छुद्धये चरेत् ॥ ८ ॥
लक्षणे प्राग्गतायास्तु प्रमाणं द्वादशाङ्गुलम् ।
तन्मूलसक्ता योदीची तस्या एतन्नवोत्तरम् ॥ ९॥
उदग्गतोयाः संलग्नाः शेषाः प्रादेशमान्त्रिकाः ।
सप्तसप्ताङ्गुलस्त्यक्त्वा कुशेनैव समुल्लिखेत् ॥१०॥
भानक्रियायामुक्तायामनुक्ते मानकर्त्तरि ।
मानकृद्यजमानः स्याद्विदुषामेष निश्चयः ॥ ११ ॥
पुण्यवानादधीताग्निं स हि सर्वैः प्रशस्यते ।
अनर्द्धकत्वं यत्तस्य काम्यैस्तन्नीयते शमम् ॥ १२ ॥
यस्य दत्ता भवेत्कन्या वाचा सत्येन केनचित् ।
सोऽन्त्यां समिधमाधास्यन्नादधीतैव नान्यथा ॥ १३ ॥
अनूढैव तु सा कन्या पञ्चत्वं यदि गच्छति ।
न यथा व्रतलोपोऽस्य तेनैवान्यां समुद्वहेत् ॥ १४ ॥
अथ चेन्न लभेतान्यांयाचमानोऽपि कन्यकाम् ।
तमग्निमात्मसात्कृत्वा क्षिप्रं स्यादुत्तराश्रमी ॥ १५ ॥
इति कात्यायनस्मृतौ षष्ठः खण्डः ॥ ६ ॥
<MISSING_FIG href="../books_images/1681130275.jpg"/>
** सप्तमः खण्डः ७.**
अश्वत्थो यः शमीगर्भः प्रशस्तोर्व्वीसमुद्भवः ।
तस्य या प्राङ्मुखी शाखा वोदीची वोर्द्धगापि वा ॥ १ ॥
अरणिस्तन्मयी प्रोक्ता तन्मय्येवोत्तरारणिः ।
सारवद्दारवं चात्रमोविली चप्रशस्यते ॥ २ ॥
संसक्तमूलो यः शम्याः स शमीगर्भ उच्यते ।
अलाभे त्वशमीगर्भादुद्धरेदविलम्बितः ॥ ३ ॥
चतुर्विंशतिरङ्गुष्ठदैर्घ्येषडपि पार्थिवम् ।
चत्वार उच्छ्रये मानमरण्योः परिकीर्तितम् ॥ ४ ॥
अष्टाङ्गुलः प्रमन्थः स्याच्चात्रं स्याद्द्वादशाङ्गुलम् ।
ओविली द्वादशैव स्यादेतन्मथनयन्त्रकम् ॥ ५ ॥
अङ्गुष्ठाङ्गुलमानं तु यत्र यत्रोपदिश्यते ।
तत्र तत्र बृहत्पर्व ग्रन्थिभिर्भिनुयात्सदा ॥ ६ ॥
गोवालैःशणसम्मिश्रैस्त्रिवृत्तममलात्मकम् ।
स्यामप्रमाणं नेत्रं स्यात्प्रमथ्यस्तेन पावकः ॥ ७ ॥
मूर्द्धाक्षिकर्णवक्त्राणि कन्धरा चापि पञ्चमी ।
अङ्गुष्ठमात्राण्येतानि ह्यङ्गुष्ठं वक्ष उच्यते ॥ ८ ॥
अङ्गुष्ठमात्रं हृदयं त्र्यङ्गुष्ठमुदरं स्मृतम् ।
एकाङ्गुष्ठा कटिर्ज्ञेया द्वौ बस्तिर्द्वे च गुह्यके ॥ ९ ॥
उरूजङ्घे चपादौ च चतुस्त्र्येर्केर्यथाक्रमम् ।
अरण्यवयवा ह्येते याज्ञिकैःपरिकीर्तिताः ॥ १० ॥
यत्तद्गुह्यमिति प्रोक्तं देवयोनिस्तु सोच्यते ।
अस्यां यो जायते वह्निः स कल्याणकृदुच्यते ॥ २१ ॥
अन्येषु ये तु मथ्नन्ति ते रोगभयमाप्नुयुः ।
प्रथमे मन्थने त्वेष नियमो नोतरेषु च ॥१२ ॥
उत्तरारणिनिष्पन्नः प्रमन्थः सर्वदा भवेत् ।
योनिसङ्करदोषेण युज्यते ह्यन्यमन्थकृत् ॥ १३ ॥
आर्द्रा ससुषिराचैव घूर्णाङ्गी पाटिता तथा ।
न हिता यजमानानामरणिश्चोत्तराणिः ॥ १४ ॥
इति कात्यायनस्मृतौ सप्तमः खण्डः ॥ ७ ॥
<MISSING_FIG href="../books_images/1681130275.jpg"/>
** अष्टमः खण्डः ८.**
परिधायाहतं वासः प्रावृत्य च यथाविधि ।
बिभृयात्प्राङ्मुखो यन्त्रमावृता वक्ष्यमाणया ॥ १ ॥
चात्रबुध्ने प्रमन्थाग्रं गाढं कृत्वा विचक्षणः ।
कृत्वोत्तराग्रामरणिन्तद्बुध्नमुपरि न्यसेत् ॥ २ ॥
चात्राधः कीलकाग्रस्थामोविलीमुदगग्रकाम् ॥
विष्टम्भाद्धारयेद्यन्त्रं निष्कम्पं प्रयतः शुचिः ॥ ३ ॥
त्रिरुद्वेष्ट्याथ नेत्रेण चात्रं पत्न्योऽहतांशुकाः ॥
पूर्वं मन्थन्त्यरण्यन्ताः प्राच्यग्रेः स्याद्यथा च्युतिः ॥ ४ ॥
नैकयापि विना कार्य्यमाधानं भार्य्यया द्विजैः ॥
अकृतं तद्विजानीयात्सर्वान्वाचा रमन्ति यत् ॥ ५॥
वर्णज्यैष्ठ्येन बह्वीभिः सवर्णाभिश्चजन्मतः ॥
कार्यमग्निच्युतेराभिः साध्वीभिर्मथनं पुनः ॥ ६ ॥
नात्रशूद्रीम्प्रयुञ्जीत न द्रोहद्वेषकारिणीम् ॥
अव्रतस्थां तथा नान्यपुंसा च सह सङ्गताम् ॥ ७ ॥
ततः शक्ततरा पश्चादासामन्यतरापि वा ॥
उपेतानां वान्यतमा मन्थेदग्निं निकामतः ॥ ८ ॥
जातस्य लक्षणङ्कृत्वा तम्प्रणीय समिध्य च ॥
आधाय समिधं चैवब्राह्मणं चोपवेशयेत् ॥ ९ ॥
ततः पूर्णाहुतिं हुत्वा सर्व्वमन्त्रसमन्विताम् ॥
गां दद्याद्यज्ञवान्ते ब्रह्मणे वाससी तथा ॥ १० ॥
होमपात्रमनादेशे द्रवद्रव्ये स्रुवः स्मृतः ॥
पाणिरेवेतरस्मिंस्तु स्रुचैवात्र तु हूयते ॥ ११ ॥
खादिरो वाथ पालाशोद्विवितस्तिः स्रुवः स्मृतः ॥
स्रुग्बाहुमात्रा विज्ञेया वृत्तस्तु प्रग्रहस्तयोः ॥ १२ ॥
स्रुवाग्रे व्राणवत्खातं द्व्यङ्गुष्ठपरिमण्डलम् ॥
जुह्वाः शराववत्खातं सनिर्व्वाहं षडङ्गुलम् ॥ १३॥
तेषां प्राक्शः कुशैः कार्य्यः सम्प्रमार्गोजुहूषता ॥
प्रतापनं च लिप्तानां प्रक्षाल्योष्णेन वारिणा ॥ १४ ॥
प्राञ्चं प्राञ्चमुदगग्नेरुदगग्रं समीपतः ॥
तत्तथाऽऽसादयेद्द्रव्यं यद्यथा विनियुज्यते ॥ १५ ॥
आज्यं हव्यमनादेशे जुहोतिषु विधीयते ॥
मन्त्रस्य देवतायाश्च प्रजापतिरिति स्थितिः ॥ १६॥
नाङ्गुष्ठाधिका ग्राह्या समित्स्थूलतया क्वचित् ॥
न वियुक्ता त्वचाचैव न सकीटा न पाटिता ॥ १७ ॥
प्रादेशान्नाधिका नोना न तथा स्याद्विशाखिका।
न सपर्णा न निर्व्वीर्य्याहोमेषु च विजानता ॥१८ ॥
प्रादेशद्वयमिध्मस्यप्रमाणं परिकीर्तितम् ॥
एवंविधाः स्युरेवेह समिधः सर्वकर्मसु ॥ १९ ॥
समिधोऽष्टादशेध्मस्य प्रवदन्ति मनीषिणः ॥
दर्शे च पौर्णमासे च क्रियास्वन्यासु विंशतिः ॥ २० ॥
समिदादिषु होमेषु मन्त्रदैवतवर्जिता ॥
पुरस्ताच्चोपरिष्टाच्च हीन्धनार्थंसमिद्भवेत् ॥ २१ ॥
इध्मोऽप्येधार्थमाचार्य्यैर्हविराहुतिषु स्मृतः ॥
यत्र चास्य निवृत्तिः स्यात्तत्स्पष्टीकरवाण्यहम् ॥ २२ ॥
अङ्गहोमसभित्तन्त्रसोष्यन्त्याख्येषु कर्म्मसु ॥
येषां चैतदुपर्य्युक्तं तेषु तत्सदृशेषु च ॥ २३ ॥
अक्षभङ्गादिविपदि जलहोमादिकर्म्मणि ॥
सोमादितिषु सर्वासु नैतेष्विध्मो विधीयते ॥ २४ ॥
इति कात्यायनस्मृतावष्टमः खण्डः ॥ ८ ॥
<MISSING_FIG href="../books_images/1681130275.jpg"/>
** नवमः खण्डः ९**
सूर्येऽन्तशैलमप्राप्ते षट्त्रिंशद्भिःसदाङ्गुलैः ॥
प्रादुष्करणमग्नीनां प्रातर्भासां च दर्शनात् ॥ १ ॥
हस्तादूर्ध्वेरविर्यावद्गिरिं हित्वा न गच्छति ॥
तावद्धोमविधिः पुण्यो नात्येत्युदितहोमिनाम् ॥ २ ॥
यावत्सम्यङ् न भाव्यन्ते नभस्यृक्षाणि सर्वतः ॥
न च लौहित्यमापैति तावत्सायं च हूयते ॥ ३ ॥
रजोनीहारधूमाभ्रवृक्षाग्रान्तरिते रवौ ॥
सन्ध्यामुद्दिश्य जुहुयाद्धुतमस्य न लुप्यते ॥ ४ ॥
न कुर्यात्क्षिप्रहोभेषु द्विजः परिसमूहनम् ॥
वैरूपाक्षं च न जपेत्प्रपदं च विवर्जयेत् ॥ ५ ॥
पर्य्युक्षणं च सर्वत्र कर्तव्यमुदितेऽन्विति ॥
अन्ते व वामदेव्यस्य गानं कुर्य्यादृचस्त्रिधा ॥ ६ ॥
अहोमकेष्वपि भवेद्यथोक्तं चन्द्रदर्शनम् ॥
