अथ अत्रिस्मृतिः १
हुताग्निहोत्रमासीनमत्रिं वेदविदां वरम् ।
सर्वशास्त्रविधिज्ञं तमृषिभिश्च नमस्कृतम् ॥ १ ॥
नमस्कृत्य च ते सर्व इदं वचनमब्रुवन् ।
हितार्थं सर्वलोकानां भगवन्कथयस्व नः ।
अत्रिरुवाच ।
वेदशास्त्रार्थतत्त्वज्ञा यन्मे पृच्छथ संशयम् ।
तत्सर्वं सम्प्रवक्ष्यामि यथादृष्टं यथाश्रुतम् ॥ ३ ॥
स1र्वतीर्थान्युपस्पृश्य सर्वान्देवान्प्रणम्य च ।
जप्त्वातु सर्वसूक्तानि सर्वशास्त्रानुसारतः ॥ ४ ॥
सर्वपापहरं दिव्यं सर्वसंशयनाशनम् ।
चतुर्णामपि वर्णानामत्रिः शास्त्रमकल्पयत् ॥ ५ ॥
ये च पापकृतो लोके ये चान्ये धर्मदूषकाः ।
सर्वपापैः प्रमुच्यन्ते श्रुत्वेदं शास्त्रमुत्तमम् ॥ ६ ॥
तस्मादिदं वेदविद्भिरध्येतव्यं प्रयत्नतः ।
शिष्येभ्पश्च प्रवक्तव्यं सद्वृत्तेभ्यश्च धर्मतः ॥ ७ ॥
अकुलीने ह्यसद्वृत्ते जडे शूद्रे शठे द्विजे ।
एतष्वेव न दातव्यमिदं शास्त्रं द्विजोत्तमैः ॥ ८ ॥
एकमप्यक्षरं यस्तु गुरुः शिष्ये निवेदयेत् ।
पृथिव्यां नास्ति तद्द्रव्यं यद्दत्त्वा ह्यनृणी भवेत् ॥ ९ ॥
एकाक्षरप्रदातारं यो गुरुं नाभिमन्यते ।
शुनां योनिशतं गत्वा चाण्डालेष्वभिजायते ॥ १० ॥
वेदं गृहीत्वा यः कश्चिच्छास्त्रं चैवावमन्यते ।
स सद्यः पशुतां याति सम्भवानेकविंशतिम् ॥ ११ ॥
स्वानि कर्माणि कुर्वाणा दूरे सन्तोऽपि मानवाः ।
प्रिया भवन्ति लोकस्य स्वेस्वे कर्मण्युपस्थिताः॥ १२ ॥
कर्म विप्रस्य यजनं दानमध्ययनं तपः ।
प्रतिग्रहोऽध्यापनं च याजनं चेति वृत्तयः ॥ १३ ॥
क्षत्रियस्यापि यजनं दानमध्ययनं तपः ।
शस्त्रोपजीवनं भूतरक्षणं चेति वृत्तयः ॥ १४ ॥
दानमध्ययनं वार्ता यजनं चेति वै विशः ।
शूद्रस्य वार्ता शुश्रूषा द्विजानां कारुकर्म च ॥ १५ ॥
तदेतत्कर्माभिहितं संस्थिता यत्र वर्णिनः ।
बहुमानमिह प्राप्य प्रयान्ति परमां गतिम् ॥ १६ ॥
ये व्यपेताः स्वधर्माच्च परधर्मेष्ववस्थिताः ।
तेषां शा2स्तिकरो राजा स्वर्गलोके महीयते ॥ १७ ॥
आत्मीये संस्थितो धर्मे शूद्रोऽपि स्वर्गमश्नुते ।
परधर्मो भवेत्त्याज्यः सुरूपपरदारवत् ॥ १८ ॥
वध्यो राज्ञा स वै शूद्रो जपहोमपरश्च यः ।
यतो राष्ट्रस्य हन्तासौयथा वह्नेश्चवै जलम् ॥ १९ ॥
प्रतिग्रहोऽध्यापनं च तथाऽविक्रेयविक्रयः ।
याज्यं चतुर्भिरप्येतैः क्षयविट्पतनं स्मृतम् ॥ २० ॥
सद्यः पतति मांसेन लाक्षया लवणेन च ।
त्र्यहेण शूद्रो भवति ब्राह्मणः क्षीरविक्रयी ॥ २१ ॥
अव्रताश्चानधीयाना यत्र भैक्ष्यचरा द्विजाः ।
तं ग्रामं दण्डयेद्राजा चौरभक्तददण्डवत् ॥ २२ ॥
विद्वद्भोज्यमविद्वांसो येषु राष्ट्रेषु भुञ्जते ।
ते3ष्वनावृष्टिमिच्छन्ति महद्वा जायते भयम् ॥ २३ ॥
ब्राह्मणान्वेदविदुषः सर्वशास्त्रविशारदान् ।
तत्र वर्षति पर्जन्यो यत्रैतान्पूजयेन्नृपः ॥ २४ ॥
त्रयो लोकास्त्रयो वेदा आश्रमाश्च त्रयोऽग्नयः ।
एतेषां रक्षणार्थाय संसृष्टा ब्राह्मणाः पुरा॥ २५॥
उभे सन्ध्ये समाधाय मौनं कुर्वं4ति ते द्विजाः ।
दिव्यवर्षसहस्राणि स्वर्गलोके म5हीयते ॥ २६ ॥
य एवं कुरुते राजा गुणदोषपरीक्षणम् ।
यशः स्वर्गे नृपत्वं च पुनः कोशं च सोऽर्जयेत् ॥ २७ ॥
दुष्टस्य दण्डः सुजनस्य पूजा न्यायेन कोशस्यच सम्प्रवृद्धिः ।
अपक्षपातोऽर्थिषु राष्ट्ररक्षा पञ्चैव यज्ञाः कथिता नृपाणाम् ॥ २८ ॥
यत्प्रजापालने पुण्यं प्राप्नुवन्तीह पार्थिवाः ।
नतु क्रतुसहस्रेण प्राप्नुवन्तिद्विजोत्तमाः॥ २९॥
अलाभे देवखातानां हृदेषु सरसीषु च ।
उद्धृत्य चतुरः पिण्डान्पा6रक्ये स्नानमाचरेत् ॥ ३० ॥
वसा शुक्रमसृङ्मज्जा मूत्रं विट् कर्णविण्नखाः ।
श्लेष्मास्थि दूषिका स्वेदो द्वादशैते नृणां मलाः ॥ ३१ ॥
षण्णां षण्णाङ्क्रमेणैव शुद्धिरुक्ता मनीषिभिः ।
मृद्वारिभिश्चपूर्वेषामुत्तरेषां तु वारिणा॥ ३२॥
शौचमङ्गलानायासा अनसूयाऽस्पृहा दमः ।
लक्षणानि च विप्रस्यतथा दानं दयापि च ॥ ३३ ॥
अभक्ष्यपरिहारश्च संसर्गश्चाप्यनिन्दितैः ।
आचारेषु व्यवस्थानं शौचमित्यभिधीयते ॥ ३४ ॥
प्रशस्ताचरणं नित्यमप्रशस्तविवर्जनम् ।
एतद्धि मङ्गलं प्रोक्तमृषिभिर्धर्मवादिभिः ॥ ३५ ॥
शरीरं पीड्यते येन शुभेन ह्यशुभेन वा ।
अत्यन्तं तन्न कुर्वीत अनायासः स उच्यते ॥ ३६ ॥
न गुणान्गुणिनो हन्ति स्तौति चान्यान्गुणानपि ।
न हसेच्चान्यदोषांश्च साऽनसूया प्रकीर्तिता ॥ ३७ ॥
यथोत्पन्नेन कर्तव्यः सन्तोषः सर्ववस्तुषु ।
न स्पृहेत्परदारेषु साऽस्पृहा च प्रकीर्तिता ॥ ३८ ॥
बाह्य आध्यात्मिके वापि दुःख उत्पादिते परैः ।
न कुप्यति न चाहन्ति दम इत्यभिधीयते ॥ ३९ ॥
अहन्यहनि दातव्यमदीनेनान्तरात्मना ।
स्तोकादपि प्रयत्नेन दानमित्यभिधीयते ॥ ४० ॥
परस्मिन्बन्धुवर्गे वा मित्रे द्वेष्ये रिपौ तथा।
आत्मवद्वर्तितव्यं हि दयैषा परिकीर्तिता ॥ ४१ ॥
यश्चैतैर्लक्षणैर्युक्तोगृहस्थोऽपि भवेद्द्विजः ।
स गच्छति परं स्थानं जायते नेह वै पुनः ॥ ४२ ॥
इष्टापूर्तञ्च कर्तव्यम्ब्राह्मणेनैव यत्नतः ।
इष्टेन लभते स्वर्गं पूर्ते मोक्षो विधीयते॥ ४३।
अग्निहोत्रं तपः सत्यं वेदानां चैव पालनम् ।
आतिथ्यं वैश्वदेवश्चइष्टमित्यभिधीयते ॥ ४४ ॥
वापीकूपतडागादिदेवतायतनानि च ।
अन्नप्रदानमारामः पूर्तमित्यभिधीयते ॥ ४५ ॥
इष्टापूर्ते द्विजातीनां सामान्ये धर्मसाधने ।
अधिकारी भवेच्छूद्रः पूर्ते धर्मे न वैदिके ॥ ४६ ॥
यमान्सेवेत सततं न नित्यं नियमान्बुधः ।
यमान्पतत्यकुर्वाणो नियमान्केवलान्भजन् ॥ ४७ ॥
आनृशंस्यं क्षमा सत्यमहिंसा दानमार्जवम् ।
प्रीतिः प्रसादो माधुर्य्यम्मार्दवं च यमा दश ॥ ४८ ॥
शौचमिज्या तपो दानं स्वाध्यायोपस्थनिग्रहौ ।
व्रतमौनोपवासं च स्नानं च नियमा दश ॥ ४९ ॥
प्रतिनिधिं कुशमयं तीर्थवारिषु मज्जति ।
यमु7द्दिश्य निमज्जेत अष्टभागं लभेत सः8॥ ५० ॥
मातरं पितरं वापि भ्रातरं सुहृदं गुरुम् ।
यमुद्दिश्य निमज्जेत द्वादशांशफलं भवेत् ॥ ५१ ॥
अपुत्रेणैव कर्तव्यः पुत्रप्रतिनिधिः सदा ।
पिण्डोदकक्रियाहेतोर्यस्मात्तस्मात्प्रयत्नतः ॥ ५२ ॥
पिता पुत्रस्य जातस्य पश्येच्चेज्जीवतो मुखम् ।
