<MISSING_FIG href="../books_images/1683524326.jpg"/>
प्रथमोऽध्यायः १.
श्रीगणेशाय नमः ॥ अथ दक्षस्मृतिप्रारम्भः ।
सर्वशास्त्रार्थतत्त्वज्ञः सर्ववेदविदां वरः ।
पारगः सर्वविद्यानां दक्षो नाम प्रजापतिः ॥ १ ॥
उत्पत्तिः प्रलयश्चैव स्थितिः संहार एव च ।
आत्मा चात्मनि तिष्ठेत आत्मा ब्रह्मण्यवस्थितः ॥ २॥
ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा ।
एतेषां तु हितार्थाय दक्षः शास्त्रमकल्पयत् ॥ ३ ॥
जातमात्रः शिशुस्तावद्यावदष्टौ सभा वयः ।
स हि गर्भसमो ज्ञेयो व्यक्तिमात्रप्रदर्शितः ॥ ४ ॥
भक्ष्याभक्ष्येतथा पेये वाच्यावाच्येऋतानृते ।
अस्मिन्बाले न दोषः स्यात्सयावन्नोपनीयते ॥ ५ ॥
उपनीते तु दोषोऽस्ति क्रियमाणैर्विगर्हितैः ।
अप्राप्तव्यवहारोऽसौ बालः षोडशवार्षिकः ॥ ६ ॥
स्वीकरोति यदा वेदं चरेद्वेदव्रतानि च ।
ब्रह्मचारी भवेत्तावदूर्ध्वं स्नातो भवेद् गृही ॥ ७ ॥
द्विविधो ब्रह्मचारी स्यादुपकुर्वाणको ह्यथ ।
द्वितीयो नैष्टिकश्चैव तस्मिन्नेव व्रते स्थितः ॥ ८ ॥
यो गृहाभ्रममास्थाय ब्रह्मचारी भवेत्पुनः ।
न यतिर्न वनस्थश्च स सर्वाश्रमवर्जितः ॥ ९ ॥
अनाश्रमी न तिष्ठेत दिनमेकमपि द्विजः ।
आश्रमेण विना तिष्ठत्प्रायश्चित्तीयते हि सः ॥ १० ॥
जपे होमे तथा दाने स्वाध्याये च रतः सदा ।
नासो फलमवाप्नोति कुर्वाणोऽप्याश्रमाच्च्युतः ॥ ११॥
त्रयाणामानुलोम्यं हि प्रातिलोम्यं न विद्यते ।
प्रातिलोम्येन यो याति न तस्मात्पापकृत्तमः ॥१२॥
मेखलाजिनदण्डैश्चब्रह्मचारीति लक्ष्यते ।
गृहस्थो दानवेदाद्यैर्नखलोमैर्वनाश्रमी ॥ १३ ॥
त्रिदण्डेन यतिश्चैव लक्षणानि पृथक्पृथक् ।
यस्यैतल्लक्षणं नास्ति प्रायश्चित्ती वनाश्रमी ॥ १४ ॥
उक्तं कर्म क्रमोनोक्तो न काल ऋषिभिः स्मृतः ।
द्विजानां च हितार्थाय दक्षस्तु स्वयमब्रवीत् ॥ १५ ॥
इति दक्षस्मृतौ प्रथमोऽध्यायः ॥ ॥ १
<MISSING_FIG href="../books_images/1682508413.jpg"/>
द्वितीयोऽध्यायः २.
प्रातरुत्थाय कर्तव्यं यद्द्विजेन दिने दिने ।
तत्सर्वं सम्प्रवक्ष्यामि द्विजानामुपकारकम् ॥ १ ॥
उदयास्तमितं यावन्न विप्रः क्षणिकोभवेत् ।
नित्यनैमित्तिकैर्युक्तः काम्यैश्चान्यैरगर्हितैः ॥ २ ॥
सन्ध्याद्यं वैश्वदे1वान्तं स्वकं कर्म समाचरेत् ।
स्वकं कर्म परित्यज्य यदन्यत्कुरुते द्विजः ॥ ३ ॥
अज्ञानादथवा लोभात्स तेन पतितो भवेत् ।
दिवसस्याद्यभागे तु कर्म तस्योपदिश्यते ॥ ४ ॥
द्वितीये च तृतीये च चतुर्थे पञ्चमे तथा ।
षष्ठे च सप्तमे चैव ह्यष्टमे च पृथक्पृथक् ॥ ५ ॥
विभागेष्वेषु यत्कर्म तत्प्रवक्ष्याम्यशेषतः ।
उषःकाले च सम्प्राप्ते शौचङ्कृत्वा यथार्थवत् ॥ ६ ॥
ततः स्नानं प्रकुर्वीत दन्तधावनपूर्वकम् ।
अत्यन्तमलिनः कायो नवच्छिद्रसमन्वितः ॥ ७ ॥
स्रवत्येष दिवा रात्रौ प्रातः स्नानं विशोधनम् ।
क्लिद्यन्ति हि प्रसुप्तस्य इन्द्रियाणि स्रवन्ति च ॥ ८ ॥
अङ्गानि समतां यान्ति उत्तमान्यधमैः सह ।
नानास्वेदसमाकीर्णः शयनादुत्थितः पुमान् ॥ ९ ॥
अस्नात्वा नाचरेत्किञ्चिज्जपहोमादिकं द्विजः ।
