बृहस्पतिस्मृतिः

<MISSING_FIG href="../books_images/1681204617.jpg"/>

अथ बृहस्पतिस्मृतिप्रारम्भः ॥

इष्ट्वा क्रतुशतं राजा समाप्तवरदक्षिणम् ।
भगवन्तं गुरुं श्रेष्ठं पर्यपृच्छद्बृहस्पतिम् ॥ १ ॥

भगवन्केन दानेन सर्वतः सुखमेधते ।
यदक्षयं महार्थं च तन्मे ब्रूहि महत्तम ॥ २ ॥

एवमिन्द्रेण पृष्टोऽसौ देवदेवपुरोहितः ।
वाचस्पतिर्महाप्राज्ञो बृहस्पतिरुवाच ह ॥ ३ ॥

सुवर्णदानं भूदानं गोदानं चैव वासव ।
एतत्प्रयच्छमानस्तु सर्वपापैः प्रमुच्यते ॥ ४ ॥

सुवर्णं रजतं वस्त्रं मणिंरत्नं च वासव ।
सर्वमेव भवेद्दत्तं वसुधां यः प्रयच्छति ॥ ५ ॥

फालकृष्टां महीं दत्त्वा सबीजां सस्यमालिनीम् ।
यावत्सूर्यकृता लोकास्तावत्स्वर्गे महीयते ॥ ६ ॥

यत्किञ्चित्कुरुते पापं पुरुषो वृत्तिकर्शितः ।
अपि गोचर्ममात्रेण भूमिदानेन शुद्ध्यति ॥७॥

दशहस्तेन दण्डेन त्रिंशद्दण्डान्निवर्त्तनम् ।
दश तान्येव विस्तारो गोचर्मैतन्महाफलम् ॥ ८ ॥

वृषं गोसहस्रं तु यत्र तिष्ठत्यतन्द्रितम् ।
बालवत्साप्रसूतानां तद्गोचर्म इति स्मृतम् ॥ ९ ॥

विप्राय दद्याच्च गुणान्विताय तपोनियुक्ताय जितेन्द्रियाय ।
यावन्मही तिष्ठति सागरान्ता तावत्फलं तस्य भवेदनन्तम् ॥ १० ॥

यथा बीजानि रोहन्ति प्रकीर्णानि महीतले ।
एवं कामाः प्ररोहन्ति भूमिदानसमर्जिताः ॥ ११ ॥

यथाप्सु पतितः शक्र तैलबिन्दुः प्रसर्पति ।
एवं भूम्याः कृतं दानं सस्ये सस्ये प्ररोहति ॥ १२ ॥

अन्नदाः सुखिनो नित्यं वस्त्रदश्चैव रूपवान् ।
स नरः सर्वदो भूपो यो ददाति वसुन्धराम् ॥ १३ ॥

यथा गौर्भरते वत्सं क्षीरमुत्सृज्य क्षीरिणी ।
स्वयं दत्ता सहस्राक्ष भूमिर्भरति भूमिदम् ॥ १४॥

शङ्खं भद्रासनं छत्रं चरस्थावरवारणाः ।
भूमिदानस्य पुण्यानि फलं स्वर्गःपुरन्दर ॥ १५ ॥

आदित्यो वरुणो वह्निर्ब्रह्मा सोमो हुताशनः ।
शूलपाणिश्च भगवानभिनन्दन्तिभूमिदम् ॥ १६ ॥

आस्फोटयन्ति पितरः प्रवल्गन्ति पितामहाः ।
भूमिदाता कुले जातः स च त्राता भविष्यति ॥ १७ ॥

त्रीण्याहुरतिदानानि गावः पृथ्वी सरस्वती ।
तारयन्तीह दातारं जपवापनदोहनैः ॥ १८ ॥

प्रावृता वस्त्रदा यान्ति नग्नायान्ति त्ववस्त्रदाः ।
तृप्ता यान्त्यन्नदातारः क्षुधिता यान्त्यनन्नदाः ॥ १९ ॥