ऋणमस्मिन्सन्नयति अमृतत्वं च गच्छति ॥ ५३ ॥
जातमात्रेण पुत्रेण पितॄणामनृणी पिता ।
तदह्नि शुद्धिमाप्नोति नरकात्त्रायते हि सः ॥ ५४ ॥
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ।
यजते चाश्वमेधं च नीलं वा वृषसुत्सृजेत् ॥ ५५ ॥
काङ्क्षन्ति पितरः सर्वे नरकान्तरभीरवः ।
गयां यास्यति यः पुत्रः स नस्त्राता भविष्यति ॥ ५६॥
फल्गुतीर्थे नरः स्नात्वा दृष्ट्वा देवं गदाधरम् ।
गयशीर्षं पदाक्रम्य मुच्यते ब्रह्महत्यया ॥ ५७ ॥
म9हानदीमुपस्पृश्य तर्पयेत्पितृदेवताः ।
अक्षयाल्ँलभते लोकान्कुलं चैव समुद्धरेत् ॥ ५८ ॥
शङ्कास्थाने समुत्पन्नेभक्ष्यभोज्यविवर्जिते ।
आहारशुद्धिं वक्ष्यामि तन्मे निगदतः शृणु ॥ ५९ ॥
अक्षारलवणं रौक्षं पिबेद्ब्राह्मीं सुवर्चलाम् ।
त्रिरात्रं शङ्खपुष्पीं वा ब्राह्मणः पयसा सह ॥ ६० ॥
मद्यभाण्डे द्विजः कश्चिदज्ञानात्पिबते जलम् ।
प्रायश्चित्तं कथं तस्य मुच्यते केन कर्मणा10॥ ६१ ॥
पालाशबिल्वपत्राणि कुशान्पद्मान्युदुम्बरम् ।
क्वाथयित्वा पिबेदापस्त्रिरात्रेणैव शुद्ध्यति ॥ ६२ ॥
सायं प्रातस्तु यः सन्ध्यां प्रमादाद्विक्र11मेत्सकृत् ।
गायत्र्यास्तु सहस्रं हि जपेत्स्नात्वा समाहितः ॥ ६३ ॥
रोगाक्रान्तोऽथवाऽऽयासात् स्थितः स्नानजपाद्बहिः ।
ब्रह्मक12ूर्चं चरेद्भक्त्या दानं दत्त्वा विशुद्ध्यति ॥ ६४ ॥
गवां शृङ्गोदके स्नात्वामहानद्युपसङ्गमे ।
समुद्रदर्शने चापि व्यालदष्टः शुचिर्भवेत् ॥ ६५ ॥
वृकश्वानशृगालैस्तु यदि दष्टस्तु ब्राह्मणः ।
हिरण्योदकसम्मिश्रं घृतं प्राश्य विशुद्ध्यति ॥ ६६ ॥
ब्राह्मणी तु शुना दष्टा जम्बुकेन वृकेण वा ।
उदितं ग्रहनक्षत्रं दृष्ट्वा सद्यः शुचिर्भवेत् ॥ ६७ ॥
सव्रतस्तु शुना दष्टस्त्रिरात्रमुपवासयेत् ।
सघृतं यावकं प्राश्य घृतशेषं समापयेत् ॥ ६८ ॥
मोहात्प्रमादात्संलोभाद्व्रतभङ्गं तु कारयेत् ।
त्रिरात्रेणैव शुद्ध्येत पुनरेव व्रती भवेत् ॥ ६९ ॥
ब्राह्मणानां यदुच्छिष्टमश्नात्यज्ञानतो द्विजः॥
दिनद्वयं तु गायत्र्या जपं कृत्वा विशुद्ध्यति ॥ ७० ॥
क्षत्रियान्नं यदुच्छिष्टमश्नात्यज्ञानतो द्विजः ।
त्रिरात्रेण भवेच्छुद्धिर्यथा क्षत्रे तथा विशि ॥ ७१ ॥
अभोज्यान्नं तु भु13क्तान्नं स्त्रीशूद्रोच्छिष्टमेव वा ।
जग्ध्वा मांसमभक्ष्यं च सप्तरात्रं यवान्पिबेत् ॥ ७२ ॥
असंस्पृश्येन संस्पृष्टः स्नानं तेन विधीयते ।
तस्य चोच्छिष्टमश्नीयात्षण्मासान्कृच्छ्रमाचरेत्॥ ७३ ॥
अज्ञानात्प्राश्य विण्मूत्रं सुरासंस्पृष्टमेव वा ।
पुनः संस्कारमर्हान्ति त्रयो वर्णा द्विजातयः ॥ ७४ ॥
वपनं मेखला दण्डं भैक्ष्यचर्यं व्रतानि च ।
निवर्तन्ते द्विजातीनां पुनःसंस्कारकर्मणि ॥ ७५ ॥
गृहशुद्धिम्प्रवक्ष्यामि अन्तःस्थशवदूषिताम् ।
प्रत्याज्यं मृन्मयं भाण्डं सिद्धमन्नं तथैव च ॥ ७६ ॥
गृहान्निष्क्रम्य तत्सर्वं गोमयेनोपलेपयेत् ।
गोमयेनोपलिप्याथ छा14गेनाघ्रापयेत्पुनः ॥ ७७ ॥
ब्राह्मैर्मन्त्रैस्तु पूतन्तु हिरण्यकुशवारिभिः ।
तेनैवाभ्युक्ष्य तद्वेश्म शुध्यते नात्र संशयः ॥ ७८ ॥
राजन्यैः श्वपचैर्वापि बलाद्विचलितो द्विजः॥
पुनः कुर्वीत संस्कारं पश्चात्कृच्छ्रत्रयं चरेत् ॥ ७९ ॥
शुना चैव तु संस्पृष्टस्तस्यस्नानं बिधीयते ।
तदुच्छिष्टं तु सम्प्राश्य यत्नेन कृच्छ्रमाचरेत् ॥ ८० ॥
अतः परं प्रवक्ष्यामि सूतकस्य विनिर्णयम् ।
प्रायश्चित्तं पुनश्चैवकथयिष्याम्यतः परम् ॥ ८१ ॥
एकाहाच्छुद्ध्यते विप्रो योऽग्निवेदसमन्वितः ।
त्र्यहात्केवलवेदस्तु निर्गुणो दशभिर्दिनैः ॥ ८२ ॥
व्रतिनः शास्त्रपूतस्य आहिताग्नेस्तथैव च ।
राज्ञां तु सूतकं नास्ति यस्य चेच्छन्ति ब्राह्मणाः ॥ ८३॥
ब्राह्मणो दशरात्रेण द्वादशाहेन भूमिपः ।
वैश्यः पञ्चदशाहेन शूद्रो मासेन शुद्ध्यति ॥ ८४ ॥
सपिण्डानां तु सर्वेषां गोत्रजः सप्तपौरुषः ।
पिण्डांश्चोदकदानं च शावशौचं तथानुगम् ॥ ८५ ॥
चतुर्थे दशरात्रं स्यात्षडहः पञ्चमे तथा ।
षष्ठे चैव त्रिरात्रं स्यात्सप्तमे त्र्यहमेव वा ॥ ८६ ॥
मृतसूतके तु दासीनां पत्नीनां चानुलोमिनाम् ।
स्वामितुल्यं भवेच्छौचं मृते भर्तरि यौनिकम् ॥ ८७ ॥
शवस्पृष्टुं तृतीये तु सचैल स्नानमाचरेत् ।
चतुर्थे सप्तभिक्षं स्यादेष शावविधिः स्मृतः ॥ ८८ ॥
एकत्र संस्कृतानां तु मातृृणामेकभोजिनाम् ।
स्वामितुल्यं भवेच्छौचं विभक्तानां पृथक्पृथक् ॥ ८९ ॥
उष्ट्रीक्षीरमवीक्षीरं पक्वान्नं मृतसूतके ।
पाचकान्नं नवश्राद्धं भुक्त्वा चान्द्रायणं चरेत् ॥ ९० ॥
सूतकान्नमधर्माय यस्तु प्राश्नाति मानवः ।
त्रिरात्रमुपवासः स्यादेकरात्रं जले वसेत् ॥ ९१ ॥
महायज्ञविधानं तु न कुर्यान्मृतजन्मनि ।
होमं तत्र प्रकुर्वीत शुष्कान्नेन फलेन वा ।
बालस्त्वन्तर्द्दशाहे तु पञ्चत्वं यदि गच्छति ॥ ९२ ॥
सद्य एव विशुद्धिःस्यान्न प्रेतं नैव सूतकम् ॥ ९३॥
कृतचूडे प्रकुर्वीत उदकं पिण्डमेव च ।
स्वधाकारं प्रकुर्वीत नामोच्चारणमेव च ॥ ९४ ॥
ब्रह्मचारी यतिश्चैव मन्त्रे पूर्वकृते तथा ।
यज्ञे विवाहकाले च सद्यः शौचं विधीयते ॥ ९५ ॥
विवाहोत्सवयज्ञेषु अन्तरा मृतसूतके ।
पूर्वसङ्कल्पितार्थस्य न दोषश्चात्रिरब्रवीत् ॥ ९६ ॥
मृतसञ्जननोर्द्वन्तु सूतकादौ विधीयते ।
स्पर्शनाचमनाच्छुद्धिः सूतिकां चेन्न संस्पृशेत् ॥ ९७ ॥
पञ्चमेऽहनि विज्ञेयं संस्पर्शङ्क्षत्रियस्य तु ।
सप्तमेऽहनि वैश्यस्य विज्ञेयं स्पर्शनं बुधैः ॥ ९८ ॥
दशमेऽहनि शूद्रस्यकर्तव्यं स्पर्शनं बुधैः ।
मासेनैवात्मशुद्धिः स्यात्सूतके मृतके तथा ॥ ९९ ॥
व्याधितस्य कदर्यस्य ऋणग्रस्तस्य सर्वदा ।
क्रियाहीनस्य मूर्खस्य स्त्रीजितस्य विशेषतः ॥ १०० ॥
व्यसनासक्तचित्तस्यपराधीनस्य नित्यशः ।
श्राद्धत्यागविहीनस्य भस्मान्तंसूतकं भवेत् ॥ १०१ ॥
द्वे कृच्छ्रेपरिवित्तेस्तु कन्यायाः कुच्छ्रमेवच ।
कृच्छ्रातिकृच्छ्रं मातुः स्यात्पितुः सान्तपनङ्कृतम् ॥ १०२॥
कुब्जवामनषण्ढेषुगद्गदेषु जडेषु च ।
जात्यन्धे बधिरे मूके न दोषः परिवेदने ॥ १०३ ॥
