गौतमस्मृतिः

<MISSING_FIG href="../books_images/1683525078.jpg"/>

प्रथमोऽध्यायः १.

श्रीगणेशाय नमः ॥ अथ गौतमस्मृतिप्रारम्भः॥

वेदो धर्ममूलं तद्विदां च स्मृतिशीले दृष्टो धर्म्मव्यतिक्रमः।साहसं च महतां न तु दृष्टोऽर्थोवरदौर्बल्यात्रतुल्यबलविरोधे विकल्पः।
उपनयनं ब्राह्मणस्याष्टमेनवमे पञ्चमे वा काम्यं गर्भादिः सङ्ख्या वर्षाणां तद्द्वितीयजन्म तद्यस्मात्स आचार्यो वेदानुवचनाच्चएकादशद्वादशयोः क्षत्रियवैश्ययोः आषोडशाद्ब्राह्मणस्य पतिता सावित्री द्वाविंशतेराजन्यस्य द्व्यधिका या वैश्यस्य। मौञ्जीज्यामौर्वीसौत्र्योमेखलाः क्रमेण कृष्णरुरुबस्ताजिनानि वासांसिशाणक्षौमवीरकुतपाःसर्वेषां कार्पासं चाविकृतं काषायमप्येके, वार्क्षम्ब्राह्मणस्य मञ्जिष्ठहारिद्रे इतरयोर्बैल्वपालाशौ ब्राह्मणस्य दण्डौआश्वत्थपैलवौशेषे यज्ञियो वा सर्व्वैषाम्। अपीडिता यूपचक्राःसवल्कला मूर्द्धललाटनासाग्रप्रमाणाःमुण्डजटिलशिखाजटाश्च। द्रव्यहस्त उच्छिष्टोऽनिधायाचामेत् ॥

** **द्रव्यशुद्धिः परिमार्जनप्रदाहतक्षणनिर्णेजनानि तैजसमार्त्तिकदारवतान्तवानां तैजसवदुपलमणिशङ्खशुक्तीनां दारुवदास्थिभूम्योः आवपनं च भूमेः। चैलवद्रज्जुविदलचर्म्मणाम् उत्सर्गो वात्यन्तोपहतानाम्।

प्राङ्मुख उदङ्मुखो वा शौचमारभेत्। शुचौ देश आसीनो दक्षिणं बाहुञ्जान्वन्तरा कृत्वा यज्ञोपवीत्यामणि- बन्धनात्पाणी प्रक्षाल्य वाग्यतो हृदयस्पृशस्त्रिश्चतुर्व्वाऽप आचामेत्। द्विः परिमृज्यात्पादौचाभ्युक्षेत्। खानि चोपस्पृशे- च्छीर्षण्यानि मूर्द्धनि च दद्यात्। सुप्त्वा भुत्त्क्वाक्षुत्वा च पुनः दन्तश्लिष्टेषु दन्तवदन्यत्र जिह्वाभिमर्शनात्। प्राक् च्युतेरित्येके। च्युते स्वास्राववद्विद्यान्निगिरन्नेव तच्छुचिः ॥ न मुख्या विप्रुष उच्छिष्टङ्कुर्वन्तिताश्चेदङ्गे निपतन्ति लेपगन्धापकर्षणे शौचममेध्यस्य तदद्भिः पूर्वं मृदा च मूत्रपुरीषरेतोविस्रंसनाभ्यवहारसंयोगेषु च यत्रचाम्नायो विदध्यात्।

पाणिना सव्यमुपसङ्गृह्याङ्गुष्ठमधीहि भो इत्यामन्त्रयेत् गुरुः। तत्र चक्षुर्मनः प्राणोपस्पर्शनं दर्भैः प्राणायामास्त्रयः पञ्चदश मात्राःप्राक्कूलेष्वासनं च पूर्वा व्याहृतयः पञ्चसप्तान्ता गुरोः पादोपसङ्ग्रहणं प्रान्तर्ब्रह्मानुवचने चाद्यन्तयोरनुज्ञात उपविशेत्। प्राङ्मुखो दक्षिणतः शिष्य उदङ्मुखो वा सावित्रीं चानुवचनमादितोब्रह्मण आदाने ॐकारस्यान्यत्रापि।

अन्तरागमने पुनरुपसदने श्वनकुलमण्डूकसर्प्पमार्ज्जाराणां त्र्यहमुपवासो विप्रवासश्च प्राणायामा घृतप्राशनं चेतरेषां श्मशानाभ्यध्ययने चैवम् ॥ १ ॥

इति गौतमस्मृतौ प्रथमोऽध्यायः ॥ १ ॥

द्वितीयोऽध्यायः २.

प्रागुपनयनात्कामचारवादभक्षः अहुतो ब्रह्मचारी यथोपपादमूत्रपुरीषो भवति नास्याचमनकल्पो विद्यते अन्य- त्रापमार्ज्जनप्रधावनावोक्षणेभ्यो न तदुपस्पर्शनादशौचम् ॥ न त्वेवैनमग्निहवनबलिहरणयोर्नियुञ्ज्यात् न ब्रह्माभिव्याहारेदन्यत्र स्वधानिनयनात् ॥

उपनयनादिनियमः ॥ उक्तं ब्रह्मचर्यम् अग्नीन्धनभैक्षचरण सत्यवचनम् ॥ अपामुपस्पर्शनमेक आगोदानादि। बहिः सन्ध्यार्थं तिष्ठेत्पूर्वामासीतोत्तरां सज्योतिष्याज्योतिषो दर्शनाद्वाग्यतो नादित्यमीक्षयेत् वर्ज्जयेन्मधुमांसगन्धमाल्यादि वा स्वप्नाञ्जनाभ्यञ्जनयानोपानच्छत्रकामक्रोधलोभमोहवाद्यवाद नस्नानदन्तधावनहर्षनृत्यगीतपरिवादभयानि।

गुरुदर्शने कण्ठप्रावृतावसक्थिकापाश्रयणपादप्रसारणानि निष्ठीवितहसितजृम्भितास्फोटनानि स्त्रीप्रेक्षणालम्भने मैथुनशङ्कायां द्यूतं हीनसेवामदत्तादानं हिंसा आचार्यतत्पुत्रस्त्रीदीक्षितनामानि शुष्कां वाचं मद्यं नित्यं ब्राह्मणः अधः- शय्याशायी पूर्वोत्थायी जघन्यसंवेशी वागुदरकर्म्मसंयतः नामगोत्रे गुरोः सम्मानतो निर्द्दिशेत्॥ अर्चिते श्रेयसि चैवम् ॥ शय्यासनस्थानानि विहाय प्रतिश्रवणमभिक्रमं वचनादृष्टेन अधःस्थानासनस्तिर्यग्वा तत्सेवायां गुरुदर्शने चोत्तिष्ठेत् ॥ गच्छन्तमनुव्रजेत् कर्म्मविज्ञाप्याख्यायाऽऽहूताध्यायी युक्तः प्रियहितयोस्तद्भार्यापुत्रेषु चैवम्, नोच्छिष्टाशनस्नपनप्रसाधनपादप्रक्षालनोन्मर्दनोपसङ्ग्रहणानि विप्रोष्योपसङ्ग्रहणं गुरुभार्याणां तत्पुत्रस्य च नैके युवतीनाम्॥ व्यवहारप्राप्तेन सार्ववर्णिकं भैक्षचरणमभिशस्तं पतितवर्ज्जमादिमध्यान्तेषु भवच्छब्दः प्रयोज्यो वर्णानुपूर्वेण आचार्यज्ञातिगुरुस्वेच्छालाभेऽन्यत्र तेषां पूर्व परिहरेत् निवेद्य गुरवेऽनुज्ञातो भुञ्जीत। असन्निधौ तद्भार्यापुत्रब्रह्मचारिसद्भ्यः। वाग्यतस्तृप्यन्नलोलुप्यमानः सन्निधायोदकं स्पृशेत्।

शिष्यशिष्टिरवधेनाशक्तौ रज्जुवेणुविदलाभ्यां तनुभ्याम्, अन्येन घ्नन्राज्ञा शास्यः।

द्वादशवर्षाण्येकवेदे ब्रह्मचर्य्यञ्चरेत्। प्रतिद्वादश सर्वेषु ग्रहणान्तं वा। विद्यान्ते गुरुरर्थेन निमन्त्र्यःकृतानुज्ञातस्य वा स्नानम्। आचार्यः श्रेष्ठो गुरूणां मातेत्येके।

इति गौतमस्मृतौद्वितीयोऽध्यायः ॥ २ ॥

तृतीयोऽध्यायः ३.

तस्याश्रमविकल्पमेके ब्रुवते। ब्रह्मचारी गृहस्थो भिक्षुर्वैखानस इति। तेषां गृहस्थो योनिरप्रजनत्वादितरेषाम्। तत्रोक्तं ब्रह्मचारिणः। आचार्याधीनत्वमात्रं गुरोः कर्मशेषेण जपेत्।गुर्वभावे तदपत्यवृत्तिस्तदभावे वृद्धे सब्रह्मचारिण्यग्नौवा एवंवृत्तो ब्रह्मलोकमेवाप्नोति जितेन्द्रियः। उत्तरेषां चैतदविरोधी अनिचयो भिक्षुरूर्ध्वरेता ध्रुवशीलोवर्षासु भिक्षार्थी ग्राममियात्।जघन्यमनिवृत्तं चरेत् ॥ निवृत्ताशीर्वाक्चक्षुः कर्मसंयतः कौपीनाच्छादनार्थं वासो बिभृयात् प्रहीणमेकेनिर्णेजनाविप्रयुक्तमोषधीवनस्पतीनामङ्गमुपाददीत न द्वितीयामपहर्तुं रात्रिं ग्रामे वसेत्। मुण्डः शिखी वा वर्ज्जयेज्जीववधसमीभूतेषु हिंसानुग्रहयोरनारम्भोवैखानसोवनेमूलफलाशीतपःशीलः श्रावणकेनाग्निमाधाय अग्राम्यभोजी देवपितृमनुष्यभूतर्षि पूजकः सर्वातिथिः प्रतिषिद्धवर्ज्जं भैक्ष्यमप्युपयुञ्जीत न फालकृष्टमधितिष्ठेत् ग्रामं च न प्रविशेत् जटिलश्चीराजिनवासाः नातिसांवत्सरं भुञ्जीत ऐकाश्रम्यं त्वाचार्याः प्रत्यक्षविधानात् गार्हस्थस्यगार्हस्थस्य ॥

इति गौतमस्मृतौ तृतीयोऽध्यायः ॥ ३ ॥

चतुर्थोऽध्यायः ४.