वामदेव्यं गणेष्वन्ते बल्यन्ते वैश्वदेविके ॥ ७ ॥
यान्यधस्तरणान्तानि न तेषु स्तरणं भवेत् ॥
एककार्यार्थसाध्यत्वात्परिधनिपि वर्जयेत् ॥ ८ ॥
बर्हिः पर्य्युक्षणं चैव वामदेव्यजपस्तथा ॥
कृत्वाहुतिषु सर्व्वासु त्रिकर्म तन्न विद्यते ॥ ९ ॥
हविष्येषु यवा मुख्याम्तदनु व्रीहयः स्मृताः ॥
माषकोद्रवगौरादि सर्व्वालाभेऽपवर्जयेत् ॥ १० ॥
पाण्याहुतिर्द्वादशपर्व्वपूरिका
कंसादिनाचेत्स्रुवमात्रपूरिका ॥
दैवेन तीर्थेन च हूयते हविः
स्वङ्गारिणि स्वर्चिषि तच्च पावके ॥ ११ ॥
योनर्चिषिजुहोत्यग्नौव्यङ्गारिणि च मानवः॥
मन्दाग्निरामयावी च दरिद्रश्च स जायते ॥ १२॥
तस्मात्समिद्धे होतव्यं नासमिद्धे कदाचन ॥
आरोग्यमिच्छतायुश्च श्रियमात्यन्तिकीं पराम् ॥ १३ ॥
होतव्ये च हुते चैव पाणिशूर्पस्फ्यदारुभिः
न कुर्यादग्निधमनं कुर्याद्वा व्यजनादिना ॥ १४ ॥
मुखेनैके धमन्त्याग्निम्मुखाद्ध्येषोऽध्यजायत।
नाग्निं मुखेनेति च यल्लौकिके योजयन्ति तत् ॥ १५ ॥
इति कात्यायनस्मृतौ नवमः खण्डः॥ ९ ॥
<MISSING_FIG href="../books_images/1681130275.jpg"/>
** दशमः खण्डः १०.**
यथाहनि तथा प्रातर्नित्यं स्नायादनातुरः ॥
दन्तान्प्रक्षाल्य नद्यादौ गृहे चेत्तदमन्त्रवत् ॥ १ ॥
नारदाद्युक्तवार्क्षं यदष्टाङ्गुलमपाटितम् ॥
सत्वचं दन्तकाष्ठं स्यात्तदग्रेण प्रधावयेत् ॥ २ ॥
उत्थाय नेत्रे प्रक्षाल्य शुचिर्भूत्वा समाहितः ॥
परिजप्य च मन्त्रेण भक्षयेद्दन्तधावनम् ॥ ३ ॥
आयुर्बलं यशो वर्च्चःप्रजाः पशुवसूनि च ॥
ब्रह्म प्रज्ञां च मेधां च त्वं नो देहि वनस्पते ॥ ४ ॥
मासद्वयं श्रावणादि सर्व्वा नद्यो रजस्वलाः ॥
तासु स्नानं न कुर्वीत वर्जयित्वा समुद्रगाः ॥ ५ ॥
धनुःसहस्राण्यष्टौ तु गतिर्यासां न विद्यते ॥
न ता नदीशब्दवहा गर्तास्ताः परिकीर्तिताः ॥ ६ ॥
उपाकर्म्मणि चोत्सर्गे प्रेतस्नाने तथैव च ॥
चन्द्रसूर्यग्रहे चैव रजोदोषो न विद्यते ॥ ७ ॥
वेदाश्छन्दांसि सर्वाणि ब्रह्माद्याश्च दिवौकसः ॥
जलार्थिनोऽथ पितरो मरीच्याद्यास्तथर्षयः ॥ ८ ॥
उपाकर्म्मणि चोत्सर्गेस्नानार्थम्ब्रह्मवादिनः ॥
पिपासूननुगच्छन्ति सन्तुष्टाः स्वशरीरिणः ॥ ९ ॥
समागमस्तु यत्रैषां तत्र हत्यादयो मलाः ॥
नूनं सर्व्वे क्षयं यान्ति किमुतैकं नदीरजः ॥ १० ॥
ऋषीणां सिच्यमानानामन्तरालं समाश्रितः ॥
सम्पिबेद्यः शरीरेण पर्षन्मुक्तजलच्छटाः॥ ११ ॥
विद्यादीन्ब्राह्मणः कामान्वरादीन्कन्यका ध्रुवम् ॥
आमुष्मिकान्यपि सुखान्याप्नुयात्स न संशयः ॥ १२ ॥
अशुच्यशुचिना दत्तमाममन्नं जलादिना ॥
अनिर्गतदशाहास्तु प्रेता रक्षांसि भुञ्जते ॥ १३ ॥
स्वर्धुन्यम्भःसमानि स्युः सर्व्वाण्यम्भांसि भूतले ॥
कूपस्थान्यपि सोमार्कग्रहणे नात्र संशयः ॥ १४ ॥
इति कात्यायनस्मृतौ दशमः खण्डः ॥ १० ॥
इति कर्म्मप्रदीपे परिशिष्टे कात्यायनविराचेते प्रथमः प्रपाठकः १
** एकादशः खण्डः ११.**
अत ऊर्ध्वं प्रवक्ष्यामि सन्ध्योपासनकं विधिम् ॥
अनर्हः कर्म्मणां विप्रः सन्ध्याहीनो यतः स्मृतः ॥ १ ॥
सव्ये पाणौ कुशान्कृत्वा कुर्य्यादाचमनक्रियाम् ॥
ह्रस्वाः प्रचरणीयाः स्युः कुशा दीर्घास्तु बर्हिषः ॥ २ ॥
दर्भाः पवित्रमित्युक्तमतः सन्ध्यादिकर्म्मणि ॥
सव्यः सोपग्रहः कार्य्योदक्षिणः सपवित्रकः ॥ ३ ॥
रक्षयेद्वारिणात्मानं परिक्षिप्य समन्ततः ॥
शिरसो मार्जनं कुर्य्यात्कुशैः सोदकबिन्दुभिः ॥ ४ ॥
प्रणवो भूर्भुवः स्वश्च सावित्री च तृतीयका ॥
अब्दैवतं त्र्यृचं चैव चतुर्थमिति मार्जनम् ॥ ५ ॥
भूराद्यास्तिस्र एवैता महाव्याहृतयोऽव्ययाः ॥
महर्जनस्तपः सत्यं गायत्री च शिरस्तथा ॥ ६ ॥
आपोज्योतीरसोऽमृतं ब्रह्म भूर्भुवः स्वरिति शिरः ॥
प्रतिप्रतीकं प्रणवमुच्चारयेदन्ते च शिरसः ॥ ७ ॥
एता एतां सहानेन तथैभिर्दशभिः सह ॥
त्रिर्जपेदायतप्राणः प्राणायामः स उच्यते ॥ ८ ॥
करेणोद्धृत्य सलिलं घ्राणमासज्य तत्र च ॥
जपेदनायतासुर्वा त्रिः सकृद्वाघमर्षणम् ॥ ९ ॥
उत्थायार्कं प्रति प्रोहेत्रिकेणाञ्जलिनाम्भसः ॥
ओं चित्रमृग्द्वयेनाथ चोपतिष्ठेदनन्तरम् ॥ १० ॥
सन्ध्याद्वयेऽप्युपस्थानमेतदाहुर्मनीषिणः ॥
मध्ये त्वह्न उपर्यस्य विभ्राडादीच्छयाजपेत् ॥ ११ ॥
तदसंसक्तपार्ष्णिर्वा एकपादर्द्धपादपि ॥
कुर्यात्कृताञ्जलिर्वापि ऊर्ध्वबाहुरथापि वा ॥ १२ ॥
यत्र स्यात्कृच्छ्रभूयस्त्वं श्रेयसोऽपि मनीषिणः ॥
भूपस्त्व ब्रुवेत तत्र कृच्छ्राच्छ्रेयो ह्यवाप्यते ॥ १३ ॥
तिष्ठेदुदयनात्पूर्वाम्मध्यमामपि शक्तितः ॥
आसीम उद्गमाच्चान्त्यां सन्ध्यां पूर्वत्रिकं जपन् ॥ १४ ॥
एतत्सन्ध्यात्रयं प्रोक्तं ब्राह्मण्यं यत्र तिष्ठति ॥
यस्य नास्त्यादरस्तत्र न स ब्राह्मण उच्यते ॥ १५ ॥
सन्ध्यालोपाच्च चकितः स्नानशीलश्च यः सदा ॥
तं दोषा नोपसर्पन्ति गरुत्मन्तमिवोरगाः ॥ १६ ॥
वेदमादित आरभ्य शक्तितोऽहरहर्जपेत् ॥
उपतिष्ठेत्ततो रुद्रं स1र्वाद्वा वैदिकाज्जपेत् ॥ १७ ॥
** इति कात्यायनस्मृतावेकादशः खण्डः ॥ ११ ॥**
द्वादशः खण्डः १२.
अथाद्भिस्तर्पयेद्देवान्सतिलाभिः पितृृनपि ॥
नमस्ते तर्पयामीति आदावोमिति च ब्रुवन् ॥ १ ॥
ब्रह्माणं विष्णुं रुद्रं प्रजापतिं वेदान् देवांश्छन्दां
स्यृषीन् पुराणाचार्यान् गन्धर्वानितरान्मासं
संवत्सरं सावयवं देवीरप्सरसो देवानुगान्नागान्
सागरान्पर्वतान् सरितो दिव्यान्मनुष्यानितरा-
न्मनुष्यान् यक्षान्राक्षांसि सुपर्णान् पिशाचान्
पृथिवीमोषधीः पशून्वनस्पतीन् भूतग्रामं चतुर्वि-
धमित्युपवीत्यथ प्राचीनावीती यमं यमपुरुषान्
कव्यवाहमनलंसोमं यममर्य्यमणमग्निष्वात्तान्
सोमपीथान् बर्हिषदोऽथ स्वान् पितृृन् सकृत्
सकृन्मातामहांश्चेति प्रतिपुरुषमभ्यस्येज्ज्येष्ठ-
भ्रातृश्वशुरपितृव्यमातुलाश्च पितृवंशमातृवंशौ
ये चान्ये मत्त उदकमर्हन्तितांस्तर्पयामीत्यय
मवसानाञ्जलिरथ श्लोकाः ॥ २ ॥
छायां यथेच्छेच्छरदातपार्तः पयः पिपासुः क्षुधितोऽलमन्नम् ॥
बालो जनित्रीं जननी च बालं योषित्पुमांसं पुरुषश्च योषाम् ॥ ३ ॥
तथा सर्वाणि भूतानि स्थावराणि चराणि च ॥
विप्रादुदकमिच्छन्ति सर्वाभ्युदयकृद्धि सः ॥ ४ ॥
तस्मात्सदैव कर्त्तव्यमकुर्वन्महतैनसा ॥
युज्यते ब्राह्मणः कुर्व्वन्विश्वमेतद्बिभर्त्ति हि ॥ ५ ॥
अल्पत्वाद्धोमकालस्य बहुत्वात्स्नानकर्म्मणः ॥
प्रातर्न तनुयात्स्नानं होमलोपो दि गर्हितः ॥ ६॥
इति कात्यायनस्मृतौ द्वादशः खण्डः ॥ १२ ॥
<MISSING_FIG href="../books_images/1681130275.jpg"/>
त्रयोदशः खण्डः १३.