क्लीबेदेशान्तरस्थे च पतिते व्रजितेऽपि वा ।
योगशास्त्राभियुक्ते च न दोषः परिवेदने ॥ १०४ ॥
पिता पितामहो यस्य अग्रजो वापि कस्यचित् ।
अग्निहोत्राधिकार्यस्ति न दोषः परिवेदने ॥ १०५ ॥
भार्यामरणपक्षे वा देशान्तरगतेऽपि वा ।
अधिकारी भवेत्पुत्रस्तथा पातकसंयुगे ॥ १०६ ॥
ज्येष्ठो भ्राता यदा नष्टो नित्यं रोगसमन्वितः ।
अनुज्ञातस्तु कुर्वीत शङ्खस्य वचनं यथा ॥ १०७ ॥
नाग्नयःपरिविन्दन्ति न वेदा न तपांसि च॥
न च श्राद्धं कनिष्ठो वै विना चैवाभ्यनुज्ञया ॥ १०८ ॥
तस्माद्धर्मं सदा कुर्याच्छ्रुतिस्मृत्युदितं च यत् ।
नित्यं नैमित्तिकं काम्यं यच्च स्वर्गस्य साधनम् ॥ १०९॥
एकैकं वर्द्धयेन्नित्यं शुक्लेकृष्णे च ह्रासयेत् ॥
अमावास्यां न भुञ्जीत एष चान्द्रायणो विधिः ॥ ११०॥
एकैकं ग्रासमश्नीयात्त्र्यहाणि त्रीणि पूर्ववत् ॥
त्र्यहं परं च नाश्नीयादतिकृच्छ्रं तदुच्यते ॥
इत्येतत्कथितं पूर्वैर्महापातकनाशनम् ॥ १११ ॥
वेदाभ्यासरतं क्षान्तं महायज्ञक्रियापरम् ॥
न स्पृशन्तीह पापानि महापातकजान्यपि ॥ ११२ ॥
बायुभक्षो दिवा तिष्ठेद्रात्रिं नीत्वाप्सु सूर्यदृक्॥
जप्त्वा सहस्रं गायत्र्याः शुद्धिर्ब्रह्मवधादृते ॥ ११३ ॥
पद्मोदुम्बरबिल्वाश्च कुशाश्वत्थपलाशकाः ॥
एतेषामुदकं पीत्वा पर्णकृच्छ्रन्तदुच्यते ॥ ११४ ॥
पञ्चगव्यं च गोक्षीरं दधि मूत्रं शकृद्घृतम्॥
जग्ध्वा परेऽह्न्युपवसेत्कृच्छ्रं सान्तपनं स्मृतम् ॥ ११५ ॥
पृथक्सान्तपनैर्द्रव्यैःषडहःसोपवासकः ॥
सप्ताहेन तु कृच्छ्रोऽयं महासान्तपनं स्मृतम् ॥ ११६ ॥
त्र्यहंसायं त्र्यहं प्रातस्त्र्यहम्भुङ्क्ते त्वयाचितम् ॥
त्र्यहं परं च नाश्नीयात्प्राजापत्योविधिः स्मृतः ॥११७॥
सायं तु द्वादश ग्रासाः प्रातः पञ्चदश स्मृताः ॥
अयाचितैश्चतुर्विंशं परैस्त्वनशनं स्मृतम् ॥ ११८ ॥
कुक्कुटाण्डप्रमाणं स्याद्यावद्वास्यविशेन्मुखे ॥
एतद्ग्रासं विजानीयाच्छुद्ध्यर्थं कायशोधनम् ॥ ११९ ॥
त्र्यहमुष्णं पिबेदापस्त्र्यहमुष्णं पिबेत्पयः ॥
त्र्यहमुष्णं घृतं पीत्वा वायुभक्षो दिनत्रये ॥ १२० ॥
षट्पलानि पिबेदापस्त्रिपलं तु पयः पिबेत् ॥
पलमेकं तु वै सर्पिस्तप्तकृच्छ्रं विधीयते ॥ १२१ ॥
त्र्यहं तु दधिना भुङ्क्ते त्र्यहं भुङ्क्तेच सर्पिषा ॥
क्षीरेण तु त्र्यहं भुङ्क्तेवायुभक्षोदिनत्रयम् ॥ १२२ ॥
त्रिपलं दधि क्षीरेण पलमेकं तु सर्पिषा ॥
एतदेव व्रतं पुण्यं वैदिकं कृच्छ्रमुच्यते ॥१२३ ॥
एकभुक्तेन नक्तेन तथैवायाचितेन च ॥
उपवासेन चैकेन पादकृच्छ्रं प्रकीर्तितम् ॥ १२४॥
कृच्छ्रातिकृच्छ्रःपयसा दिवसानेकविंशतिम् ॥
द्वादशाहोपवासेन पराकः परिकीर्तितः ॥१२५ ॥
पिण्याकश्चामतक्राम्बुसक्तूनाम्प्रतिवासरम् ॥
एकैकमुपवासः स्यात्सौम्यकृच्छ्रःप्रकीर्तितः ॥ १२६ ॥
एषां त्रिरात्रमभ्यासादेकैकस्य यथाक्रमम् ॥
तुलापुरुष इत्येष ज्ञेयः पञ्चदशाह्निकः ॥ १२७ ॥
कपिलायास्तु दुग्धाया धारोष्णं यत्पयः पिबेत् ॥
एष व्यासकृतः कृच्छ्रः श्वपाकमपि शोधयेत् ॥ १२८ ॥
निशायां भोजनं चैव तज्ज्ञेयं नक्तमेव तु ॥
अनादिष्टेषु पापेषु चान्द्रायणमथोदितम् ॥ १२९ ॥
अग्निष्टोमादिभिर्यज्ञैरिष्टैर्द्विगुणदक्षिणैः ॥
यत्फलं समवाप्नोति तथा कृच्छ्रैस्तपोधनाः ॥ १३० ॥
वेदाभ्यासरतः क्षान्तो नित्यं शास्त्राण्यवेक्षयेत् ॥
शौचमृद्वार्यभिरतो गृहस्थोऽपि हि मुच्यते ॥ १३१ ॥
उक्तमेतद्द्विजातीनां महर्षे श्रूयतामिति ॥
अतः परं प्रवक्ष्यामि स्त्रीशूद्रपतनानि च ॥१३२ ॥
जपस्तपस्तीर्थयात्रा प्रव्रज्या मन्त्रसाधनम् ॥
देवताराधनं चैव स्त्रीशूद्रपतनानि षट् ॥ १३३ ॥
जीवद्भर्तरि या नारी उपोष्य व्रतचारिणी ॥
आयुष्यं हरते भर्तुः सा नारी नरकं व्रजेत् ॥ १३४ ॥
तथिर्स्नानार्थिनी नारी पतिपादोदकं पिबेत् ॥
शङ्करस्यापि विष्णोर्वा प्रयाति परमं पदम् ॥ १३५ ॥
जीवद्भर्तरि वामाङ्गी मृते वापि सुदक्षिणे ॥
श्राद्धे यज्ञे विवाहे च पत्नी दक्षिणतः सदा ॥ १३६ ॥
सोमः शौचं ददौ तासां गन्धर्वाश्च तथाङ्गिराः ॥
पावकः सर्वमेध्यत्वं मेध्यत्वं योषितां सदा ॥ १३७॥
जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यते ॥
विद्यया याति विप्रत्वं श्रोत्रियस्त्रिभिरेव च ॥ १३८ ॥
वेदशास्त्राण्यधीते यः शास्त्रार्थं च निबोधयेत् ॥
तदासौवेदवित्प्रोक्तो वचनं तस्य पावनम् ॥ १३९ ॥
एकोऽपि वेदविद्धर्मं यं व्यवस्येद्द्विजोत्तमः ॥
स ज्ञेयः परमो धर्मो नाज्ञानामयुतायुतैः ॥ १४० ॥
पावका इव दीप्यन्ते जपहोमैर्द्विजोत्तमाः ॥
प्रतिग्रहेण नश्यन्ति वारिणा इव पावकः ॥ १४१ ॥
तान्प्रतिग्रहजान्दोषान्प्राणायामैर्द्विजोत्तमाः ॥
नाशयन्ति हि विद्वांसो वायुर्मेघानिवांवरे ॥ १४२ ॥
भुक्तमात्रो यदा विप्र आर्द्रपाणिस्तु तिष्ठति ॥
लक्ष्मीर्बलं यशस्तेज आयुश्चैव प्रहीयते ॥ १४३ ॥
यस्तु भोजनशालायामासनस्थ उपस्पृशेत् ॥
तच्चान्नं नैव भोक्तव्यं भुक्त्वा चान्द्रायणं चरेत् ॥१४४ ॥
पात्रोपरि स्थिते पात्रे यस्तु स्थाप्य उपस्पृशेत् ॥
तस्यान्नं नैव भोक्तव्यं भुक्त्वा चान्द्रायणं चरेत् ॥ १४५ ॥
अश्रद्धया च यद्दत्तं विप्रेऽग्नौदैविके क्रतौ ॥
न देवास्तृप्तिमायान्ति दातुर्भवति निष्फलम् ॥ १४६ ॥
हस्तं प्रक्षालयित्वा यः पिबेद्भुक्त्वा द्विजोत्तमः ॥
तदन्नमसुरैर्भुक्तं निराशाः पितरो गताः ॥ १४७ ॥
नास्ति वेदात्परं शास्त्रं नास्ति मातुः परो गुरुः ॥
नास्ति दानात्परं मित्रमिहलोके परत्र च ॥ १४८ ॥
अपात्रेष्वपि यद्दत्तं दहत्यासप्तमं कुलम् ॥
हव्यं देवा न गृह्णन्तिकव्यं च पितरस्तथा ॥ १४९ ॥
आयसेन तु पात्रेण यदन्नमुपदीयते ॥
श्वानविष्ठासमं भुङ्क्ते दाता च नरकं व्रजेत् ॥ १५० ॥
पैत्तलेन तु पात्रेण दीयमानं विचक्षणः ॥
न दद्याद्वामहस्तेन आयसेन कदाचन ॥ १५१ ॥
मृन्मयेषु च पात्रेषु यः श्राद्धे भोजयेत्पितॄन् ॥
अन्नदाता च भोक्ता च व्रजेतां नरकं च तौ ॥ १५२ ॥
अभावे मृन्मये दद्यादनुज्ञातस्तु तैर्द्विजैः ॥
तेषां वचः प्रमाणं स्याद्यदन्नं चातिरिक्तकम् ॥१५३॥
