हारीतस्मृतिः

<MISSING_FIG href="../books_images/1680872911.jpg"/>

प्रथमोऽध्यायः १.

ये वर्णाश्रमधर्मस्थास्ते भक्ताः केशवं प्रति ।
इति पूर्वं त्वया प्रोक्तं भूर्भुवःस्वर्द्विजोत्तम ॥ १ ॥

वर्णानामाश्रमाणां च धर्मान्नो ब्रूहि सत्तम ।
येन सन्तुष्यते देवो नारसिंहः सनातनः ॥ २ ॥

अत्राहं कथयिष्यामि पुरावृत्तमनुत्तमम् ।
ऋषिभिः सह संवादं हारीतस्य महात्मनः ॥ ३ ॥

हारीतं सर्वधर्मज्ञमासीनमिव पावकम् ।
प्रणिपत्याऽब्रुवन्सर्वे मुनयो धर्मकाङ्क्षिणः ॥ ४ ॥

भगवन्सर्वधर्मज्ञ सर्वधर्मप्रवर्त्तक।

वर्णानामाश्रमाणां च धर्मान्नो ब्रूहि भार्गव ॥ ५ ॥

समासाद्योगशास्त्रं च विष्णुभक्तिकरं परम् ।
एतच्चान्यच्च भगवन्ब्रूहि नः परमो गुरुः ॥ ६ ॥

हारीतस्तानुवाचाथ तैरेवं चोदितो मुनिः ।
शृण्वन्तु मुनयः सर्वे धर्म्मान्वक्ष्यामि शाश्वतान् ॥ ७ ॥

वर्णानामाश्रमाणां च योगशास्त्रं च सत्तमाः ।
सन्धार्य मुच्यते मर्त्योजन्मसंसारबन्धनात् ॥ ८ ॥

पुरा देवो जगत्स्रष्टा परमात्मा जलोपरि ।
सुष्वाप भोगिपर्यके शयने तुं श्रिया सह ॥ ९ ॥

तस्य सुप्तस्य नाभौ तु महत्पद्ममभूत्किल ।
पद्ममध्येऽभवद्ब्रह्मा वेदवेदाङ्गभूषणः ॥ १० ॥

स चोक्तो देवदेवेन जगत्सृज पुनः पुनः ।
सोऽपि सृष्ट्वा जगत्सर्वं सदेवासुरमानुषम् ॥ ११ ॥

यज्ञसिद्ध्यर्थमनघान्ब्राह्मणान्मुखतोऽसृजत् ।
असृजत्क्षत्रियान्बाह्वोर्वैश्यानप्यूरुदेशतः ॥ १२ ॥

शूद्रांश्च पादयोः सृष्ट्वा तेषां चैवानुपूर्वशः ।
यथा प्रोवाच भगवान्पद्मयोनिः पितामहः ॥ १३ ॥

तद्वचः सम्प्रवक्ष्यामि शृणुत द्विजसत्तमाः ।
धन्यं यशस्यमायुष्यं स्वर्ग्यम्मोक्षफलप्रदम् ॥ १४ ॥

ब्राह्मण्यां ब्राह्मणेनैवमुत्पन्नो ब्रह्मणः स्मृतः ।
तस्य धर्मं प्रवक्ष्यामि तद्योग्यं देशमेव च ॥ १५॥

कृष्णसारो मृगो यत्र स्वभावेन प्रवर्त्तते ।
तस्मिन्देशे वसेद्धर्माः सिद्ध्यन्ति द्विजसत्तमाः ॥ १६ ॥

षट्कर्माणि निजान्याहुर्ब्राह्मणस्य महात्मनः ।
तैरेव सततं यस्तु वर्तयेत्सुखमेधते ॥ १७ ॥

अध्यापनं चाध्ययनं याजनं यजनं तथा ।
दानं प्रतिग्रहश्चेति षट्कर्माणीति प्रोच्यते ॥ १८ ॥

अध्यापनं च त्रिविधं धर्म्मार्थमृक्थकारणात् ।
शुश्रूषाकरणं चेति त्रिविधं परिकीर्तितम् ॥ १९ ॥

एषामन्यतमाभावे वृथाचारो भवेद्द्विजः ।
तत्र विद्या न दातव्या पुरुषेण हितैषिणा ॥ २० ॥

योग्यानध्यापयेच्छिष्यानयोग्यानपि वर्जयेत् ।
विदितात्प्रतिगृह्णीयाद्गृहे धर्मप्रसिद्धये ॥ २१ ॥

वेदञ्चैवाभ्यसेन्नित्यं शुचौ देशे समाहितः ।
धर्म्मशास्त्रं तथा पाठ्यं ब्राह्मणैः शुद्धमानसैः ॥ २२ ॥

वेदवत्पठितव्यं च श्रोतव्यं च दिवानिशि ।
स्मृतिहीनाय विप्राय श्रुतिहीने तथैव च ॥ २३ ॥

दानं भोजनमन्यच्च दत्तं कुलविनाशनम् ।
तस्मात्सर्वप्रयत्नेन धर्म्मशास्त्रं पठेद्द्विजः ॥ २४ ॥

श्रुतिस्मृती च विप्राणां चक्षुषी देवनिर्म्मिते ।
काणस्तत्रैकया हीनो द्वाभ्यामन्धः प्रकीर्तितः ॥ २५ ॥