पञ्चानामथ सत्राणां महतामुच्यते विधिः ॥
यैरिष्ट्वा सततं विप्रः प्राप्नुयात्सद्म शाश्वतम् ॥ १ ॥
देवभूतपितृब्रह्ममनुष्याणामनुक्रमात् ॥
महासत्राणि जानीयात्त एवेह महामखाः ॥ २ ॥
अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम्।
होमो दैवो बलिर्भौतो नृयज्ञोऽतिथिपूजनम् ॥ ३॥
श्राद्धं वा पितृयज्ञः स्यात्पित्र्यो बलिरथापि वा ॥
यश्च श्रुतिजपः प्रोक्तो ब्रह्मयज्ञः स चोच्यते ॥ ४ ॥
स चार्वाक्तर्पणात्कार्यः पश्चाद्वा प्रातराहुतेः ॥
वैश्वदेवावसाने वा नान्यत्रर्तौनिमित्तिकात् ॥ ५ ॥
अप्येकमाशयेद्विप्रं पितृयज्ञार्थसिद्धये ॥
अदैवं नास्ति चेदन्यो भोक्ता भोज्यमथापि वा ॥ ६ ॥
अप्युद्धृस्य यथाशक्ति किञ्चिदन्नं यथाविधि ॥
पितृभ्योऽथ मनुष्येभ्यो दद्यादहरहर्द्विजे ॥ ७ ॥
पितृभ्य इदमित्युक्त्वा स्वधाकारमुदीरयेत् ॥
हन्तकारं मनुष्येभ्यस्तदर्थं निनयेदपः ॥ ८ ॥
मुनिभिर्द्विरशनमुक्तं विप्राणां मर्त्यवासिनां नित्यम् ॥
अहनि च तथा तमस्विन्यां सार्द्धं प्रथमयामान्तः ॥ ९ ॥
सायम्प्रातर्वैश्वदेवः कर्तव्यो बलिकर्म्मच ॥
अनश्नतापि सततमन्यथा किल्बिषी भवेत् ॥ १० ॥
अमुष्मै नम इत्येवं बलिदानं विधीयते ॥
बलिदानप्रदानार्थं नमस्कारः कृतो यतः ॥ ११ ॥
स्वाहाकारवषट्कारनमस्कारा दिवाकसाम् ॥
स्वधाकारः पितॄणां च हन्तकारो नृणां कृतः ॥ १२ ॥
स्वधाकारेण निनयेत्पित्र्यं बलिमतः सदा ॥
तदप्येके नमस्कारं कुर्व्वते नेति गौतमः ॥ १३ ॥
नवरार्द्ध्याबलयो भवन्ति महामार्जारश्रवणप्रमाणात् ॥
एकत्र चेदविकृष्टा भवन्तीतरेतरसंसक्ताश्च ॥ १४ ॥
इति कात्यायनस्मृतौ त्रयोदशः खण्डः ॥ १३ ॥
<MISSING_FIG href="../books_images/1681198009.jpg"/>
** चतुर्दशः खण्डः १४.**
अतस्तद्विन्यासो वृद्धिपिण्डानिवोत्तरश्चतुरो बली
न्निदध्यात् ॥ पृथिव्यै वायवे विश्वेभ्यो देवेभ्यः
प्रजापतय’ इति सव्यत एतेषामेकैकमद्भ्य
ओषधिवनस्पतिभ्यआकाशायकामायेत्येतेषामाप
मन्यव इन्द्राय वासुकये ब्रह्मण इत्येतेषामपि
रक्षोजनेभ्य इति सर्वेषां दक्षिणतः पितृभ्य इति
चतुर्द्दश नित्या आकाशप्रभृतयः काम्याः सर्वे-
षामुभयतोऽद्भिः परिषेकः पिण्डवच्च पश्चिमा
प्रतिपत्तिः ॥ १ ॥
न स्यातां काम्यसामान्ये जुहोतिबलिकर्म्मणी॥
पूर्वं नित्यविशेषोक्तं जुहोतिबलिकर्म्मणोः ॥ २ ॥
काममन्ते भवेयातां न तु मध्ये कदाचन ॥
नैकस्मिन्कर्मणि तते कर्म्मान्यदापतेद्यतः ॥ ३ ॥
अग्न्यादिर्गोतमाद्युक्तो होमः शाकल एव च ॥
अनाहिताग्निरप्येष युज्यते बलिभिः सह ॥ ४ ॥
स्पृष्ट्वा यो वीक्ष्यमाणोऽग्निं कृताञ्जलिपुटस्ततः ॥
वामदेव्यजपात्पूर्वं प्रार्थयेद्द्रविणोदयम् ॥ ५ ॥
आरोग्यमायुरैश्वर्य्यं धीर्धृतिः शं बलं यशः ॥
ओजो वर्च्चःपशून्वीर्य्यं ब्रह्म ब्राह्मण्यमेव च ॥ ६ ॥
सौभाग्यं कर्म्मसिद्धिश्चकुलज्यैष्ठ्यं सुकर्तृताम् ॥
सर्वमेतत्सर्वमाक्षिन्द्रविणोद रिरीहि नः ॥ ७ ॥
न ब्रह्मयज्ञादधिकोऽस्ति यज्ञो न तत्प्रदानात्परमस्ति दानम् ॥
सर्वे तदन्ताःक्रतवस्सदानानान्तोदृष्टः कैश्चिदस्यद्विकस्य॥८॥
ऋचः पठन्मधुपयःकुल्याभिस्तर्पयेत्सुरान् ॥
घृतामृतौघकुल्याभिर्यजूंष्यपि पठन्सदा ॥ ९ ॥
सामान्यपि पठन्सोमघृतकुल्याभिरन्वहम् ॥
मेदःकुल्याभिरपि च अथर्वाङ्गिरसः पठन् ॥ १० ॥
मांसक्षीरोदनमधुकुल्याभिस्तर्पयेत्पठन् ॥
वाकोवाक्यपुराणानि इतिहासानि चान्वहम् ॥ ११ ॥
ऋगादीनामन्यतममेतेषां शक्तितोऽन्वहम् ॥
पठन्मध्वाज्यकुल्याभिः पितृृनपि चतपर्यत् ॥१२ ॥
ते तृप्तास्तर्पयन्त्येनं जीवन्तं प्रेतमेव च ॥
कामचारी च भवति सर्वेषु सुरसद्मसु ॥ १३ ॥
गुर्वप्येनो न तं स्पृशेत्पङ्क्तिं चैव पुनाति सः ॥
यं यं क्रतुं च पठति फलभाक्तस्य तस्य च ॥ १४ ॥
वसुपूर्णा वसुमती त्रिर्दानफलमाप्नुयात् ॥
ब्रह्मयज्ञादपि ब्रह्मनमेवातिरिच्यतेः ॥ १५ ॥
इति कात्यायनस्मृतौ चर्तुदशः खण्डः ॥ १४ ॥
<MISSING_FIG href="../books_images/1681198180.jpg"/>
** पञ्चदशः खण्डः १५.**
ब्रह्मणे दक्षिणा देया यत्र या परिकीर्तिता ॥
कर्मान्तेऽनुच्यमानापि पूर्णपात्रादिका भवेत् ॥ १ ॥
यावता बहुभोक्तुस्तु तृप्तिः पूर्णेन विद्यते ॥
नावरार्द्ध्यमतः कुर्यात्पूर्णपात्रमिति स्थितिः ॥ २ ॥
विदध्याद्धौत्रमन्यश्चेद्दक्षिणार्द्धहरो भवेत् ॥
स्वयं चेदुभयं कुर्यादन्यस्मै प्रतिपादयेत् ॥ ३ ॥
कुलर्त्विजमधीयानं सन्निकृष्टं तथा गुरुम् ॥
नातिक्रमेत्सदा दित्सन्य इच्छेदात्मनो हितम् ॥ ४ ॥
अहमस्मै ददामीति एवमाभाष्य दीयते ॥
नैतावपृष्ट्वा ददतः पात्रेऽपि फलमस्ति हि ॥ ५ ॥
दूरस्थाभ्यामपि द्वाभ्यां प्रदाय मनसा वरम् ॥
इतरेभ्यस्ततो देयादेष दानविधिः परः ॥ ६ ॥
सन्निकृष्टमधीयानं ब्राह्मणो यो व्यतिक्रमेत् ॥
यद्ददाति तमुल्लङ्घ्य ततः स्तेयेन युज्यते ॥ ७ ॥
यस्य त्वेकगृहे मूर्खो दुरस्थश्च गुणान्वितः ॥
गुणान्विताय दातव्यं नास्ति मूर्खे व्यतिक्रमः ॥ ८ ॥
ब्राह्मणातिक्रमो नास्ति विप्रे वेदविवर्जिते ॥
ज्वलन्तमग्निमुत्सृज्य नहि भस्मनि हूयते ॥ ९ ॥
आज्यस्थाली च कर्तव्या तैजसद्रव्यसम्भवा ॥
महीमयी वा कर्तव्या सर्वास्वाज्याहुतीषु च ॥ १० ॥
आज्यस्थाल्याः प्रमाणं तु यथाकामं तु कारयेत् ॥
सुदृढामव्रणां भद्रामाज्यस्थालीं प्रचक्षते ॥ ११ ॥
तिर्यगूर्ध्वं समिन्मात्रा दृढा नातिबृहन्मुखी ॥
मृन्मय्यौदुम्बरी वापि चरुस्थाली प्रशस्यते ॥ १२ ॥
स्वशाखोक्तः प्रसुस्विन्नो ह्यदग्धोऽकठिनः शुभः ॥
न चातिशिथिलः पाच्यो न चरुश्चारसस्तथा ॥ १३ ॥
इध्मजातीयमिध्मार्धप्रमाणं मेक्षणं भवेत् ॥
वृत्तं चाङ्गुष्ठपृथ्वग्रमवदानक्रियाक्षमम् ॥ १४ ॥
एषैव दर्व्वी यस्तत्र विशेषस्तमहं ब्रुवे ॥
दर्व्वीद्व्यङ्गुलपृथ्वग्रा तुरीयोनं तु मेक्षणम् ॥ १५ ॥
मुसलोलूखले वार्क्षे स्वायते सुदृढे तथा ॥
इच्छाप्रमाणे भवतः शूर्पं वैणवमेव च ॥ १६ ॥
दक्षिणं वामतो बाह्यमात्माभिमुखमेव च ॥
करं करस्य कुर्वीत करणेऽन्यच्च कर्मणः ॥ १७ ॥
कृत्वाग्न्यभिमुखौपाणी स्वस्थानस्थौ सुसंयतौ ॥
प्रदक्षिणं तथासीनः कुर्यात्परिसमूहनम् ॥ १८ ॥
बहुमात्रा परिधय ऋजवः सत्वचोऽव्रणाः ॥
त्रयो भवन्ति शीर्णाग्रा एकेषां तु चतुर्दिशम् ॥ १९ ॥