सौवर्णायसताम्रेषु कांस्यरौप्यमयेषु च ॥
भिक्षादातुर्न धर्मोऽस्ति भिक्षुर्भुङ्क्ते तु किल्बिषम् ॥ १५४ ॥
न च कांस्येषु भुञ्जीयादापद्यपि कदाचन ॥
मलाशाः सर्व एवैते यतयः कांस्यभोजनाः ॥ १५५ ॥
कांस्यकस्य च यत्पात्रं गृहस्थस्य तथैव च ॥
कांस्यभोजी यतिश्चैवप्राप्नुयात्किल्बिषं तयोः ॥१५६॥
अत्राप्युदाहरन्ति।
सौवर्णायसताम्रेषुकांस्यरौप्यमयेषु च ॥
भुञ्जन्भिक्षुर्न्नदुष्येत दुष्येच्चैव परिग्रहे ॥ १५७ ॥
यतिहस्ते जलं दद्याद्भिक्षां दद्यात्पुनर्जलम् ॥
तद्भैक्षं मेरुणा तुल्यं तज्जलं सागरोपमम् ॥ १५८ ॥
चरेन्माधुकरीं वृत्तिमपि म्लेच्छकुलादपि ॥
एकान्नं नैव भोक्तव्यं बृहस्पतिसमो यदि ॥ १५९ ॥
अनापदि चरेद्यस्तु सिद्धं भैक्षं गृहे वसन् ॥
दशरात्रं पिबेद्वज्रमापस्तु त्र्यहमेव च ॥ १६० ॥
गोमूत्रेण तु सम्मिश्रं या15वकं घृतपाचितम् ॥
एतद्वज्रमिति प्रोक्तं भगवानत्रिरब्रवीत् ॥ १६१ ॥
ब्रह्मचारी यतिश्चैवविद्यार्थी गुरुपोषकः ॥
अध्वगः क्षीणवृत्तिश्च षडेते भिक्षुकाः स्मृताः ॥ १६२ ॥
षण्मासान्कामयेन्मर्त्योगुर्विणीमेव वै स्त्रियम् ॥
आदन्तजननादूर्ध्वमेवं धर्मो न हीयते ॥ १६३ ॥
ब्रह्महाप्रथमं चैव द्वितीयं गुरुतल्पगः ॥
तृतीयं तु सुरापेयं चतुर्थं स्तेयमेव च ॥ १६४ ॥
पापानां चैव संसर्गं पञ्चमं पातकं महत् ॥ १६५ ॥
एषामेव विशुद्ध्यर्थ चरेत्कृच्छ्राण्यनुक्रमात् ॥
त्रीणि वर्षाण्यकामश्चेद्ब्रह्महत्या पृथक्पृथक् ॥ १६६॥
अर्द्धं तु ब्रह्महत्यायाः क्षत्रियेषु विधीयते ॥
षड्भागो द्वादशश्चैव विट्शूद्रयोस्तथा भवेत् ॥ १६७॥
त्रीन्मासान्नक्तमश्नीयाद्भूमौ शयनमेव च ॥
स्त्रीघाती शुद्ध्यतेऽप्येवं चरेत्कृच्छ्राब्दमेव वा ॥ १६८ ॥
रजकः शैलुषश्चैव वेणुकर्मोपजीवनः ॥
एतेषां यस्तु भुङ्क्ते वै द्विजश्चान्द्रायणं चरेत् ॥ १६९॥
सर्वान्त्यजानां गमने भोजने सम्प्रवेशने ॥
पराकेण विशुद्धिः स्याद्भगवानत्रिरब्रवीत् ॥ १७० ॥
चाण्डालभाण्डे यत्तोयं पीत्वा चैव द्विजोत्तमः ॥
गोमूत्रयावकाहारः सप्तषट्त्रिद्व्यहान्यपि ॥१७१ ॥
संस्पृष्टं यस्तु पक्वान्नमन्त्यजैर्वाप्युदक्यया ॥
अज्ञानाद्ब्राह्मणोऽश्नीयात्प्राजापत्यार्धमाचरेत् ॥ १७२ ॥
चाण्डालान्नंयदा भुङ्क्ते चातुर्वर्ण्यस्य निष्कृतिः ॥
चान्द्रायणं चरेद्विप्रः क्षत्रः सान्तपनं चरेत् ॥ १७३ ॥
षड्रात्रमाचरेद्वैश्यः पञ्चगव्यं तथैव च ॥
त्रिरात्रमाचरेच्छूद्रो दानं दत्त्वा विशुद्ध्यति ॥ १७४ ॥
ब्राह्मणो वृक्षमारूढश्चाण्डालो मूलसंस्पृशः ॥
फलान्यत्ति स्थितस्तत्र प्रायश्चित्तं कथं भवेत् ॥ १७५ ॥
ब्राह्मणान्समनुप्राप्य सवासाः स्नानमाचरेत् ॥
नक्तभोजी भवेद्विप्रो घृतं प्राश्य विशुद्ध्यति ॥ १७६ ॥
एकं वृक्षं समारूढश्चण्डालो ब्राह्मणस्तथा ॥
फलान्यत्ति स्थितस्तत्र प्रायश्चित्तं कथं भवेत् ॥ १७७॥
ब्राह्मणान्समनुज्ञाप्य सवासाः स्नानमाचरेत् ॥
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्ध्यति ॥ १७८ ॥
एकशाखासमारूढश्चण्डालो ब्राह्मणो यदा ॥
फलान्यत्ति स्थितस्तत्र प्रायश्चित्तं कथं भवेत् ॥ १७९ ॥
त्रिरात्रोपोषितो भूत्वापञ्चगव्येन शुद्ध्यति॥
स्त्रियो म्लेच्छस्य सम्पर्काच्छुद्धिः सान्तपने तथा ॥ १८० ॥
तप्तकृच्छ्रं पुनः कृत्वा शुद्धिरेषाऽभिधीयते ॥ १८१ ॥
स वर्तेत यथा भार्यां गत्वा म्लेच्छस्य सङ्गताम् ॥
सचैलं स्नानमादाय घृतस्य प्राशनेन च ॥ १८२ ॥
सङ्गृहीतामपत्यार्थमन्यैरपि तथा पुनः ॥ १८३ ॥
चण्डालम्लेच्छश्वपचकपालव्रतधारिणः ॥
अकामतः स्त्रियो गत्वा पराकेण विशुद्ध्यते ॥ १८४ ॥
कामतस्तु प्रसूतां वा तत्समो नात्र संशयः ॥
सएव पुरुषस्तत्र गर्भो भूत्वा प्रजायते ॥ १८५ ॥
तैलाभ्यक्तो घृताभ्यक्तो विण्मूत्रं कुरुते द्विजः ॥
तैलाभ्यक्तो घृताभ्यक्तश्चण्डालं स्पृशते द्विजः ॥
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्ध्यति ॥ ९८६ ॥
केशकीटनखस्नायु अस्थिकण्टकमेव च ॥
स्पृष्ट्वा नद्युदके स्नात्वा घृतम्प्राश्य विशुद्ध्यति ॥ १८७॥
मत्स्यास्थि जम्बुकास्थीनि नखशुक्तिकपर्द्दिकाः ॥
हेम16तप्तङ्घृतं पीत्वा तत्क्षणादेव शुद्ध्यति ॥ १८८ ॥
गोकुले कं17 इति प्रसिद्धायामित्यर्थः ।")दुशालायां तैलचक्रेक्षुयन्त्रयोः ॥
अमीमांस्यानि शाचानि स्त्रीणां च व्याधितस्य च ॥ १८९॥
न स्त्री दुष्यति जारेण ब्राह्मणो वेदकर्मणा ॥
नापोमूत्रपुरीषाभ्यां नाग्निर्दहति कर्मणा ॥ १९० ॥
पूर्वं स्त्रियः सुरैर्भुक्ताःसोमगन्धर्ववह्निभिः ॥
भुञ्जते मानवाः पश्चान्न वा दुष्यन्ति कर्हिचित् ॥१९१॥
असवर्णस्तु यो गर्भः स्त्रीणां योनौ निषेच्यते ॥
अशुद्धा सा भवेन्नारी यावद्गर्भं न मुञ्चति ॥ १९२॥
विमुक्ते तु ततः शल्येरजश्चापि प्रदृश्यते ॥
तदा सा शुद्ध्यते नारी विमलं काञ्चनं यथा ॥ १९३ ॥
स्वयं विप्रतिपन्ना या यदि वा विप्रतारिता ॥
बलान्नारी प्रभुक्ता वा चौरभुक्ता तथापि वा ॥ १९४॥
न त्याज्या दूषिता नारी न कामोऽस्या विधीयते ॥
ऋतुकाल उपासीत पुष्पकालेन शुद्ध्यति ॥ १९५ ॥
रजकश्चर्मकारश्च नटो बुरुड एव च ॥
कैवर्तमेदभिल्लाश्च सप्तैते अन्त्यजाः स्मृताः ॥ १९६ ॥
एतान्गत्वा स्त्रियो मोहाद्भुक्त्वा च प्रतिगृह्य च ॥
कृच्छ्राब्दमाचरेज्ज्ञानादज्ञानादेव तद्द्वयम् ॥ १९७॥
सकृद्भुक्ता तु या नारी म्लेच्छैश्च पापकर्मभिः ॥
प्राजापत्येन शुद्ध्येत ऋतुप्रस्रवणेन च ॥ १९८ ॥
बलोद्धृता स्वयं वापि परप्रेरितया यदि ॥
सकृद्भुक्ता तु या नारी प्राजापत्येन शुद्ध्यति ॥ १९९॥
प्रारब्धदीर्घतपसां नारीणां यद्रजो भवेत् ॥
न तेन तद्व्रतं तासां विनश्यति कदाचन ॥ २०० ॥
मद्यसंस्पृष्टकुम्भेषु यत्तोयं पिबति द्विजः ॥
कृच्छ्रपादेन शुद्ध्येतपुनः संस्कारमर्हति ॥ २०१॥
अन्त्यजस्थास्तु ये वृक्षा बहुपुष्पफलोपगाः ॥
उपभोग्यास्तु ते सर्वे पुष्पेषु च फलेषु च ॥ २०२ ॥
चण्डालेन तु संस्पृष्टं यत्तोयं पिबति द्विजः ॥
कृच्छ्रपादेन शुद्ध्येतआपस्तम्बोऽब्रवीन्मुनिः ॥२०३ ॥
श्लेष्मोपानहविण्मूत्रस्त्रीरजोमद्यमेव च ॥