गुरुशुश्रूषणं चैव यथान्यायमतन्द्रितः ।
सायम्प्रातरुपासीत विवाहाग्निं द्विजोत्तमः ॥ २६ ॥

सुस्नातस्तु प्रकुर्वीत वैश्वदेवं दिने दिने ।
अतिथीनागताञ्छक्त्या पूजयेदविचारतः ॥ २७ ॥

अन्यानभ्यागतान्विप्रान्पूजयेच्छक्तितो गृही ।
स्वदारनिरतो नित्यं परदारविवर्जितः ॥ २८ ॥

कृतहोमस्तु भुञ्जीत सायम्प्रातरुदारधीः ।
सत्यवादी जितक्रोधो नाधर्म्मे वर्त्तयेन्मतिम् ॥ २९ ॥

स्वकर्मणि च सम्प्राप्ते प्रमादान्न निवर्त्तते ।
सत्यां हितां वदेद्वाचं परलोकहितैषिणीम् ॥ ३० ॥

एष धर्म्मःसमुद्दिष्टो ब्राह्मणस्य समासतः ।
धर्म्ममेव हि यः कुर्यात्स याति ब्रह्मणः पदम् ॥ ३१ ॥

इत्येष धर्म्मः कथितो मयाय पृष्टो भवद्भिस्त्वखिलाघहारी ।
वदामि राज्ञामपि चैव धर्म्मान्पृथक्पृथग्बोधत विप्रवर्य्याः ३२ ॥

इति हारीते धर्मशास्त्रे प्रथमोऽध्यायः ॥ १ ॥

<MISSING_FIG href="../books_images/1680873008.jpg"/>

** द्वितीयोऽध्यायः २.**

क्षत्रादीनां प्रवक्ष्यामि यथावदनुपूर्वशः ।
येषु प्रवृत्ता विधिना सर्वे यान्ति परां गतिम् ॥ १ ॥

राज्यस्थः क्षत्रियश्चापि प्रजा धर्म्मेण पालयन् ।
कुर्यादध्ययनं सम्यग्यजेद्यज्ञान्यथाविधि ॥ २ ॥

दद्याद्दानं द्विजातिभ्यो धर्म्मबुद्धिसमन्वितः ।
स्वभार्य्यानिरतो नित्यं षड्भागार्हःसदा नृपः ॥ ३ ॥

नीतिशास्त्रार्थकुशलः सन्धिविग्रहतत्त्ववित् ।
देवब्राह्मणभक्तश्च पितृकार्य्यपरस्तथा ॥ ४ ॥

धर्म्मेण यजनं कार्य्यमधर्म्मपरिवर्जनम् ।
उत्तमां गतिमाप्नोति क्षत्रियोऽप्येवमाचरन् ॥ ५ ॥

गोरक्षां कृषिवाणिज्यं कुर्याद्वैश्यो यथाविधि ।
दानं देयं यथाशक्ति ब्राह्मणानां च भोजनम् ॥ ६ ॥

दम्भमोहविनिर्मुक्तः सत्यवागनसूयकः ।
स्वदारनिरतो दान्तः परदारविवर्जितः ॥ ७ ॥

धनैर्विप्रान्भोजयित्वा यज्ञकाले तु याजकान् ।
अप्रभुत्वं च वर्तेत धर्मे चादेहपातनात् ॥ ८ ॥

यज्ञाध्ययनदानानि कुर्य्यान्नित्यमतन्द्रितः ।
पितृकार्यपरश्चैव नरसिंहार्च्चनापरः ॥ ९ ॥

एतद्वैश्यस्य धर्मोऽयं स्वधर्ममनुतिष्ठति ।
एतदाचरते यो हि स स्वर्गी नात्र संशयः ॥ १० ॥

वर्णत्रयस्य शुश्रूषां कुर्य्याच्छूद्रः प्रयत्नतः ।
दासवद्ब्राह्मणानाञ्च विशेषेण समाचरेत् ॥ ११ ॥

अयाचितप्रदाता च कष्टं वृत्त्यर्थमाचरेत् ।
पाकयज्ञविधानेन यजेद्देवमतन्द्रितः ॥ १२ ॥

शूद्राणामधिकं कुर्यादर्च्चनं न्यायवर्तिनाम् ।
धारणं जीर्णवस्त्रस्य विप्रस्योच्छिष्टभोजनम् ॥ १३ ॥

स्वदारेषु रतिश्चैव परदारविवर्जनम् ।
इत्थं कुर्यात्सदा शूद्रो मनोवाक्कायकर्म्मभिः ॥ १४ ॥

स्थानमैन्द्रमवाप्नोति नष्टपापः सुपुण्यकृत् ॥ १५ ॥

वर्णेषु धर्म्मा विविधामयोक्ता यथा तथा ब्रह्ममुखेरिताःपुरा ।
शृणुध्वमत्राश्रमधर्म्ममाद्यं मयोच्यमानं क्रमशो मुनीन्द्राः ॥ १६ ॥

इति हारीते धर्म्मशास्त्रे द्वितीयोऽध्यायः ॥ २ ॥

<MISSING_FIG href="../books_images/1680938197.jpg"/>

तृतीयोऽध्यायः ३.