प्रातरुत्थाय यो विप्रः प्रातःस्नायी भवेत्सदा ॥ १० ॥
सप्तजन्मकृतं पापं त्रिभिर्वर्षैर्व्यपोहति ।
उषस्युषसि यत्स्नानं सन्ध्यायामुदिते रवौ ॥ ११ ॥
प्राजापत्येन तत्तुल्यं महापातकनाशनम् ।
प्रातःस्नानं प्रशंसन्ति दृष्टादृष्टकरं हि तत् ॥ १२ ॥
सर्वमर्हति पूतात्मा प्रातःस्नायी जपादिकम् ॥ १३ ॥
गुणा दश स्नानपरस्य साधो रूपं च पुष्टिश्च बलं च तेजः
आरोग्यमायुश्च मनोनुरुद्धदुःस्वप्नघातश्च तपश्चमेधा ॥ १४॥
स्नानादनन्तरं तावदुपस्पर्शनमुच्यते ।
अनेन तु विधानेन स्वाचान्तः शुचितामियात् ॥ १५ ॥
प्रक्षाल्य हस्तौ पादौ च त्रिः पिबेदम्बुवीक्षितम् ।
संवृत्याङ्गूष्ठमूलेन द्विःप्रमृज्यात्ततो मुखम् ॥ १६ ॥
संहत्य तिसृभिः पूर्वमास्यमेवमुपस्पृशेत् ।
ततः पादौ समभ्युक्ष्य अङ्गानि समुपस्पृशेत् ॥ १७ ॥
अङ्गुष्ठेन प्रदेशिन्या घ्राणं पश्चादुपस्पृशेत् ।
अङ्गुष्ठानामिकाभ्यां च चक्षुःश्रोत्रे पुनः पुनः ॥१८ ॥
कनिष्ठाङ्गुष्ठयोर्नाभिं हृदयं तु तलेन वै ।
सर्वाभिश्च शिरः पश्चाद्बाहू चाग्रेण संस्पृशेत् ॥१९ ॥
सन्ध्यायां च प्रभाते च मध्याह्ने च ततः पुनः ॥ २० ॥
हद्गाभिः पूयते विप्रः कण्ठगाभिश्च भूमिपः ।
वैश्यः प्राशितमात्राभिर्जिह्वागाभिः स्त्रियोऽङ्घ्रिजाः ॥ २१ ॥
सन्ध्यां नोपासते यस्तु ब्राह्मणो हि विशेषतः ।
स जीवन्नेव शूद्रः स्यान्मृतः श्वा चैव जायते ॥ २२ ॥
सन्ध्याहीनोऽशुचिर्नित्यमनर्हःसर्वकर्मसु ।
यदन्यत्कुरुते कर्म न तस्य फलभाग्भवेत् ॥ २३ ॥
सन्ध्याकर्मावसाने तु स्वयं होमो विधीयते ।
स्वयं होमे फलं यत्तु तदन्येन न जायते ॥ २४ ॥
ऋत्विक्पुत्रो गुरुर्भ्राता भागिनेयोऽथ विट्पतिः ।
एभिरेव हुतं यत्तु तद्धुतं स्वयमेव तु ॥ २५ ॥
देवकार्यं ततः कृत्वा गुरुमङ्गलमीक्षणम् ।
देवकार्यस्य सर्वस्य पूर्वाह्णे तु विधीयते ॥ २६ ॥
देवकार्याणि पूर्वाह्णेमनुष्याणां तु मध्यमे।
पितॄणामपराह्णेतु कार्याण्येतानि यत्नतः ॥ २७ ॥
पौर्वाह्णिकं तु यत्कर्म यदि तत्सायमाचरेत् ।
न तस्य फलमाप्नोति वन्ध्यास्त्रीमैथुनं यथा ॥ २८ ॥
दिवसस्याद्यभागे तु सर्वमेतद्विधीयते ।
द्वितीये चैव भागे तु वेदाभ्यासो विधीयते ॥ २९ ॥
वेदाभ्यासो हि विप्राणां परमं तप उच्यते ।
ब्रह्मयज्ञः स विज्ञेयः षडङ्गसहितस्तु यः॥ ३० ॥
वेदस्वीकरणं पूर्वं विचारोऽभ्यसनं जपः ।
प्रदानं चैव शिष्येभ्यो वेदाभ्यासो हि पञ्चधा ॥ ३१॥
समित्पुष्पकुशादीनां स कालः समुदाहृतः ।
तृतीये चैव भागे तु पोष्यवर्गार्थसाधनम् ॥ ३२ ॥
माता पिता गुरुर्भार्या प्रजा दीनः समाश्रितः ।
अभ्यागतोऽतिथिश्चाग्निः पोष्यवर्ग उदाहृतः ॥ ३३ ॥
ज्ञातिर्बन्धुजनः क्षीणस्तथाऽनाथः समाश्रितः ।
अन्योऽप्यधनयुक्तश्च पोष्यवर्ग उदाहृतः ॥ ३४ ॥
सार्वभौतिकमन्नाद्यं कर्तव्यं तु विशेषतः ।
ज्ञानविद्भ्यःप्रदातव्यमन्यथा नरकं व्रजेत् ॥ ३५ ॥
भरणं पोष्यवर्गस्य प्रशस्तं स्वर्गसाधनम् ।
नरकः पीडने तस्य तस्माद्यत्नेन तं भरेत् ॥ ३६ ॥
स जीवति य एवैको बहुभिश्चोपजीव्यते ।