काङ्क्षन्ति पितरः सर्वे नरकाद्भयभीरवः ।
गयां यास्यति यः पुत्रः स नस्त्राता भविष्यति ॥ २० ॥

एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ।
यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥ २१ ॥

लोहितो यस्तु वर्णेन पुच्छाग्रे यस्तु पाण्डुरः ।
श्वेतः खुरविषाणाभ्यां स नीलो वृष उच्यते ॥ २२ ॥

नीलः पाण्डुरलाङ्गूलस्तृणमुद्धरते तु यः ।
षष्टिवर्षसहस्राणि पितरस्तेन तर्पिताः ॥ २३ ॥

यस्य शृगगतं पङ्कं कूलात्तिष्ठति चोद्धृतम् ।
पितरस्तस्य चाश्नन्ति सोमलोकं महाद्युतिम् ॥ २४ ॥

पृथोर्यदोर्दिलीपस्यनृगस्य नहुषस्य च ।
अन्येषां च नरेन्द्राणां पुनरन्यो भविष्यति ॥ २५ ॥

बहुभिर्वसुधा दत्ता राजभिः सगरादिभिः ।
यस्य यस्य यथा भूमिस्तस्य तस्य तथा फलम् ॥ २६ ॥

यस्तु ब्रह्मघ्नःस्त्रीघ्नो वा यस्तु वै पितृघातकः ।
गवां शतसहस्राणां हन्ता भवति दुष्कृती ॥ २७ ॥

स्वदत्तां परदत्तांवा यो हरेत वसुन्धराम् ।
श्वविष्ठायां कृमिभूत्वा पितृभिः सह पच्यते ॥ २८ ॥

आक्षेप्ता चानुर्मता च तमेव नरकं व्रजेत् ।
भूमिदो भूमिहर्ता च नापरं पुण्यपापयोः ।
ऊर्ध्वं चाधोऽवतिष्ठेत यावदाभूतसम्प्लवम् ॥ २९ ॥

अग्नेरपत्यं प्रथमं सुवर्णं भूर्वैष्णवी सूर्यसुताश्च गावः ।
लोकास्त्रयस्तेन भवन्ति दत्ता यः काञ्चनं गां च महीं च दद्यात्॥ ३०॥

षडशीतिसहस्राणां योजनानां वसुन्धरा ।
स्वयं दत्ता तु सर्वत्र सर्वकामप्रदायिनी ॥ ३१ ॥

भूमिं यः प्रतिगृह्णाति भूमिं यश्च प्रयच्छति ।
उभौ तौपुण्यकर्माणौ नियतं स्वर्गगामिनौ॥ ३२ ॥

सर्वेषामेव दानानामेकजन्मानुगं फलम् ।
हाटकक्षितिगौरीणां सप्तजन्मानुगं फलम् ॥३३ ॥

यो न हिंस्यादहं ह्यात्मा भूतग्रामं चतुर्विधम् ।
तस्य देहाद्वियुक्तस्य भयं नास्ति कदाचन ॥ ३४ ॥

अन्यायेन हृता भूमिर्यैर्नरैरपहारिता ।
हरन्तो हारयन्तश्च हन्युरासप्तमं कुलम् ॥ ३५ ॥

हरते हारयेद्यस्तु मन्दबुद्धिस्तमोवृतः ।
स बद्धो वारुणैः पाशैस्तिर्यग्योनिषु जायते ॥ ३६ ॥

असुभिः पतितैस्तेषां दानानामवकीर्तनम् ।
ब्राह्मणस्य हृते क्षेत्रे हन्ति त्रिपुरुषं कुलम् ॥ ३७ ॥

वापीकूपसहस्रेण अश्वमेधशतेन च ।
गवां कोटिप्रदानेन भूमिहर्त्ता न शुद्ध्यति ॥ ३८ ॥

गामेकां स्वर्णमेकं वा भूमेरप्यर्द्धमङ्गुलम् ।
हरन्नरकमायाति यावदाभूतसम्प्लवम् ॥ ३९ ॥

हुतं दत्तं तपोऽधीतं यत्किञ्चिद्धर्मसञ्चितम् ।
अर्धाङ्गुलस्य सीमायां हरणेन प्रणश्यति ॥ ४० ॥