उपनीतो माणवको वसेद्गुरुकुलेषु च ।
गुरोः कुले प्रियं कुर्य्यात्कर्मणा मनसा गिरा ॥ १ ॥

ब्रह्मचर्यमधःशय्या तथा वह्नेरुपासना ।
उदकुम्भान्गुरोर्दद्याद्गोग्रामं चेन्धlतानि च ॥ २ ॥

कुर्यादध्ययनं चैव ब्रह्मचारी यथाविधि ।
विधिं त्यक्त्वा प्रकुर्वाणो न स्व ध्यायफलं लभेत् ॥ ३ ॥

यः कश्चित्कुरुते धर्म्मं विधिंहित्वा दुरात्मवान् ।
न तत्फलमवाप्नोति कुर्वाणोऽपि विधिच्युतः ॥ ४ ॥

तस्माद्वेदव्रतानीह चरेत्स्वाध्यायसिद्धये ।
शौचाचारमशेषं तु शिक्षयेद्गुरुसन्निधौ ॥ ५ ॥

अजिने दण्डकाष्ठं च मेखलाञ्चोपवीतकम् ।
धारयेदप्रमत्तश्च ब्रह्मचारी समाहितः ॥ ६ ॥

सायम्प्रातश्चरेद्भैक्षं भोज्यार्थं संयतेन्द्रियः ।
आचम्य प्रयतो नित्यं न कुर्याद्दन्तधावनम् ॥ ७ ॥

छत्रं चोपानहं चैव गन्धमाल्यादि वर्जयेत् ।
नृत्यं गीतमथालापं मैथुनं च विवर्जयेत् ॥ ८ ॥

हस्त्यश्वारोहणं चैव सन्त्यजेत्संयतेन्द्रियः ।
सन्ध्योपास्तिं प्रकुर्वीत ब्रह्मचारी व्रतस्थितः ॥ ९ ॥

अभिवाद्य गुरोः पादौ सन्ध्याकर्मावसानतः ।
तथा योगं प्रकुर्वीत मातापित्रोश्च भक्तितः ॥ १० ॥

एतेषु त्रिषु नष्टेषु नष्टाः स्युः सर्वदेवताः ।
एतेषां शासने तिष्ठद्ब्रह्मचारी विमत्सरः ॥ ११ ॥

अधीत्य च गुरोर्वेदान्वेदौ वा वेदमेव वा ।
गुरवे दक्षिणां दद्यात्संयमी ग्राममावसेत् ॥ १२ ॥

यस्यैतानि सुगुप्तानि जिह्वोपस्थोदरं करः ।
सन्न्याससमयं कृत्वा ब्राह्मणो ब्रह्मचर्यया ॥ १३ ॥

तस्मिन्नेव नयेत्कालमाचार्य्येयावदायुषम् ।
तदभावे च तत्पुत्रे तच्छिष्येऽप्यथवा कुले ॥ १४ ॥

न विवाहो न सन्न्यासो नैष्ठिकस्य विधीयते ।
इमं यो विधिमास्थाय त्यजेद्देहमतन्द्रितः ॥ १५ ॥

नेह भूयोऽपि जायेत ब्रह्मचारी दृढव्रतः ॥ १६ ॥

यो ब्रह्मचारी विधिना समाहितश्चरेत्पृथिव्यां गुरुसेवने रतः ।
सम्प्राप्यविद्यामतिदुर्लभांशिवाम्फलञ्चतस्याःसुलभं स विन्दति ॥१७॥

इति हारीते धर्मशास्त्रे तृतीयोऽध्यायः ॥ ३ ॥

** <MISSING_FIG href="../books_images/1680938837.jpg"/>**

** चतुर्थोऽध्यायः ४**

गृहीतवेदाध्ययनः श्रुतशास्त्रार्थतत्त्ववित् ।
असमानर्षिगोत्रां हि कन्यां सभ्रातृकां शुभाम् ॥ १ ॥

सर्वावयवसम्पूर्णां सुवृत्तामुद्वहेन्नरः ।
ब्राह्मेण विधिना कुर्यात्प्रशस्तेन द्विजोत्तमः ॥ २ ॥

तथान्ये बहवः प्रोक्ता विवाहा वर्णधर्मतः ।
औपासनं च विधिवदाहृत्य द्विजपुङ्गवाः ॥ ३ ॥

सायं प्रातश्च जुहुयात्सर्वकालमतन्द्रितः ।
स्नानं कार्य्यं ततो नित्यं दन्तधावनपूर्वकम् ॥ ४ ॥

उषःकाले समुत्थाय कृतशौचो यथाविधि ।
मुखे पर्य्युषिते नित्यं भवत्यप्रयतो नरः ॥ ५ ॥

तस्माच्छुष्कमथार्द्रं वा भक्षयेद्दन्तकाष्ठकम् ।
करञ्जं खादिरं वापि कदम्बं कुरबं तथा ॥ ६ ॥

सप्तपर्णं पृश्निपर्णीं जम्बूं निम्बं तथैव च ।
अपामार्गं च बिल्वं चार्कं चोदुम्बरमेव च ॥ ७ ॥

एते प्रशस्ताः कथिता दन्तधावनकर्म्मणि ।
दन्तकाष्ठस्य भक्ष्यस्य समासेन प्रकीर्तितः ॥ ८ ॥

सर्वे कण्टकिनः पुण्याः क्षीरिणश्च यशस्विनः ।
अष्टाङ्गुलेन मानेन दन्तकाष्ठमिहोच्यते ।
प्रादेशमात्रमथवा तेन दन्तान्विशोधयेत् ॥ ९ ॥