जीवन्तो मृतकास्त्वन्ये पुरुषाः स्वोदरम्भराः ॥ ३७ ॥
बह्वर्थञ्जीव्यते कैश्चित्कुटुम्बार्थेतथा परैः ।
आत्मार्थेऽन्यो शक्नोति स्वोदरेणापि दुःखितः ॥ ३८॥
दीनानाथविशिष्टेभ्यो दातव्यं भूतिमिच्छता।
अदत्तदाना जायन्ते परभाग्योपजीविनः ॥ ३९ ॥
यद्ददासि विशिष्टेभ्यो यज्जुहोषि दिने दिने ।
तत्ते वित्तमहं मन्ये शेषं कस्यापि रक्षसि ॥ ४० ॥
चतुर्थे तु तथा भागे स्नानार्थं मृदमाहरेत्॥
तिलपुष्पकुशादीनि स्नानं चाकृत्रिमे जले ॥ ४१ ॥
नित्यं नैमित्तिकं काम्यन्त्रिविधं स्नानमुच्यते ।
तेषां मध्ये तु यन्नित्यं तत्पुनर्विद्यते त्रिधा ॥ ४२ ॥
मलापकर्षणं पश्चान्मन्त्रवत्तु जले स्मृतम् ।
सन्ध्यास्नानमुभाभ्यां तु स्नानभेदाः प्रकीर्तिताः ॥ ४३ ॥
मार्जनं जलमध्ये तु प्राणायामो यतस्ततः ।
उपस्थानं ततः पश्चाद्गायत्रीजप उच्यते ॥ ४४ ॥
सविता देवता यस्य मुखमग्निस्त्रिपात्स्थिता ।
विश्वामित्र ऋषिश्छन्दो गायत्री सा विशिष्यते ॥ ४५ ॥
पञ्चमे तु तथा भागे संविभागो यथार्थतः ।
पितृदेवमनुष्याणां कीटानां चोपदिश्यते ॥ ४६ ॥
देवैश्चैव मनुष्यैश्च तिर्यग्भिश्चोपजीव्यते ।
गृहस्थः प्रत्यहं यस्मात्तस्माच्छ्रेष्ठाश्रमो गृही ॥ ४७ ॥
त्रयाणामाश्रमाणां तु गृहस्थो योनिरुच्यते ।
सीदमानेन तेनैव सीदन्तीहेतरे त्रयः ॥ ४८ ॥
मूलत्राणे भवेत्स्कन्धः स्कन्धाच्छाखेति पल्लवाः॥
मूलेनैव विनष्टेन सर्वमेतद्विनश्यति ॥ ४९ ॥
तस्मात्सर्वप्रयत्नेन रक्षणीयो गृहाश्रमी ।
राज्ञा चान्यैस्त्रिभिः पूज्यो माननीयश्च सर्वदा ॥ ५० ॥
गृहस्थोऽपि क्रियायुक्तो गृहेण न गृही भवेत् ।
नचैव पुत्रदारेण स्वकर्मपरिवर्जितः ॥ ५१ ॥
अहुत्वा च तथाऽजप्त्वा अदत्त्वा यश्च भुञ्जते ।
देवादीनामृणी भूत्वा दरिद्रश्च भवेन्नरः ॥ ५२ ॥
एक एव हि भुङ्क्तेऽन्नमपरोऽन्नेन भुज्यते ।
न भुज्यते स एवैको यो भुङ्क्ते तु समांशकम् ॥ ५३ ॥
विभागशीलो यो नित्यं क्षमायुक्तो दयालुकः ।
देवतातिथिभक्तश्च गृहस्थः स तु धार्मिकः ॥ ५४ ॥
दया लज्जाक्षमा श्रद्धा प्रज्ञा त्यागः कृतज्ञता ।
गुणा यस्य भवन्त्येते गृहस्थो मुख्य एव सः ॥ ५५ ॥
संविभागं ततः कृत्वा गृहस्थः शेषभुग्भवेत् ।
भुक्त्वा तु सुखमास्थाय तदन्नं परिणामयेत् ॥ ५६ ॥
इतिहासपुराणाद्यैः षष्ठं वा सप्तमं नयेत् ।
अष्टमे लोकयात्रा तु बहिःसन्ध्या ततः पुनः ॥ ५७ ॥
होमं भोजनकृत्यं च यच्चान्यद्गृहकृत्यकम् ।
कृत्वा चैवं ततः पश्चात्स्वाध्यायं किञ्चिदाचरेत् ॥ ५८ ॥
प्रदोषपश्चिमौयामौवेदाभ्यासेन तौ नयेत् ।
यामद्वयं शयानस्तु ब्रह्मभूयाय कल्पते ॥ ५९ ॥
नैमित्तिकानि कर्माणि निपतन्ति यथा यथा ।
तथा तथा तु कार्याणि न कालस्तु विधीयते ॥ ६० ॥
यस्मिन्नेव प्रयुञ्जानो यस्मिन्नेव प्रलीयते ।
तस्मात्सर्वप्रयत्नेन स्वाध्यायं2 च समभ्यसेत् ॥ ६१ ॥
सर्वत्र मध्यमौ यामौ हुतशेषं हविश्च यत् ।
भुञ्जानश्च शयानश्च ब्राह्मणो नावसीदति ॥ ६२ ॥
इति श्रीदाक्षे धर्मशास्त्रे द्वितीयोऽध्यायः ॥ २ ॥
<MISSING_FIG href=”../books_images/1682508413.jpg”/>
तृतीयोऽध्यायः ३.