गोवीथीं ग्रामरथ्यां च श्मशानं गोपितं तथा ।
सम्पीड्य नरकं याति यावदाभूतसम्प्लवम् ॥ ४१ ॥

ऊषरे निर्जले स्थाने प्रास्तं सस्यं विवर्जयेत् ।
जलाधारस्य कर्तव्यो व्यासस्य वचनं यथा ॥ ४२ ॥

पञ्च कन्यानृतं हन्ति दश हन्ति गवानृतम् ।
शतमश्वानृतं हन्ति सहस्रं पुरुषानृतम् ॥ ४३ ॥

हन्ति जातानजातश्च हिरण्यार्थेऽनृतं वदन् ।
सर्वं भूम्यनृतं हन्ति मा स्म भूम्यनृतं वदीः ॥ ४४ ॥

ब्रह्मस्वे न रतिं कुर्यात्प्राणैः कण्ठगतैरपि ।
अनौषधमभैषज्यं विषमेतद्धलाहलम् ॥ ४५ ॥

न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते ।
विषमेकाकिनं हन्ति ब्रह्मस्वं पुत्रपौत्रकम् ॥ ४६ ॥

लोहचूर्णाश्मचूर्णं च विषं च जरयेन्नरः ।
ब्रह्मस्वं त्रिषु लोकेषु कः पुमाञ्जरयिष्यति ॥ ४७ ॥

मन्युप्रहरणा विप्रा राजानः शस्त्रपाणयः ।
शस्त्रमेकाकिनं हन्ति ब्रह्ममन्युः कुलत्रयम् ॥ ४८ ॥

मन्युप्रहरणा विप्राश्चक्रप्रहरणो हरिः ।
चकात्तीव्रतरो मन्युस्तस्माद्विप्रं न कोपयेत् ॥ ४९ ॥

अग्निदग्धाः प्ररोहन्ति सूर्यदग्धास्तथैव च ।
मन्युदग्धस्य विप्राणामङ्कुरो न प्ररोहति ॥ ५० ॥

तेजसाग्निश्च दहति सूर्यो दहति रश्मिना ।
राजा दहति दण्डेन विप्रो दहति मन्युना ॥ ५१ ॥

ब्रह्मस्वेन तु यत्सौख्यं देवस्वेन तु या रतिः ।
तद्धनं कुलनाशाय भवत्यात्मविनाशनम् ॥ ५२ ॥

ब्रह्मस्वं ब्रह्महत्या च दरिद्रस्य च यद्धनम् ।
गुरुमित्रहिरण्यं च स्वर्गस्थमपि पीडयेत् ॥ ५३ ॥

ब्रह्मस्वेन तु यच्छिद्रं तच्छिद्रं न प्ररोहति ।
प्रच्छादयति तच्छिद्रमप्यत्र तु विसर्पति ॥ ५४ ॥

ब्रह्मस्वेन तु पुष्टानि साधनानि बलानि च ।
सङ्ग्रामे तानि लीयन्ते सिकतासु यथोदकम् ॥५५ ॥

श्रोत्रियाय कुलीनाय दरिद्राय च वासव ।
सन्तुष्टाय विनीताय सर्वभूतहिताय च ॥ ५६ ॥

वेदाभ्यासस्तपो ज्ञानमिन्द्रियाणां च संयमः ।
ईदृशाय सुरश्रेष्ठ यद्दत्तं हि तदक्षयम् ॥ ५७ ॥

आमपात्रे यथा न्यस्तं क्षीरं दधि घृतं मधु ।
विनश्येत्पात्रदौर्बल्यात्तच्च पात्रं विनश्यति ॥ ५८ ॥

एवं गां च हिरण्यं च वस्त्रमन्नं महीं तिलान् ।
अविद्वान्प्रतिगृह्णाति भस्मीभवति काष्ठवत् ॥ ५९ ॥

यस्य चैव गृहे मूर्खो दूरे चापि बहुश्रुतः ।
बहुश्रुताय दातव्यं नास्ति मूर्खे व्यतिक्रमः ॥ ६० ॥