गृहस्थः सदृशीं भार्यां विदेतानन्यपूर्वांयवीयसीम् असमानप्रवरैर्विवाह ऊर्ध्वं सप्तमात् पितृबन्धुभ्यो जीविनश्च मातृबन्धुभ्यः पञ्चमात् ॥
ब्राह्मो विद्याचारित्रबन्धुशीलसम्पन्नाय दद्यादाच्छाद्यालङ्कृतां संयोगमन्त्रः। प्राजापत्ये सह धर्म्मं चरतामिति। आर्षेगोमिथुनं कन्यावते दद्यात्। अन्तर्वेद्यृत्विजे दानं दैवः अलङ्कृत्येच्छन्त्याः स्वयं संयोगो गान्धर्वः। वित्तेनानतिस्त्रीमतामासुरः। प्रसह्यादनाद्राक्षसः। असंविज्ञानोपसङ्गमनात्पैशाचः। चत्वारो धर्म्म्याः प्रथमानाः षडित्येके॥
अनुलोमानन्तरैकान्तरद्व्यन्तरासुजाताः सवर्णांवष्ठोग्रनिषाददौष्यन्तपारशवाः प्रतिलोमासु सूतमागधायोग-वक्षत्तृवैदेहकचण्डालाः ब्राह्मण्यजीजनत्पुत्रात्वर्णेभ्य आनुपूर्व्यात् ब्राह्मणसूतमागधचण्डालान् तेभ्य एव क्षत्रिया मूर्धावसिक्तक्षत्रियधीवरपुल्कसान्तेभ्य एव वैश्या भृज्जुकण्टकमाहिष्यवैश्यवैदेहान् तेभ्य एव पारशवयवनकरणशूद्रान् शूद्रेत्येके। वर्णान्तरगमनमुत्कर्षापकर्षाभ्यां सप्तमेन पञ्चमेन चाचार्याः सृष्ट्यन्तरजातानां च प्रतिलोमास्तु धर्महीनाः शूद्रायां च असमानायां च शूद्रात्पतितवृत्तिः अन्त्यः पापिष्ठः ॥

पुनन्ति साधवः पुत्रास्त्रिपौरुषानाषाद्दश दैवाद्दशैव प्राजापत्याद्दश पूर्वान्दशापरानात्मानं च ब्राह्मीपुत्रा ब्राह्मीपुत्राः॥

इति गौतमस्मृतौ चतुर्थोऽध्यायः ॥ ४ ॥

पञ्चमोऽध्यायः ५.

ऋतावुपेयात् सर्वत्र वा प्रतिषिद्धवर्जम् ॥ देवपितृमनुष्यभूतार्षिपूजकः नित्यस्वाध्यायः पितृभ्यश्चोदकदानम्। यथोत्साहमन्यद्भार्यादिरग्निर्दायादिर्वा तस्मिन् गृह्याणि देवपितृमनुष्ययज्ञाः स्वाध्यायश्च बलिकर्म्माग्नावग्निर्धन्वन्तरिर्विश्वेदेवाः प्रजापतिः स्विष्टकृदिति होमः दिग्देवताभ्यश्च यथा स्वद्वारेषु मरुद्भ्यो गृहदेवताभ्यः प्रविश्य ब्रह्मणे मध्ये अद्भ्य उदकुम्भे आकाशायेत्यन्तरिक्षे नक्तञ्चरेभ्यश्च सायं स्वस्तिवाच्यभिक्षादानप्रश्नपूर्वं तु ददातिषु चैवं धर्म्मेषु समद्विगुणसाहस्रानन्त्यानि फलान्यब्राह्मणब्राह्मण श्रोत्रियवेदपारगेभ्यः गुर्वर्थनिवेशौषधार्थवृत्तिक्षीणयक्ष्यमाणाध्ययनाध्वसंयोगवैश्वजितेषु द्रव्यसंवि-भागौ बहिर्वेदिभिक्षमाणेषु कृतामितरेषु प्रतिश्रुत्याप्यधर्म्मसंयुक्ताय न दद्यात्।

क्रुद्धहृष्टभीतार्तलुब्धबालस्थविरमूढमत्तोन्मत्तवाक्यान्यनृतान्यपातकानि। भोजयेत् पूर्वमतिथिकुमारव्याधितगर्भिणी-सुवासिनीस्थविरान् जघन्यांश्च आचार्यपितृसखीनां च निवेद्यवचनक्रियाः ऋत्विगाचार्यश्वशुरपितृ-मातुलानामुपस्थानमधुपर्कः संवत्सरे पुनर्यज्ञविवाहयोरर्व्वाक् राज्ञश्च श्रोत्रियस्य अश्रोत्रियस्यासनोदके श्रोत्रियस्य तु पाद्यमर्घ्यमन्नविशेषांश्च प्रकारयेत् नित्यं वा संस्कारविशिष्टं मध्यतोऽन्नदानं वैद्ये साधु- वृत्ते विपरीतेषु तृणोदकभूमिः स्वागतं ततः पूज्यानत्याशश्च शय्यासनावसथानुव्रज्योपासनानि सन्दृक्श्रेयसोः समानानि अल्पशोऽपि हीने। असमानग्रामोऽतिथिरेकरात्रिक्रोधिवृक्षसूर्योपस्थायी कुशलानामयारोग्याणामनुप्रश्नोऽथ शूद्रस्याब्राह्मणस्यानतिथिर-ब्राह्मणो यज्ञे संवृत्तश्चेत् भोजनं तु क्षत्रियस्योर्ध्वं ब्राह्मणेभ्यः अन्यान् भृत्यैः सहानृशंसार्थमानृशंसार्थम् ॥

इति गौतमस्मृतौपञ्चमोऽध्यायः ॥ ५ ॥

षष्ठोऽध्यायः ६.

पादोपसङ्ग्रहणं गुरुसमवायेऽन्वहम्। अभिगम्य तु विप्रोष्य मातृपितृतद्बन्धूनां पूर्वजानां विद्यागुरूणां च सन्निपाते परस्य स्वनाम प्रोच्याहमयमित्यभिवादोऽज्ञसमवाये स्त्रीपुंयोगेऽभिवादतोऽनियममेकनाविप्रोष्य स्त्रीणाममातृपितृव्यभार्याभगिनीनां नोपसङ्ग्रहणं भ्रातृ-भार्याणां श्वश्र्वाश् च ऋत्विक्छुशुरपितृव्यमातुलानां तु यवीयसां प्रत्युत्थानमनभिवाद्याः। तथान्यः पूर्व्वः पौरोऽशीतिकावरः शूद्रोऽप्य पत्यसमेन अवरोऽप्यार्यः शूद्रेण नाम चास्य वर्ज्जयेत्॥

राज्ञश्चाजपः प्रेष्यः भोभवन्निति वयस्यः समानेऽहनि जातो दशवर्षवृद्धः पौर पञ्चभिः कलाधरः श्रोत्रियश्चारणस्त्रिभीराजन्य वैश्यकर्म्मविद्याहीनाः दीक्षितश्च प्राक्क्रियात् वित्तबन्धुकर्मजातिविद्यावयांसि सामान्यानि परबलीयांसि श्रुतं तु सर्व्वेभ्यो गरीयस्तन्मूलत्वाद्धर्मस्य श्रुतेश्च ॥

चकिदशमीस्थाणुग्राह्यवधूस्नातका राजभ्यः पथो दानं राज्ञा श्रोत्रियाय श्रोत्रियाय।

इति गौतमस्मृतौ षष्ठोऽध्यायः ॥ ६ ॥

सप्तमोऽध्यायः ७.

आपत्कल्पो ब्राह्मणस्याब्राह्मणाद्विद्योपयोगोऽनुगमनं शुश्रूषा समाप्तेर्ब्राह्मणो गुरुः याजनाध्यापनप्रतिग्रहाः सर्व्वेषां पूर्वः पूर्वो गुरुः तदभावे क्षत्रवृत्तिः तद भावे वैश्यवृत्तिः तस्यापण्यं गन्धरसकृतान्नतिलशाणक्षौमाजिनानि रक्तनिर्णिक्ते वाससी क्षीरं च सविकारं मूलफलपुष्पौषधमधुमांसतृणोदकापथ्यानि पशवश्च हिंसासंयोगे पुरुषवशा कुमारी वेहतश्च नित्यं भूमिव्रीहियवाजाव्यश्वर्षेभधेन्वनडुहश्चैकेविनिमयस्तु रसानां रसैःपशूनां च न लवणाकृतान्नयोस्तिलानां च समेनामेन तु पक्वस्य सम्प्रत्यर्थे सर्वधातुवृत्तिरशक्तावशूद्रेण तदप्येके प्राणसंशये तद्वर्णसङ्कराभक्ष्यनियमस्तु प्राणसंशये ब्राह्मणोऽपि शस्त्रमाददीत राजन्यो वैश्यकर्म वैश्यकर्म ॥

इति गौतमस्मृतौ सप्तमोऽध्यायः ॥ ७ ॥

अष्टमोऽध्यायः ८.

द्वौ लोके धृतवृत्तौराजा ब्राह्मणश्च बहुश्रुतः। तयोश्चतुर्विधस्य मनुष्यजातस्यां तः सञ्ज्ञानां चलनपतनसर्पणानामायत्तं जीवनं प्रसूतिरक्षणमसङ्करो धर्मः। स एष बहुश्रुतो भवति लोकवेदवेदाङ्गवित् वाकोवाक्येतिहासपुराणकुशलस्तदपेक्षस्तद्वृत्तिः चत्वारिंशता संस्कारैः संस्कृतस्त्रिषु कर्मस्वभिरतः षट्सु वासामयाचारिकेष्वभिविनीतः षड्भिः परिहार्यो राज्ञा वध्यश्चावध्यश्चादण्ड्यश्चाबहिष्कार्यश्चापरिबाह्यश्चापरिहार्यश्चेति।

गर्भाधानपुंसवनसीमन्तोन्नयनं जातकर्म्मनामकरणान्नप्राशनं चौलोपनयनं चत्वारिवेदव्रतानि स्नानं सहधर्म्मचारिणीसंयोगः पञ्चानां यज्ञानामनुष्ठानं देवपितृमनुष्यभूत ब्रह्मणामेतेषां चाष्टकापार्वणश्राद्धश्रावण्याग्रहायणी चैत्र्याश्वयुजीति सप्तपाकयज्ञसंस्थाः अग्न्याधेयमग्निहोत्रं दर्शपौर्णिमासौ आग्रहायणं चातुर्मास्यानि निरूढपशुबन्धसौत्रामणीति सप्तहविर्यज्ञसंस्था अग्निष्टोमोऽत्यग्निष्टोम उक्थः षोडशी वाजपेयातिरात्रोऽप्तोर्याम इति सप्त सोमसंस्थाः इत्येते चत्वारिंशत्संस्काराः। अथाष्टावात्मगुणाः दया सर्व्वभूतेषु क्षान्तिरनसूया शौचमनायासो मङ्गलमकार्प्पण्यमस्पृहेति। यस्यैते न चत्वारिंशत्संस्काराः न चाष्टावात्मगुणा न स ब्रह्मणः सालोक्यं सायुज्यं च गच्छतियस्य तु खलु संस्काराणामेकदेशोऽप्यष्टावात्मगुणाः अथ सब्रह्मणः सालोक्यं सायुज्यं च गच्छति गच्छति॥

इति श्रीगौतमस्मृतौ अष्टमोऽध्यायः ॥ ८ ॥

नवमोऽध्यायः ९.