सुधा नव गृहस्थस्य ईषद्दानानि वै नव॥
नव कर्माणि च तथा विकर्माणि नवैव तु ॥ १ ॥
प्रच्छन्नानि नवान्यानि प्रकाश्यानि पुनर्नव ।
सफलानि नवान्यानिनिष्फलानि तथा नव ॥ २ ॥
अदेयानि नवान्यानि वसुजातानि सर्वदा ।
नवका नव निर्दिष्टा गृहस्थोन्नतिकारकाः ॥ ३ ॥
सुधावस्तूनि वक्ष्यामि विशिष्टे गृहमागते ।
मनश्चक्षुर्मुखं वाचं सौम्यं दत्त्वा चतुष्टयम् ॥ ४॥
अभ्युत्थानमिहागच्छ पृच्छालापः प्रियान्वितः ।
उपासनमनुव्रज्या कार्याण्येतानि नित्यशः ॥ ५ ॥
ईषद्दानानि चान्यानि भूमिरापस्तृणानि च ।
पादशौचं तथाभ्यङ्गं आश्रयः शयनानि च ॥ ६ ॥
किञ्चिद्दद्याद्यथाशक्ति नास्यानश्नन्गृहे वसेत् ।
मृज्जलं चार्थिने देयमेतान्यपि सदा गृहे ॥ ७ ॥
सन्ध्या स्नानं जपो होमः स्वाध्यायो देवतार्चनम् ।
वैश्वदेवं क्षमातिथ्यमुद्धृतञ्चापि शक्तितः॥ ८ ॥
पितृदेवमनुष्याणां दीनानाथतपस्विनाम्॥
गुरुमातृपितॄणां च संविभागो यथार्हतः ॥ ९ ॥
एतानि नव कर्माणि विकर्माणि तथा पुनः ॥ १० ॥
अनृतं पारदार्यं च तथाऽभक्ष्यस्य भक्षणम् ।
अगम्यागमनापेयपानं स्तेयं च हिंसनम् ॥ ११ ॥
अश्रौतकर्माचरणं मैत्रधर्मबहिष्कृतम् ।
नवैतानि विकर्माणि तानि सर्वाणि वर्जयेत् ॥ १२ ॥
पैशुन्यमनृतं माया कामः क्रोधस्तथाऽप्रियम् ।
द्वेषो दम्भः परद्रोहः3 प्रच्छन्नानि इत्येतम्याग्रिम - सङ्ख्येयैः सहाभिसम्बन्धात् “) प्रच्छन्नानि तथा नव ॥ १३ ॥
आयुर्वित्तं गृहच्छिद्रम्मन्त्रो मैथुनभेषजे ।
तपो दानापमानौ च नव गोप्यानि सर्वदा ॥ १४ ॥
प्रायोग्य4मृणशुद्धिश्च दानाध्ययनविक्रयाः ।
कन्यादानं वृषोत्सर्गो रहः5 पापमकुत्सनम् ।
“प्रकाश्यानि नवैतानि गृहस्थाश्रमिणस्तथा ॥ १५ ॥
मातापित्रोर्गुरौ मित्रे विनीते चोपकारिणि ।
दीनानाथविशिष्टेषु दत्तं तत्सफलं भवेत् ॥ १६ ॥
धूर्त्तेबन्दिनि मल्ले च कुवैद्ये कितवेशठे ।
चाटुचारणचोरेभ्यो दत्तं भवति निष्फलम् ॥ १७ ॥
सामान्यं याचितं न्यास आधिर्दाराश्च तद्धनम् ।
अन्वाहितं च निक्षेपंसर्वस्वं चान्वये सति ॥ १८ ॥
आपत्स्वपि न देयानि नव वस्तूनि सर्वदा॥
यो ददाति स मूर्खस्तु प्रायश्चित्तेन युज्यते ॥ १९ ॥
नवनवकवेत्तारमनुष्ठानपरं नरम् ।
इह लोके परत्रापि नीतिस्तं नैव मुञ्चति ॥ २० ॥
यथैवात्मा परस्तद्वद्द्रष्टव्यः सुखमिच्छता ।
सुखदुःखानि तुल्यानि यथात्मनि तथा परे ॥ २१ ॥
सुखं वा यदि वा दुःखं यत्किञ्चित्क्रियते परे ।
यत्कृतं तु पुनः पश्चात्सर्वमात्मनि तद्भवेत् ॥ २२ ॥
न क्लेशेन विना द्रव्यं विना द्रव्येण न क्रिया ।
क्रियाहीने न धर्मः स्याद्धर्महीने कुतः सुखम् ॥ २३ ॥
सुखं वाञ्छन्ति सर्वे हि तच्च धर्मसमुद्भवम् ।
तस्माद्धर्मः सदा कार्यः सर्ववर्णैः प्रयत्नतः ॥ २४ ॥
न्यायागतेन द्रव्येण कर्तव्यं पारलौकिकम् ।
दानं हि विधिना देयं काल पात्रे गुणान्विते ॥ २५ ॥
समद्विगुणसाहस्रमानन्त्यं च यथाक्रमम् ।
दाने फलविशेषः स्याद्धिंसायां तावदेव तु ॥ २६ ॥
सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे ।
सहस्रगुणमाचार्य्येत्वनन्तं वेदपारगे ॥ २७ ॥
विधिहीने यथा पात्रे यो ददाति प्रतिग्रहम् ।
न केवलं तद्विनश्येच्छेषमप्यस्य नश्यति ॥ २८ ॥
व्यसनप्रतिकारार्थं कुटुम्बार्थं च याचते ।
एवमन्विष्य दातव्यमन्यथा6 न फलं भवेत् ॥ २९ ॥
मातापितृविहीनं तु संस्कारोद्वाहनादिभिः ।
यः स्थापयति तस्येह पुण्यसङ्ख्या न विद्यते ॥ ३० ॥
यच्छ्रेयो नाग्निहोत्रेण नाग्निष्टोमेन लभ्यते ।
तच्छ्रेयः प्राप्नुयाद्विप्रो विप्रेण स्थापितेन वै ॥ ३१ ॥
यद्यदिष्टतमं लोके यच्चात्मदयितं भवेत् ।
तत्तद्गुणवते देयं तदेवाक्षयमिच्छता ॥ ३२ ॥
इति दक्षस्मृतौ तृतीयोऽध्यायः ॥ ३ ॥
<MISSING_FIG href=”../books_images/1682508413.jpg”/>
चतुर्थोऽध्यायः ४.