प्रागग्रावलिभिः पश्चादुदग्रमथापरम् ॥
न्यसेत्परिधिमन्यं चेदुदगग्रः सपूर्वतः ॥ २० ॥
यथोक्तवस्त्वसम्पत्तौग्राह्यं तदनुकारि यत् ॥
यवानामिव गोधूमा व्रीहीणामिव शालयः ॥ २१ ॥
इति कात्यायनस्मृतौ पञ्चदशः खण्डः॥ १५ ॥
** षोडशः खण्डः १६.**
पिण्डान्वाहार्य्यकं श्राद्धं क्षीणे राजनि शस्यते ॥
वासरस्य तृतीयांशे नातिसन्ध्यासमीपतः ॥ १ ॥
यदा चतुर्दशी यामं तुरीयमनुपूरयेत् ॥
अमावास्या क्षीयमाणा तदैव श्राद्धमिष्यते ॥ २ ॥
यदुक्तं यदहस्त्वेव दर्शनं नैति चन्द्रमाः ॥
अनयापेक्षया ज्ञेयं क्षीणे राजानिचेत्यपि ॥ ३ ॥
यच्चोक्तं दृश्यमानेऽपि तच्चतुर्दश्यपेक्षया ॥
अमावास्यां प्रतीक्षेत तदन्ते वापि निर्व्वपेत् ॥ ४ ॥
अष्टमेऽंशे चतुर्द्दश्याः क्षीणो भवति चन्द्रमाः ॥
अमावास्याष्टमांशे च पुनः किल भवेदणुः ॥ ५ ॥
आग्रहायण्यमावास्या तथा ज्येष्ठस्य या भवेत् ॥
विशेषमाभ्यां ब्रुवते चन्द्रचारविदो जनाः ॥ ६ ॥
अत्रेन्दुराद्येप्रहरेऽवतिष्ठते चतुर्थभागोनकलावशिष्टः ॥
तदन्त एव क्षयमेति कृत्स्नमेवं ज्योतिश्चक्रविदो वदन्ति॥ ७॥
यस्मिन्नब्देद्वादशैकश्चयव्यस्तस्मिंस्तृतीययापरिदृश्योनोपजायते
एवं चारं चन्द्रमसो विदित्वा क्षीणे तस्मिन्नपराह्णे च दद्यात् ॥ ८॥
सम्मिश्रा या चतुर्द्दश्या अमावास्या भवेत्क्वचित् ॥
खर्वितां तां विदुः केचिद्गताध्वामिति चापरे ॥ ९ ॥
वर्द्धमानाममावास्यां लभेच्चेदपरेऽहनि॥
यामांस्त्रीनधिकान्वापि पितृयज्ञस्ततो भवेत् ॥ १० ॥
पक्षादावेव कुर्व्वीतसदा पक्षादिकं चरुम् ॥
पूर्वाह्ण एव कुर्वन्ति विद्धेऽप्यन्ये मनीषिणः ॥ ११ ॥
सपितुः पितृकृत्येषु ह्यधिकारो न विद्यते ॥
न जीवन्तमतिक्रम्यकिञ्चिद्दद्यादिति श्रुतिः ॥ १२ ॥
पितामहे जीवति च पितुः प्रेतस्य निर्व्वपेत् ॥
पितुस्तस्य च वृत्तस्य जीवेच्चेत्प्रपितामहः ॥ १३ ॥
पितुः पितुः पितुश्चैव तस्यापि पितुरेव च ॥
कुर्य्यात्पिण्डत्रयं यस्य संस्थितः प्रपितामहः ॥१४ ॥
जीवन्तमतिदद्याद्वा प्रेतायान्नोदके द्विजः॥
पितुः पितृभ्यो वा दद्यात्स पितेत्यपराश्रुतिः ॥ १५ ॥
पितामहः पितुः पश्चात्पञ्चत्वं यदि गच्छति ॥
पौत्रेणैकादशाहादि कर्तव्यं श्राद्धषोडशम् ॥ १६ ॥
नैतत्पौत्रेण कर्तव्यं पुत्रवांश्चेत्पितामहः ॥
पितुः सपिण्डनं कृत्वा कुर्य्यान्मासानुमासिकम् ॥ १७ ॥
असंस्कृतौ न संस्कार्य्यौ पूर्वौपौत्रप्रपौत्रकैः॥
पितरं तत्र सत्कुर्यादिति कात्यायनोऽब्रवीत् ॥ १८ ॥
पापिष्ठमपि शुद्धेन शुद्धं पापकृतापि वा ॥
पितामहेन पितरं संस्कुर्यादिति निश्चयः ॥ १९ ॥
ब्राह्मणादिहते ताते पतिते सङ्गवर्जिते ॥
व्युत्क्रमाच्च मृते देयं येभ्य एव ददात्यसौ ॥ २० ॥
मातुः सपिण्डीकरणं पितामह्या सहोदितम् ॥
यथोक्तेनैव कल्पेन पुत्रिकाया न चेत्सुतः ॥ २१ ॥
न योषिद्भ्यः पृथग्दद्यादवसानादिनादृते ॥
स्वभर्तृपिण्डमात्राभ्यस्तृप्तिरासां यतः स्मृता ॥ २२ ॥
मातुः प्रथमतः पिण्डं निर्व्वपेत्पुत्रिकासुतः ॥
द्वितीयं तु पितुस्तस्यास्तृतीयं तु पितुः पितुः ॥ २३ ॥
इति कात्यायनस्मृतौ षोडशः खण्डः ॥ १६ ॥
सप्तदशः खण्डः १७.
पुरतो यात्मनः कुर्यात्सा पूर्वा परिकीर्त्यते ॥
मध्यमा दक्षिणेनास्यास्तद्दक्षिणत उत्तमा ॥ १ ॥
वाय्वग्निदिङ्मुखान्तास्ताः कार्य्याः सार्द्धाङ्गुलान्तराः ॥
तीक्ष्णान्ता यवमध्याश्च मध्यं नाव इवोत्किरेत् ॥ २ ॥
शङ्कुश्चखादिरः कार्य्योरजतेन विभूषितः ॥
शङ्कुश्चैवोपवेशश्च द्वादशाङ्गुल इष्यते ॥ ३ ॥
अग्न्याशाग्रैः कुशैः कार्य्यं कर्षूणां स्तरणं घनैः ॥
दक्षिणान्तं तदग्रैस्तु पितृयज्ञे परिस्तरेत् ॥ ४ ॥
स्वगरं सुरभि ज्ञेयं चन्दनादिविलेपनम् ॥
सौवीराञ्जनमित्युक्तं पिञ्जलीनां यदञ्जनम् ॥ ५ ॥
संस्तरे सर्वमासाद्य यथावदुपयुज्यते ॥
देवपूर्व्वं ततः श्राद्धमत्वरः शुचिरारभेत् ॥ ६ ॥
आसनाद्यर्घपर्यन्तं वसिष्ठेन यथेरितम् ॥
कृत्वा कर्माथ पात्रेषु उक्तं दद्यात्तिलोदकम् ॥ ७ ॥
तूष्णीं पृथगपो दत्त्वा मन्त्रेण तु तिलोदकम् ॥
गन्धोदकं च दातव्यं सन्निकर्षक्रमेण तु ॥ ८ ॥
आसुरेण तु पात्रेण यस्तु दद्यात्तिलोदकम् ॥
पितरस्तस्य नाश्नन्ति दशवर्षाणि पञ्च च ॥ ९ ॥
कुलालचक्रनिष्पन्नमासुरं मृन्मयं स्मृतम् ॥
तदेव हस्तघटितं स्थाल्यादि दैविकं भवेत् ॥ १० ॥
गन्धान्ब्राह्मणसात्कृत्वा पुष्पाण्यतुभवानि च ॥
धूपं चैवानुपूर्व्येण ह्यग्नौकुर्यादनन्तरम् ॥ ११ ॥
अग्नौकरणहोमश्च कर्तव्य उपवीतिना ॥
प्राङ्मुखेनैव देवेभ्यो जुहोतीति श्रुतिः श्रुता ॥ १२ ॥
अपसव्येन वा कार्योदक्षिणाभिमुखेन च ॥
निरूप्य हविरन्यस्मा अन्यस्मै नहि हूयते ॥ १३ ॥
स्वाहा कुर्यान्न चात्रान्ते न चैव जुहुयाद्धविः ॥
स्वाहाकारेण हुत्वाऽग्नौ पश्चान्मन्त्रं समापयेत् ॥ १४ ॥
पित्र्ये यः पङ्क्तिमूर्द्धन्यस्तस्य पाणावनग्निमान् ॥
हुत्वा मन्त्रवदन्येषां तूष्णीं पात्रेषु निःक्षिपेत्॥ १५॥
नो कुर्याद्धोममन्त्राणां पृथगादिषु कुत्रचित् ॥
अन्येषां चाविकृष्टानां कालेनाचमनादिना ॥ १६ ॥
सव्येन पाणिनेत्येवं यदत्र समुदीरितम् ॥
परिग्रहणमात्रं तत्सव्यस्यादिशति व्रतम् ॥ १७ ॥
पिञ्जल्पाद्यभिसङ्गृह्य दक्षिणेनेतरात्करात् ॥
अन्वारभ्य च सव्येन कुर्यादुल्लेखनादिकम् ॥ १८ ॥
यावदर्थमुपादाय हविषोऽर्भकमर्भकम् ॥
चरुणा सह सन्नीय पिण्डान्दातुमुपक्रमेत् ॥ १९ ॥
पितुरुत्तरकर्ष्वंशे मध्यमे मध्यमस्य तु ॥
दक्षिणे तत्पितुश्चैव पिण्डान्पर्वणि निर्वपेत् ॥ २० ॥
वाममावर्तनं केचिदुदगन्तं प्रचक्षते ॥
सर्वं गौतमशाण्डिल्यौ शाण्डिल्यायन एव च ॥ २१ ॥
आवृत्य प्राणमायम्य पितृन्ध्यायन्यथार्थतः ॥
जपंस्तेनैव चावृत्य ततः प्राणं प्रमोचयेत् ॥ २२ ॥
शाकं च फाल्गुनाष्टम्यां स्वयं पत्न्यपि वा पचेत् ॥
यस्तु शाकादिको होमः कार्योऽपूपाष्टकावृतः ॥ २३ ॥
अन्वष्टक्यं मध्यमायामिति गोभिलगौतमौ ॥
वार्कखण्डिश्चसर्वासु कौत्सो मेनेऽष्टकासु च ॥ २४ ॥
स्थालीपाकं पशुस्थाने कुर्याद्यद्यनुकल्पितम् ॥
श्रपयेत्तं सवत्सायास्तरुण्या गोपयस्यनु ॥ २५ ॥
इति कात्यायनस्मृतौ सप्तदशः खण्डः ॥ २५ ॥
<MISSING_FIG href="../books_images/1681198555.jpg"/>
अष्टादशः खण्डः १८.