प्रतिपत्पर्वषष्ठीषु नवम्यां चैव सत्तमाः ।
दन्तानां काष्ठसंयोगाद्दहत्यासप्तमं कुलम् ॥ १० ॥

अभावे दन्तकाष्ठानां प्रतिषिद्धदिनेषु च ।
अपां द्वादशगण्डूषैर्मुखशुद्धिं समाचरेत् ॥ ११ ॥

स्नात्वा मन्त्रवदाचम्य पुनराचमनं चरेत् ।
मन्त्रवत्प्रोक्ष्य चात्मानं प्रक्षिपेदुदकाञ्जलिम् ॥ १२ ॥

आदित्येन सह प्रातर्मन्देहा नाम राक्षसाः ।
युद्ध्यन्ति वरदानेन ब्रह्मणोऽव्यक्तजन्मनः ॥ १३ ॥

उदकाञ्जिलिनिःक्षेपाद्गायत्र्या चाभिमन्त्रिताः ।
निघ्नन्ति राक्षसान्सर्वान्मन्देहाख्यान्द्विजेरिताः ॥ १४ ॥

ततः प्रयाति सविता ब्राह्मणैरभिरक्षितः ।
मरीच्याद्यैर्महाभागैः सनकाद्यैश्च योगिभिः ॥ १५ ॥

तस्मान्न लङ्घयेत्सन्ध्यां सायं प्रातः समाहितः ।
उल्लङ्घयति यो मोहात्स याति नरकं ध्रुवम् ॥ १६ ॥

सायं मन्त्रवदाचम्यप्रोक्ष्य सूर्य्यस्य चाञ्जलिम् ।
दत्त्वा प्रदक्षिणं कुर्य्याज्जलं स्पृष्ट्वा विशुद्ध्यति ॥ १७ ॥

पूर्वांसन्ध्यां सनक्षत्रामुपासीत यथाविधि ।
गायत्रीमभ्यसेत्तावद्यावदादित्यदर्शनम् ॥ १८ ॥

उपास्य पश्चिमां सन्ध्यां सादित्यां च यथाविधि ।
गायत्रीमभ्यसेत्तावद्यावत्ताराणि पश्यति ॥ १९ ॥

ततश्चावसथं प्राप्य कृत्वा होमं स्वयं बुधः ।
सञ्चि1त्य पोष्यवर्गस्य भरणार्थं विचक्षणः ॥ २० ॥

ततः शिष्यहितार्थाय स्वाध्यायं किञ्चिदाचरेत् ।
ईश्वरं चैव कार्य्यार्थमभिगच्छेद्द्विजोत्तमः ॥ २१ ॥

कुशपुर्ष्पेधनादीनि गत्वा दूरं समाहरेत् ।
ततो मध्याह्निकं कुर्याच्छुचौ देशे मनोरमे ॥ २२ ॥

विधिं तस्य प्रवक्ष्यामि समासात्पापनाशनम् ।
स्नात्वा येन विधानेन मुच्यते सर्वकिल्बिषात् ॥ २३ ॥

स्नानार्थं मृदमानीय शुद्धाक्षततिलैःसह ।
सुमनाश्च ततो गगच्छेन्नदीं शुद्धजलाधिकाम् ॥ २४॥

नद्यां तु विद्यमानायां न स्नायादन्यवारिणि ।
न स्नायादल्पतोयेषु विद्यमाने बहूदके ॥ २५ ॥

सरिद्वरं नदीस्नानं प्रतिस्रोतः स्थितश्चरेत् ।
तडागादिषु तोयेषु स्नायाच्च तदभावतः ॥ २६ ॥

शुचिदेशे समभ्युक्ष्य स्थापयेत्सकलाम्बरम् ।
मृत्तोयेने स्वकं देहं लिम्पेत्प्रक्षाल्य यत्नतः ॥ २७॥

स्नानादिकं समाप्येव कुर्यादाचमनं बुधः ।
सोऽन्तर्जलं प्रविश्याथ वाग्यतो नियमेन हि ॥ २८ ॥

हरिं संस्मृत्य मनसा मज्जयेच्चोरुमज्जले ।
ततस्तीरं समासाद्य आचम्यापः समन्त्रतः ॥ २९ ॥

प्रोक्षयेद्वारुणैर्मन्त्रैः पावमानीभिरेव च ।
कुशाग्रकृततोयेन प्रोक्ष्यात्मानं प्रयत्नतः ॥ ३० ॥

स्योना पृथ्वीति मृद्गात्रे इदंविष्णुरिति द्विजाः ।
ततो नारायणं देवं संस्मरेत्प्रतिमज्जनम् ॥ ३१ ॥

निमज्ज्यान्तर्जले सम्यक्क्रियते चाघमर्षणम् ।
स्नात्वाक्षततिलैस्तद्वद्देवर्षिपितृभिः सह ॥ ३२ ॥

तर्पयित्वा जलं तस्मान्निष्पीड्य च समाहितः ।
जलतीरं समासाद्य तत्र शुक्ले च वाससी ॥ ३३ ॥

परिधायोत्तरीयं च कुर्य्यात्केशान्न धूनयेत् ।
न रक्तमुल्बणं वासो न नीलं च प्रशस्यते ॥ ३४ ॥

मलाक्तं गन्धहीनं च वर्जयेदम्बरं बुधः ।
ततः प्रक्षालयेत्पादौ मृत्तोयेन विचक्षणः ॥ ३५ ॥

