<MISSING_FIG href="../books_images/1680946434.jpg"/>
अथौशनसं धर्मशास्त्रम् ॥ उशना उवाच ।
अतः परं प्रवक्ष्यामि जातिवृत्तिविधानकम् ।
अनुलोमविधानं च प्रतिलोमविधिं तथा ॥ १ ॥
सान्तरालकसंयुक्तं सर्वं सङ्क्षिप्य चोच्यते ।
नृपाद्ब्राह्मणकन्यायां विवाहेषु समन्वयात् ॥ २॥
जातः सूतोऽत्र निर्द्दिष्टः प्रतिलोमविधिर्द्विजः ।
वेदानर्हस्तथा चैषां धर्माणामनुबोधकः ॥ ३ ॥
सूताद्विप्रप्रसूतायां सुतो वेणुक उच्यते ।
नृपायामेव तस्यैव जातो यश्चर्मकारकः ॥ ४ ॥
ब्राह्मण्यां क्षत्रियाच्चौर्याद्रथकारः प्रजायते ।
वृत्तं च शूद्रवत्तस्य द्विजत्वं प्रतिषिध्यते ॥ ५ ॥
यानानां ये च वोढारस्तेषां च परिचारकाः ।
शूद्रवृत्त्यातु जींवति न क्षात्रं धर्ममाचरेत् ॥ ६॥
ब्राह्मण्यां वैश्यसंसर्गाज्जातो मागध उच्यते ।
बन्दित्वं ब्राह्मणानां च क्षत्रियाणां विशेषतः ॥ ७ ॥
प्रशंसावृत्तिको जीवेद्वैश्यप्रेष्यकरस्तथा ।
ब्राह्मण्यां शूद्रसंसर्गाज्जातश्चण्डाल उच्यते ॥ ८ ॥
सीसमाभरणं तस्य कार्ष्णायसमथापि वा ।
वध्रीकण्ठे समाबद्ध्य झल्लरीं कक्षतोऽपि वा ॥ ९॥
मलापकर्षणं ग्रामे पूर्वाह्णेपरिशुद्धिकम् ।
नापराह्णेप्रविष्टोऽपि बहिर्ग्रामाच्च नैर्ऋते ॥१०॥
पिण्डीभूता भवन्त्यत्र नो चेद्वध्या विशेषतः ।
चण्डालाद्वैश्यकन्यायां जातः श्वपच उच्यते ॥ ११ ॥
श्वमांसभक्षणं तेषां श्वान एव च तद्बलम् ।
नृपायां वैश्यसंसर्गादायोगव इति स्मृतः ॥ १२ ॥
तन्तुवाया भवन्त्येव वसुकांस्योपजीविनः ।
शीलिकाः केचिदत्रैव जीवनं वस्त्रनिर्मिते ॥ १३ ॥
आयोगवेन विप्रायां जातास्ताम्रोपजीविनः ।
तस्यैव नृपकन्यायां जातः सूनिक उच्यते ॥ १४ ॥
सूनिकस्य नृपायां तु जाता उद्बन्धकाः स्मृताः ।
निर्णेजयेयुर्वस्त्राणि अस्पृश्याश्च भवन्त्यतः ॥ १५ ॥
नृपायां वैश्यतश्चौर्यात्पुलिन्दः परिकीर्तितः ।
पशुवृत्तिर्भवेत्तस्य हन्युस्तान्दुष्टसत्त्वकान् ॥ १६ ॥
नृपायां शूद्रसंसर्गाज्जातः पुल्कस उच्यते ।
सुरावृतिं समारुह्य मधुविक्रयकर्म्मणा ॥ १७ ॥
कृतकानां सुराणां च विक्रेता पाचको भवेत् ।
पुल्कसाद्वैश्यकन्यायां जातो रजक उच्यते ॥ १८ ॥
नृपायां शूद्रतश्चौर्य्याज्जातो रञ्जक उच्यते ।
वैश्यायां रञ्जकाज्जातो नर्त्तको गायको भवेत् ॥ १९॥
वैश्यायां शूद्रसंसर्गाज्जातोवैदेहिकः स्मृतः ।
अजानां पालनं कुर्य्यान्महिषीणां गवामपि ॥ २० ॥
दधिक्षीराज्यतक्राणां विक्रयाज्जीवनं भवेत् ।
वैदेहिकात्तु विप्रायां जाताश्चर्मोपजीविनः ॥ २१ ॥
नृपायामेव तस्यैव सूचिकः पाचकः स्मृतः ।
वैश्यायां शूद्रतश्चौर्य्याज्जातश्चक्री स उच्यते ॥ २२ ॥
तैलपिष्टकजीवी तु लवणं भावयन्पुनः ।
विधिना ब्राह्मणः प्राप्य नृपायां तु समन्त्रकम् ॥ २३ ॥
जातः सुवर्ण इत्युक्तः सानुलोमद्विजः स्मृतः ।
अथ वर्णकियां कुर्वन्नित्यनैमित्तिकीं क्रियाम् ॥ २४ ॥
अश्वं रथं हस्तिनं च वाहयेद्वा नृपाज्ञया ।
सैनापत्यं च भैषज्यं कुर्याज्जीवेत्तु वृद्धिषु ॥ २५ ॥
नृपायां विप्रतश्चौर्य्यात्सञ्जातो यो भिषक्स्मृतः ।
अभिषिक्तनृपस्याज्ञां परिपाल्येत्तु वैद्यकम् ॥ २६ ॥