एभिः सन्दूषिते कूपे तोयं पीत्वा कथं विधिः ॥ २०४॥
एकं द्व्यहं त्र्यहं चैव द्विजातीनां विशोधनम् ॥
प्रायश्चित्तं पुनश्चैव नक्तं शूद्रस्य दापयेत् ॥२०५ ॥
सद्यो वान्तेसचैलं तु विप्रस्तु स्नानमाचरेत् ॥
पर्युषिते त्वहोरात्रमतिरिक्तेदिनत्रयम् ॥ २०६ ॥
शिरःकण्ठोरुपादे च सुरया यस्तु लिप्यते ॥
दशषट्त्रितयैकाहं चरेदेवमनुक्रमात् ॥ २०७ ॥
अत्राप्युदाहरन्ति।
प्रमादान्मद्यपसुरां सकृत्पीत्वा द्विजोत्तमः ॥
गोमूत्रयावकाहारो दशरात्रेण शुद्ध्यति॥ २०८ ॥
मद्यपस्य निषादस्य यस्तु भुङ्क्ते द्विजोत्तमः ॥
न देवा भुञ्जते तस्य न पिबन्ति हविर्जलम् ॥ २०९ ॥
चितिभ्रष्टा तु या नारी ऋतुभ्रष्टा च व्याधिता ॥
प्राजापत्येन शुद्ध्येतब्राह्मणानां तु भोजनात् ॥ २१० ॥
ये च प्रव्रजिता विप्राः प्रव्रज्याग्निजलावहाः ॥
अनाशकान्निवर्तन्ते चिकीर्षन्ति गृहस्थितिम् ॥ २११ ॥
धारयेत्त्रीणि कृच्छ्राणि चान्द्रायणमथापि वा ॥
जातिकर्मादिकं प्रोक्तं पुनः संस्कारमर्हति ॥ २१२ ॥
न शौचं नोदकं नाश्रु नापवादानुकम्पने॥
ब्रह्मदण्डहतानां तु न कार्यं कटधारणम् ॥ २१३ ॥
स्नेहङ्कृत्वा भयादिभ्यो यस्त्वेतानि समाचरेत् ॥
गोमूत्रयावकाहारः कृच्छ्रमेकं विशोधनम् ॥ २१४॥
वृद्धः शौचस्मृतेर्लुप्तः प्रत्याख्यातभिषक्क्रियः ॥
आत्मानं घातयेद्यस्तु भृग्वग्न्यनशनाम्बुभिः ॥ २१५ ॥
तस्य त्रिरात्रमाशौचं द्वितीये त्वस्थिसञ्चयः ॥
तृतीये तूदकं कृत्वा चतुर्थे श्राद्धमाचरेत् ॥ २१६ ॥
यस्यैकापि गृहे नास्ति धेनुर्वत्सानुचारिणी ॥
मङ्गलानि कुतस्तस्य कुतस्तस्यतमःक्षयः ॥ २१७॥
अतिदोहातिवाहाभ्यां नासिकाभेदनेन वा ॥
नदीपर्वतसंरोधे मृते पादोनमाचरेत् ॥२१८ ॥
अष्टागवं धर्महलं षड्गवं व्यावहारिकम् ॥
चतुर्गवं नृशंसानां द्विगवं गववध्यकृत् ॥ २१९ ॥
द्विगवं वाहयेत्पादं मध्याह्नेतु चतुर्गवम्॥
षड्गवं तु त्रिपादोक्तं पूर्णाहस्त्वष्टभिः स्मृतम् ॥ २२० ॥
काष्ठटोष्टशिलागोघ्नः कृच्छ्रंसान्तपनं चरेत्॥
प्राजापत्यं चरेन्मृत्18साअतिकृच्छ्रं तु आयसः ॥ २२१॥
प्रायश्चित्तेन तच्चीर्णेकुर्याद्ब्राह्मणभोजनम् ॥
अनडुत्सहितां गां च दद्याद्विप्राय दक्षिणाम् ॥ २२२ ॥
शरभोष्ट्रहयान्नागान्सिंहशार्दूलगर्दभान्॥
हत्वा च शूद्रहत्यायाः प्रायश्चित्तं विधीयते ॥ २२३ ॥
मार्जारगोधानकुलमण्डूकांश्च पतत्रिणः ॥
हत्वा त्र्यहं पिबेत्क्षीरं कृच्छ्रं वा पादिकं चरेत् ॥ २२४ ॥
चण्डालस्य च संस्पृष्टं विण्मूत्रोच्छिष्टमेव वा ॥
त्रिरात्रेण विशुद्धं हि भुत्कोच्छिष्टं समाचरेत् ॥ २२५ ॥
वापीकूपतडागानां दूषितानां च शोधनम् ॥
उद्धरेत्षट्शतं पूर्णं पञ्चगव्येन शुद्ध्यति ॥ २२६ ॥
अस्थिचर्मावसिक्तेषु खरश्वानादिदूषिते ॥
उद्धरेदुदकं सर्वं शोधनं परिमार्जनम् ॥ २२७ ॥
गोदोहने चर्मपुटे च तोयं यन्त्राकरे कारुकशिल्पिहस्ते ॥
स्त्रीबालवृद्धाचरितानि यान्यप्रत्यक्षदृष्टानि शुचीनि तानि॥ २२८॥
प्राकाररोधे विषमप्रदेशे सेवानिवेशे भवनस्य दाहे ॥
अवास्ययज्ञेषु महोत्सवेषु तेष्वेव दोषा न विकल्पनीयाः ॥२२९ ॥
प्रपास्वरण्ये घटकस्य कूपे द्रोण्यां जलं कोशविनिर्गतं च ॥
श्वपाकचण्डालपरिग्रहे तु पीत्वा जलं पञ्चगव्येन शुद्धिः॥ २३० ॥
रेतोविण्मूत्रसंस्पृष्टं कौपं यदि जलं पिबेत् ॥
त्रिरात्रेणैव शुद्धिः स्यात्कुम्भे सान्तपनं तथा ॥ २३१ ॥
क्लिन्नभिन्नशवं यत्स्यादज्ञानाच्च तथोदकम् ॥
प्रायश्चित्तं चरेत्पीत्वा तप्तकृच्छ्रं द्विजोत्तमः ॥२३२ ॥
उष्ट्रीक्षीरं खरीक्षीरं मानुषीक्षीरमेव च ॥
प्रायश्चित्तं चरेत्पीत्वा तप्तकृच्छ्रं द्विजोत्तमः ॥ २३३ ॥
वर्णबाह्येनसंस्पृष्ट उच्छिष्टस्तु द्विजोत्तमः ॥
पञ्चरात्रोषितो भूत्वा पञ्चगव्येन शुद्ध्यति ॥ २३४ ॥
शुचि गोतृप्तिकृत्तोयम्प्रकृतिस्थं महीगतम् ॥
चर्मभाण्डस्थधाराभिस्तथा यन्त्रोद्धृतं जलम् ॥ २३५ ॥
चण्डालेन तु संस्पृष्टे स्नानमेव विधीयते ॥
उच्छिष्टस्तु च संस्पृष्टस्त्रिरात्रेणैव शुद्ध्यति ॥ २३६ ॥
आकराद्गतवस्तूनि नाशुचीनि कदाचन ॥
आकराः शुचयः सर्वे वर्जयित्वा सुरालयम् ॥ २३७ ॥
भृष्टाभृष्टा यवाश्चैव तथैव चणकाः स्मृताः ॥
खर्जूरं चैष कर्पूरमन्यद्भृष्टतरं शुचि ॥ २३८ ॥
अमीमांस्यानि शौचानि स्त्रीभिराचरितानि च ॥
गोकुले कन्दुशालायां तैलयन्त्रेक्षुयन्त्रयोः ॥ २३९ ॥
अदुष्टाः सततं धारा वातोद्धूताश्च रेणवः ॥ २४० ॥
बहूनामेकलग्नानामेकश्चेदशुचिर्भवेत् ॥
अशौचमेकमात्रस्य नेतरेषां कथञ्चन ॥ २४१ ॥
एकपङ्क्त्युपविष्टानां भोजनेषु पृथक्पृथक् ॥
यद्येकोलभते नीलीं सर्वे तेऽशुचयः स्मृताः ॥ २४२ ॥
यस्य पट्टे पट्टसूत्रे नीलीरक्तो हि दृश्यते ॥
त्रिरात्रं तस्य दातव्यं शेषाश्चैवोपवासिनः ॥ २४३ ॥
आदित्येऽस्तमिते रात्रावस्पृश्यं स्पृशते यदि ॥
भगवन्केन शुद्धिः स्यात्ततो ब्रूहि तपोधन ॥ २४४ ॥
आदित्येऽस्तमिते रात्रौ स्पर्शहीनं दिवा जलम् ॥
तेनैव सर्वशुद्धिः स्याच्छवस्पृष्टं तु वर्जयेत् ॥ २४५ ॥
देशं कालं च यः शक्तिं पापं चावेक्षयेत्ततः ॥
प्रायश्चित्तं प्रकल्प्यंस्याद्यस्यचोक्ता न निष्कृतिः॥ २४६ ॥
देवयात्राविवाहेषु यज्ञप्रकरणेषु च।
उत्सवेषु च सर्वेषु स्पृष्टास्पृष्टं न विद्यते ॥ २४७ ॥
आरनालं तथा क्षीरं कन्दुकं दधि सक्तवः ॥
स्नेहपक्वं च तक्रञ्च शूद्रस्यापि न दुष्यति ॥ २४८ ॥
आर्द्रमांसं घृतं तैलं स्नेहाश्चफलसम्भवाः ॥
अन्त्यभाण्डस्थितास्त्वेते निष्कान्ताः शुद्धिमाप्नुयुः॥ २४९॥
अज्ञानात्पिबते तोयं ब्राह्मणः शूद्रजातिषु ॥
अहोरात्रोषितः स्नात्वा पञ्चगव्येन शुद्ध्यति ॥ २५० ॥
आहिताग्निस्तु यो विप्रो महापातकवान्भवेत् ॥
अप्सु प्रक्षिप्य पात्राणि पश्चादग्निंविनिर्द्दिशेत् ॥ २५१ ॥
यो गृहीत्वा विवाहाग्निङ्गृहस्थ इति मन्यते ॥
अन्नं तस्य न भोक्तव्यं वृथापाको हि सस्मृतः ॥ २५२ ॥
वृथापाकस्य भुञ्जानः प्रायश्चित्तं चरेद्विजः ॥
प्राणानाशु त्रिरायम्य घृतं प्राश्य विशुद्ध्यति ॥ २५३ ॥
वैदिके लौकिकेवापि हुतोच्छिष्टे जले क्षितौ ॥