दक्षिणं तु करं कृत्वा गोकर्णाकृतिवत्पुनः॥

त्रिः पिबेदीक्षितं तोयमास्यं द्विः परिमार्जयेत् ॥ ३६॥

पादौ शिरस्ततोऽभ्युक्ष्य त्रिभिरास्यमुपस्पृशेत् ।
अङ्गुष्ठानामिकाभ्यां च चक्षुषी समुपस्पृशेत् ॥ ३७ ॥

तथैव पञ्चभिर्मूर्ध्नि स्पृशेदेवं समाहितः ।
अनेन विधिनाऽचम्य ब्राह्मणः शुद्धमानसः ॥ ३८ ॥

कुर्वीत दर्भपाणिस्तूदङ्मुखः प्राङ्मुखोऽपि वा॥

प्राणायामत्रयं धीमान्यथान्यायमतन्द्रितः ॥ ३९॥

जपयज्ञं ततः कुर्याद्गायत्रीं वेदमातरम् ।
त्रिविधो जपयज्ञः स्यात्तस्य तत्त्वं निबोधत ॥ ४० ॥

वाचिकश्चाप्युपांशुश्च मानसश्चत्रिधा कृतिः ।
त्रयाणामपि यज्ञानां श्रेष्ठः स्यादुत्तरोत्तरः ॥ ४१ ॥

यदुच्चनीचोच्चरितैः शब्दैः स्पष्टपदाक्षरैः॥

मन्त्रमुच्चारयन्वाचा जपयज्ञस्तु वाचिकः ॥ ४२ ॥

शनैरुच्चारयन्मन्त्रं किञ्चिदोष्ठौ प्रचालयेत् ।
किञ्चिच्छ्रवणयोग्यः स्यात्स उपांशुर्जपः स्मृतः ॥ ४३ ॥

धिया पदाक्षाश्रेण्या अवर्णमपदाक्षरम् ।
शब्दार्थचिन्तनाभ्यां तु तदुक्तं मानसं स्मृतम् ॥ ४४ ॥

जपेन देवता नित्यं स्तूयमाना प्रसीदति ।
प्रसन्ने विपुलान्गोत्रान्प्राप्नुवन्ति मनीषिणः॥ ४५ ॥