पत्नीमूलं गृहं पुंसां यदि च्छन्दा7नुवर्तिनी ।
गृहाश्रमात्परं नास्ति यदि भार्या वशानुगा ॥ १ ॥
तया धर्मार्थकामानां त्रिवर्गफलमश्नुते ॥ २ ॥
प्राकाम्ये वर्तमाना या स्नेहान्न तु निवारिता ।
अवश्या सा भवेत्पश्चाद्यथा व्याधिरुपेक्षितः ॥ ३ ॥
अनुकूला त्ववाग्दुष्टा दक्षा साध्वी प्रियंवदा ।
आत्मगुप्ता स्वामिभक्ता देवता सा न मानुषी ॥ ४ ॥
अनुकूलकलत्रो यः स्वर्गस्तस्य इहैव हि ।
प्रतिकूलकलत्रस्य नरको नात्र संशयः ॥ ५ ॥
स्वर्गेऽपि दुर्लभं ह्येतदनुरागः परस्परम् ।
रक्त एको विरक्तोऽन्यस्तदा कष्टतरं नु किम् ॥ ६ ॥
गृहवासः सुखार्थो हि पत्नीमूलं च तत्सुखम् ।
सा पत्नी या विनीता स्याच्चित्तज्ञा वशवर्त्तिनी ॥ ७ ॥
दुःखायान्या सदा खिन्ना चित्तभेदः परस्परम् ।
प्रतिकुलकलत्रस्य द्विदारस्य विशेषतः ॥ ८ ॥
जलौका इव ताः सर्वा भूषणाच्छादनाशनैः॥
भुभृतापि कृता नित्यं पुरुषह्यपकर्षति ॥ ९ ॥
जलौका रक्तमादत्ते केवलं सा तपस्विनी ।
इतरा तु धनं वित्तं मांसं वीर्यं बलं सुखम् ॥ १० ॥
साशङ्का बालभावे तु यौवनेऽभिमुखी भवेत् ।
तृणवन्मन्यते नारी वृद्धभावे स्वकं पतिम् ॥ ११॥
अनुकूला त्ववाग्दुष्टा दक्षा साध्वी पतिव्रता ॥
एभिरेव गुणैर्युक्ता श्रीरवे स्त्रीन संशयः ॥ १२ ॥
प्रहृष्टमानसा नित्यं स्थानमानविचक्षणा ॥
भर्तुः प्रीतिकरी या तु भार्या सा चेतरा जरा ॥ १३ ॥
शिष्यो भार्या शिशुर्भ्राता पुत्री दासः समाश्रितः ॥
यस्यैतानि विनीतानि तस्य लोके हि गौरवम् ॥ १४॥
प्रथमा धर्मपत्नी तु द्वितीया रतिवर्द्धिनी ॥
दृष्टमेव फलं तत्र नादृष्टमुपपद्यते ॥ १५ ॥
धर्मपत्नी समाख्याता निर्दोषा यदि सा भवेत् ॥
दोषे सति न दोषः स्यादन्या भार्या गुणान्विता ॥ १६ ॥
अदुष्टाऽपतितां भार्यां यौवने यः परित्यजेत्॥
स जीवनान्ते स्त्रीत्वं च वन्ध्यत्वं च समाप्नुयात् ॥१७॥
दरिद्रं व्याधितं चैव भर्तारं याऽवमन्यते ॥
शुनी गृध्रीच मकरी जायते सा पुनः पुनः ॥ १८ ॥
मृते भर्तरि या नारी समारोहेद्धुताशनम् ॥
सा भवेत्तु शुभाचारा स्वर्गलोके महीयते ॥ १९ ॥
व्यालग्राही यथा व्यालं बलादुद्धरते बिलात् ॥
तथा सा पतिमुद्धृत्य तेनैव सह मोदते ॥ २० ॥
चण्डालप्रत्यवसित8परिव्राजकतापसाः ॥
तेषां जातान्यपत्यानि चण्डालैःसह वासयेत् ॥ २१ ॥
इति दक्षस्मृतौचतुर्थोऽध्यायः ॥ ४ ॥
<MISSING_FIG href="../books_images/1682508413.jpg"/>
पञ्चमोऽध्यायः ५.
उक्तं शौचमशौचं च कार्यं त्याज्यं मनीषिभिः ॥
विशेषार्थं तयोः किञ्चिद्वक्ष्यामि हितकाम्यया ॥ १ ॥
शौचे यत्नः सदा कार्यः शौचमूलो द्विजः स्मृतः॥
शौचाचारविहीनस्य समस्ता निष्फलाः क्रियाः ॥ २ ॥
शौचं च द्विविधं प्रोक्तं बाह्यमाभ्यन्तरं तथा ॥
मृज्जलाभ्यां स्मृतं बाह्यं भावशुद्धिरथान्तरम् ॥ ३ ॥
अशौचाद्धि वरं बाह्यं तस्मादाभ्यन्तरं वरम् ॥
उभाभ्यां तु शुचिर्यस्तु स शुचिर्नेतरः शुचिः ॥ ४ ॥
एका लिङ्गे गुदे तिस्रो दश वामकरे तथा ॥
उभयोः सप्त दातव्या मृदस्तिस्रस्तु पादयोः ॥ ५ ॥
गृहस्थशौचमाख्यातं त्रिष्वन्येषु यथाक्रमम् ॥
द्विगुणं त्रिगुणं चैव चतुर्थस्य चतुर्गुणम् ॥ ६ ॥
अर्द्धप्रसृतिमात्रा तु प्रथमा मृत्तिका स्मृता ॥
द्वितीया च तृतीया च तदर्द्धा परिकीर्तिता ॥ ७ ॥
लिङ्गे तु मृत्समाख्याता त्रिपर्वी पूर्यते यया ॥
एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् ॥ ८ ॥
त्रिगुणं तु वनस्थानां यतीनां च चतुर्गुणम् ॥
दातव्यमुदकं तावन्मृदभावो यथा भवेत् ॥ ९ ॥
मृत्तिकानां सहस्रेण चोदकुम्भशतेन च ॥
न शुद्ध्यन्ति दुरात्मानो येषां भावो न निर्मलः ॥ १० ॥
मृदा तोयेन शुद्धिः स्यान्न क्लेशो न धनव्ययः ॥
यस्य शौचेऽपि शैथिल्यं चित्तं तस्य परीक्षितम् ॥११॥
अन्यदेव दिवा शौचमन्यद्रात्रौ विधीयते ॥
अन्यदापदि निर्दिष्टमन्यदेव ह्यनापदि ॥ १२ ॥
दिवा कृतस्य शौचस्यरात्रावर्द्धं विधीयते ॥
तदर्धमातुरस्याहुस्त्वरायां त्वर्द्धमध्वनि॥ १३ ॥
दिवा यद्विहितं कर्म तदर्धञ्च निशि स्मृतम् ॥
तदर्धञ्चातुरे काले पथि शूद्रवदाचरेत् ॥ १४ ॥
न्यूनाधिकं न कर्तव्यं शौचे शुद्धिमभीप्सता।
प्रायश्चित्तेन युज्येत विहितातिक्रमे कृते ॥ १५ ॥
इति दक्षस्मृतौ पञ्चमोऽध्यायः ॥ ५ ॥
<MISSING_FIG href="../books_images/1682508413.jpg"/>
षष्ठोऽध्यायः ६.