वैश्वदेवं प्रकुर्वीत पञ्चसूनापनुत्तये ॥ २५४ ॥
कनीयान्गुणवांश्चैव श्रेष्ठश्चेन्निर्गुणो भवेत् ॥
पूर्वं पाणिं गृहीत्वा च गृह्याग्निन्धारयेद्बुधः ॥ २५५ ॥
ज्येष्ठश्चेद्यदि निर्द्दोषो गृह्णात्यग्निंयवीयकः ॥
नित्यं नित्यं भवेत्तस्य ब्रह्महत्या न संशयः ॥ २५६ ॥
महापातकिसंस्पृष्टः स्नानमेव विधीयते ॥
संस्पृष्टस्य यदा भुङ्क्ते स्नानमेव विधीयते ॥ २५७॥
पतितैः सह संसर्गं मासार्द्धं मासमेव च ॥
गोमूत्रयावकाहारो मासार्द्धेन विशुद्ध्यति ॥ २५८ ॥
कृच्छार्द्धं पतितस्यैवसकृद्भुक्ताद्विजोत्तमः ॥
अविज्ञानाच्च तद्भुक्त्वा कृच्छ्रं सान्तपनं चरेत् ॥ २५९॥
पतितानां यदा भुक्तं भुक्तं चण्डालवेश्मनि ॥
मासार्द्धं तु पिबेद्वारि इति शातातपोऽब्रवीत् ॥ २६० ॥
गोब्राह्मणहतानां च पतितानां तथैव च ॥
अग्निना न च संस्कारः शङ्खस्य वचनं यथा ॥ २६१॥
यश्चण्डालीं द्विजो गच्छेत्कथञ्चित्काममोहितः ॥
त्रिभिः कृच्छ्रैर्विशुद्ध्येत प्राजापत्यानुपूर्वशः ॥ २६२ ॥
पतिताच्चान्नमादाय भुक्त्वा वा ब्राह्मणो यदि ॥
कृत्वा तस्य समुत्सर्गमतिकृछ्रंविनिर्दिशेत् ॥ २६३ ॥
अन्त्यहस्तात्तुविक्षिप्तं काष्ठलोष्टतृणानि च ॥
न स्पृशेत्तु तथोच्छिष्टमहोरात्रं समाचरेत् ॥ २६४ ॥
चण्डालं पतितं म्लेच्छं मद्यभाण्डं रजस्वलाम् ॥
द्विजः स्पृष्ट्वा न भुञ्जीत भुञ्जानोयदि संस्पृशेत् ॥ २६५ ॥
अतः परं न भुञ्जीत त्यक्त्वान्नं स्नानमाचरेत् ॥
ब्राह्मणैः समनुज्ञातस्त्रिरात्रमुपवासयेत् ॥
सघृतं यावकं प्राश्य व्रतशेषं समापयेत् ॥ २६६ ॥
भुञ्जानः संस्पृशेद्यस्तु वायसं कुक्कुटं तथा ॥
त्रिरात्रेणैव शुद्धिः स्यादथोच्छिष्टस्त्र्यहेण तु ॥ २६७ ॥
आरूढोनैष्ठिकै धर्मे यस्तु प्रच्यवते पुनः ॥
चान्द्रायणं चरेन्मासमिति शातातपोऽब्रवीत् ॥ २६८ ॥
पशु वेश्याभिगमने प्राजापत्यं विधीयते ॥
गवां गमने मनुप्रोक्तं व्रतं चान्द्रायणं चरेत् ॥ २६९ ॥
अमानुषीषु गोवर्जमुदक्यायामयोनिषु ॥
रेतः सिक्त्वा जले चैव कृच्छ्रं सान्तपनं चरेत् ॥ २७० ॥
उदक्यां सूतिकां वापि अन्त्यजां स्पृशते यदि ॥
त्रिरात्रेणैव शुद्धिः स्पाद्विधिरेष पुरातनः ॥ २७१॥
संसर्गे यदि गच्छेच्चेदुदक्यया तथान्त्यजैः ॥
प्रायश्चित्ती स विज्ञेयः पूर्वं स्नानं समाचरेत् ॥ २७२ ॥
एकरात्रं चरेन्मूत्रं19 पु20रीषं तु दिनत्रयम् ॥
दिनत्रयन्तथा पाने मैथुने पञ्च सप्त वा ॥ २७३ ॥
स्मृत्यन्तरम्।
अङ्गीकारेण ज्ञातीनां ब्राह्मणानुग्रहेण च ॥
पूयन्ते तत्र पापिष्ठा महापातकिनोऽपि ये ॥ २७४ ॥
भोजनेतु प्रसक्तानां प्राजापत्यं विधीयते ॥
दन्तकाष्ठे त्वहोरात्रमेष शौचविधिः स्मृतः ॥ २७५ ॥
रजस्वला यदा स्पृष्टा श्वानचण्डालवायसैः॥
निराहारा भवेत्तावत्स्नात्वाकालेन शुद्ध्यति ॥ २७६ ॥
रजस्वला यदा स्पृष्टा उष्ट्रजम्बुकशम्बैरः ॥
पञ्चरात्रं निराहारा पञ्चगव्येन शुद्ध्यति ॥ २७७ ॥
स्पृष्टा रजस्वलाऽन्योन्यं ब्राह्मण्या ब्राह्मणी च या ॥
एकरात्रं निराहारा पञ्चगव्येन शुद्ध्यति ॥ २७८ ॥
स्पृष्टा रजस्वलान्योन्यं ब्राह्मण्या क्षत्रियी च या ॥
त्रिरात्रेण विशुद्धिः स्याद्व्यासस्य वचनं यथा ॥ २७९ ॥
स्पृष्टा रजस्वलान्योन्यं ब्राह्मण्या वैश्यसम्भवा ॥
चतूरात्रं निराहारा पञ्चगव्येन शुद्ध्यति ॥ २८० ॥
स्पृष्टा रजस्वलान्योन्यं ब्राह्मण्या शूद्रसम्भवा ॥
षड्रात्रेण विशुद्धिः स्याद्ब्राह्मणी कामकारतः ॥ २८१॥
अकामतश्चरेदूर्ध्वम्ब्राह्मणी सर्वतः स्पृशेत् ॥
चतुर्णामपि वर्णानां शुद्धिरेषा प्रकीर्त्तिता ॥ २८२ ॥
उच्छिष्टेन तु संस्पृष्टो ब्राह्मणो ब्राह्मणेन यः ॥
भोजने मूत्रचारे च शङ्खस्य वचनं यथा ॥ २८३ ॥
स्नानं ब्राह्मणसंस्पर्शं जपहोमौतु क्षत्रिये ॥
वैश्येनक्तं च कुर्वीत शूद्रे चैव उपोषणम् ॥ २८४ ॥
चर्मके रजके वैश्ये धीवरे नटके तथा ॥
एतान्स्पृष्ट्वा द्विजो मोहादाचामेत्प्रयतोऽपि सन् ॥ २८५ ॥
एतैः स्पृष्ट्वा द्विजो नित्यमेकरात्रं पयः पिबेत् ॥
उच्छिष्टैस्तैस्त्रिरात्रंस्याद्घृतम्प्राश्यविशुद्ध्यति ॥ २८६ ॥
यस्तुच्छायां श्वपाकस्यब्राह्मणस्त्वधिगच्छति ॥
तत्र स्नानं प्रकुर्वीत घृतं प्राश्य विशुद्ध्यति ॥ २८७॥
अभिशस्तो द्विजोऽरण्ये ब्रह्महत्याव्रतं चरेत् ॥
मासोपवासं कुर्वीतचान्द्रायणमथापि वा ॥ २८८ ॥
वृथा मिथ्यापयोगेन भ्रूणहत्याव्रतं चरेत् ॥
अब्भक्षोद्वादशाहेन पराकेणैव शुद्ध्यति ॥ २८९ ॥
शठं च ब्राह्मणं हत्वा शूद्रहत्याव्रतं चरेत् ॥
निर्गुणं च गुणी हत्वा पराकं व्रतमाचरेत् ॥ २९० ॥
उपपातकसंयुक्तो मानवो म्रियते यदि।
तस्य संस्कारकर्ता च प्राजापत्यद्वयं चरेत् ॥ २९१ ॥
प्रभुञ्जानोऽतिसस्नेहं कदाचित्स्पृश्यते द्विजः ॥
त्रिरात्रमाचरेन्नक्तैर्निःस्नेहमथवाचरेत् ॥ २९२ ॥
बिडालकाकाद्युच्छिष्टं जग्ध्वा श्वनकुलस्य च ॥
केशकीटावपन्नञ्च पिबेद्ब्राह्मी सुवर्चलाम् ॥ २९३ ॥
उष्ट्रयानंसमारुह्य खरयानं च कामतः ॥
स्नात्वा विप्रो जितप्राणः प्राणायामेन शुद्ध्यति ॥ २९४॥
सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह ॥
त्रिः पठेद्वा यतप्राणः प्राणायामः स उच्यते ॥ २९५ ॥
शकृद्द्विगुणगोमूत्रं सर्पिर्दद्याच्चतुर्गुणम् ॥
क्षीरमष्टगुणं देयं पञ्चगव्यं तथा दधि ॥ २९६ ॥
पञ्चगव्यं पिबेच्छूद्रो ब्राह्मणस्तु सुरां पिबेत् ॥
उभौ तौ तुल्यदोषौ च वसतो नरके चिरम् ॥ २९७॥
अजा गावो महिष्यश्च अमेध्यं भक्षयन्ति याः ॥
दुग्धं हव्ये च कव्ये च गोमयं न विलेपयेत् ॥ २९८ ॥
ऊनस्तनी चा21धीका वा या चस्वस्तनपायिनी ॥
तासां दुग्धन्न होतव्यंहुतं चैवाहुतं भवेत् ॥ २९९ ॥
ब्राह्मौदने च सोमे च सीमन्तोन्नयने तथा ॥
जातश्राद्धे नवश्राद्धे भुक्त्वा चान्द्रायणं चरेत् ॥ ३०० ॥
राजान्नं हरते तेजः शूद्रान्नं ब्रह्मवर्चसम् ॥
स्वसुता22न्नं च यो भुङ्क्तेस भुङ्क्ते पृथिवीमलम् ॥ ३०१॥
स्वसुता अप्रजा23ता चेन्नाश्नीयात्तद्गृहे पिता ॥
भुङ्क्ते त्वस्यामाययान्नं पूयंस नरकं व्रजेत् ॥ ३०२ ॥
अधीत्य चतुरो वेदान्सर्वशास्त्रार्थतत्त्ववित् ॥