स विधिपूर्वं स्नात्वा भार्यामधिगम्य यथोक्तान् गृहस्थधर्मान् प्रयुञ्जान इमानि व्रतान्यनुकर्षेत् स्नातकः नित्यं शुचिः सुगन्धिः स्नानशीलः सति विभवे न जीर्णमलवद्वासाः स्यात्। रक्तमुल्बणमन्यधृतं वा वासो बिभृयात् न स्रगुपानहौ निर्णिक्तमशक्तौ न रूढश्मश्रुरकस्मान्नाग्निमपश्च युगपद्धारयेत्। नापोऽमेध्येन संसृजेत्। नाञ्जलिना पिबेत्। न तिष्ठन् उद्धृतेनोदकेनाचामेत्। न शूद्राशुच्येकपाण्यावर्जितेन न वाय्वाग्निंविप्रादित्यापो देवता गाश्च प्रतिपश्यन् वा मूत्रपुरीषामेध्यान्युदस्येत् नैता देवताः प्रति पादौ प्रसारयत्। न पर्णलोष्ठाश्मभिर्मूत्रपुरीषापकर्षणं कुर्यात्। न भस्मकेशनखतुषकपालामेध्यान्यधितिष्ठेन्न म्लेच्छाशुच्यधार्मिकैः सह सम्भाषेत सम्भाष्य पुण्यकृतो मनसा ध्यायेत्। ब्राह्मणेन वा सह सम्भाषेत। अधेनुन्धेनुभव्येति ब्रूयात्। अभद्रम्भद्रमिति कपालं भगालमिति मणिधनुरितीन्द्रधनुः। गां धयन्तीम्परस्मै नाचक्षीत। नचैनां वारयेत्। न मिथुनीभूत्वा शौचं प्रति विलम्बेत्। न च तस्मिन् शयने स्वाध्यायमधीयीत।न चापररात्रमधीत्य पुनः प्रतिसंविशेत्। नाकल्पां नारीमभिरमयेत्।न रजस्वलां न चैतां श्लिष्येत् न कन्याम्।अग्निमुखोपधमविगृह्यवादबहिर्गन्धमाल्यधारणपापीयसावलेखनभार्यासहभोजनाञ्जनावेक्षणकुद्वारप्रवेशनपादधावनासन्दिग्धभोजननदीबाहुतरणवृक्षवृषभाराहेणावरोहणप्राणनाव्यवस्थां च विवर्ज्जयेत्।न सन्दिग्धान्नावमधिरोहेत।सर्व्वत एव आत्मानं गोपायेत्।न प्रावृत्य शिरोहनि पर्यटेत्। प्रावृत्य रात्रौ मूत्रोच्चारे च नभूमावन्नतर्द्धायनाराच्चावसथान्न भस्मकरीषकृष्टच्छायापथिकाम्येषूभेमूत्रपुरीषे दिवा कुर्यात्।उदङ्मुखः सन्ध्ययोश्च रात्रौ दक्षिणामुखः पालाशमासनं पादुके दन्तधावनमिति च वर्ज्जयेत्।सोपानत्कश्चाशनासनशयनाभिवादननमस्कारान् वर्ज्जयेत्।नपूर्वाह्णमध्यन्दिनापराह्णानफलान् कुर्याद्वा यथाशक्ति धर्मार्थकामेभ्यस्तेषु च धर्म्मोत्तरःस्यात्।न नग्नाम्परयोषितमीक्षेत न पदासनमाकर्षेत्।न शिश्नोदरपाणिपादवाक्चक्षुश्चापलानि कुर्यात्।छेदनभेदनविलेखनविमर्दनास्फोटनानि नाकस्मात्कुर्यात् ॥नोपरिवत्सतन्त्रीं गच्छेत्।न जलङ्कुलः स्यात्।न यज्ञमवृतो गच्छेत्।दर्शनाय तु कामम्।न भक्ष्यानुत्सङ्गे भक्षयेत्।न रात्रौ प्रेष्याहृतमुद्धृतस्नेहविलेपनपिण्याकमथितप्रभृतीनि चात्तवीर्याण्यश्नीयात्।सायम्प्रातस्त्वन्नमभिपूजितमनिन्दन्भुञ्जति।न कदाचिद् रात्रौ नग्नःस्वपेत् स्नायाद्वा। यच्चात्मवन्तो वृद्धाः सम्यग्विनीता दम्भलोभमोहवियुक्ता वेदविद आचक्षते तत्समाचरेत्। योगक्षेमार्थमीश्वरमधिगच्छेत्। नान्यमन्यत्रदेवगुरुधार्म्मिकेभ्यःप्रभूतैधोदकयवसकुशमाल्योपनिष्क्रमणमार्य्यजनभूयिष्ठमनलसमृद्धं धार्म्मिकाधिष्ठितं निकेतनमावसितुं यतेत।प्रशस्तमङ्गल्यदेवतायनचतुष्पथादीन् प्रदक्षिणमावर्तेत।मनसा वा तत्समग्रमाचारमनुपालेयदापत्कल्पः सत्यधर्म्मार्य्यवृत्तः शिष्टाध्यापकः शौचशिष्टः श्रुतिनिरतः स्यात्।नित्यमहिंसो मृदुदृढकारी दमदानशील एवमाचारो मातापितरौ पूर्वापरांश्च सम्बद्धान् दुरितेभ्यो मोक्षयिष्यन् स्नातकः शश्वद्ब्रह्मलोकान्न च्यवते न च्यवते ॥

इति गौतमस्मृतौ नवमोऽध्यायः ॥ ९ ॥

प्रथमः पाठकः ॥ १ ॥

दशमोऽध्यायः १०.

द्विजातीनामध्ययनमिज्या दानम्।ब्राह्मणस्याधिकाः प्रवचनयाजनप्रतिग्रहाः सर्व्वेषु नियमस्तु आचार्यज्ञातिप्रिगुरुधनविद्यानियमेषु ब्राह्मणः सम्प्रदानमन्यत्र यथोक्तान् कृषिवाणिज्ये चास्वयङ्कृते कुसीदं च राज्ञोऽधिकं रक्षणं सर्व्वभूतानां न्याय्यदण्डत्वं बिभृयात् ॥ ब्राह्मणान्श्रोत्रियान् निरुत्साहांश्चाब्राह्मणावकरांश्चोपकुर्वाणांश्च योगश्च विजये भये विशेषेण चर्या च रथधनुर्भ्यांसङ्ग्रामे संस्थानमनिवृत्तिश्च न दोषो हिंसायामाहवे अन्यत्र व्यश्वसारथ्यायुधकृताञ्जलिप्रकीर्णकेशपराङ्मुखोपविष्टस्थलवृक्षादिरूढदूतगोब्राह्मणवादिभ्यः क्षत्रियश्चेदन्यस्तमुपजीवेत्तद्वृत्तिः स्यात् जेता लभेत साङ्ग्रामिकं वित्तं वाहनं तु राज्ञ उद्धारश्चापृथक् जये अन्यत्तु यथार्हृम्भाजयेद्राजा राज्ञे बलिदानं कर्षकैःदशममष्टमं षष्ठं वा पशुहिरण्ययोरप्येके पञ्चाशद्भागं विंशतिभागः शुल्कः पण्ये मूले फलमधुमांसपुष्पौषधतृणेन्धनानां षष्ठं तद्रक्षणधर्मित्वात्तेषु तु नित्ययुक्तः स्यात्।अधिकेन वृत्तिः शिल्पिनो मासिमास्येकैकं कर्म्मकुर्युः। एतेनात्मोपजीविनो व्याख्याताः।

नौचक्रिवन्तश्च भक्तन्तेभ्योऽपिदद्यात्।पण्यं वणिग्भिरर्थापचयेन् देयम्।प्रनष्टमस्वामिकमधिगम्य राज्ञे प्रब्रूयुः विख्याप्य राज्ञा संवत्सरंरक्ष्यमूर्ध्वमधिगन्तुश्चतुर्थंराज्ञःशेषंस्वामी। रिक्थाक्रयसंविभागपरिग्रहाधिगमेषुब्राह्मणस्याधिकं लब्धं क्षत्रियस्य विजितं निर्विष्टं वैश्यशूद्रयोः निध्यधिगमा राजधनं न ब्राह्मणस्याभिरूपस्य अब्राह्मणो व्याख्यातः षष्ठं लभेतेत्येके। चौरहृतमुपजित्य यथास्थानं गमयेत्। कोशाद्वा दद्यात्। रक्ष्यं बालधनमाव्यवहारप्रापणादा समावृत्तेर्वा।वैश्यस्याधिकं कृषिवणिक्पाशुपाल्यङ्कुसीदं शूद्रश्चतुर्थो वर्णएकजातिस्तस्यापि सत्यमक्रोधमशौचमाचमनार्थे पाणिपादप्रक्षालनमेवैके श्राद्धकर्म्मभृत्यभरणं स्वदारतुष्टिःपरिचर्या चोत्तरेषां वृत्तिं लिप्सेत् जीर्णान्युपानच्छत्रवासःकूर्चान्युच्छिष्टाशनं शिल्पवृत्तिश्च। यं चायमाश्रयते भर्तव्यस्तेन क्षीणोऽपि तेन चोत्तरस्तदर्थोऽस्य निचयः स्यात्। अनुज्ञातोऽस्य नमस्कारोमन्त्रः। पाकयज्ञैःस्वयं यजेतेत्येके। सर्व्वेचोत्तरोत्तरं परिचरेयुः। आर्यानार्ययोर्व्यतिक्षेपे कर्मणः साम्यं साम्यम् ॥