अशौचं तु प्रवक्ष्यामि जन्ममृत्युनिमित्तकम् ॥
यावज्जीवं तृतीयं तु यथावदनुपूर्वशः ॥ १ ॥
सद्यः शौचं तथैकाहो द्वित्रिचतुरहस्तथा ॥
षड्दशद्वादशाहश्च पक्षो मासस्तथैव च ॥ २ ॥
मरणान्तं तथा चान्यद्दश पक्षास्तु सूतके ॥
उपन्यासक्रमेणैव वक्ष्याम्यहमशेषतः ॥ ३ ॥
ग्रन्थार्थतो विजानाति वेदमङ्गैः समन्वितम् ॥
सकल्पं सरहस्यञ्च क्रियावांश्चेन्नसूतकी ॥ ४ ॥
राजर्त्विग्दीक्षितानां च बाले देशान्तरे तथा ॥
व्रतिनां सत्रिणां चैव सद्यः शौचं विधीयते ॥ ५ ॥
एकाहस्तु समाख्यातो योऽग्निवेदसमन्वितः ॥
हीने हीनतरे चैव द्वित्रिचतुरहस्तथा ॥ ६ ॥
जातिविप्रो दशाहेन द्वादशाहेन भूमिपः ॥
वैश्यः पञ्चदशाहेन शूद्रो मासेन शुद्ध्यति ॥ ७ ॥
अस्नात्वाचम्य जप्त्वा च दत्त्वा हुत्वा च भुञ्जते ॥
एवंविधस्य सर्वस्य यावज्जीवं हि सूतकम् ॥ ८ ॥
व्याधितस्य कदर्यस्य ऋणग्रस्तस्य सर्वदा ॥
क्रियाहीनस्य मूर्खस्य स्त्रीजितस्य विशेषतः ॥ ९ ॥
व्यसनासक्तचित्तस्य पराधीनस्य नित्यशः ॥
श्रद्धात्यागविहीनस्य भस्मान्तंसूतकं भवेत् ॥ १० ॥
न सूतकं कदाचित्स्याद्यावज्जीवं तु सूतकम् ॥
एवं गुणविशेषेण सूतकं समुदाहृतम् ॥ ११ ॥
सूतके मृतके चैव तथा च मृतसूतके॥
एतत्संहतशौचानां मृताशौचेन शुद्ध्यति ॥ १२ ॥
दानं प्रतिग्रहो होमः स्वाध्यायश्च निवर्तते ॥
दशाहात्तुपरं शौचं विप्रोऽर्हति च धर्म्मवित् ॥१३ ॥
दानं च विधिना देयमशुभात्तारकं हि तत् ॥
मृतकान्ते मृतो यस्तु सूतकान्तेच सूतकम् ॥ १४ ॥
एतत्संहतशौचानां पूर्वाशौचेन शुद्ध्यति ॥
उभयत्र दशाहानि कुलस्यान्नं न भुज्यते ॥१५ ॥
चतुर्थेऽहनि कर्तव्यमस्थिसञ्चयनं द्विजैः ॥
ततः सञ्चयनादूर्ध्वमङ्गस्पर्शो विधीयते ॥१६ ॥
वर्णानामानुलोम्येन स्त्रीणामेको यदा पतिः ॥
दशषट्त्र्यहमेकाहः प्रसवे सूतकं भवेत् ॥ १७ ॥
स्वस्थकाले त्विदं सर्वमाशौचं परिकीर्तितम् ॥
आपद्गतस्य सर्वस्य सूतकेऽपि न सूतकम् ॥ १८ ॥
यज्ञे प्रवर्तमाने तु जायेताथ म्रियेत वा ॥
पूर्वसङ्कल्पिते कार्ये न दोषस्तत्र विद्यते ॥ १९ ॥
यज्ञकाले विवाहे च देवयागे तथैव च ॥
हूयमाने तथा चाग्नौनाशौचं नापि सूतकम् ॥ २० ॥
इति दक्षस्मृतौ षष्ठोऽध्यायः ॥ ६ ॥
<MISSING_FIG href="../books_images/1682508413.jpg"/>
सप्तमोऽध्यायः ७.