सायमादिप्रातरन्तमेकं कर्म प्रचक्षते ॥
दर्शान्तं पौर्णमास्याद्यमेकमेव मनीषिणः ॥ १ ॥
ऊर्ध्वं पूर्णाहुतेर्दर्शः पौर्णमासोऽपि वाग्रिमः ॥
य आयाति स होतव्यः स एवादिरिति श्रुतिः ॥ २ ॥
ऊर्ध्वं पूर्णाहुतेः कुर्यात्सायं होमादनन्तरम् ॥
वैश्वदेवं तु पाकान्ते बलिकर्मसमन्वितम् ॥ ३ ॥
ब्राह्मणान्भोजयेत्पश्चादभिरूपान्स्वशक्तितः ॥
यजमानस्ततोऽश्नीयादिति कात्यायनोऽब्रवीत् ॥ ४ ॥
वैवाहिकाग्नौकुर्वीत सायम्प्रातस्त्वतन्द्रितः ॥
चतुर्थीकर्म कृत्वैतदेतच्छाट्यायनेर्मतम् ॥ ५ ॥
ऊर्ध्वं पूर्णाहुतेःप्रातर्हुत्वा तां सायमाहुतिम् ॥
प्रातर्होमस्तदैव स्यादेष एवोत्तरो विधिः ॥ ६ ॥
पौर्णमास्यत्यये हव्यं होता वा यदहर्भवेत् ॥
तदहर्जुहुयादेवममावास्यात्ययेऽपि च ॥ ७ ॥
अहूयमानेऽनश्नंश्चेन्नयेत्कालं समाहितः ॥
सम्पन्ने तु यथा तत्र हूयते यदिहोच्यते ॥ ८ ॥
आहुत्यः परिसङ्ख्याय पात्रे कृत्वाहुतीः सकृत् ॥
मन्त्रेण विधिवद्धुत्वाऽधिकमेवापरा अपि ॥ ९ ॥
यत्र व्याहृतिभिर्होमः प्रायश्चित्तात्मको भवेत् ॥
चतस्रस्तत्र विज्ञेयाः स्त्रीपाणिग्रहणे यथा ॥ १० ॥
अप्यनाज्ञातभित्येषा प्राजापत्यापि वाहुतिः ॥
होतव्याऽत्र विकल्पोऽयं प्रायश्चित्तविधिः स्मृतः ॥११॥
यद्यग्निरग्निनान्येन सम्भवेदाहितः क्वचित् ॥
अग्नये विविचय इति जुहुयाद्वा घृताहुतिम् ॥ १२ ॥
अग्नयेऽप्सुमते चैव जुहुयाद्वै घृतेन चेत् ॥
अग्नये शुचये चैव जुहुयाच्च दुरग्निना ॥ १३ ॥
गृहदाहाग्निनाऽग्निस्तु यष्टव्यः क्षामवान्द्विजैः ॥
दावाग्निना च संसर्गे हृदयं यदि तप्यते ॥ १४ ॥
द्विर्भूतो यदि संसृज्येत्संसृष्टमुपशामयेत् ॥
असंसृष्टं जागरयेद्गिरिशर्भैवमुक्तवान् ॥ १५ ॥
न स्वेऽग्नावन्यहोमः स्यान्मुक्त्वैकां समिदाहुतिम् ॥
स्वर्गवासक्रियार्थांश्च यावन्नासौ प्रजायते ॥ १६॥
अग्निस्तु नामधेयादौ होमे सर्व्वत्र लौकिकः ॥
नहि पित्रा समानीतः पुत्रस्य भवति क्वचित् ॥ १७॥
यस्याग्नावन्यहोमः स्यात्स वैश्वानरदैवतम् ॥
चरुं निरुप्य जुहुयात्प्रायश्चित्तं तु तस्य तत् ॥ १८ ॥
परेणाग्नौ हुते स्वार्थं परस्याग्नौ हुत स्वयम् ॥
पितृयज्ञात्यये चैव वैश्वदेवद्वयस्य च ॥ १९ ॥
अनिष्ट्वा नवयज्ञेन नवान्नप्राशने तथा ॥
भोजने पतितान्नस्य चरुर्वैश्वानरो भवेत् ॥ २० ॥
स्वपितृभ्यः पिता दद्यात्सुतसंस्कारकर्मसु ॥
पिण्डनोद्वहनात्तेषां तस्याभावे तु तत्क्रमात् ॥ २१ ॥
भूतिप्रवाचने पत्नी यद्यसन्निहिता भवेत् ॥
रजोरोगादिना तत्र कथं कुर्वन्ति याज्ञिकाः ॥ २२ ॥
महानसेऽन्नं या कुर्यात्सवर्णां तां प्रवाचयेत् ॥
प्रणवाद्यपि वा कुर्यात्कात्यायनवचो यथा ॥ २३ ॥
यज्ञवास्तुनि मुष्ट्यां च स्तम्बे दर्भवटौ तथा ॥
दर्भसङ्ख्या न विहिता विष्टरास्तरणेषु च ॥ २४ ॥
इति कात्यायनस्मृतावष्टादशः खण्डः॥ १८॥
<MISSING_FIG href="../books_images/1681202539.jpg"/>
** एकोनविंशः खण्डः १९.**
निक्षिप्याग्निं स्वदारेषु परिकल्प्यर्ल्प्यीत्वजं तथा ॥
प्रवसेत्कार्य्यवान्विप्रो वृथैव न चिरं क्वचित् ॥ १ ॥
मनसा नैत्यकं कर्म्मप्रवसन्नप्यतन्द्रितः ॥
उपविश्य शुचिः सर्वं यथाकालमनुव्रजेत् ॥२॥
पत्न्याचाप्यवियोगिन्या शुश्रूष्योऽग्निर्विनीतया ॥
सौभाग्यवित्तावैधव्यकामया भर्तृभक्तया ॥ ३ ॥
या वा स्याद्वीरसूरासामाज्ञासम्पादिनी प्रिया ॥
दक्षा प्रियंवदा शुद्धा तामत्र विनियोजयेत् ॥ ४ ॥
दिनत्रयेण वा कर्म्म यथाज्यैष्ठ्यं स्वशक्तितः ॥
विभज्य सह वा कुर्य्युर्यथाज्ञानं च शास्त्रवत् ॥ ५ ॥
स्त्रीणां साभाग्यतो ज्येष्ठ्यं विद्ययैव द्विजन्मनाम् ॥
नहि ख्यात्या न तपसा भर्ता तुष्यति योषिताम् ॥ ६ ॥
भर्तुरादेशवर्त्तिन्या यथोमा बहुभिर्व्रतैः ॥
अग्निश्चतोषितोऽमुत्र सा स्त्री सौभाग्यमाप्नुयात् ॥७॥
विनयावनतापि स्त्री भर्तुर्या दुर्भगा भवेत् ॥
अमुत्रोमाग्निभर्तृृणामवज्ञातिः कृता तया ॥ ८ ॥
श्रोत्रियं सुभगां गां च अग्निमग्निचितिं तथा ॥
प्रातरुत्थाय यः पश्येदापद्भ्यः स प्रमुच्यते ॥ ९ ॥
पापिष्ठं दुर्भगामन्यं नग्नमुत्कृत्तनासिकम् ॥
प्रातरुत्थाय यः पश्येत्स कलेरुपयुज्यते ॥ १० ॥
पतिमुल्लङ्घ्य मोहात्स्त्री किं किं न नरकं व्रजेत् ॥
कृच्छ्रान्मनुष्यतां प्राप्य किं किं दुःखं न विन्दति ॥ ११ ॥
पतिशुश्रूषयैव स्त्री कान्न लोकान्समश्नुते ॥
दिवः पुनरिहायाता सुखानामम्बुधिर्भवेत् ॥ १२ ॥
सदारोऽन्यान्पुनर्दारान्कथञ्चित्कारणान्तरात् ॥
य इच्छेदग्निमान्कर्तुं क्वहोमोऽस्य विधीयते ॥ १३ ॥
स्वेऽग्नावेवभवेद्धोमो लौकिके न कदाचन ॥
न ह्याहिताग्नेःस्वं कर्मालौकिकेऽग्नौविधीयते ॥ १४ ॥
पडाहुतिकमन्येन जुहुयाद् ध्रुवदर्शनात् ॥
न ह्यात्मनोऽर्थे स्यात्तावद्यावन्न परिणीयते ॥ १५ ॥
पुरस्तास्त्रिविकल्पं यत्प्रायश्चित्तमुदाहृतम् ॥
तत्षडाहुतिकं शिष्टैर्यज्ञविद्भिः प्रकीर्तितम् ॥ १६ ॥
इति कात्यायनस्मृतावेकोनविंशः खण्डः ॥ १९ ॥
इति कात्यायनविरचिते कर्मप्रदीपे द्वितीयः प्रपाठकः ॥ २ ॥
<MISSING_FIG href="../books_images/1681202674.jpg"/>
** विंशः खण्डः २०.**
असमक्षं तु दम्पत्योर्होतव्यं नर्त्विगादिना ॥
द्वयोरप्यसमक्षं हि भवेद्धुतमनर्थकम् ॥ १ ॥
विहायाग्निं सभार्यश्चेत्सीमामुल्लङ्घ्य गच्छति ॥
होमकालात्यये तस्य पुनराधानमिष्यते ॥ २ ॥
अरण्योः क्षयनाशाग्निदाहेष्वग्निं समाहितः ॥
पालयेदुपशान्तेऽस्मिन्पुनराधानमिष्यते ॥ ३ ॥
ज्येष्ठा चेद्बहुभार्य्यस्य अतिचारेण गच्छति ॥
पुनराधानमत्रैक इच्छन्ति न तु गौतमः ॥ ४ ॥
दाहयित्वाग्निभिर्भार्य्यां सदृशीं पूर्वसंस्थिताम् ॥
पात्रैश्चाथाग्निमादध्यात्कृतदारोऽविलम्बितः ॥ ५ ॥
एवंवृत्तां सवर्णां स्त्रीं द्विजातिः पूर्वमारणीम् ॥
दाहयित्वाग्निहोत्रेण यज्ञपात्रैश्चधर्म्मवित् ॥ ६ ॥
द्वितीयां चैव यः पत्नीं दहेद्वैतानिकाग्निभिः॥
जीवन्त्यां प्रथमायां तु ब्रह्मघ्नेनन समो हि सः ॥ ७ ॥
मृतायां तु द्वितीयायां योऽग्निहोत्रं समुत्सृजेत् ॥
ब्रह्मोज्झितं विजानीयाद्यश्च कामात्समुत्सृजेत् ॥ ८ ॥
मृतायामपि भार्य्यायां वैदिकाग्निं नहि त्यजेत् ॥
उपाधिनापि तत्कर्म्म यावज्जीवं समापयेत् ॥ ९ ॥
रामोऽपि कृत्वा सौवर्णीं सीतां पत्नीं यशस्विनीम् ॥
ईजे यज्ञैर्बहुविधैः सह भ्रातृभिरच्युतः ॥ १० ॥
यो दहेदग्निहोत्रेण स्वेन भार्य्याङ्कथञ्चन।
सा स्त्री सम्पद्यते तेन भार्या वास्य पुमान्भवेत् ॥ ११ ॥
भार्य्यामरणमापन्ना देशान्तरगतापि वा ॥
अधिकारी भवेत्पुत्रोमहापातकिनि द्विजे ॥ १२ ॥
मान्या चेन्म्रियते पूर्वं भार्या पतिविमानिता ॥
त्रीणि जन्मानि सा पुंस्त्वं पुरुषः स्त्रीत्वमर्हति ॥ १३ ॥
पूर्वेव योनिः पूर्वावृत्पुनराधानकर्म्मणि ॥
विशेषोऽत्राग्न्युपस्थानमाज्याहुत्यष्टकं तथा ॥ १४ ॥
कृत्वा व्याहृतिहोमान्तमुपतिष्ठेत पावकम् ॥
अध्यायः केवलाग्नेयः कस्तेजाभिरमानसः ॥ १५ ॥
अग्निमीडे अग्नआयाह्यग्नआयाहि वीतये ॥
तिस्रोऽग्निर्ज्योतिरित्यग्निं दूतमग्नेमृडेति च ॥ १६ ॥
इत्यष्टावाहुतीर्हुत्वा यथाविध्यनुपूर्वशः ॥
पूर्णाहुत्यादिकं सर्वमन्यत्पूर्ववदाचरेत् ॥ १७ ॥
अरण्योरल्पमप्यङ्गंयावत्तिष्ठति पूर्वयोः ॥
न तावत्पुनराधानमन्यारण्योर्विधीयते ॥ १८ ॥
विनष्टस्रुक्स्रुवं न्युब्जं प्रत्यक्स्थलमुदर्च्चिषि ॥
प्रत्यगग्रञ्च मुशलं प्रहरेज्जातवेदसि ॥ १९ ॥
इति कात्यायनस्मृतौ विंशतितमः खण्डः ॥ २०॥
<MISSING_FIG href="../books_images/1681202823.jpg"/>
एकविंशः खण्डः २१.