इति श्रीगौतमीये धर्मशास्त्रे दशमोऽध्यायः ॥ १० ॥

एकादशोऽध्यायः११।

राजा सर्व्वस्येष्टे ब्राह्मणवर्ज्जंसाधुकारी स्यात्। साधुवादी त्रय्यामान्वीक्षिक्यां चाभिविनीतः। शुचिर्जितेन्द्रियो गुणवत्सहायोपायसम्पन्नः समः प्रजासु स्यात् हितं चासां कुर्व्वीत तमुपर्यासीनमधस्तादुपासीरन्नन्ये ब्राह्मणेभ्यस्तेऽप्येनं मन्येरन्। वर्णानामाश्रमांश्च न्यायतोऽभिरक्षेत्। चलतश्चैनान्स्वधर्म्मेएव स्थापयेत्। धर्मस्थोऽंशभाग्भवतीति विज्ञायते। ब्राह्मणं च पुरो दधीत विद्याभिजनवाग्रूपवयःशीलसम्पन्नं न्यायवृत्तं तपस्विनम्। तत्प्रसूतः कर्म्मणि कुर्व्वीत ब्रह्मप्रसूतं हि क्षत्रमृध्यते न व्यथत इति च विज्ञायते।

यानि च दैवोत्पातचिन्तकाः प्रब्रूयुस्तान्याद्रियेत तदधीनमपि ह्येके योगक्षेमं प्रतिजानते। शान्तिपुण्याहस्वस्त्ययनायुष्यमङ्गल-युक्तान्याभ्युदयिकानि विद्वेषणसंवलनाभिचारद्विषद्ध्यृद्धियुक्तानि च शालाग्नौकुर्यात्। यथोक्तमृत्विजोऽल्पानि तस्य व्यवहारो वेदो धर्म्मशास्त्राण्यङ्गान्युपवेदाः पुराणं देशजातिकुलधर्म्माश्चाम्नायैरविरुद्धाः प्रमाणं कर्षकवणिक्पशुपालकुसीदकारवः स्वे स्वे वर्गे तेभ्योयथाधिकारमर्थान्प्रत्यवहृत्य धर्म्मव्यवस्थान्यायाधिगमे तर्कोऽभ्युपायः। तेनाभ्यूह्ययथास्थानं गमयेत्। विप्रतिपत्तौ त्रैविद्यवृद्धेभ्यः प्रत्यवहृत्य निष्ठां गमयेत्। तथा ह्यस्य निःश्रेयसं भवति। ब्रह्म क्षत्रेण सम्पृक्तं देवपितृमनुष्यान् धारयतीति विज्ञायते।

दण्डो दमनादित्याहुस्तेनादान्तान्दमयेत् वर्णाश्चाश्रमाश्चस्वकर्म्मनिष्ठाः प्रेत्य फलमनुभूय ततः शेषेण विशिष्टदेशजातिकुलरूपायुःश्रुतवित्तवृत्तसुखमेधसो जन्म प्रतिपद्यते। विष्वञ्चो विपरीता नश्यन्ति तानाचार्योपदेशो दण्डश्चपालयते। तस्मात् राजाचार्यावनिद्यावीन्नद्यौ ॥

इति गौतमस्मृतावेकादशोऽध्यायः ॥ ११ ॥

<MISSING_FIG href="../books_images/1682508413.jpg"/>

द्वादशोऽध्यायः १२.

शूद्रो द्विजातीनभिसन्धायाभिहत्य च वाग्दण्डपारुष्याभ्यामङ्गं मोच्यो येनोपहन्यात्। आर्यस्त्र्यभिगमने लिङ्गोद्धारः स्वप्रहरणं च गोप्ता चेद्वधोऽधिकः। अथाहास्य वेदमुपशृण्वतस्त्रपुजतुभ्यां श्रोत्रप्रतिपूरणम् । उदाहरणे जिह्वाच्छेदः धारणे शरीरभेदः। आसनशयनवाक्पथिषु समप्रेप्सुदण्ड्यःशतम्। क्षत्रियब्राह्मणाक्रोशे दण्डपारुष्ये द्विगुणम्॥ अध्यर्द्धं वैश्यः। ब्राह्मणः क्षत्रियेपञ्चाशो तदर्धंवैश्ये न शूद्रे किञ्चित् ब्राह्मणराजन्यवत्। क्षत्रियवैश्यौअष्टापाद्यं स्तेयकिल्बिषं शूद्रस्य द्विगुणोत्तराणीतरेषाम्। प्रतिवर्णं विदुषोऽतिक्रमे दण्डभूयस्त्वम् पलहरितधान्यशाकादाने पञ्चकृष्णलमल्पे पशुपीडिते स्वामिदोषः पालसंयुक्ते तु तस्मिन् पथि क्षेत्रेऽनावृते पालक्षेत्रिकयोः पञ्चमाषा गवि षडुष्ट्रखरे अश्वमहिष्योर्दश अजाविषु द्वौ द्वौ सर्व्वविनाशे शतं शिष्टाकरणे प्रतिषिद्धसेवायां च नित्यं चेलपिण्डादूर्ध्वं स्वहरणं गोऽग्न्यर्थे तृणमेधोवीरुद्वनस्पतीनां च पुष्पाणि स्ववदाददीत फलानि चापरिवृत्तानाम् ॥

कुसीदवृद्धिर्द्धर्म्या विंशतिः पञ्चमासिकी मासं नातिसांवत्सरीमेके चिरस्थाने द्वैगुण्यं प्रयोगस्य भुक्ताभिर्न वर्द्धते दित्सतोऽवरुद्धस्य च चक्रकालवृद्धिः कारिता कायिकाशिकाऽधिभोगाश्च कुसीदं पशूपलोमजक्षेत्रशतबाह्येषु नापि पञ्चगुणम्। अजडापोगण्डधनं दशवर्षमुक्तं परैःसन्निधौ भोक्तुः न श्रोत्रियप्रव्रजितराज पुरुषैः पशुभूमिस्त्रीणामनतिभोगः रिक्थभाजि ऋणं प्रतिकुर्युः प्रातिभाव्यवणिक्छुक्लमद्यद्यूतदण्डान् पुत्रानध्याभवेयुः निध्यं वाचितावक्रीताधयो नष्टाः सर्वा न निन्दिता न पुरुषापराधेन स्तेनः प्रकीर्णकेशो मुसली राजानमियात् कर्माचक्षाणः पूतो वधमोक्षाभ्यामघ्नन्नेनस्वीराजा न शारीरो ब्राह्मणदण्डःकर्म्मवियोगविख्यापन विवासनाङ्ककरणानि अप्रवृत्तौ प्रायश्चित्ती सः चोरसमः सचिवो मतिपूर्वे प्रतिगृहीताप्यधर्म्मसंयुक्ते पुरुषशक्त्यपराधानुबन्धविज्ञानाद्दण्डनियोगः अनुज्ञानं वा वेदवित्समवायवचनात् वेदवित्समवायवचनात् ॥

इति गौतमस्मृतौ द्वादशोऽध्यायः ॥ १२ ॥

<MISSING_FIG href="../books_images/1682508413.jpg"/>

त्रयोदशोऽध्यायः १३.

विप्रतिपत्तौ साक्षिणि मिथ्यासत्यव्यवस्था बहवः स्युरनिन्दिताः स्वकर्म्मसु प्रात्ययिका राज्ञां निःप्रीत्यनभितायाश्चान्यतरस्मिन्नपि शूद्राः ब्राह्मणस्त्वब्राह्मणवचनादनवरोध्योऽनिबद्धश्चेत् नासमवेतापृष्टाः प्रब्रूयुःअवचनेऽन्यथावचने च दोषिणः स्युः स्वर्ग्गः सत्यवचने विपर्यये नरकः अनिबद्धैरपि वक्तव्यं पीडाकृते निबन्धः प्रमत्तोक्ते व साक्षिसभ्यराजकर्तृषु दोषो धर्म्मतन्त्रपीडायाम्। शपथेनैके सत्यकर्म्मणा तद्देवराजब्राह्मणसंसदि स्यात्।
अब्राह्मणानां क्षुद्रपश्वनृते साक्षी दश हन्ति गोऽश्वपुरुषभूमिषु दशगुणोत्तरान्। सर्वंवा भूमौ हरणे नरकः भूमिवदप्सुं मैथुनसंयोगेषु च पशुवन्मधुसर्पिषोः गोवद्वस्त्रहिरण्यधान्यब्रह्मसु यानेष्वश्ववत् मिथ्यावचने याप्यो दण्ड्यश्च साक्षी नानृतवचने दोषो जीवनं चेत्तदधीनं नतु पापीयसो जीवनं राजा प्राड्विवाको ब्राह्मणो वा शास्त्रवित् प्राड्विवाको मध्यो भवेत्। संवत्सरं प्रतीक्षेत प्रतिभायां धेन्वनडुत्स्त्रीप्रजनसंयुक्तेषु शीघ्रम्। आत्ययिके सर्वधर्म्मेभ्यो गरीयः प्राड्विवाके सत्यवचनं सत्यवचनम् ॥

इति गौतमस्मृतौ त्रयोदशोऽध्यायः ॥ १३ ॥

<MISSING_FIG href="../books_images/1682508413.jpg"/>

चतुर्दशोऽध्यायः १४.