लोका वशीकृता येन येन चात्मा वशीकृतः ॥
इन्द्रियार्थोजितो येन तं योगं प्रब्रवीम्यहम् ॥ १ ॥
प्राणायामस्तथा ध्यानं प्रत्याहारोऽथ धारणा॥
तर्कश्चैव समाधिश्च षडङ्गो योग उच्यते ॥ २ ॥
मैत्रीक्रियामुदे सर्वा सर्वप्राणिव्यवस्थिता ॥
ब्रह्मलोकं नयत्याशु धातारमिव धारणा ॥ ३ ॥
नारण्यसेवनाद्योगो नानेकग्रन्थचिन्तनात् ॥
व्रतैर्यज्ञैस्तपोभिर्वा न योगः कस्यचिद्भवेत् ॥ ४ ॥
न च पथ्याशनाद्योगो न नासाग्रनिरीक्षणात् ॥
न च शास्त्रातिरिक्तेन शौचेन भवति क्वचित् ॥ ५ ॥
न मन्त्रमौनकुहकैरनेकैः सुकृतैस्तथा ॥
लोकयात्रानियुक्तस्य योगो भवति कस्यचित् ॥ ६ ॥
अभियोगात्तथाभ्यासात्तस्मिन्नेव तु निश्चयात् ॥
पुनःपुनश्च निर्वेदाद्योगः सिद्ध्यति नान्यथा ॥ ७ ॥
आत्मचिन्ताविनोदेन शौचेन क्रीडनेन च ॥
सर्वभूतसमत्वेन योगः सिद्ध्यति नान्यथा ॥ ८ ॥
यश्चात्मनिरतो नित्यमात्मक्रीडस्तथैव च ॥
आत्मानन्दस्तु सततमात्मन्येव सुभाषितः ॥ ९ ॥
रतश्चैव सुतुष्टश्च सन्तुष्टो नान्यमानसः ॥
आत्मन्येव सुतृप्तोऽसौ योगस्तस्य प्रसिद्ध्यति ॥ १० ॥
सुप्तोऽपि योगयुक्तश्च जाग्रच्चापि विशेषतः ॥
ईदृक्चेष्टः स्मृतः श्रेष्ठो गरिष्ठो ब्रह्मवादिनाम् ॥ ११ ॥
अत्रात्मव्यतिरेकेण द्वितीयं नैव पश्यति ॥
ब्रह्मभूतः स एवेह दक्षपक्ष उदाहृतः ॥ १२ ॥
विषयासक्तचित्तो हि यतिर्मोक्षं न विन्दति ॥
यत्नेन विषयासक्तिं तस्माद्योगी विवर्जयेत् ॥ १३ ॥
विषयेन्द्रियसंयोगं केचिद्योगं वदन्ति वै ॥
अधर्मो धर्मबुद्ध्या तु गृहीतस्तैरपण्डितैः ॥ १४ ॥
आत्मनो मनसश्चैव संयोगं तु ततः परम् ॥
उक्तानामधिका ह्येते केवलं योगवञ्चिताः ॥ १५ ॥
वृत्तिहीनं मनः कृत्वा क्षेत्रज्ञं परमात्मनि ॥
एकीकृत्य विमुच्येत योगोऽयं मुख्य उच्यते ॥ १६ ॥
कषायमोहविक्षेपलज्जाशङ्कादि चेतसः ॥
व्यापारास्तु समाख्यातास्ताञ्जित्वा वशमानयेत् ॥ १७॥
कुटुम्बैः पञ्चभिर्ग्रामः षष्ठस्तत्र महत्तरः ॥
देवासुरैर्मनुष्यैश्च स जेतुं नैव शक्यते ॥ १८ ॥
बलेन परराष्ट्राणि गृह्णञ्छूरस्तु नोच्यते ॥
जितो येनेन्द्रियग्रामः स शूरः कथ्यते बुधैः ॥ १९ ॥
बहिर्मुखानि सर्वाणि कृत्वा चाभिमुखानि वै ॥
मनस्येवेन्द्रियाण्यत्र मनश्चात्मनि योजयेत् ॥ २० ॥
सर्वभावविनिर्मुक्तं क्षेत्रज्ञ ब्रह्मणि न्यसेत् ॥
एतद्ध्यानं तथा ज्ञानं शेषस्तु ग्रन्थविस्तरः ॥ २१ ॥
त्यक्त्वा विषयभोगांस्तु मनो निश्चलतां गतम् ॥
आत्मशक्तिस्वरूपेण समाधिः परिकीर्तितः ॥ २२ ॥
चतुर्णां सन्निकर्षेण फलं यत्तदशाश्वतम् ॥
द्वयोस्तु सन्निकर्षेण शाश्वतं ध्रुवमक्षयम् ॥ २३ ॥
यन्नास्ति सर्वलोकस्य तदस्तीति निरुच्यते ॥
कथ्यमानं तथान्यस्यहृदये नाधितिष्ठति ॥ २४ ॥
स्वयंवेद्यं च तद्ब्रह्म कुमारीमैथुनं यथा ॥
अयोगी नैव जानाति जात्यन्धो हि यथा घटम् ॥ २५ ॥
नित्याभ्यसनशीलस्यसुसंवेद्यंहि तद्भवेत् ॥
तत्सूक्ष्मत्वादनिर्देश्यं परं ब्रह्म सनातनम् ॥ २६ ॥
बुधास्त्वाभरणं भावं मनसालोचनं तथा॥
मन्यन्ते स्त्री च मूर्खश्च तदेव बहुमन्यते ॥ २७ ॥
सत्त्वोत्कटाःसुरास्तेऽपि विषयेण वशीकृताः ॥
प्रमादिभिः क्षुद्रसत्त्वैर्मनुष्यैरत्रवाकथा॥ २८ ॥
तस्मात्त्यक्तकषायेण कर्तव्यं दण्डधारणम् ॥
इतरस्तु न शक्नोति विषयैरभिभूयते ॥ २९ ॥
न स्थिरं क्षणमप्येकमुदकं हि
’ title=‘प्रमादवद्भिः।’>यथोर्मिभिः ॥
वाताहतं तथा चित्तं तस्मात्तस्य न विश्वसेत् ॥ ३० ॥
ब्रह्मचर्यं सदा रक्षेदष्टधा रक्षणं पृथक् ॥
स्मरणं कीर्तनं केलिः प्रेक्षणं गुह्यभाषणम् ॥ ३१ ॥