कुलं तारयते धीरः सप्त सप्त च वासव ॥ ६१ ॥

यस्तडागं नवं कुपीत्पुराणं वापि खानयेत् ।
स सर्व कुलमुद्धृत्य स्वर्गलोके महीयते ॥ ६२ ॥

वापीकूपतडागानि उद्यानोपवनानि च ।
पुनः संस्कारकर्ता च लभते मौक्तिकं फलम् ॥ ६३ ॥

निदाघकाले पानीयं यस्य तिष्ठति वासव ।
स दुर्गविषमं कृत्स्नं न कदाचिदवाप्नुयात् ॥ ६४ ॥

एकाहं तु स्थितं तोयं पृथिव्यां राजसत्तम ।
कुलानि तारयेत्तस्यसप्त सप्त पराण्यपि ॥ ६५ ॥

दीपालोकप्रदानेन वपुष्मान्स भवन्नरेः ।
प्रेक्षणीयप्रदानेन स्मृतिं मेधां च विन्दति ॥ ६६ ॥

कृत्वापि पापकर्माणि यो दद्यादन्नमर्थिने ।
ब्राह्मणाय विशेषेण न स पापेन लिप्यते ॥ ६७ ॥

भूमिर्गावस्तथा दाराः प्रसह्य ह्रियते यदा ।
न चावेदयते यस्तु तमाहुर्ब्रह्मघातकम् ॥ ६८ ॥

निवेदितश्च राजा वै ब्राह्मणैर्मन्युदीपितैः ।
न निवारयते यस्तु तमाहुर्ब्रह्मघातकम् ॥ ६९ ॥

उपस्थिते विवाहे च यज्ञे दाने च वासव ।
मोहाच्चरति विघ्नं यः स मृतो जायते कृमिः ॥ ७० ॥

धनं फलति दानेन जीवितं जीवरक्षणात् ।
रूपमारोग्यमैश्वर्यमहिंसाफलमश्नुते ॥ ७१ ॥

फलमूलाशनात्पूजा स्वर्गस्सत्येन लभ्यते ।
प्रायोपवेशनाद्राज्यं सर्वं च सुखमश्नुते ॥ ७२ ॥

गवाढ्यः शक्र दीक्षायाः स्वर्गगामी तृणाशनः ।
स्त्रियस्त्रिषवणस्नायी वायुं पीत्वा क्रतुं लभेत् ॥ ७३ ॥

नित्यस्नायी भवेदर्कः सन्ध्ये द्वे च जपन्द्विजः ।
नवं साधयते राज्यं नाकपृष्ठमनाशकम् ॥ ७४ ॥

अग्निप्रवेशे नियतं ब्रह्मलोके महीयते ।
रसनाप्रतिसंहारे पशून्पुत्रांश्च विन्दति ॥ ७५ ॥

नाके चिरं स वसते उपवासी च यो भवेत् ।
सततं चैकशायी यः स लभेतेप्सितां गतिम् ॥ ७६ ॥

वीरासनं वीरशय्यां वीरस्थानमुपाश्रितः ।
अक्षय्यास्तस्य लोकाः स्युस्सर्वकामागमास्तथा ॥७७॥

उपवासं च दीक्ष चाअभिषेकं च वासव ।
कृत्वा द्वादशवर्षाणि वीरस्थानाद्विशिष्यते ॥ ७८ ॥

अधीत्य सर्ववेदान्वै सद्यो दुःखात्प्रमुच्यते ।
पावनं चरते धर्मं स्वर्गलोके महीयते ॥ ७९ ॥

बृहस्पतिमतं पुण्यं ये पठन्ति द्विजातयः ।
चत्वारि तेषां वर्द्धन्ते आयुर्विद्या यशो बलम् ॥ ८० ॥

इति श्रीबृहस्पतिप्रणीतं धर्मशास्त्रं समाप्तम् ॥ १० ॥

<MISSING_FIG href="../books_images/1681204855.jpg"/>

। श्रीः।