राक्षसाश्च पिशाचाश्च महासर्पाश्च भीषणाः ॥

जपितान्नोपसर्पन्ति दूरादेव प्रयान्ति ते ॥ ४६ ॥

छन्दऋष्यादि विज्ञाय जपेन्मन्त्रमतन्द्रितः ॥

जपेदहरहर्ज्ञात्वागायत्रीं मनसा द्विजः ॥ ४७ ॥

सहस्रपरमां देवीं शतमध्यां दशावराम् ॥

गायत्रीं यो जपेन्नित्यं स न पापेन लिप्यते ॥ ४८ ॥

अथ पुष्पाञ्जलिं कृत्वा भानवे चोर्ध्वबाहुकः ॥

उदुत्यं च जपेत्सूक्तं तच्चक्षुरिति चापरम् ॥ ४९ ॥

प्रदक्षिणमुपावृत्य नमस्कुर्य्याद्दिवाकरम् ॥

तत्तत्तीर्थेन देवादीनद्भिः सन्तर्पयेद्द्विजः ॥ ५० ॥

स्नानवस्त्रं तु निष्पीड्य पुनराचमनं चरेत् ॥

तद्वद्भक्तजनस्येह स्नानं दानं प्रकीर्तितम् ॥ ५१ ॥

दर्भासीनो दर्भपाणिर्ब्रह्मयज्ञविधानतः ॥

प्राङ्मुखो ब्रह्मयज्ञं तु कुर्य्याच्छ्रद्धासमन्वितः ॥ ५२ ॥

ततोऽर्घ्यं भानवे दद्यात्तिलपुष्पाक्षतान्वितम् ॥

उत्थाय मूर्द्धपर्य्यन्तं हंसः शुचिषदित्यृचा ॥ ५३ ॥

ततो देवं नमस्कृत्य गृहं गच्छेत्ततः पुनः ॥

विधिना पुरुषसूक्तस्य गत्वा विष्णुं समर्च्चयेत् ॥ ५४ ॥

वैश्वदेवं ततः कुर्याद्बलिकर्मं विधानतः ॥

गोदोहमात्रमाकाङ्क्षेदतिथिं प्रति वै गृही ॥ ५५ ॥

अदृष्टपूर्वमज्ञातमतिथिं प्राप्तमर्चयेत् ॥

स्वागतासनदानेन प्रत्युत्थानेन चाम्बुना ॥ ५६ ॥

स्वागतेनाग्नयस्तुष्टा भवन्ति गृहमेधिनः ॥

आसनेन तु दत्तेन प्रीतो भवति देवराट् ॥ ५७ ॥

पादशौचेन पितरः प्रीतिमायान्ति दुर्लभाम् ॥

अन्नदानेन युक्तेन तृप्यते हि प्रजापतिः ॥ ५८ ॥

तस्मादतिथये कार्य्यं पूजनं गृहमेधिना ॥

भक्त्या च शक्तितो नित्यं पूजयेद्विष्णुमन्वहम् ॥५९॥

भिक्षां च भिक्षवे दद्यात्परिव्राड्ब्रह्मचारिणे ॥

अकल्पितान्नादुद्धृत्य सव्यञ्जनसमन्विताम् ॥ ६० ॥

अकृते वैश्वदेवेऽपि भिक्षौच गृहमागते।

उद्धृत्यवैश्वदेवार्थं भिक्षां दत्त्वा विसर्जयेत्॥ ६१ ॥

वैश्वदेवात्कृतान्दोषाञ्छक्तो भिक्षुर्व्यपोहितुम् ॥

न हि भिक्षुकृतान्दोषान्वैश्वदेवो व्यपोहति ॥ ६२ ॥

तस्मात्प्राप्ताय यतये भिक्षां दद्यात्समाहितः ॥ ६३ ॥

सुवासिनीं कुमारीं च भोजयित्वा नरानपि ॥

बालवृद्धांस्ततः शेषं स्वयं भुञ्जीत वा गृही ॥ ६४ ॥

प्राङ्मुखोदङ्मुखो वापि मौनी च मितभाषणः ॥

अन्नमादौ नमस्कृत्य प्रहृष्टेनान्तरात्मना ॥ ६५ ॥

पञ्च प्राणाहुतीः कुर्य्यान्मन्त्रेण च पृथक्पृथक् ॥

ततः स्वादुकरान्नं च भुञ्जीत सुसमाहितः ॥ ६६ ॥

आचम्य देवतामिष्टां संस्मरन्नुदरं स्पृशेत् ॥

इतिहासपुराणाभ्यां कञ्चित्कालं नयेद्बुधः ॥ ६७ ॥

ततः सन्ध्यामुपासीत बहिर्गत्वा विधानतः ॥

कृतहोमस्तु भुञ्जीत रात्रौ चातिथिभोजनम् ॥ ६८ ॥

सायं प्रातर्द्विजातीनामशनं श्रुतिचोदितम् ॥

नान्तरा भोजनं कुर्यादग्निहोत्रसमो विधिः ॥ ६९ ॥

शिष्यानध्यापयेच्चापि अनध्याये विसर्जयेत् ॥

स्मृत्युक्तानखिलांश्चापि पुराणोक्तानपि द्विजः ॥ ७० ॥

महानवम्यां द्वादश्यां भरण्यामपि पर्व्वसु ॥

तथाक्षयतृतीयायां शिष्यान्नाध्यापयेद्द्विजः ॥ ७१ ॥

माघमासे तु सप्तम्यां रथाख्यायां तु वर्जयेत् ॥

अध्यापनं समभ्यस्यन्स्नानकाले च वर्जयेत् ॥ ७२ ॥

नीयमानं शवं दृष्ट्वामहीस्थं वा द्विजोत्तमाः ॥

न पठेद्रुदितं श्रुत्वा सन्ध्यायां तु द्विजोत्तमाः ॥ ७३ ॥

दानानि च प्रदेयानि गृहस्थेन द्विजोत्तमाः ॥

हिरण्यदानं गोदानं पृथिवीदानमेव च ॥ ७४ ॥

एवं धर्मो गृहस्थस्य सारभूत उदाहृतः ॥

यएवं श्रद्धयाकुर्यात्स याति ब्रह्मणः पदम् ॥ ७५ ॥

ज्ञानोत्कर्षश्च तस्य स्यान्नरसिंहप्रसादतः ॥

तस्मान्मुक्तिमवाप्नोति ब्राह्मणो द्विजसत्तमाः ॥ ७६ ॥

एवं हि विप्राः कथितो मया वः समासतः शाश्वतधर्मराशिः ॥

यहीगृहस्थस्य सतो हि धर्म्मं कुर्वन्प्रयत्नाद्धारमेति युक्तम् ॥७७॥

इति हारीते धर्मशास्त्रेचतुर्थोऽध्यायः ॥ ४ ॥

    <MISSING_FIG href="../books_images/1680944048.jpg"/>

** ञ्चमोऽध्यायः ५.**

अतः परं प्रवक्ष्यामि वानप्रस्थस्य सत्तमाः ॥

धर्माश्रमं महाभागाः कथ्यमानं निबोधत ॥ १ ॥

गृहस्थः पुत्रपौत्रादीन्दृष्ट्वापलितमात्मनः ॥

भार्यां पुत्रेषु निःक्षिप्य सह वा प्रविशेद्वनम् ॥ २ ॥

नखरोमाणि च तथा सितगात्रत्वगादि च ॥

धारयञ्जुहुयादग्निंवनस्थो विधिमाश्रितः ॥ ३ ॥

धान्यैश्चवनसम्भूतैर्नीवाराद्यैरनिन्दितैः ॥

शाकमूलफलैर्वापि कुर्यान्नित्यं प्रयत्नतः ॥ ४ ॥

त्रिकालस्नानयुक्तस्तु कुर्यात्तीव्रं तपस्तदा ॥

पक्षान्ते वा समश्नीयान्मासान्ते वा स्वपक्वभुक् ॥ ५ ॥

तथा चतुर्थकाले तु भुञ्जीयादष्टमेऽथवा ॥

षष्ठे च कालेऽप्यथवा वायुभक्षोऽथवा भवेत् ॥ ६ ॥

घर्मेपञ्चाग्निमध्यस्थस्तथा वर्षे निराश्रयः ॥

हेमन्ते च जले स्थित्वा नयेत्कालं तपश्चरन् ॥ ७ ॥

एवं च कुर्वता येन कृतबुद्धिर्यथाक्रमम् ॥

अग्निं स्वात्मनि कृत्वा तु प्रव्रजेदुत्तरां दिशम् ॥ ८ ॥

आदेहपातं वनगो मौनमास्थाय तापसः ॥

स्मरन्नतीन्द्रियं ब्रह्म ब्रह्मलोके महीयते ॥ ९ ॥

तपो हि यः सेवति वन्यवासः समाधियुक्तः प्रयतान्तरात्मा ॥१ ॥

विमुक्तपापो विमलः प्रशान्तः स याति दिव्यं पुरुषं पुराणम् १

इति हारीते धर्मशास्त्रे पञ्चमोऽध्यायः ॥ ५ ॥

  <MISSING_FIG href="../books_images/1680944158.jpg"/>

षष्ठोऽध्यायः ६.