सङ्कल्पोऽध्यवसायश्च क्रियानिष्पत्तिरेव च ॥
एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः ॥ ३२ ॥
त्रिदण्डव्यपदेशेन जीवन्ति बहवो नराः ॥
यस्तु ब्रह्म न जानाति न त्रिदण्डी हि स स्मृतः ॥ ३३ ॥
नाध्येतव्यं न वक्तव्यं श्रोतव्यं न कथञ्चन ॥
एतैः सर्वैः सुसम्पन्नो यतिर्भवति नेतरः ॥ ३४ ॥
पारिव्राज्यं गृहीत्वा तु यः स्वधर्मे न तिष्ठति ॥
श्वपदेनाङ्कयित्वा तं राजा शीघ्रं प्रवासयेत् ॥ ३५ ॥
एको भिक्षुर्यथोक्तस्तु द्वौ चैव मिथुनं स्मृतम् ॥
त्रयो ग्रामः समाख्यात ऊर्ध्वं तु नगरायते ॥ ३६ ॥
नगरं हि न कर्तव्यं ग्रामो वा मिथुनं तथा ॥
एतत्त्रयं तु कुर्वाणः स्वधर्माच्च्यवते यतिः ॥ ३७॥
राजवार्तादि तेषां तु भिक्षावार्ता परस्परम् ॥
स्नेहपैशुन्यमात्सर्यं सन्निकर्षादसंशयम् ॥ ३८ ॥
लाभपूजानिमित्तं हि व्याख्यानं शिष्यसङ्ग्रहः ॥
एते चान्ये च बहवः प्रपञ्चास्तु तपस्विनाम् ॥ ३९॥
ध्यानं शौचन्तथा भिक्षा नित्यमेकान्तशीलता ॥
भिक्षोश्चत्वारिङ्कर्माणि पञ्चमं नोपपद्यते ॥ ४० ॥
यस्मिन्देशे भवेद्योगी ध्यानयोगविचक्षणः ॥
सोऽपि देशो भवेत्पूतः किं पुनर्यस्य बान्धवः ॥ ४१ ॥
तपोभिर्ये वशीभूता व्याधितावसथावहाः ॥
वृद्धा रोगगृहीताश्च ये वान्ये विकलेन्द्रियाः ॥ ४२ ॥
नीरुजश्च युवा चैव भिक्षुर्नावसथार्हणः ॥
स दूषयति तत्स्थानं वृद्धादीन्पीडयत्यपि ॥ ४३॥
नीरुजश्च युवा चैव ब्रह्मचर्याद्विनश्यति ॥
ब्रह्मचर्यादिनष्टश्च कुलं गोत्रं च नाशयेत् ॥ ४४ ॥
यस्य त्वावसथे भिक्षुर्मैथुनं यदि सेवते ॥
तस्यावसथनाथस्य मूलान्यपि निकृन्तति ॥ ४५ ॥
आश्रमे तु यतिर्यस्य मुहूर्तमपि विश्रमेत् ॥
किं तस्यान्येन धर्मेण कृतकृत्यो हि जायते ॥ ४६ ॥
सञ्चितं यद् गृहस्थेन पापमामरणान्तिकम् ॥
स निर्दहति तत्सर्वमेकरात्रोषितो यतिः ॥ ४७ ॥
ध्यानयोगपरिश्रान्तं यस्तु भोजयते यतिम् ॥
अखिलं भोजितं तेन त्रैलोक्यं सचराचरम् ॥ ४८ ॥
द्वैतं चैव तथाद्वैतं द्वैताद्वैतं तथैव च ॥
न द्वैतं नापि चाद्वैतमित्येतत्पारमार्थिकम् ॥ ४९ ॥
नाहं नैव तु सम्बन्धो ब्रह्मभावेन भावितः ॥
ईदृशायां त्ववस्थायामवाप्यं परमं पदम् ॥ ५० ॥
द्वैतपक्षः समाख्यातो ये द्वैते तु व्यवस्थिताः ॥
अद्वैतानां प्रवक्ष्यामि यथा धर्मः सुनिश्चितः ॥ ५१ ॥
अत्रात्मव्यतिरेकेण द्वितीयं यो विपश्यति ॥
अतः शास्त्राण्यधीयन्ते श्रूयते ग्रन्थविस्तरः ॥ ५२ ॥
दक्षशास्त्रे यथा प्रोक्तमाश्रमप्रतिपालनम् ॥
अधीयते तु ये विप्रास्ते यान्ति परलोकताम् ॥ ५३ ॥
य इदं पठते भक्त्या शृणुयादपि यो नरः ॥
स पुत्रपौत्रपशुमान्कीर्तिं च समवाप्नुयात् ॥ ५४ ॥
श्रावयित्वा त्विदं शास्त्रं श्राद्धकालेऽपि यो द्विजः ॥
अक्षय्यं भवति श्राद्धं पितृृंश्चैवोपतिष्ठते ॥ ५५ ॥
इति दक्षस्मृतौ सप्तमोऽध्यायः ॥ ७ ॥
इति दक्षस्मृतिः समाप्ता ॥ १५ ॥
<MISSING_FIG href="../books_images/1682508413.jpg"/>
<MISSING_FIG href="../books_images/1683524974.jpg"/>
श्रीः।
-
“देवयज्ञाद्यैरिति पाठः ।” ↩︎
-
“१ कर्तव्यं सुखमिच्छता - इति पाठः ।” ↩︎
-
“१ एतानि नव पैशुन्यादीन्यपि विकर्माण्येव- (इति-मिलित्वा-विकर्माण्यष्टादश ↩︎
-
“२. प्रायोग्यन्नाम अधमर्णायोत्तमर्णेन ऋणदानम् ।” ↩︎
-
“३ रहस्येतानि वर्जयेत् एतावानेव पाठः प्राकाश्यानीत्य” ↩︎
-
“१ सर्वदानेष्वयं विधिः - इति पाठः । " ↩︎
-
“२ चेच्छानुसारिणी - इति पाठः ।” ↩︎
-
“अयं श्लोकः स्थलान्तरीय इह प्रक्षिप्त एवेति मां प्रति भाति ।” ↩︎