शावमाशौचं दशरात्रमनृत्विग्दीक्षितब्रह्मचारिणां सपिण्डानामेकादशरात्रं क्षत्रियस्य द्वादशरात्रं वैश्यस्यार्द्धमासमेकमासं शूद्रस्य तच्चेदन्तः पुनरापतेत्तच्छेषेण शुद्ध्येरन्। रात्रिशेषे द्वाभ्यां प्रभाते तिसृभिः गोब्राह्मणहतानामन्वक्षंराजक्रोधाच्च। युद्धप्रायोऽनाशकशस्त्राग्निविषोदकोद्बन्धनप्रपतनैश्चेच्छतां पिण्डनिवृत्तिः सप्तमे पञ्चमे वा जननेऽप्येवं मातापित्रोस्तन्मातुर्वा गर्भमाससमा रात्रीः स्रंसने गर्भस्य त्र्यहं वा श्रुत्वा चोर्ध्वं दशम्याः पक्षिणी असपिण्डे योनिसम्बन्धे सहाध्यायिनि च सब्रह्मचारिण्येकाहंश्रोत्रिये चोपसम्पन्नेप्रेतोपस्पर्शनेदशरात्रमशौचमभिसन्धाय चेत् उक्तं वैश्यशूद्रयोः आर्तवीर्वा पूर्वयोश्च त्र्यहं वा आचार्यतत्पुत्रस्त्रीयाज्यशिष्येषु चैवम्। अवरश्चेद्वर्णः पूर्वं वर्णमुपस्पृशेत्। पूर्वो वावरं तत्र शावोक्तम् आशौचेपतितचण्डालसूतिकोदक्याशवस्पृष्टितत्स्पृष्ट्युपस्पर्शनेसचैलोदकोपस्पर्शनाच्छुध्येत्। शवानुगमे शुनश्च यदुपहन्यादित्येके उदकदानं सपिण्डे कृतचूडस्य तत्स्त्रीणां चानतिभाग एकेऽप्रत्तानाम्।

अधःशय्यासनिनो ब्रह्मचारिणः सर्व्वे न मार्ज्जयेरन्। न मांसं भक्षयेयुराप्रदानात्। प्रथमतृतीयसप्तमनवमेषूदकक्रियावाससाञ्च त्यागः। अन्त्ये त्वन्त्यानां दन्तजन्मादिमातापितृभ्यां तूष्णीं माता बालदेशान्तरितप्रव्रजितासपिण्डानां सद्यः शौचम्। राज्ञां च कार्यविरोधात्। ब्राह्मणस्यच स्वाध्यायानिवृत्त्यर्थं स्वाध्यायानिवृत्त्यर्थम् ॥

इति गौतमस्मृतौ चतुर्दशोऽध्यायः ॥ १४ ॥

<MISSING_FIG href="../books_images/1682508413.jpg"/>

पञ्चदशोऽध्यायः १५.

अथ श्राद्धममावास्यां पितृभ्यो दद्यात्। पञ्चमीप्रभृति चापरपक्षस्य यथाश्राद्धं सर्व्वस्मिन्वा द्रव्यदेशब्राह्मणसन्निधाने वा कालनियमः शक्तितः प्रकर्षे गुणसंस्कारविधिरन्नस्य नवावरान् भोजयेदयुजो यथोत्साहं वा ब्राह्मणान् श्रोत्रियान् वाग्रूपवयः शीलसम्पन्नान्। युवभ्यो दानं प्रथममेके पितृवत्। न च तेन मित्रकर्म्म कुर्यात् पुत्राभावे सपिण्डा मातृसपिण्डाः शिष्याश्च दद्युस्तदभावे ऋत्विगाचार्यौ। तिलमाषव्रीहियवोदकदानैर्मासं पितरः प्रीणन्ति। मत्स्यहरिणरुरुशशकूर्म्मवराहमेषमांसैःसंवत्सराणि। गव्यपयःपायसैर्द्वादशवर्षाणि वार्ध्रीणसेन मांसेन कालशाकच्छागलो खड्गमांसैर्मधुमिश्रैश्चानन्त्यम्। न भोजयेत् स्तेनक्लीबपतिततद्वृत्तिनास्तिकवीरहाग्रेदिधिषूदिधिषूपतिस्त्रीग्रामयाजकाजपालोत्सृष्टाग्निमद्यपकुचरकूटसाक्षिप्रातिहारिकानुपपत्तिर्यस्य च। कुण्डाशी सोमविक्रय्यगारदाहीगरदावकीर्णिगणप्रेष्यागम्यागाभिहिंस्रपरिवित्तिपरिवेत्तृपर्याहितपर्याधातृत्यक्तात्मदुर्वालान् कुनखिश्यावन्दतश्वित्रिपौनर्भवकितवाजपराजप्रेष्यप्रातिरूपिकशूद्रापतिनिराकृतिकिलासिकुसीदिवणिक्शिल्पोपजीविज्यावादित्रतालनृत्यगीतशीलान्पित्रा चाकामेन विभक्तान्।

शिष्यांश्चैके सगोत्रांश्च भोजयेदूर्ध्वं त्रिभ्यो गुणवन्तं सद्यः श्राद्धी शूद्रातल्पगस्तत्पुत्ररोषे मासं नयति पितॄन् तस्मात् तदहर्ब्रह्मचारी स्यात्॥ श्वचण्डालपतितावेक्षणे दुष्टं तस्मात् परिश्रुते दद्यात् तिलैर्वा विकिरेत्। पङ्क्तिपावनौ वा शमयेत्।

पङ्क्तिपावनाः षडङ्गवित् ज्येष्ठसामगस्त्रिणाचिकेतस्त्रिमधुस्त्रिसुपर्णः पञ्चाग्निःस्नातको मन्त्रब्राह्मणवित् धर्म्मज्ञो ब्रह्मदेयानुसन्धान इति हविःषु चैव दुर्बलादीञ्छ्राद्ध एवैक एवैके ॥

इति गौतमस्मृतौ भाषाटीकायां पञ्चदशोऽध्यायः ॥१५ ॥

<MISSING_FIG href="../books_images/1682508413.jpg"/>

षोडशोऽध्यायः १६.

श्रावणादिवार्षिकीम्प्रोष्ठपदीं वोपाकृत्याधीयीतच्छदांसिअर्धपञ्चमासान्। पच दङ्क्षिणायनं वा ब्रह्मचार्युत्सृष्टलोमा न मांसं भुञ्जीत द्वैमास्यो वा नियमः।नाधीयीतवायौ दिवा पांसुहरे कर्णश्राविणि नक्तं बाणभेरीमृदङ्गगर्जनार्तशब्देषु च श्वसृगालगर्दभसंह्रादे लोहितेन्द्रधनुर्नीहारेषु अभ्रदर्शने चापर्तौमूत्रित उच्चारित निशासन्ध्योदके वर्षति चैके वलीकसन्तानमार्चायपरिवेषणे ज्योतिषोश्च भीतो यानस्थः शयानः प्रौढपादः श्मशानग्रामान्तमहापथाशौचेषु पूतिगन्धान्तःशवदिवाकीर्तिशूद्रसःन्निधाने शुल्कके चोद्रावे ऋग्यजुषं च सामशब्दो यावत्। आकालिकाः निर्घातभूमिकम्पराहुदर्शनोल्काः स्तनयित्नुवर्षविद्युतश्च प्रादुष्कृताग्निषु अनृतौ विद्युति नक्तं चापररात्रात् त्रिभागादिप्रवृत्तौ सर्वमुल्काविद्युत्समेत्येकेषां स्तनायितुरपराह्णेअपिप्रदोषे सर्वं नक्तमर्द्धरात्रात्। अहश्चेत्सज्योतिः विषयस्थे च राज्ञि प्रेते विप्रोष्य चान्योन्येन सह सङ्कुलोपाहितवेदसमाप्तिः छर्दिश्राद्धमनुष्ययज्ञभोजनेष्वहोरात्रम् अमावास्यायां च द्व्यहं वा कार्तिकीफाल्गुन्याषाढीपौर्णमासीतिस्रोऽष्टकास्त्रिरात्रमन्याग्न्यकेअभितो वार्षिकं सर्व्वेवर्षविद्युत्स्तनयित्नुसन्निपाते प्रस्पन्दिन्यूर्ध्वं भोजनादुन्त्सवे प्राधीतस्य च निशायां चतुर्मुहूर्तं नित्यमेके नगरे मानसमप्यशुचि श्राद्धिनामाकालिकमकृतान्नश्राद्धिकसंयोगेऽपि प्रतिविद्यं च यावत्स्मरन्ति यावत्स्मरन्ति ॥

इति गौतमस्मृतौषोडशोऽध्यायः ॥ १६ ॥

<MISSING_FIG href="../books_images/1682508413.jpg"/>

सप्तदशोऽध्यायः १७.

प्रशस्तानां स्वकर्म्मसु द्विजातीनाम्ब्राह्मणो भुञ्जीत प्रतिगृह्णीयात्। एधोदकयवसमूलफलमध्वभयाभ्युद्यतशय्यासनावस-थयानपयोदधिधानाशफरिप्रियङ्गुस्रङ्मार्गशाकान्यप्रणोद्यानि सर्व्वेषां पितृदेवगुरुभृत्यभरणे चान्यत्। वृत्तिश्चेत् नान्तरेणशूद्रान् पशुपालक्षेत्रकर्षककुलसङ्गतकारयितृपरिचारका भोज्यान्नावणिक्चाशिल्पी। नित्यमभोज्यं केशकीटावपन्नं रजस्वलाकृष्णशकुनिपदोपहतं भ्रूणघ्नावेक्षितं गवोपघ्रातं भावदुष्टं शुक्तं केवलमदधि पुनः सिद्धं पर्युषितमशाकभक्ष्यस्नेहमांसमधूनि उत्सृष्टपुंश्चल्यभिशस्तानपदेश्यदण्डिकतक्षककदर्यबन्धनिकचिकित्सकमृगवांर्युच्छिष्टभोजिगण-विद्विषाणामपाङ्क्तानां प्राक्दुर्बलान् वृथान्नानि च मनोत्थानव्यपेतानि समासमाभ्यां विषमसमे पूजान्तरानर्चितश्च गोश्चक्षीरमनिर्दशायाः सूतके अजामहिष्योश्च नित्यमाविकमपेयमौष्ट्रमेकशकञ्च स्यन्दिनीयमसूसन्धिनीनां च याश्च व्यपेतवत्साः पञ्चनखाश्च शल्यकशशकश्वाविट्गोधाखड्गकच्छपाः उभयतोदत्केश्यलोमैकशफकलविङ्कप्लवचक्रवाकहंसाः काककङ्कगृध्रश्येना जलजा रक्तपादतुण्डाः ग्राम्यकुक्कुटसूकरौधेन्वनडुहौच आपन्नदावसन्नवृथामांसानि किसलयक्याकुलशुननिर्य्यासलोहिताव्रश्चनाश्वनिचिदारु-वकबलाकाःशुकद्रुद्रुटिट्टिभमान्धातृनक्तञ्चरा अभक्ष्याः। भक्ष्याः प्रतुदाविष्किराजालपादाः मत्स्याश्चाविकृतावध्याश्च धर्मार्थे व्यालहतादृष्टदाषवाक्प्रशस्तान्यभ्युक्ष्योपयुञ्जीतोपयुञ्जीत ॥