स्वयं होमासमर्थस्य समीपमुपसर्पणम् ॥
तत्राप्यशक्तस्य ततः शयनाच्चोपवेशनम् ॥ १ ॥
हुतायां सायमाहुत्यां दुर्बलश्चेद् गृही भवेत् ॥
प्रातर्होमस्तदैव स्याज्जीवेच्चेच्छः पुनर्न वा ॥ २ ॥
दुर्बलं स्नापयित्वा तु शुद्धचैलाभिसंवृतम् ॥
दक्षिणाशिरसं भूमौ बर्हिष्मत्यां निवेशयेत् ॥ ३॥
वृतेनाभ्यक्तमाप्लाव्य सवस्त्रमुपवीतिनम् ॥
चन्दनक्षितसर्वाङ्गं सुमनोभिर्विभूषितम् ॥ ४ ॥
हिरण्यशकलान्यस्य क्षिप्त्वा छिद्रेषु सप्तसु॥
मुखेष्वथापिधायैनं निर्हरेयुः सुतादयः ॥ ५ ॥
आमपात्रेऽन्नमादाय प्रेतमग्निपुरःसरम् ॥
एकोऽनुगच्छेत्तस्यार्द्धमर्द्धं पर्य्युत्सृजेद्भुवि ॥ ६ ॥
अर्द्धमादहनं प्राप्त आसीनो दक्षिणामुखः ॥
सव्यं जान्वाच्य शनकैः सतिलं पिण्डदानवत् ॥ ७ ॥
अथ पुत्रादिराप्लुत्य कुर्याद्दारुचयं महत् ॥
भूप्रदेशे शुचौ देशे पश्चाच्चित्यादिलक्षणे ॥ ८ ॥
तत्रोत्तानं निपात्यैनं दक्षिणाशिरसं मुखे ॥
आज्यपूर्णां स्रुचं दद्याद्दक्षिणाग्रान्नसि स्रुवम् ॥ ९ ॥
पादयोरधरां प्राचीमरणीमुरसीतराम् ॥
पार्श्वयोः शूर्पचमसे सव्यदक्षिणयोः क्रमात् ॥ १० ॥
मुसलेन सह न्युब्जमन्तरूर्वोरुलूखलम् ॥
चात्रे विलीकमत्रैवमनश्रुनयनो विभीः ॥ ११ ॥
अपसव्येन कृत्वैतद्वाग्यतः पितृदिङ्मुखः ॥
अथाग्निं सव्यजान्वक्तो दद्याद्दक्षिणतः शनैः ॥ १२ ॥
अस्मात्त्वमधिजातोऽसि त्वदयं जायतां पुनः ॥
असौस्वर्गाय लोकाय स्वाहेति यजुरीरयन् ॥ १३ ॥
एव गृहपतिर्दग्धः सर्वं तरति दुष्कृतम् ॥
यश्चैनं दाहयेत् सोऽपि प्रजां प्राप्नोत्यनिन्दिताम् ॥१४॥
यथा स्वायुधधृक् पान्थो ह्यरण्यान्यपि निर्भयः ॥
अतिक्रम्यात्मनोऽभीष्टं स्थानमिष्टं च विन्दति ॥ १५ ॥
एवमेषोऽग्निमान्यज्ञपात्रायुधविभूषितः ॥
लोकानन्यानतिक्रम्य परं ब्रह्मैव विन्दति ॥ १६ ॥
इति कात्यायनस्मृतावेकविंशतितमः खण्डः ॥ २१ ॥
<MISSING_FIG href="../books_images/1681202938.jpg"/>
द्वाविंशः खण्डः २२.
अथानवेक्ष्य च चितां सर्व एव शवस्पृशः ॥
स्नात्वा सचैलमाचम्य दद्युरस्योदकं स्थले ॥ १ ॥
गोत्रनामानुवादान्ते तर्पयामीत्यनन्तरम् ॥
दक्षिणाग्रान्कुशान्कृत्वा सतिलं तु पृथक्पृथक् ॥ २ ॥
एवं कृतोदकान्सम्यक्सर्वाञ्छाद्वलसंस्थितान् ॥
आप्लुत्य पुनराचान्तान्वदेयुस्तेऽनुयायिनः ॥ ३ ॥
मा शोकं कुरुतानित्ये सर्वस्मिन्प्राणधर्मणि ॥
धर्म्मं कुरुत यत्नेन यो वः सह गमिष्यति ॥ ४ ॥
मानुष्ये कदलीस्तम्भे निःसारे सारमार्गणम् ॥
यः करोति स सम्मूढो जलबुद्बुदसन्निभे ॥ ५ ॥
गन्त्री वसुमती नाशमुदधिर्दैवतानि च ॥
केन प्रख्यः कथ नाशं मर्त्यलोको न यास्यति ॥ ६ ॥
पञ्चधा सम्भृतः कायो यदि पञ्चत्वमागतः ॥
कर्मभिः स्वशरीरोत्थैस्तत्र का परिदेवना ॥ ७ ॥
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ॥
संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ॥ ८ ॥
श्लेष्माश्रु बान्धवैर्मुक्तं प्रेतो भुङ्क्तेयतोऽवशः ॥
अतो न रोदितव्यं हि क्रियाः कार्य्याः प्रयत्नतः ॥ ९ ॥
एवमुक्त्वा व्रजेयुस्ते गृहाल्ँलघुपुरःसराः ॥
स्नानाग्निस्पर्शनाज्याशैः शुध्येयुरितरेतरैः॥ १० ॥
इति कात्यायनस्मृतौ द्वाविंशतितमः खण्डः॥ २२॥
<MISSING_FIG href="../books_images/1681203047.jpg"/>
** त्रयोविंशः खण्डः २३.**
एवमेवाहिताग्नेस्तु पात्रन्यासादिकं भवेत् ॥
कृष्णाजिनादिकश्चात्र विशेषः सूत्रचोदितः ॥ १ ॥
विदेशमरणेऽस्थीनि ह्याहुत्याभ्यज्य सर्पिषा ॥
दाहयेदूर्णयाच्छाद्य पात्रन्यासादि पूर्ववत् ॥ २ ॥
अस्थ्नामलाभे पर्णानि सकलान्युक्तयावृता ॥
भर्जयेदस्थिसङ्ख्यानि ततः प्रभृति सूतकम् ॥ ३ ॥
महापातकसयुङ्क्तो दैवात्स्यादग्निमान्यदि॥
पुत्रादिः पालयेदग्नीन्युक्त आदोषसङ्क्षयात् ॥ ४ ॥
प्रायश्चित्तं न कुर्याद्यः कुर्वन्वा म्रियते यदि॥
गृह्यं निर्वापयेच्छ्रौतमप्स्वस्येत्सपरिच्छदम् ॥ ५ ॥
सादयेदुभयं वाप्सु ह्यद्भ्योऽग्निरभवद्यतः ॥
पात्राणि दद्याद्विप्राय दहेदप्स्वेव वा क्षिपेत् ॥ ६ ॥
अनयैवावृता नारी दग्धप्राया व्यवस्थिता ॥
अग्निप्रदानमन्त्रोऽस्या न प्रयोज्य इति स्थितिः ॥ ७ ॥
अग्निनैव दहेद्भार्यां स्वतन्त्रा पतिता न चेत् ॥
तदुत्तरेण पात्राणि दाहयेत्पृथगन्तिके ॥ ८ ॥
अपरेद्युस्तृतीये वा अस्थ्नां सञ्चयनं भवेत् ॥
यस्तत्र विधिरादिष्ट ऋषिभिः सोऽधुनोच्यते ॥ ९ ॥
स्नानान्तम्पूर्ववत्कृत्त्वा गव्येन पयसा ततः ॥
सिञ्चेदस्थीनि सर्वाणि प्राचीनावीत्यभाषयन् ॥ १० ॥
शमीपलाशशाखाभ्यामुद्धृत्योद्धृत्य भस्मनः ॥
आज्यनाभ्यज्य गव्येन सेचयेद्गन्धवारिणा ॥ ११॥
मृत्पात्रसम्पुट कृत्वा सूत्रेण परिवेष्ट्य च ॥
श्वभ्रं खात्वा शुचौ भूमौ निखनेद्दक्षिणामुखः ॥ १२ ॥
पूरयित्वा घटं पङ्कपिण्डशैवालसंयुतम् ॥
दत्त्वोपरि समं शेषं कुर्यात्पूर्वाह्णकर्मणा ॥ १३ ॥
एवमेवागृहीताग्नेःप्रेतस्य विधिरिष्यते ॥
स्त्रीणामिवाग्निदानं स्पादथातोऽनुक्तमुच्यते ॥ १४ ॥
इति कात्यायनस्मृतौ त्रयोविंशतितमः खण्डः ॥ २३ ॥
<MISSING_FIG href="../books_images/1681203208.jpg"/>
** चतुर्विंशः खण्डः २४.**
उतके कर्मणां त्यागः सन्ध्यादीनां विधीयते ॥
होमः श्रौते तु कर्तव्यः शुष्कान्नेनापि वा फलैः ॥ १ ॥
अकृतं होमयेत्स्मार्तेतदभावे कृताकृतम् ॥
कृतं वा होमयेदन्नमन्वारम्भविधानतः ॥ २ ॥
कृतमोदनसक्त्वादि तण्डुलादि कृताकृतम् ॥
व्रीह्यादि चाकृतं प्रोक्तमिति हव्यं त्रिधा बुधैः ॥ ३ ॥
सूतके च प्रवासेषु चाशक्तौश्राद्धभोजने ॥
एवमादिनिमित्तेषु होमयेदिति योजयेत् ॥ ४ ॥
न त्यजेत्सूतके कर्म ब्रह्मचारी स्वकं क्वचित् ॥
न दक्षिणात् परं यज्ञे न कृच्छ्रादि तपश्चरन् ॥ ५॥
पितर्य्यपि मृते नैषां दोषो भवति कर्हिचित् ॥
अशौचं कर्मर्णोऽते स्यास्त्र्यहं वा ब्रह्मचारिणः ॥ ६ ॥
श्राद्धमग्निमतः कार्यन्दाहादेकादशेऽहनि ॥
प्रत्याव्दिकं तु कुर्वीत प्रमीताहनि सर्व्वदा ॥ ७ ॥
द्वादश प्रतिमास्यानिआद्यं षाण्मासिकं तथा ॥
सपिण्डिकरणं चैव एतद्वै श्राद्धषोडशम् ॥ ८ ॥
एकाहेन तु षण्मासा यदा स्युरपि वा त्रिभिः ॥
न्यूनः संवत्सरश्चैव स्यातां षाण्मासिके तदा॥ ९॥
यानि पञ्चदशाद्यानि अपुत्रस्येतराणि तु ॥
एकस्मिन्नह्निदेयानि सपुत्रस्यैव सर्वदा ॥ १० ॥
न योषायाः पतिर्दद्यादपुत्राया अपि क्वचित् ॥
न पुत्रस्य पिता दद्यान्नानुजस्य तथाऽग्रजः ॥ ११ ॥
एकादशोऽह्नि निर्वर्त्य अर्वाग्दर्शाद्यथाविधि ॥
प्रकुर्वीताग्निमान्पुत्रो मातापित्रोः सपिण्डताम् ॥ १२ ॥
सपिण्डीकरणादूर्ध्वं न दद्यात्प्रतिमासिकम् ॥
एकोद्दिष्टेन विधिना दद्यादित्याहगौतमः ॥ १३ ॥
कर्षूसमन्वितं मुक्त्वा तथाद्यं श्राद्धषोडशम् ॥
प्रत्याब्दिकं च शेषेषु पिण्डाःस्युः षडिति स्थितिः ॥ १४ ॥
अर्ध्येऽक्षय्योदके चैव पिण्डदानेऽवनेजने ॥
तन्त्रस्यतु निवृत्तिः स्यात्स्वधावाचन एव च ॥ १५ ॥
ब्रह्मदण्डादियुक्तानां येषां नास्त्यग्निसत्क्रिया ॥
श्राद्धादिसत्क्रियाभाजो न भवन्तीह ते क्वचित् ॥ १६ ॥