नरेन्द्रभवने भुक्त्वा विष्ठायां जायते कृमिः ॥ ३०३ ॥
नवश्राद्धे त्रिपक्षे च षण्मासेमासिकेऽब्दिके ॥
पतन्ति पितरस्तस्य यो भुङ्क्तेऽनापदिद्विजः ॥ ३०४ ॥
चान्द्रायणं नवश्राद्धे पराको मासिके तथा ॥
त्रिपक्षे चैव कृच्छ्रंस्यात्षण्मासे कृच्छ्रमेव च ॥ ३०५ ॥
आब्दिके पादकृच्छ्रं स्यादेकाहः पुनराब्दिके ॥
ब्रह्मचर्यमनाधाय मासश्राद्धेषु पर्वसु ॥ ३०६ ॥
द्वादशाहे त्रिपक्षेऽब्देयस्तु भुङ्क्ते द्विजोत्तमः ॥
पतित पितरस्तस्य ब्रह्मलोके गता अपि ॥ ३०७ ॥
पक्षे वा यदि वा मासे यस्य नाश्नन्ति वै द्विजाः ॥
भुक्त्वा दुरात्मनस्तस्य द्विजश्चान्द्रायणं चरेत् ॥ ३०८ ॥
एकादशाहेऽहोरात्रं भुक्त्वासञ्चयने त्र्यहम् ॥
उपोष्य विधिवद्विप्रः कूष्माण्डीं जुहुयाद्घृतम् ॥ ३०९ ॥
यन्न वेदध्वनिश्रान्तं न च गोभिरलङ्कृतम् ॥
यन्न बालैः परिवृतं श्मशानमिव तद्गृहम् ॥ ३१० ॥
हास्येऽपि बहवो यत्र विना धर्मं वदन्ति हि ॥
विनापि धर्मशास्त्रेण स धर्मः पावनः स्मृतः ॥ ३११॥
हीनवर्णे च यः कुर्यादज्ञानादभिवादनम् ॥
तत्र स्नानं प्रकुर्वीत घृतं प्राश्य विशुद्ध्यति ॥ ३१२॥
समुत्पन्ने यदा स्नाने भुङ्क्ते वापि पिबेद्यदि ॥
गायत्र्यष्टसहस्रं तु जपेत्स्नात्वासमाहितः ॥ ३१३ ॥
अङ्गुल्या दन्तकाष्ठं च प्रत्यक्षं लवणं तथा ॥
मृत्तिकाभक्षणं चैव तुल्यं गोमांसभक्षणम् ॥३१४॥
दिवा कपित्थच्छायायां रात्रौ दधि शमीषु च ॥
कार्पासं दन्तकाष्ठं च विष्णोरपि श्रियं हरेत् ॥ ३१५ ॥
शूर्पवातो नखाग्राम्बुस्नानवस्त्रं घटोदकम् ॥
मार्जनीरजः केशाम्बुदेवतायतनोद्भवम् ॥ ३१६ ॥
तेनावगुण्ठितं तेषु गङ्गाम्भःप्लुतएव सः ॥
माजनीरेणुकेशाम्बु हन्ति पुण्यं दिवाकृतम् ॥ ३१७ ॥
मृत्तिकाः सप्त न ग्राह्या वल्मीके ऊषरस्थले ॥
अन्तर्जले श्मशानान्तेवृक्षमूले सुरालये ॥ ३१८ ॥
वृषभैश्च तथोत्खाते श्रेयस्कामैः सदा बुधैः ॥
शुचा देशे तु सङ्ग्राह्या शर्कराश्मविवर्जिता ॥ ३१९ ॥
पुरीषे मैथुने होमे प्रस्रावे दन्तधावन ॥
स्नानभोजनजाप्येषु सदा मौनं समाचरेत् ॥ ३२० ॥
यस्तु संवत्सरं पूर्णं भुङ्क्तेमौनेनसर्वदा ॥
युगकोटिसहस्रेषु स्वर्गलोके महीयते ॥ ३२१ ॥
स्नानं दानं जपं होमं भोजनं देवतार्चनम् ॥
प्रौढपादो न कुर्वीत स्वाध्यायं पितृतर्पणम् ॥ ३२२ ॥
सर्वस्वमपि यो दद्यात्पातयित्वा द्विजोत्तमम् ॥
नाशयित्वा तु तत्सर्वं भ्रूणहत्याफलं लभेत् ॥ ३२३ ॥
ग्रहणोद्वाहसङ्क्रान्तौस्त्रीणां च प्रसवे तथा ॥
दानं नैमित्तिकं ज्ञेयं रात्रावपि प्रशस्यते ॥ ३२४ ॥
क्षौमजं वाथ कार्पासं पट्टसूत्रमथापि वा ॥
यज्ञोपवीतं यो दद्याद्वस्त्रदानफलं लभेत् ॥ ३२५ ॥
कांस्यस्य भाजनं दद्याद्वृत्तपूर्णं सुशोभनम् ॥
तथा भक्त्या विधानेन अग्निष्टोमफलं लभेत् ॥३२६ ॥
श्राद्धकाले तु यो दद्याच्छोभने च उपानहौ ॥
स गच्छन्नन्यमार्गेऽपि अश्वदानफलं लभेत् ॥ ३२७ ॥
तैलपात्रं तु यो दद्यात्सम्पूर्णं तु समाहितः ॥
स गच्छति ध्रुवं स्वर्गे नरोनास्त्यत्र संशयः ॥ ३२८ ॥
दुर्भिक्षे अन्नदाता च सुभिक्षे च हिरण्यदः ॥
पानप्रदस्त्वरण्ये तु स्वर्गे लोके महीयते ॥ ३२९ ॥
यावदर्धप्रसूता गौस्तावत्सा पृथिवी स्मृता ॥
पृथिवी तेन दत्ता स्यादीदृशीं गां ददाति यः ॥ ३३० ॥
तेनाग्नयो हुताः सम्यक्पितरस्तेन तर्पिताः ॥
देवाश्च पूजिताः सर्वे यो ददाति गवाह्निकम् ॥ ३३१ ॥
जन्मप्रभृति यत्पापं मातृकं पैतृकं तथा ॥
तत्सर्वं नश्यति क्षिप्रं वस्त्रदानान्न संशयः ॥ ३३२ ॥
कृष्णाजिनं तु यो दद्यात्सर्वोपस्करसंयुतम् ॥
उद्धरेन्नरकस्थानात्कुलान्येकोत्तरं शतम् ॥ ३३३ ॥
आदित्यो वरुणो विष्णुर्ब्रह्मा सोमो हुताशनः ॥
शूलपाणिस्तु भगवानभिनन्दति भूमिदम् ॥ ३३४ ॥
वालुकानां कृता राशिर्यावत्सप्तर्षिमण्डलम् ॥
गते वर्षशते चैवपलमेकं विशीयति ॥ ३३५ ॥
क्षयं च दृश्यते तस्य कन्यादाने न चैव हि ॥ ३३६ ॥
आतुरे प्राणदाता च त्री24णि दानफलानि च ॥
सर्वेषामेव दानानां विद्यादानं ततोऽधिकम् ॥ ३३७ ॥
पुत्रादिस्वजने दद्याद्विप्राय च न कैतवे ॥
सकामः स्वर्गमाप्नोति निष्कामो मोक्षमाप्नुयात् ॥ ३३८ ॥
ब्राह्मणे वेदविदुषि सर्वशास्त्रविशारदे ॥
मातृपितृपरे चैव ऋतुकालाभिगामिनि ॥ ३३९ ॥
शीलचारित्रसम्पूर्णेप्रातःस्नानपरायणे ॥
तस्यैव दीयते दानं यदीच्छेच्छ्रेय आत्मनः ॥ ३४० ॥
सम्पूज्यं विदुषो विप्रानन्येभ्योऽपि प्रदीयते ॥
तत्कार्यं नैव कर्तव्यं न दृष्टं न श्रुतं मया ॥ ३४१ ॥
अतःपरं प्रवक्ष्यामि श्राद्धकर्मणि ये द्विजाः॥
पितॄणामक्षयं दानं दत्तं येषां तु निष्फलम् ॥ ३४२ ॥
न हीनाङ्गो न रोगी च श्रुतिस्मृतिविवर्जितः ॥
नित्यं चानृतवादी च तांस्तु श्राद्धे न भोजयेत् ॥३४३ ॥
हिंसारतं च कपटमुपगुह्य श्रुतं च यः ॥
किङ्करं कपिलं काणं श्वित्रिणं रोगिणं तथा ॥ ३४४ ॥
दुश्चर्माणं शीर्णकेशं पाण्डुरोगं जटाधरम् ॥
भारवाहिनं रौद्रं च द्विभार्यं वृषलीपतिम् ॥ ३४५ ॥
भेदकारी भवेच्चैव बहुपीडाकरोऽपि वा ॥
हीनातिरिक्तगात्रो वा तमप्यपनयेत्तथा ॥ ३४६ ॥
बहुभोक्ता दीनमुखो मत्सरी क्रूरबुद्धिमान् ॥
एतेषां नैव दातव्यः कदाचित्तु प्रतिग्रहः ॥ ३४७ ॥
अथ चेन्मन्त्रविद्युक्तः शारीरैः पङ्क्तिदूषणैः ॥
अदूष्यं तं यमः प्राह पङ्क्तिपावन एव सः ॥ ३४८ ॥
श्रुतिः स्मृतिश्च विप्राणां नयने द्वे प्रकीर्तिते ॥
काणः स्यादेकहीनोऽपिद्वाभ्यामन्धः प्रकीर्तितः ॥ ३४९ ॥
न श्रुतिर्न स्मृतिर्यस्य न शीलं न कुलं यतः ॥
तस्य श्राद्धं न दातव्यं त्वन्धकस्यात्रिरब्रवीत् ॥ ३५० ॥
तस्माद्वेदेन शास्त्रेण ब्राह्मण्यं ब्राह्मणस्य तु ॥
न चैकेनैव वेदेन भगवानत्रिरब्रवीत् ॥३५१ ॥
योगस्यैर्लोचनैर्युक्तः पादाग्रं च प्रपश्यति ॥
लौकिकज्ञैश्चशास्त्रोक्तं पश्येच्चैषोऽधरोत्तरम् ॥ ३५२ ॥
वेदैश्चऋषिभिर्गीतं दृष्टिमाञ्छास्त्रवेदवित् ॥
व्रतिनं च कुलीनं च श्रुतिस्मृतिरतं सदा ॥
तादृशं भोजयेच्छ्राद्धे पितॄणामक्षयं भवेत् ॥ ३५३ ॥
यावतोग्रसते ग्रासान्पितॄणान्दीप्ततेजसाम् ॥
पिता पितामहश्चैव तथैवप्रपितामहः ॥ ३५४ ॥