अतः परं प्रवक्ष्यामि चतुर्थाश्रममुत्तमम् ॥

एवं वनाश्रमे तिष्ठन्पातयंश्चैव किल्बिषम् ॥

चतुर्थमाश्रमं गच्छेत्सन्न्यासविधिना द्विजः ॥ २ ॥

दत्त्वापितृभ्यो देवेभ्यो मानुषेभ्यश्च यत्नतः ॥

दत्त्वा श्राद्धं पितृभ्यश्च मानुषेभ्यस्तथात्मनः ॥ ३ ॥

इष्टिं वैश्वानरीं कृत्वा प्राङ्मुखोदङ्मुखोऽपि वा ॥

अग्निं स्वात्मनि संरोप्य मन्त्रवत्प्रव्रजेत्पुनः ॥ ४ ॥

ततःप्रभृति पुत्रादौ स्नेहालापादि वर्जयेत् ॥

बन्धूनामभयं दद्यात्सर्वभूताभयं तथा ॥ ५ ॥

त्रिदण्डं वैष्णवं सम्यक् सन्ततं समपर्वकम् ॥

वेष्टितं कृष्णगोवालरज्जुमच्चतुरङ्गुलम् ॥ ६ ॥

शौचार्थमासनार्थञ्च मुनिभिः समुदाहृतम् ॥

कौपीनाच्छादनं वासःकन्थां शीतनिवारिणीम् ॥ ७ ॥

पादुके चापि गृह्णीयात्कुर्यान्नान्यस्य सङ्ग्रहम् ॥

एतानि तस्य लिङ्गानि यतेःप्रोक्तानि सर्वदा ॥ ८ ॥

सङ्गृह्य कृतसन्न्यासो गत्वा तीर्थमनुत्तमम् ॥

स्नात्वाऽऽचम्य च विधिवद्वस्त्रपूतेन वारिणा ॥ ९॥

तर्पयित्वा तु देवांश्चमन्त्रवद्भास्करं नमेत् ॥

आत्मानं प्राङ्मुखो मौनी प्राणायामत्रयं चरेत् ॥ १०॥

गायत्रीं च यथाशक्ति जप्त्वा ध्यायेत्परं पदम् ॥

स्थित्यर्थमात्मनो नित्यं भिक्षाटनमथाचरेत् ॥ ११ ॥

सायङ्काले तु विप्राणां गृहाण्यभ्यवपद्य तु ॥

सम्यग्याचेच्च कवलं दक्षिणेन करेण वै ॥ १२ ॥

पात्रं वामकरे स्थाप्य दक्षिणेन तु शोषयेत् ॥

यावतान्नेन तृप्तिः स्यात्तावद्भैक्षं समाचरेत् ॥ १३ ॥

ततो निवृत्त्य तत्पात्रं संस्थाप्यान्यत्र संयमी ॥

चतुर्भिरङ्गुलैश्छाद्यग्रासमात्रं समाहितः ॥ १४ ॥

सर्वव्यञ्जनसंयुक्तं पृथक्पात्रे नियोजयेत् ॥

सूर्यादिभूतदेवेभ्यो दत्त्वा सम्प्रोक्ष्य वारिणा ॥ १५ ॥

भुञ्जीत पात्रपुटके पात्रे वावाग्यतो यतिः ॥

वटकाश्वत्थपर्णेषु कुम्भीतैन्दुकपात्रके ॥ १६ ॥

कोविदारकदम्बेषु न भुञ्जीयात्कदाचन ॥

मलाक्ताः सर्व उच्यन्ते यत्नयःकांस्यभोजिनः ॥ १७ ॥

कांस्यभाण्डेषु यत्पाको गृहस्थस्य तथैव च ॥

कांस्ये भोजयतः सर्व्वं किल्विषं प्राप्नुयात्तयोः ॥ १८ ॥

भुक्त्वा पात्रे यतिर्नित्यं क्षालयेन्मन्त्रपूर्वकम् ॥

न दुष्यते च तत्पात्रं यज्ञेषु चमसा इव ॥ १९ ॥

अथाचम्य निदिध्यास्य उपतिष्ठेच्च भास्करम् ॥

जपध्यानेतिहासैश्च दिनशेषं नयेद्बुधः ॥ २० ॥

कृतसन्ध्यस्तन्तो रात्रिं नयेद्देवगृहादिषु ॥

हृत्पुण्डरीकनिलये ध्यायेदात्मानमव्ययम् ॥ २१ ॥

यदि धर्मरतिः शान्तः सर्वभूतसमो वशी ॥

प्राप्नोति परमं स्थानं यत्प्राप्य न निवर्तते ॥ २२ ॥

त्रिदण्डभृद्यो हि पृथक्समाचरे

च्छनैः शनैर्यस्तु बहिर्मुखाक्षः ॥

सम्मुच्य संसारसमस्तबन्धनात्

स यातिविष्णोरमृतात्मनःपदम् ॥ २३ ॥

इति हारीते धर्मशास्त्रे षष्ठोऽध्यायः ॥ ६ ॥

  <MISSING_FIG href="../books_images/1680944358.jpg"/>