इति कात्यायनस्मृतौ चतुर्विंशतितमः खण्डः ॥ २४ ॥
<MISSING_FIG href="../books_images/1681203360.jpg"/>
** पञ्चविंशः खण्डः २५.**
मन्त्राम्नायेऽग्नइत्येतत्पञ्चकं लाघवार्थिभिः ॥
पठ्यते तत्प्रयोगे स्यान्मन्त्राणामेव विंशतिः ॥ १ ॥
अग्नेः स्थाने वापुचन्द्रसूर्या बहुवदूह्य च ॥
समस्यपञ्चमीसूत्रे चतुश्चतुरिति श्रुतेः ॥ २ ॥
प्रथमे पञ्चके पापी लक्ष्मीरिति पदं भवेत् ॥
अपि पञ्चसु मन्त्रेषु इति यज्ञविदो विदुः ॥ ३ ॥
द्वितीये तु पतिघ्नी स्यादपुत्रेति तृतीयके ॥
चतुर्थे त्वपसव्येति इदमाहुतिविंशकम् ॥४॥
घृतहोमे न प्रयुञ्ज्याद्गोनामसु तथाऽष्टसु ॥
चतुर्थ्यामघ्न्य इत्येतद्गोनामसु हि हूयते ॥ ५ ॥
लताग्रपल्लवो गूढः शुङ्गेति परिकीर्त्यते ॥
पतिव्रता व्रतवती ब्रह्मबन्धुस्तथाऽश्रुतः ॥ ६ ॥
शलाटुनीलमित्युक्तं ग्रन्थः स्तबक उच्यते ॥
कपुष्णिकाभितः केशा मूर्ध्नि पश्चात्कपुच्छलम् ॥ ७॥
श्वाविच्छलाका शलली तथा वीरतरः शरः ॥
तिलतण्डुलसम्पक्वःकृसरः सोऽभिधीयते ॥ ८ ॥
नामधेये मुनिवसुपिशाचा बहुवत्सदा ॥
यक्षाश्च पितरो देवा यष्टव्यातिथिदेवताः ॥ ९ ॥
आग्नेयाद्येऽथ सर्पाद्ये विशाखाद्ये तथैव च ॥
आषाढाद्ये धनिष्ठाद्ये अश्विन्याद्ये तथैव च ॥ १० ॥
द्वन्द्वान्येतानि बहुवदृक्षाणां जुहुयात्सदा ॥
द्वन्द्वद्वयं द्विवच्छेषमवशिष्टान्यथैकवत् ॥ ११ ॥
देवतास्वपि हूयन्ते बहुवत्सार्वपित्तयः ॥
देवाश्च वसवश्चैव द्विषद्देवाश्विनौ सदा ॥ १२ ॥
ब्रह्मचारी समादिष्टो गुरुणा व्रतकर्मणि ॥
बाढमोमिति वा ब्रूयात्तथैवानुपपालयेत् ॥ १३ ॥
सशिखं वपनं कार्यमास्नानाद्ब्रह्मचारिणा ॥
आशरीरविमोक्षाय ब्रह्मचर्य्यं न चेद्भवेत् ॥ १४ ॥
न गात्रोत्सादनं कुर्यादनापदि कदाचन ॥
जलक्रीडामलङ्कारान्व्रतीदण्ड इवाप्लवेत् ॥ १५ ॥
देवतानां विपर्य्यासे जुहोतिषु कथं भवेत् ॥
सर्वं प्रायश्चित्तं हुत्वा क्रमेण जुहुयात्पुनः ॥ १६ ॥
संस्कारा अतिपत्येरन्स्वकालाच्चेत्कथञ्चन ॥
हुत्वा तदैव कर्तव्या ये तूपनयनादधः ॥ १७ ॥
अनिष्ट्वानवयज्ञेन नवान्नं योऽत्त्यकामतः ॥
वैश्वानरश्चरुस्तस्य प्रायश्चित्तं विधीयते ॥ १८ ॥
इति कात्यायनस्मृतौ पञ्चविंशतितमः खण्डः ॥ २५ ॥
<MISSING_FIG href="../books_images/1681203451.jpg"/>
** षड्विंशः खण्डः २६**
चरुः समशनीयो यंस्तथा गोयज्ञकर्मणि ॥
वृषभोत्सर्जने चैव अश्वयज्ञे तथैव च ॥ १ ॥
श्रावण्यां वा प्रदोषे यः कृष्यारम्भे तथैव च ॥
कथमेतेषु निर्वापाः कथं चैव जुहोतयः ॥२ ॥
देवतासङ्ख्यया ग्राह्या निर्वापास्तु पृथक्पृथक् ॥
तूष्णीं द्विरेव गृह्णीयाद्धोमश्चापि पृथक्पृथक् ॥ ३॥
यावता होमनिर्वृत्तिर्भवेद्वा यत्र कीर्तिता ॥
शेषं चैव भवेत्किञ्चित्तावन्तं निर्वपेच्चरुम् ॥ ४ ॥
चरौ समशनीये तु पितृयज्ञे चरौतथा ॥
होतव्यं मेक्षणे वान्य उपस्तीर्याभिघारितम् ॥ ५ ॥
कालः कात्यायनेनोक्तो विधिश्चैव समासतः ॥
वृषोत्सर्गो यतो नात्र गोभिलेन तु भाषितः ॥ ६ ॥
पारिभाषिक एव स्यात्कालो गोवाजियज्ञयोः ॥
अन्यास्मादुपदेशात्तु स्वस्तरारोहणस्य च ॥ ७ ॥
अथवा मार्गपाल्येऽह्नि कालो गोयज्ञकर्मणः ॥
नीराजनेऽह्नि वाश्वानामिति तन्त्रान्तरे विधिः ॥ ८ ॥
शरद्वसन्तयोः केचिन्नवयज्ञं प्रचक्षते ॥
धान्यपाकवशादन्ये श्यामाको वनिनः स्मृतः ॥ ९॥
आश्वयुज्यां तथा कृष्यां वास्तुकर्मणि याज्ञिकाः ॥
यज्ञार्थतत्त्ववेत्तारो होममेवं प्रचक्षते ॥ १० ॥
द्वे पञ्च द्वे क्रमेणैता हविराहुतयः स्मृताः ॥
शेषा आज्येन होतव्या इति कात्यायनोऽब्रवीत॥११॥
पयो यदाज्यसंयुक्तं तत्तृषातकमुच्यते ॥
दध्येके तदुपासाद्य कर्त्तव्यः पायसश्चरुः ॥ १२ ॥
व्रीहयः शालयो मुद्गागोधूमाः सर्षपास्तिलाः ॥
यवाश्चोषधयः सप्त विपदं घ्नन्ति धारिताः ॥ १३ ॥
संस्काराः पुरुषस्यैते स्मर्य्यन्ते गौतमादिभिः ॥
अतोऽष्टकादयः कार्य्याः सर्वकालप्रमोदिनाम् ॥ १४ ॥
सकृदप्यष्टकादीनि कुर्यात्कर्माणि यो द्विजः ॥
स पङ्क्तिपावनो भूत्वा लोकान्प्रैति घृतश्च्युतः ॥ १५ ॥
एकाहमपि कर्मस्थो योऽग्निशुश्रूषकः शुचिः ॥
नयत्यत्र तदेवास्य शताहं दिवि जायते ॥ १६ ॥
यस्त्वाधायाग्निमाशास्य देवादीन्नैभिरिष्टवान् ॥
निराकर्त्ताऽमरादीनां स विज्ञेयो निराकृतिः ॥ १७ ॥
इति कात्यायनस्मृतौ षड्विंशतितमः खण्डः ॥ २६ ॥
<MISSING_FIG href="../books_images/1681203524.jpg"/>
** सप्तविंशः खण्डः २७**
यच्छ्राद्धं कर्मणामादौ या चान्ते दक्षिणा भवेत् ॥
अमावास्यां द्वितीयं यदन्वाहार्यन्तदुच्यते ॥ १ ॥
एकसाध्येषु बर्हिःषु न स्यात्परिसमूहनम् ॥
नोदगासादनं चैव क्षिप्रहोमा हि ते मताः ॥ २ ॥
अभावे व्रीहियवयोर्द्दध्ना वा पयसापि वा ॥
तदभावे यवाग्वा वा जुहुयादुदकेन वा ॥ ३ ॥
रौद्रं तु राक्षसं पित्र्यमासुरं चाभिसारिकम् ॥
उक्त्वामन्त्रं स्पृशेदाप आलभ्यात्मानमेव च ॥ ४ ॥
यजनीयेऽह्निसोमश्चेद्वारुण्यां दिशि दृश्यते ॥
तत्र व्याहृतिभिर्हुत्वा दण्डं दद्याद्द्विजातये ॥ ५ ॥
लवणं मधु मांसं च सारांशो येन हूयते ॥
उपवासेन भुञ्जीत नोरु रात्रौ न किञ्चन ॥ ६ ॥
स्वकाले सायमाहुत्या अप्राप्तौ होतृहव्ययोः ॥
प्राक्प्रातराहुतेः कालः प्रायश्चित्ते हुते सति ॥ ७ ॥
प्राक्सायमाहुतेः प्रातर्होमकालानतिक्रमः ॥
प्राक्पौर्णमासाद्दर्शस्य प्राग्दर्शादितरस्य तु ॥ ८ ॥
वैश्वदेवे त्वतिकान्ते अहोरात्रमभोजनम् ॥
प्रायश्चित्तमथो हुत्वा पुनः सन्तनुयाद्व्रतम्॥ ९ ॥
होमद्वयात्यये दर्शपौर्णमासात्यये तथा ॥
पुनरेवाग्निमादध्यादिति भार्गवशासनम् ॥ १० ॥
रुरुर्गौरमृगः प्रोक्तस्तम्बलः शोण उच्यते ॥ ११ ॥
केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमाणतः ॥
ललाटसम्मितो राज्ञः स्यात्तु नासान्तिको विशः ॥ १२ ॥
ऋजवस्ते तु सर्वे स्युरव्रणाः सौम्यदर्शनाः ॥
अनुद्वेगकरा नॄणां सत्वचोऽनग्निदूषिताः ॥ १३ ॥
गौर्विशिष्टतमा विप्रैर्वेदेष्वपि निगद्यते ॥
न ततोऽन्यद्वरं यस्मात्तस्माद्गौर्वर उच्यते ॥ १४ ॥
येषां व्रतानामन्तेषु दक्षिणा न विधीयते ॥
वरस्तत्र भवेद्दानमपि वाऽऽच्छादयेद्गुरुम् ॥ १५ ॥
अनृचोमाणवो ज्ञेय एणः कृष्णमृगः स्मृतः॥
अस्थानोच्छ्वासविच्छेदघोषणाध्यापनादिकम् ॥
प्रामादिकं श्रुतौ यत्स्याद्यातयामत्वकारि तत् ॥ १६ ॥
प्रत्यब्दं यदुपाकर्म्म सोत्सर्गं विधिवद्द्विजैः ॥
क्रियते छन्दसां तेन पुनराप्यायनं भवेत् ॥ १७ ॥
अयातयामैश्छन्दोभिर्यत्कर्म्म क्रियते द्विजैः ॥
क्रीडमानैरपि सदा तत्तेषां सिद्धिकारकम् ॥ १८ ॥
गायत्रीञ्च सगायत्रां बार्हस्पत्यमिति त्रिकम् ॥
शिष्येभ्योऽनूच्य विधिवदुपाकुर्य्यात्ततः श्रुतिम् ॥ १९ ॥
छन्दसामेकविंशानां संहितायां यथाक्रमम् ॥
तच्छन्दस्काभिरेवर्ग्भिराद्याभिर्होम इष्यते ॥ २० ॥
पर्वभिश्चैव गानेषु ब्राह्मणेषूत्तरादिभिः ॥
अङ्गेषु चर्च्चामन्त्रेषु इति षष्टिर्जुहोतयः ॥ २१ ॥
इति कात्यायनस्मृतौ सप्तविंशतितमः खण्डः ॥ २७ ॥
<MISSING_FIG href="../books_images/1681203524.jpg"/>
अष्टाविंशः खण्डः २८.