आयुर्वेदमथाष्टाङ्गं तन्त्रोक्तं धर्ममाचरेत् ।
ज्योतिषं गणितं वापि कायिकीं वृद्धिमाचरेत् ॥ २७॥
नृपायां विधिना विप्राज्जातो नृप इति स्मृतः ।
नृपायां नृपसंसर्गात्प्रमादाद्गूढजातकः ॥ २८ ॥
सोऽपि क्षत्रिय एव स्यादभिषेके च वर्जितः ।
अभिषेकं विना प्राप्य गोज इत्यभिधायकः ॥ २९॥
सर्वं तु राजवृत्तस्य शस्यते पदवन्दनम् ।
पुनर्भूकरणे राज्ञां नृपकालीन एवच ॥ ३० ॥
वैश्यायां विधिना विप्राज्जातो ह्यञ्चष्ठ उच्यते ।
कृष्णाजीवी भवेत्तस्य तथैवाग्नेयवृत्तिकः॥ ३१ ॥
ध्वजिनी जीविका वापि अम्बष्ठाः शस्त्रजीविनः ।
वैश्यायां विप्रतश्चौर्यात्कुम्भकारः स उच्यते ॥ ३२ ॥
कुलालवृत्त्या जीवेत नापिता वा भवन्त्यतः ।
सूतके प्रेतके वापि दीक्षाकालेऽथ वापनम् ॥ ३३ ॥
नाभेरूर्ध्वं तु वपनं तस्मान्नापित उच्यते ।
कायस्थ इति जीवेत्तु विचरेच्च इतस्ततः ॥ ३४ ॥
काकाल्लौल्यं यमात्क्रौर्यं स्थपतेरथ कृन्तनम् ।
आद्यक्षराणि सङ्गृह्य कायस्थ इति कीर्तितः ॥ ३५ ॥
शूद्रायां विधिना विप्राज्जातः पारशवो मतः ।
भद्रकादीन्समाश्रित्य जीवेयुः पूतकाः स्मृताः ॥ ३६ ॥
शिवाद्यागमविद्याद्यैस्तथा मण्डलवृत्तिभिः ।
तस्यां वै चौरसो वृत्तो निषादो जात उच्यते ।
वने दुष्टमृगान्हत्वा जीवनं मांसविक्रयः ॥ ३७ ॥
नृपाज्जातोऽथ वैश्यायां गृह्यायां विधिना सुतः ।
वैश्यवृत्त्या तु जीवेत क्षत्रधर्म्मं न चारयेत् ॥ ३८ ॥
तस्यां तस्यैव चौर्येण मणिकारः प्रजायते ।
मणीनां राजतां कुर्य्यान्मुक्तानां वेधनक्रियाम् ।
प्रवालानां च सूत्रित्वं शाखानां वलयक्रियाम् ॥३९॥
शूद्रस्य विप्रसंसर्गाज्जात उग्र इति स्मृतः ।
नृपस्य दण्डधारः स्याद्दण्डं दण्ड्येषु सञ्चरेत् ॥ ४० ॥
तस्यैव चावसंवृत्त्या जातः शुण्डिक उच्यते ।
जातदुष्टान्समारोप्य शुण्डाकर्मणि योजयेत् ॥ ४१ ॥
शूद्रायां वैश्यसंसर्गाद्विधिना सूचिकः स्मृतः ॥ ४२ ॥
सूचिकाद्विप्रकन्यायां जातस्तक्षक उच्यते ।
शिल्पकर्माणि चान्यानि प्रासादलक्षणं तथा ॥ ४३॥
नृपायामेव तस्यैव जातो यो मत्स्यबन्धकः ।
शूद्रायां वैश्यतश्चौर्य्यात्कटकार इति स्मृतः ॥ ४४ ॥
वशिष्ठशापात्त्रेतायां केचित्पारशवास्तथा ।
वैखानसेन केचित्तु केचिद्भागवतेन च ॥ ४५ ॥
वेदशास्त्रावलम्बास्ते भविष्यन्ति कलौ युगे ।
कटकारास्ततः पश्चान्नारायणगणाः स्मृताः ॥ ४६ ॥
शाखा वैखानसेनोक्तास्तन्त्रमार्गविधिक्रियाः ।
निषेकाद्याः श्मशानान्ताः क्रियाः पूजाङ्गसूचिकाः ॥४७॥
पञ्चरात्रेण वा प्राप्तं प्रोक्तं धर्मंसमाचरेत् ।
शूद्रादेव तु शूद्रायां जातः शूद्र इति स्मृतः ॥ ४८ ॥
द्विजशुश्रूषणपरः पाकयज्ञपरान्वितः ।
सच्छूद्रं तं विजानीयादसच्छूद्रस्ततोऽन्यथा ॥ ४९ ॥
चौर्यात्काकवचो ज्ञेयश्चाश्वानां तृणवाहकः ॥ ५० ॥
एतत्सङ्क्षेपतः प्रोक्तं जातिवृत्तिविभागशः ।
जात्यन्तराणि दृश्यन्ते सङ्कल्पादित एव तु ॥ ५१ ॥
इत्यौशनसं धर्मशास्त्रं समाप्तम् ॥ ४ ॥
औशनसी स्मृतिः समाप्ता ४.
<MISSING_FIG href="../books_images/1680947245.jpg"/>
<MISSING_FIG href="../books_images/1680947296.jpg"/>
** ॥श्रीः॥**