** सप्तमोऽध्यायः ७**

वर्णानामाश्रमाणां च कथितं धर्मलक्षणम् ॥

येन स्वर्गापवर्गौ च प्राप्नुवन्ति द्विजातयः ॥ १ ॥

योगशास्त्रं प्रवक्ष्यामि सङ्क्षेपात्सारमुत्तमम् ॥

यस्य च श्रवणाद्यान्ति मोक्षं चैव मुमुक्षवः ॥ २॥

योगाभ्यासबलेनैव नश्येयुः पातकानि तु ॥

तस्माद्योगपरो भूत्वा ध्यायेन्नित्यं क्रियापरः ॥ ३ ॥

प्राणायामेन वचनं प्रत्याहारेण चेन्द्रियम् ॥

धारणाभिर्वशे कृत्वा पूर्वन्दुर्धर्षणं मनः ॥ ४ ॥

एकाकारमनानन्तं बुद्धौ रूपमनामयम् ॥

सूक्ष्मात्सूक्ष्मतरं ध्यायेज्जगदाधारमच्युतम् ॥ ५ ॥

आत्मना बहिरन्तःस्थं शुद्धचामीकरप्रभम् ॥

रहस्येकान्तमासीनो ध्यायेदामरणान्तिकम् ॥ ६॥

यत्सर्वप्राणिहृदयं सर्वेषां च हृदि स्थितम् ॥

यच्च सर्वजनैर्ज्ञेयं सोऽहमस्मीति चिन्तयेत् ॥ ७ ॥

आत्मलाभसुखं यावत्तपोध्यानमुदीरितम् ॥

श्रुतिस्मृत्यादिकं धर्मं तद्विरुद्धं न चाचरेत् ॥ ८ ॥

यथा रथोऽश्वहीनस्तु यथाश्वो रथिहीनकः॥

एवं तपश्च विद्या च संयुतं भेषजं भवेत् ॥ ९ ॥

यथान्नम्मधुसंयुक्तं मधु वान्नेन संयुतम् ॥

उभाभ्यामपि पक्षाभ्यां यथा खे पक्षिणां गतिः ॥ १० ॥

तथैव ज्ञानकर्मभ्यां प्राप्यते ब्रह्म शाश्वतम् ॥

विद्यातपोभ्यां सम्पन्नोब्राह्मणो योगतत्परः ॥ ११ ॥

देहद्वयं विहायाशु मुक्तो भवति बन्धनात् ॥

न तथा क्षीणदेहस्य विनाशो विद्यते क्वचित् ॥ १२ ॥

मया वः कथितः सर्वो वर्णाश्रमविभागशः ॥

सङ्क्षेपेण द्विजश्रेष्ठा धर्मस्तेषां सनातनः ॥ १३ ॥

श्रुत्वैवं मुनयो धर्मं स्वर्गमोक्षफलप्रदम् ॥

प्रणम्य तमृषिं जग्मुर्मुदिताः स्वं स्वमाश्रमम् ॥ १२ ॥

धर्मशास्त्रमिदं सर्वं हारीतमुखनिःसृतम् ॥

अध्यीत्यकुरुते धर्मं स याति परमां गतिम् ॥ १५ ॥

ब्राह्मणस्य तु यत्कर्म कथितं बाहुजस्य च ॥

ऊरुजस्यापि यत्कर्म कथितं पादजस्य च ॥ १६ ॥

अन्यथा वर्तमानस्तु सद्यः पतति जातितः ॥

यो यस्याभिहितो धर्मः स तु तस्य तथैव च ॥

तस्मात्स्वधर्मं कुर्वीत द्विजो नित्यमनापदि ॥

राजेन्द्र वर्णाश्चत्वारश्चत्वारश्चापि चाश्रमाः ॥ १८ ॥

स्वधर्मं येऽनुतिष्ठन्ति ते यान्ति परमां गतिम् ॥

स्वधर्मेण यथानृृणां नरसिंहः प्रसीदति ॥ १९ ॥

न तृष्यति तथान्येन कर्मणा मधुसूदनः ॥

अतः कुर्वन्निजं कर्म यथाकालमतन्द्रितः ॥ २० ॥

सहस्रानीकदेवेशं नरसिंह च सालयम् ॥ २१ ॥

उत्पन्नवैराग्यबलेन योगी ध्यायेत्परं ब्रह्म सदा क्रियावान् ॥

सत्यं सुखं रूपमनन्तमाद्यं विहाय देहं पदमेति विष्णोः ॥२२ ॥

इति हारीते धर्मशास्त्र सप्तमोऽध्यायः ॥७ ॥

इति हारीतस्मृतिः समाप्ता ३.

<MISSING_FIG href="../books_images/1680946220.jpg"/>

<MISSING_FIG href="../books_images/1680946291.jpg"/>

॥श्रीः॥


  1. “नपुंसकत्वमार्षम्।” ↩︎