अक्षतास्तु यवाः प्रोक्ता भृष्टा धाना भवन्ति ते ॥
भृष्टास्तु व्रीहयो लाजा घटः खाण्डिक उच्यते ॥ १ ॥
नाधीयीत रहस्यानि सान्तराणि विचक्षणः ॥
न चोपनिषदश्चैव षण्मासान्दक्षिणायनात् ॥ २ ॥
उपाकृत्योदगयने ततोऽधीयीत धर्म्मवित्।
उत्सर्गश्चैक एवैषां तैष्यां प्रोष्ठपदेऽपि वा ॥ ३ ॥
अजातव्यञ्जनाऽलोम्नी न तया सह संविशेत् ॥
अयुगूः काकवन्ध्या या जाता तां न विवाहयेत् ॥४॥
संसक्तपदविन्यासस्त्रिपदः प्रक्रमः स्मृतः ॥
स्मार्त्ते कर्म्मणि सर्वत्र श्रौते त्वध्वर्य्युणोदितः ॥ ५ ॥
यस्यां दिशि बलिं दद्यात्तामेवाभिमुखो विशेत् ॥
श्रवणाकर्म्मणि भवेद्यच्चकर्म्म न सर्वदा ॥ ६ ॥
बलिशेषस्य हवनमग्निप्रणयनस्तथा ॥
प्रत्यहं न भवेयातामुल्मुकन्तु भवेत्सदा ॥ ७ ॥
पृषातकप्रेषणयोर्नवस्य हविषस्तथा ॥
शिष्टस्य प्राशने मन्त्रस्तत्र सर्वेऽधिकारिणः ॥ ८ ॥
ब्राह्मणानामसान्निध्ये स्वयमेव पृषातकम् ॥
अवेक्षेद्धविषः शेषं नवयज्ञेऽपि भक्षयेत् ॥ ९ ॥
सफला बदरीशाखा फलवत्यभिधीयते ॥
घना विसिकताशङ्काः स्मृता जातशिलास्तु ताः ॥ १० ॥
नष्टो विनष्टो मणिकः शिलानाशे तथैव च ॥
तदैवाहृत्य संस्कार्यो नापेक्षेताग्रहायणीम् ॥ ११ ॥
श्रवणाकर्म्म लुप्तं चेत्कथञ्चित्सूतकादिना ॥
आग्रहायणिकं कुर्य्याद्बलिवर्जमशेषतः ॥ १२ ॥
ऊर्ध्वस्वस्तरशायी स्यान्मासमर्द्धमथापि वा ॥
सप्तरात्रं त्रिरात्रं वा एकां वा सद्य एव वा ॥ १३ ॥
नोर्ध्वं मन्त्रप्रयोगः स्यान्नाग्न्यगारं नियम्यते ॥
नाहतास्तरणं चैव न पार्श्वञ्चापि दक्षिणम् ॥ १४ ॥
दृढश्चेदाग्रहायण्यामावृत्त्या वापि कर्म्मणः ॥
कुम्भं मन्त्रवदासिञ्चेत्प्रतिकुम्भमृचं पठेत् ॥ १५ ॥
अल्पानां यो विघातः स्यात्स बाधो बहुभिः स्मृतः ॥
प्राणसाम्मत इत्यादि वसिष्ठबोधितं यथा ॥ १६ ॥
विरोधो यत्र वाक्यानां प्रामाण्यं तत्र भूयसाम् ॥
तुल्यप्रमाणकत्वे तु न्याय एवं प्रकीर्त्तितः ॥ १७ ॥
त्रैयम्बकं करतलमपूपा मण्डकाः स्मृताः ॥
पालाशगोलकाश्चैव लोहचर्णं च चीवरम् ॥ १८ ॥
स्पृशन्ननामिकाग्रेण क्वचिदालोकयन्नपि ॥
अनुमन्त्रणीयं सर्वत्र सदैवमनुमन्त्रयेत् ॥ १९ ॥
इति कात्यायनस्मृतौ अष्टाविंशतितमः खण्डः ॥ २८ ॥
<MISSING_FIG href="../books_images/1681204450.jpg"/>
एकोनत्रिंशः खण्डः २९.
क्षालनं दर्भकूर्च्चेन सर्वत्र स्रोतसां पशोः ॥
तृष्णीमिच्छाक्रमेण स्याद्वपार्थे प्राणदारुणि ॥ १ ॥
सप्त तावन्मूर्धन्यानि तथा स्तनचतुष्टयम् ॥
नाभिः श्रोणिरपानं च गोस्रोतांसि चतुर्दश ॥ २ ॥
क्षुरो मांसावदानार्थः कृत्स्ना स्विष्टकृदावृता ॥
वपामादाय जुहुयात्तत्र मन्त्रं समापयेत् ॥ ३ ॥
हृज्जिह्वाक्रोडमस्थीनि यकृद्रवृक्कौ गुदं स्तनाः ॥
श्रोणिस्कन्धसटापार्श्वं पश्वङ्गानि प्रचक्षते ॥ ४ ॥
एकादशानामङ्गानामवदानानि सङ्ख्यया ॥
पार्श्वस्य वृक्कसक्थ्नोश्च द्वित्वादाहुश्चतुर्दश ॥ ५॥
चरितार्थाश्रुतिः कार्य्या यस्मादप्यनुकल्पशः ॥
अतोऽष्टच्चर्ने होमः स्याच्छागपक्षे चरावपि ॥ ६ ॥
अवदानानि यावन्तिक्रियेरन्प्रस्तरे पशोः ॥
तावतः पायसापिण्डान्पश्वभावेऽपि कारयेत् ॥ ७ ॥
ऊहनव्यञ्जनार्थं तु पश्वभावेऽपि पायसम् ॥
सद्रवं श्रपयेत्तद्वदन्वष्टक्येऽपि कर्म्मणि ॥ ८ ॥
प्राधान्यं पिण्डदानस्यकेचिदाहुर्मनीषिणः ॥
गयादौ पिण्डमात्रस्य दीयमानत्वदर्शनात् ॥ ९ ॥
भोजनस्य प्रधानत्वं वदन्त्यन्ये महर्षयः ॥
ब्राह्मणस्य परीक्षायां महायत्नप्रदर्शनात् ॥ १० ॥
आमश्राद्धविधानस्य विना पिण्डैः क्रियाविधिः ॥
तदालभ्याप्यनध्यापविधानश्रवणादपि ॥ ११ ॥
विद्वन्मतमुपादाय ममाप्येतद्धृदि स्थितम्
प्राधान्यमुभयोर्यस्मात्तस्मादेष समुच्चयः ॥१२ ॥
प्राचीनावीतिना कार्य्यं पित्र्येषु प्रोक्षणं पशोः ॥
दक्षिणोद्वासनान्तं च चरोर्निर्वपणादिकम् ॥ १३ ॥
सन्नयश्चावदानानां प्रधानार्थो नहीतरः ॥
प्रधानं हवनं चैव शेषं प्रकृतिवद्भवेत् ॥ १४ ॥
द्वीपमुन्नतमाख्यातं शादा चैवेष्टका स्मृता ॥
कीलिनं सजलं प्रोक्तं दूरखातोदको मरुः ॥ १५ ॥
द्वारे गवाक्षस्तम्भैःकर्दमभित्यन्तकोणवेधैश्च ॥
नेष्टं वास्तुद्वारं विद्धमनाक्रान्तमार्य्यैश्च ॥ १६ ॥
वशं गमाविति व्रीहींश्चख्नश्चेति यवांस्तथा ॥
असावित्यत्र नामोक्त्वा जुहुयात्क्षिप्रहोमवत् ॥ १७ ॥
साक्षतं सुमनायुक्तमुदकं दधिसंयुतम् ॥
अर्घ्यं दधिमधुभ्यां च मधुपर्को विधीयते ॥ १८ ॥
कांस्येनैवार्हणीयस्य निनयेदर्घ्यमञ्जलौ ॥
कांस्यापिधानं कांस्यस्थं मधुपर्क्कंसमर्पयेत् ॥ १९ ॥
इति कात्यायनस्मृतावेकोनत्रिंशत्तमः खण्डः ॥ २९ ॥
इति कात्यायनविरचिते कर्मप्रदीपे तृतीयः
प्रपाठकः समाप्तः ॥ ३ ॥
इति कात्यायनस्मृतिः समाप्ता ॥ ९ ॥
श्रीः।
-
“अर्वाग्वोति पाठ ऋजुः ।” ↩︎