इति गौतमस्मृतौ सप्तदशोऽध्यायः ॥ १७ ॥

<MISSING_FIG href="../books_images/1682508413.jpg"/>

अष्टादशोऽध्यायः १८ः

  अस्वतन्त्रा धर्म्मेस्त्री नातिचरेद्भर्तारं वाक्चक्षुःकर्मसंयतायद्यपत्यलिप्सुर्देवरात् गुरुप्रसूतान्नर्त्तुमतीयात् पिण्डगोत्रऋषिसम्बन्धेभ्यः योनिमात्राद्वा नादेवरादित्येके। नातिद्वितीयं जनयितुरपत्यं समयादन्यत्र जीवतश्च क्षेत्रे परस्मात्तस्य द्वयोर्वा रक्षणाद्भर्तुरेव। नष्टे भर्तरि षाड्वार्षिकं क्षपणं श्रूयमाणेऽभिगमनं प्रव्रजितेतुनिवृत्तिः प्रसङ्गात् तस्य द्वादशवर्षाणि ब्राह्मणस्य विद्यासम्बन्धे भ्रातरि चैवं ज्यायसि यवीयान् कन्याग्न्युपयमनेषु षडित्येके। त्रीन्कुमार्य्यृतूनतीत्य स्वयं युज्येतानिन्दितेनोत्सृज्य पित्र्यानलङ्कारान्। प्रदानं प्रागृतोरप्रयच्छन् दोषी प्राग्वाससः प्रतिपत्तेरित्येके द्रव्यादानं विवाहसिद्ध्यर्थं धर्म्मतत्रप्रसङ्गे च शूद्रात्। अन्यत्रापि शूद्रात्बहुपशोर्हीनकर्म्मणः शतगोरनाताग्रेः

सहस्रगोर्वा सोमपात् सप्तमीञ्चाभुक्ता निचयाय अप्यहीनकर्म्मभ्यः आचक्षीत राज्ञा पृष्टस्तने हि भर्तव्यः श्रुतशीलसम्पन्नश्चेद्धर्मतन्त्रपीडायां तस्याकरणे दोषोऽदोषः ॥

इति गौतमस्मृतावष्टादशोऽध्यायः ॥१८ ॥

<MISSING_FIG href="../books_images/1682508413.jpg"/>

द्वितीयः प्रपाठकः

एकोनविंशोऽध्यायः १९.

उक्तोवर्णधर्म्मश्चाश्रमधर्म्मश्च ॥ अथ खल्वयं पुरुषो येन कर्म्मणा लिप्यते यथैतदयाज्ययाजनमभक्ष्यभक्षणमवद्यवदनं शिष्टस्याक्रिया प्रतिषिद्धसेवनमिति च तत्र प्रायश्चित्तं कुर्यान्न कुर्यादिति मीमांसन्तन्न कुर्यादित्याहुर्न हि कर्म्मक्षीयत इति कुर्यादित्यपरे पुनः स्तोमेनेष्ट्वा पुनः सवनमायान्तीति विज्ञायते। व्रात्यस्तोमैश्चेष्ट्वातरति सर्व्वम्पाप्मानम्। तरति ब्रह्महत्यांयोऽश्वमेधेन यजते। अग्निष्टुताभिशस्यमानं याजयेदिति च। तस्य निष्क्रयणानि जपस्तपो होम उपवासो दानमुपनिषदो वेदान्ताः सर्व्वच्छन्दः सुसंहिता मधून्यघमर्षणमथर्वशिरो रुद्राः पुरुषसूक्तं राजनरौहिणे सामनी बृहद्रथन्तरे पुरुषगतिर्महानाम्न्यो महावैराजं महादिवाकीर्त्यं ज्येष्ठसाम्नामन्यतमं बहिष्पवमानं कूष्माण्डानि पावमान्यः सावित्री चेति पावनानि। पयोव्रतता शाकभक्षता फलभक्षता प्रसृतयावको हिरण्यप्राशनंवृतप्राशनं सोमपानमिति चमेध्यानि। सर्व्वेशिलोच्चयाः सर्वाः स्रवन्त्यः पुण्या ह्रदास्तीर्थानि ऋषिनिवासा गोष्ठपरिस्कन्दा इति देशाः। ब्रह्मचर्यं सत्यवचनसवनेषूदकोपस्पर्शनमार्द्रवस्त्रताधःशायिताऽनाशक इति तपांसि। हिरण्यं गौर्वासोऽश्वो भूमिस्तिलघृतमन्नमितिदेयानि। संवत्सरः षण्मासाश्चत्वारस्त्रयो द्वावेकश्चतुर्विंशत्यहोद्वादशाहः

षडहस्त्र्यहोऽहोरात्र इति कालाः एतान्येवानादेशे विकल्पेन क्रियेरन्नेनसि गुरुणि गुरूणि लघुनि लघुनि कृच्छ्रातिकृच्छ्रौ चान्द्रायणमिति सर्वप्रायश्चित्तं प्रायश्चित्तम् ॥

इति गौतमस्मृतावेकोनविंशोऽध्यायः ॥ १९ ॥

<MISSING_FIG href="../books_images/1682508413.jpg"/>

विंशोऽध्यायः २०.

अथ चतुःषष्टिषु यातनास्थानेषु दुःखान्यनुभूय तत्रेमानि लक्षणानि भवन्ति ब्रह्म हार्द्रकुष्ठी सुरापः श्यावदन्तः गुरुतल्पगः पङ्गुः स्वर्णहारीकुनखी श्वित्री वस्त्रापहारीहिरण्यहारी दर्दुरी तजोऽपहारी मण्डली स्नेहापहारी क्षयी तथा अजीर्णवानन्नाहारी ज्ञानापहारी मूकः प्रतिहन्ता गुरोरपस्मारी गोघ्नोजात्यन्धः पिशुनः पूतिनासः पूतिवक्त्रस्तु सूचकः शूद्रोपाध्यायः श्वपाकस्त्रपुसीसचामरविक्रयी मद्यप एकशफविक्रयी मृगव्याधः कुण्डाशी मृतकचैलिको वा नक्षत्री चार्बुदी नास्तिकोरङ्गोपजीव्यभक्ष्यभक्षी गण्डरी ब्रह्मपुरुषतस्कराणां देशिकः पिण्डितःषण्ढो महापथिको गण्डिकश्चाण्डाली पुल्कसी गोष्ववकीर्णी मध्वामेही धर्म्मपत्नीषु स्यान्मैथुनप्रवर्त्तकः खल्वाटः सगोत्रासमयस्त्र्यभिगामी श्लीपदी पितृमातृभगिनीस्त्र्यभिगाम्यविजितस्तेषां कुब्जकुण्डपण्डव्याधितव्यङ्ग- दरिद्राल्पायुषोऽल्पबुद्धिःचण्डपण्डशैलूषतस्करपरपुरुषप्रेष्यपरकर्म्मकराः खल्वाटवक्राङ्गसङ्कीर्णाः क्रूरकर्म्माणः क्रमशश्चान्त्याश्चोपपद्यन्तेतस्मात्कर्तव्यमेवेह प्रायश्चित्तं विशुद्धैर्लक्षणैर्जायन्ते धर्म्मस्य धारणादिति धर्मस्य धारणादिति ॥

इति गौतमस्मृतौ विंशतितमोऽध्यायः ॥ २० ॥

<MISSING_FIG href="../books_images/1682508413.jpg"/>

एकविंशोऽध्यायः २१.

त्यजेत्पितरम1पि राजघातकं शूद्रयाजकं शूद्रार्थयाजकं वेदविप्लावकं भ्रूणहनं यश्चान्त्यावसायिभिः सह संवसेदन्त्यावसायिन्या वा तस्य विद्यागुरून्योनिसम्बन्धांश्च सन्निपात्य सर्वाण्युदकादीनि प्रेतकर्म्माणि कुर्य्युःपात्रं चास्य विपर्यस्येयुः दासः कर्मकरो वा अवकरादमेध्यपात्रमानीय दासीघटान्पूरयित्वा दक्षिणाभिमुखः पदा विपर्यस्येदमुमनुदकं करोमीति नामग्राहं तं सर्वेऽन्वालभेरन् प्राचीनावीतिनो मुक्तशिखा विद्यागुरवो योनिसम्बन्धाश्च वीक्षेरन्। अप उपस्पृश्य ग्रामम्प्रविशन्ति अत ऊर्ध्वं तेन सम्भाष्य तिष्ठेदेकरात्रं जपन्सावित्रीमज्ञानपूर्वं ज्ञानपूर्वं चेत्त्रिरात्रम्।

यस्तु प्रायश्चित्तेन शुद्ध्येत्तस्मिन्शुद्धं शातकुम्भमये पात्र पुण्यतमात्ह्रदात् पूरयित्वा स्रवन्तीभ्यो वा तत एनमप उपस्पर्शयेयुः। अथास्मै तत्पात्रं दद्युस्तत्सम्प्रतिग्रह्यजपेत् शान्ता द्यौः शान्ता पृथिवी शान्तं शिवमन्तरिक्षं यो रोचनस्तमिह गृह्णामीत्येतैर्यजुर्भिस्तरत्समन्दीभिः पावमानीभिः कूष्माण्डैश्चाज्यं जुहुयात्। हिरण्यं ब्राह्मणायवा दद्यात् गां चाचार्याय च यस्य च प्राणान्तिकं प्रायश्चित्तं स मृतः शुद्ध्येत् तस्य सर्वाण्युदकादीनि प्रेतकर्माणि कुर्युरेतदेव शान्त्युदकं सर्वेषूपपातकेषु सर्वेषूपपातकेषु ॥

इति गौतमस्मृतावेकविंशोऽध्यायः ॥ २१ ॥

<MISSING_FIG href="../books_images/1682508413.jpg"/>

द्वाविंशोऽध्यायः २२.

ब्रह्महसुरापगुरुतल्पगमातृपितृयोनिसम्बन्धगस्तेन नास्तिकनिन्दितकर्माभ्यासिपतितात्याग्यपतितत्यागिनः पतिताः। पातकसंयोजकाश्च तैश्चाब्दंसमाचरन् द्विजातिकर्मभ्यो हानिः पतनं परत्र चासिद्धिस्तामेके नरकं त्रीणि प्रथमान्यनिर्देश्यानि मनुः। न स्त्रीष्वगुरुतल्पगः पततीत्येके। भ्रूणहनि हीनवर्णसेवायां च स्त्री पतति कौटसाक्ष्यं राजगामि पैशुनं गुरोरनृताभिशंसनं महापातकसमानि अपाङ्क्त्यानां प्राग्दुबलात्। गोहन्तृब्रह्मोज्झतन्मन्त्रकृदवकीर्णिपतितसावित्रिकेषूपपातकं याजनाध्यापनादृत्विगाचार्यौपतनीयसेवायां च हेयौअन्यत्र हानात्पतति तस्य च प्रतिग्रहीत्येके न कर्हिचिन्मातापित्रोरवृत्तिः दायं तु न भजेरन् ब्राह्मणाभिशंसने दोषस्तावान् द्विरनेनसि दुर्बलहिंसायां चापि मोचने शक्तश्चेत्। अभिक्रुद्ध्यावगूरणं ब्राह्मणस्य वर्षशतमस्वर्ग्यं निपातने निर्घाते सहस्रं लोहितदर्शने यावतस्तत्प्रस्कन्द्यपांसून्सङ्गृह्णीयात्सङ्गृह्णीयात् ॥

इति गौतमस्मृतौ द्वाविंशोऽध्यायः ॥ २२ ॥

<MISSING_FIG href="../books_images/1682508413.jpg"/>

त्रयोविंशोऽध्यायः २३.

प्रायश्चित्तमग्नौसक्तिर्ब्रह्मघ्नस्त्रिरवच्छादितस्य लक्ष्येण वा स्याज्जन्यशस्त्रभृतां खट्वाङ्गकपालपाणिर्वा द्वादशसंवत्सरान् ब्रह्मचारी भैक्ष्याय ग्रामं प्रविशेत् स्वकर्म्माचक्षाणः यथोपक्रामेत्सन्दर्शनादार्य्यस्य स्नानासनाभ्यां विहरन् सवनेषूदकोपस्पर्शनाच्छुद्ध्येत्। प्राणलाभे वा तन्निमित्ते ब्राह्मणस्य द्रव्यापचये वा त्र्यवरं प्रति राज्ञोऽश्वमेधावभृथे वान्ययज्ञेऽप्यग्निष्टं दतश्चोत्सृष्टश्चेद्ब्राह्मणवधे हत्वापि आत्रेय्यां चैवङ्गर्भे चाविज्ञाते ब्राह्मणस्य राजन्यवधे षड्वार्षिकं प्राकृतं ब्रह्मचर्य्यमृषकभैसहस्राश्च गा दद्यात् वैश्ये त्रैवार्षिकमृषभैकशताश्च गा दद्यात् शूद्रे संवत्सरमृषभैकादशाश्च गा दद्यात्। अनात्रेय्यां चैवं गां च वैश्यवत् मण्डूकनकुलकाकविड्वराहमूषिकाश्वहिंसासु च। अस्थिमतां सहस्रं हत्वा अनस्थिमतामनडुद्भारेच अपि वाऽस्थिमतामेकैकस्मिन् किञ्चिद्दद्यात्। षण्डे च पलालभारः ससिमाषकश्च वराहे घृतघटः सर्प्पे लोहदण्डःब्रह्मबन्ध्वां च ललनायां जीवो वैशिके न किञ्चित् तल्पान्नधनलाभवधेषु पृथग्वर्षाणि द्वे परदारे त्रीणि श्रोत्रियस्यद्रव्यलाभे चोत्सर्गः यथास्थानं वा गमयेत् प्रतिषिद्धमत्र योगे सहस्रवाक् चेत् अग्न्युत्सादिनिराकृत्युपपातकेषु चैवंस्त्री चातिचारिणी गुप्ता पिण्डं तु लभेत्। अमानुषीषु गोवर्ज्जंस्त्रीकृते कूष्माण्डैर्घृतहोमो घृतहोमः ॥

इति गौतमस्मृतौ त्रयोविंशोऽध्यायः ॥ २३ ॥

<MISSING_FIG href="../books_images/1682508413.jpg"/>

चतुर्विंशोऽध्यायः २४.

सुरापस्य ब्राह्मणस्योष्णामासिञ्चेयुः सुरामास्ये मृतः शुद्ध्येत् अमत्या पाने पयो घृतमुदकं वायुं प्रतित्र्यहं तप्तानि सकृच्छ्रस्ततोऽस्य संस्कारः मूत्रपुरीषरेतसां च प्राशने श्वापदोष्ट्रखराणां चाङ्गस्यग्रामकुक्कुटशूकरयोश्च गन्धाघ्राणे सुरापस्य प्राणायामो घृतप्राशनं च पूर्वैश्चदष्टस्य तल्पे लोहशयने गुरुतल्पगः शयीत। सूर्मींवा ज्वलन्तीं चाश्लिष्येत्। लिङ्गं वा सवृषणमुत्कृत्त्याञ्जलावाधाय दक्षिणां प्रतीचीं दिशं व्रजेत्। अजिह्ममाशरीरनिपातात् मृतः शुद्ध्येत्। सखी- सयोनिसगोत्राशिष्यभार्यासु स्नुषायां गवि चं गुरुतल्पसमोऽवकरइत्येके। श्वभिरादयेद्राजा निहीनवर्णगमने स्त्रियं प्रकाशं पुमांसं घातयेत्। यथोक्तं वा गर्दभेनावकीर्णोनिर्ऋतिं चतुष्पथे यजते। तस्याजिनमूर्द्धवालं परिधायलोहितपात्रः सप्तगृहान् भैक्षं चरेत् कर्म्माचक्षाणः संवत्सरेण शुद्ध्येत्। रेतःस्कन्दने भये रोगे स्वप्नेऽग्नीन्धनभैक्षचरणानि सप्तरात्रं कृत्वाज्यहोमः साभिसन्धर्वा रेतस्याभ्याम् ॥

सूर्याभ्युदिते ब्रह्मचारी तिष्ठेदहरभुञ्जानोऽभ्यस्तमिते च रात्रिं जपन् सावित्रीम्, अशुचिं दृष्ट्वादित्यमीक्षेत् प्राणायामं कृत्वा अमेध्यप्राशने वा अभोज्यभोजने निष्पुरीषीभावः त्रिरात्रावरमभोजनं सप्तरात्रं वा स्वयं शीर्णान्युपयुञ्जानः फलान्यनतिक्रामन् प्राक् पञ्चनखेभ्यश्छर्द्दिनो घृतप्राशनं च आक्रोशानृतहिंसासु त्रिरात्रं परमं तपः सत्यवाक्ये चेद्वारुणीभिः पावमानीभिर्होमः। विवाहमैथुननिर्मातृसंयोगैष्वदोषमेके अनृतं चेत् न तु खलु गुर्वर्थेषु यतः सप्त पुरुषानितश्च परतश्च हन्तिमनसापि गुरोरनृतं वदन्नल्पेष्वप्यर्थेषु अन्त्यावसायिनीगमने कृच्छ्राब्दः अमत्या द्वादशरात्रम्, उदक्यागमने त्रिरात्रं त्रिरात्रम् ॥

इति गौतमस्मृतौ चतुर्विंशतितमोऽध्यायः ॥ २४ ॥

<MISSING_FIG href="../books_images/1682508413.jpg"/>

पञ्चविंशोऽध्यायः २५.

रहस्यम्प्रायश्चित्तमविख्यातदोषस्य चतुर्ऋचं तरत्समन्दी त्यप्सुजपेदप्रतिग्राह्यं प्रतिजिघृक्षन् प्रतिगृह्य वा अभोज्यं बुभुक्षमाणः पृथिवीमावपेत् ऋत्वन्तरमण उदकोपस्पर्शनाच्छुद्धिमेके स्त्रीषु पयोव्रतो वा दशरात्रं घृतेन द्वितीयमद्भिस्तृतीयं दिवादिष्वेकभक्तको जलक्लिन्नवासाः लोमानि नखानि त्वचं मांसं शोणितं स्नाय्वस्थिमज्जानमिति होम आत्मनः मुख मृत्योरास्ये जुहोमीत्यन्ततः सर्व्वेषामेतत्प्रायश्चित्तं भ्रूणहत्यायाः अथान्य उक्तो नियमः। अग्नेत्वं पारयेति महाव्याहृतिभिर्जुहुयात्। कूष्माण्डैश्चाज्यं तद्व्रत एव वा ब्रह्महत्यासुरापानस्तेयगुरुतल्पेषु प्राणायामैः स्नातोऽघमर्षणं जपेत्। सममश्वमेधावभृथेन सावित्रीं वा सहस्रकृत्व आवर्तयन् पुनीते हैवात्मानमन्तर्ज्जलेवाघमर्षणं त्रिरावर्त्तयन् पापेभ्यो मुच्यते मुच्यते ॥

इति गौतमस्मृतौ पञ्चविंशोऽध्यायः ॥ २५ ॥

<MISSING_FIG href="../books_images/1682508413.jpg"/>

षड्विंशोऽध्यायः २६.

तदाहुः कतिधावकीर्णी प्रविशतीति। मरुतः प्राणेनेन्द्रम्बलेन बृहस्पतिं ब्रह्मवर्चसेनाग्निमेवेतरेण सर्वेणेति। सोमावास्यायां निश्यग्निमुपसमाधाय प्रायश्चित्ताज्याहुतीर्जुहोति। कामावकीर्णोऽस्म्यवकीर्णोऽस्मि कामाय स्वाहा। कामाभि-दुग्धोऽस्म्यभिदुग्धोऽस्मि कामकामाय स्वाहेति। समिधमाधायानुपर्युक्ष्य यज्ञवास्तुं कृत्वोपस्थाय समासिञ्चन्त्वित्येतयात्रिरुपतिष्ठेत। त्रय इमे लोका एषां लोकानामभिजित्याभिक्रान्त्या इति। एतदेवैकेषां कर्म्माधिकृत्ययोः पूत इव स्यात्स इत्थं जुहुयादित्थमनुमन्त्रयेत् वरो दक्षिणेति। प्रायश्चित्तमविशेषात् अनार्ज्जवपैशुनप्रतिषिद्धाचारानाद्यप्राशनेषु शूद्राथाञ्च रेतः सिक्त्वा योनौ च दोषवति कर्म्मण्यभि- सन्धिपूर्वेऽप्यब्लिगाभिरप उपस्पृशेद्वारुणीभिरन्यैर्वा पवित्रैःप्रतिषिद्धवाङ्मनसयोरपचारे व्याहृतयः सङ्ख्याताः पञ्च सर्वा स्वपो वाचामेदहश्च मादित्यश्च पुनातु स्वाहेति प्रातः रात्रिश्चमा वरुणश्च पुनात्विति सायम् अष्टौ वा समिध आदध्याद्देवकृतस्येति हुत्वैवंसर्वस्मादेनसो मुच्यते मुच्यते ॥

इति गौतमस्मृतौ षड्विंशतितमोऽध्यायः ॥ २६ ॥

<MISSING_FIG href="../books_images/1682508413.jpg"/>

सप्तविंशोऽध्यायः २७.

अथातः कृच्छ्रान् व्याख्यास्यामः। हविष्यान्प्रातराशान्भुक्त्वा तिस्रो रात्रीर्नाश्नीयात्। अथापरं त्र्यहन्नक्तं भुञ्जीत। अथापरं त्र्यहं न कञ्चन याचेत। अथापरं त्र्यहमुपवसेत्। सन्तिष्ठेदहनि रात्रावासीत क्षिप्रकामः सत्यं वदेत्। अनार्यैर्नसम्भाषेत। रौरवयौधाजिने नित्यं प्रयुञ्जीत। अनुसवनमुदकोपस्पर्शनम्। आपोहिष्ठेति तिसृभिः पवित्रवतीभिर्मार्जयेत् हिरण्यवर्णाः शुचयः पावका इत्यष्टाभिः ॥ अथोदकतर्पणम् ॐ नमो हमाय मोहमाय संहमाय धुन्वते तापसाय पुनर्वसवे नमो नमो मौञ्ज्यायौर्म्यायवसुविन्दाय सर्वविन्दाय नमो नमः पाराय सुपाराय महापाराय पारयिष्णवे नमो नमो रुद्राय पशुपतये महते देवाय त्र्यम्बकायैकचरायाधिपतये हराय शर्वायेशानाय शिवाय शान्तायोग्राय वज्रिणेघृणिने कपर्द्दिनेनमो नमः सूर्यायादित्याय नमो नमो नीलग्रीवाय शितिकण्ठाय नमो नमः कृष्णाय पिङ्गलाय नमो नमो ज्येष्ठाय श्रेष्ठाय वृद्धायेन्द्राय हरिकेशायोर्द्ध्वरेतसे नमो नमः सत्याय पावकाय पावकवर्णाय नमो नमः कामाय कामरूपिणे नमो नमो दीप्ताय दीप्तरूपिणे नमो नमस्तीक्ष्णायतीक्ष्णरूपिणे नमो नमः सौम्याय सुपुरुषाय महापुरुषाय मध्यमपुरुषायो, त्तमपुरुषायनमो नमो ब्रह्मचारिणे नमो नमश्चन्द्रललाटाय नमो नमः कृत्तिवाससे पिनाकहस्ताय नमो नमः इति। एतदेवादित्योपस्थानम्। एता एवाज्याहुतयः। द्वादशरात्र स्यान्तेचरुं श्रपयित्वैताभ्यो देवताभ्यो जुहुयात्। अग्नेयस्वाहा सोमाय स्वाहा अग्निषोमाभ्यां स्वाहा इन्द्राग्निभ्यामिन्द्रायविश्वेभ्यो देवेभ्यो ब्रह्मणे प्रजापतयेऽग्नये स्विष्टकृत इति ॥ अथ ब्राह्मणतर्पणम्। एतेनैवातिकृच्छ्रो व्याख्यातः यावत्स कृदाददीत तावदश्नीयात् अब्भक्षस्तृतीयः सकृच्छ्रातिकृच्छ्रःप्रथमं चरित्वा शुचिः पूतः कर्मण्यो भवति। द्वितीयं चरित्वा यत्किञ्चिदन्यत् महापातकेभ्यः पापं कुरुते तस्मात्प्रमुच्यते। तृतीयं चरित्वा सर्वस्मादेनसो मुच्यते। अथैतांस्त्रीन् कृच्छ्रान् चरित्वासर्वेषु स्नातो भवति सर्वैर्देवैज्ञातो भवति यश्चैवंवेद यश्चैवं वेद ॥

इति गौतमस्मृतौ सप्तविंशोऽध्यायः ॥ २७ ॥

<MISSING_FIG href="../books_images/1682508413.jpg"/>

अष्टाविंशोऽध्यायः २८.

अयातश्चान्द्रायणं तस्योक्तोविधिः कृच्छ्रे वपनं व्रतं चरेत्। श्वोभूतां पौर्णमासीमुपवसेत्। आप्यायस्वसन्ते पयांसि नवोनव इति चैताभिस्तर्पणमाज्यहोमौहविषश्चानुमन्त्रणम् उपस्थानं चन्द्रमसो यद्देवा देवहेडनमिति चतसृभिराज्यं जुहुयात्। देवकृतस्येति चान्ते समिद्भिः॥ ॐ भूर्भुवः स्वस्तपः सत्यं यशः श्रीः रूपं गीरोजस्तेजः पुरुषो धर्म्मःशिव इत्येतैर्ग्रासानुमन्त्रणं प्रतिमन्त्रं मनसा नमः स्वाहेति वा सर्वग्रासः प्रमाणमास्याविकारेण चरुभैक्षसक्तुकणयावकपयोदधिघृतमूलफलोदकानि हवींष्युत्तरोत्तरं प्रशस्तानि पौर्णमास्यां पञ्चदशग्रासान्भुक्त्वैकापचयेनापरपक्षमश्नीयात् अमावास्यायामुपोष्यैकोपचयेन पूर्वपक्षं, विपतिमेकेषाम्। एष चान्द्रायणोमासो मासमेतमाप्त्वा विपापो विपाप्मा सर्वमनो हन्ति द्वितीयमाप्त्वा दश पूर्वान्दशापरानात्मानं चैकविंशं पङ्क्तीश्च पुनाति संवत्सरं चाप्त्वा चन्द्रमसः सलोकतामाप्नोत्याप्नोति ॥

इति गौतमस्मृतौ भाषाटीकायामष्टाविंशोऽध्यायः ॥२८॥

<MISSING_FIG href="../books_images/1682508413.jpg"/>

एकोनत्रिंशोऽध्यायः २९.

ऊर्ध्वं पितुः पुत्रा ऋक्थं भजेरन्निवृत्ते रजसिमातुर्जीवति चेच्छति। ऊर्ध्वं वा पूर्व्वजस्येतरान्बिभृयात् पितृवत्। विभागे तु धर्मवृद्धिं विंशतिभागो ज्येष्ठस्य मिथुनमुभयतोदन्द्युक्तो वृषो गोवृषः काणखोरकूटखञ्जा मध्यमस्थानेकांश्चेत् हविर्धान्यायसी ग्रहमनोयुक्तं चतुष्पदां चैकैकं यवीयसः समं चेतरत् सर्व्वं द्व्यंशीवा पूर्वजः स्यात्। एकैकमितरेषाम् एकैकं वा काम्यं पूर्व्वःपूर्वोलभते दशतः पशूनामेकशफो द्विपदानां वृषभोऽधिको ज्येष्ठस्य ऋषभषोडशा ज्यैष्ठिने यस्यसमं वा ज्यैष्ठिने। येन यवीयसां प्रतिमातृ वा स्ववर्गे भागविशेषं पितोत्सृजेत् पुत्रिकामनपत्योऽग्निप्रजापतिं चेष्टास्मदर्थमपत्यमिति संवाद्य अभिसन्धिमात्रात्पुत्रिकेत्येकेषां तत्संशयान्नोपयच्छेदभ्रातृकाम्पिण्डगोत्रर्षिसम्बन्धा ऋक्थं भजेरन्। स्त्री चानपत्यस्य बीजं वा लिप्सेत्। देवरवत्यामन्यतोऽजातमभागं स्त्रीधनं दुहितॄणामप्रत्तानामप्रतिष्ठितानां च भगिनीशुल्कं सोदराणामूर्ध्वं मातुः पूर्व्वञ्चैकेसंसृष्टविभागः प्रेतानां ज्येष्ठस्यसंसृष्टिनि प्रेते संसृष्टिऋक्थभाक्। विभक्तजः पित्र्यमेव स्वयमर्जितमवैद्येभ्यो वैद्यः कामं न दद्यात् अवैद्याः समं विभजेरन् पुत्रा औरसक्षेत्रजदत्तकृत्रिमगूढोत्पन्नापविद्धां ऋक्थम्भाजः कानीनसहोढपौनर्भवपुत्रिकापुत्रस्वयन्त्तक्रीता गोत्रभाजः। चतुर्थांशिनश्चौरसाद्यभावे ब्राह्मणस्य॥ राजन्यापुत्रो ज्येष्ठो गुणसम्पन्नस्तुल्यांशभाक्। ज्येष्ठांशही नमन्यत् राजन्यावैश्यापुत्रसमवाये सयथा ब्राह्मणीपुत्रेण क्षत्रियाच्चैत्शूद्रापुत्रो व्यनपत्यस्य शुश्रूषुश्चेल्लभेत वृत्तिमूलमन्तेवासिविधिनासवर्णापुत्रोऽप्यन्यायवृत्तो न लभेतेकष ब्राह्मणस्य श्रोत्रिया अनपत्यस्य ऋक्थं भजेरन्। राजेतरेषां जडक्लीबौभर्तव्यौ। अपत्यं जडस्य भागार्हं शूद्रापुत्रवत् प्रतिलोमासूदकयोगक्षेमकृतान्नेष्वविभागः स्त्रीषु च संयुक्तासुअनाज्ञाते दशावरैः शिष्टैरूहवद्भिः अलुब्धैः प्रशस्तं कार्यं चत्वारश्चतुर्णां पारगा वेदानां प्रागुत्तमास्त्रय आश्रमिणः पृथग्धर्मविदस्त्रयएतान् दशावरान् परिषदिति आचक्षते। असम्भवे चैतेषामश्रोत्रियो वेदवित् शिष्टो विप्रतिपत्तौ यदाह। यतोऽयमप्रभावो भूतानां हिंसानुग्रहयोगेषु धर्म्मिणं विशेषेण स्वर्ग्गलोकं धर्मविदाप्नोति ज्ञानाभिनिवेशाभ्यामिति धर्मोधर्म्मः॥

इति श्रीगौतमस्मृतावेकोनत्रिंशोऽध्यायः ॥ २९ ॥

इति श्रीगौतमस्मृतिः समाप्ता ॥ १६ ॥

<MISSING_FIG href="../books_images/1683536566.jpg"/>

श्रीः।


  1. “अन्यकास्य तुका कथेत्यपिशब्दार्थः ।” ↩︎