नरकस्था विमुच्यन्ते ध्रुवंयान्ति त्रिविष्टपम् ॥
तस्माद्द्विजं परीक्षेत श्राद्धकाले प्रयत्नतः ॥ ३५५ ॥
न निर्वपति यः श्राद्धं प्रमीतपितृको द्विजः ॥
इन्दुक्षये मासि मासि प्रायश्चित्ती भवेत्तु सः ॥ ३५६ ॥
सूर्ये कन्यागते कुर्याच्छ्राद्धं यो न गृहाश्रमी ॥
धनं पुत्राः कुलं तस्य पितृनिःश्वासपीड25या ॥ ३५७ ॥
कन्यागते सवितरि पितरो यान्ति तत्सुतान् ॥
शून्या प्रेतपुरी सर्वा यावद्वृश्चिकदर्शनम् ॥ ३५८ ॥
ततो वृश्चिकसम्प्राप्तौनिराशाः पितरो गताः ॥
पुनः स्वभवनं यान्ति शापं दत्त्वा सुदारुणम् ॥ ३५९ ॥
पुत्रं वा भ्रातरं वापि दौहित्रं पौत्रकं तथा ॥
पितृकार्ये प्रसक्ता ये ते यान्ति परमां गतिम् ॥ ३६० ॥
यथा निर्मथनादग्निःसर्वकाष्ठेषु तिष्ठति ॥
तथा सन्दृश्यते धर्मः श्राद्धदानान्नसंशयः ॥ ३६१ ॥
यः प्राप्नोति तदा सर्वं कन्यागते च गङ्गया ॥
सर्वशास्त्रार्थगमनंसर्वतीर्थावगाहनम् ॥३६२ ॥
सर्वयज्ञफलं विद्याच्छ्राद्धदानान्नसंशयः ॥ ३६३ ॥
महापातकसंयुक्तो यो युक्तश्चोपपातकैः ॥
घनैर्मुक्तो यथा भानू राहुमुक्तश्च चन्द्रमाः ॥ ३६४ ॥
सर्वपापविनिर्मुक्तः सन्तापं च विलङ्घयेत् ॥
सर्वसौख्यमयं प्राप्तः श्राद्धदानान्नसंशयः ॥ ३६५ ॥
सर्वेषामेव दानानां श्राद्धदानं विशिष्यते ॥
मेरुतुल्यं कृतं पापं श्राद्धदानं विशोधनम् ॥ ३६६ ॥
श्राद्धं कृत्वा तु मर्त्योवै स्वर्गलोके महीयते ॥
अमृतं ब्राह्मणस्यान्नं क्षत्रियान्नं पयः स्मृतम् ॥ ३६७॥
वैश्यस्य चान्नमेवाज्यं शूद्रान्नं रुधिरं भवेत् ॥
एतत्सर्वं मयाऽऽख्यातं श्राद्धकाले समुत्थिते ॥ ३६८ ॥
वैश्वदेवे च होमे च देवताभ्यर्चने जपेत् ॥
अमृतं तेन विप्रान्नमृग्यजुःसामसंस्मृतम् ॥ ३६९ ॥
व्यवहारानुपूर्व्येण धर्मेण बलिभिर्जितम् ॥
क्षत्रियान्नं पयस्तेन घृता26न्नं यज्ञपालने ॥ ३७० ॥
देवो मुनिर्द्विजो राजा वैश्यः शूद्रो निषादकः ॥
पशुर्म्लेच्छोऽपि चण्डालो विप्रादशविधाः स्मृताः॥ ३७१ ॥
सन्ध्या स्नानं जपं होमं देवतानित्यपूजनम् ॥
अतिथिं वैश्वदेवं च देवब्राह्मण उच्यते ॥ ३७२ ॥
शाके पत्रे फले मूले वनवासे सदा रतः ॥
निरतोऽहरहः श्राद्धे स विप्रो मुनिरुच्यते ॥ ३७३ ॥
वेदान्तं पठते नित्यं सर्वसङ्गं परित्यजेत् ॥
साङ्ख्ययोगविचारस्थः स विप्रो द्विज उच्यते ॥ ३७४ ॥
अस्त्राहताश्च धन्वानः सङ्ग्रामे सर्वसम्मुखे ॥
आरम्भे निर्जिता येन स विप्रः क्षत्र उच्यते ॥ ३७५ ॥
कृषिकर्मरतो यश्च गवां च प्रतिपालकः ॥
वाणिज्यव्यवसायश्च स विप्रो वैश्य उच्यते ॥ ३७६ ॥
लाक्षालवणसम्मिश्रं कुसुम्भं क्षीरसर्पिषः ॥
विक्रेता मधुमांसानां स विप्रः शूद्रउच्यते ॥ ३७७ ॥
चोरश्च तस्करश्चैव सूचको दंशकस्तथा ॥
मत्स्यमांसे सदा लुब्धो विप्रो निषाद उच्यते ॥ ३७८ ॥
ब्रह्मतत्त्वं न जानाति ब्रह्मसूत्रेण गर्वितः ॥
तेनैव स च पापेन विप्रः पशुरुदाहृतः ॥ ३७९ ॥
वापीकूपतडागानामारामस्य सरःसु च ॥
निश्शङ्कंरोधकश्चैव स विप्रो म्लेच्छ उच्यते ॥ ३८० ॥
क्रियाहीनश्च मूर्खश्च सर्वधर्मविवर्जितः ॥
निर्दयः सर्वभूतेषु विप्रश्चण्डाल उच्यते ॥ ३८१ ॥
वेदैर्विहीनाश्च पठन्ति शास्त्रं शास्त्रेण हीनाश्च पुराणपाठाः॥
पुराणहीना कृषिणो भवन्ति भ्रष्टास्ततो भागवता भवन्ति॥३८२॥
ज्योतिर्विदोह्यथर्वाणः कीराः पौराणपाठकाः ॥
श्राद्धयज्ञे महादाने वरणीयाः कदाचन ॥ ३८३ ॥
श्राद्धे च पितरोघो27रं दानं चैवतु निष्फलम् ॥
यज्ञे च फलहानिः स्यात्तस्मात्तान्परिवर्जयेत् ॥ ३८४ ॥
आविकश्चित्रकारश्च वैद्यो नक्षत्रपाठकः ॥
चतुर्विप्रा न पूज्यन्ते बृहस्पतिसमा यदि ॥ ३८५ ॥
मागधो माथुरश्चैव कापटः कीकटानजौ॥
पञ्च विप्रा न पूज्यन्ते बृहस्पतिसमा यदि ॥ ३८६ ॥
क्रयक्रीता च या कन्या पत्नी सा न विधीयते ॥
तस्यां जाताः सुतास्तेषां पितृपिण्डं न विद्यते ॥ ३८७ ॥
अष्टशल्यागतो नीरं पाणिना पिबते द्विजः ॥
सुरापानेन तत्तुल्यं तुल्यं गोमांसभक्षणम् ॥ ३८८ ॥
ऊर्ध्वजङ्घेषु विप्रेषु प्रक्षाल्य चरणद्वयम् ॥
तावच्चण्डालरूपेण यावद्गङ्गां न मज्जति ॥ ३८९ ॥
दीपशय्यासनच्छायां कार्पासं दन्तधावनम् ॥
अजाखुररजःस्पर्शः शक्रस्यापि श्रियं हरेत् ॥ ३९० ॥
गृहाद्दशगुणं कूपं कूपाद्दशगुणं तटम् ॥
तटाद्दशगुणं नद्यां गङ्गा सङ्ख्या न विद्यते ॥ ३९१ ॥
स्रवद्यद्ब्राह्मणं तोयं रहस्यं क्षत्रियं तथा ॥
वापी कूपे तु वैश्यस्य शौद्रं भाण्डोदकं तथा ॥ ३९२ ॥
तीर्थस्नानं महादानं यच्चान्यत्तिलतर्पणम् ॥
अब्दमेकं न कुर्वीत महागुरुनिपाततः ॥ ३९३ ॥
गङ्गा गया त्वमावास्या वृद्धिश्राद्धे क्षयेऽहनि ॥
मघा पिण्डप्रदानं स्यादन्यत्र परिवर्जयेत् ॥ ३९४ ॥
घृतं वा यदि वा तैलं पयो वा यदि वा दधि ॥
चत्वारो ह्याज्यसंस्थाना हृतं नैव तु वर्जयेत् ॥ ३९५ ॥
श्रुत्वैतानृषयो धर्मान्भाषितानत्रिणा स्वयम् ॥
इदमूचुर्महात्मानं सर्वे ते धर्मनिष्ठिताः ॥ ३९६ ॥
य इदं धारयिष्यन्ति धर्मशास्त्रमतन्द्रिताः ॥
इह लोके यशः प्राप्य ते यास्यन्ति त्रिविष्टपम् ॥ ३९७ ॥
विद्यार्थी लभते विद्यां धनकामो धनानि च ॥
आयुष्कामस्तथैवायुः श्रीकामो महतीं श्रियम् ॥ ३९८ ॥
इति श्रीमदत्रिमहर्षिस्मृतिः समाप्ता ॥ १ ॥
<MISSING_FIG href=”../books_images/1680870688.jpg"/>
॥ श्रीः ॥
-
“अथऽत्रिस्मृत्युपक्रमः ।” ↩︎
-
“शास्तिः शासनम् ।” ↩︎
-
“तेषु राष्ट्रेषु ।” ↩︎
-
" यस्य राज्ञो राष्ट्रेषु इति शेषः ।" ↩︎
-
“स राजा इति शेषः । " ↩︎
-
" परकीये जलस्थाने ।” ↩︎
-
“अनुपदं वक्ष्यमाणमात्राद्यतिरिक्तम् ।” ↩︎
-
“निमज्जनं कारयिता ।” ↩︎
-
“गङ्गाम् ।” ↩︎
-
“इति विप्रतिपत्तौ सत्यामिति श्लोकान्तशेषः ।” ↩︎
-
" अतिलङ्घयेत् ।" ↩︎
-
" पञ्चगव्यप्राशनपूर्वकं जपविघातप्रत्यवायपरिहारार्थप्रायश्चित्तम् ।" ↩︎
-
" पूर्वभुक्तावशिष्टमन्नम् ।" ↩︎
-
" छागंसम्बन्धिना पुरीषेण ।" ↩︎
-
“अर्धास्वेन्नंयवादि ।” ↩︎
-
“स्वर्णतप्तमिति बहुत्र पाठः ।” ↩︎
-
“मद्यस्वेदनशालायम् ( भट्टी ↩︎
-
“मृत्तिकयामृद्गोलकेनेत्यर्थः । तृतीयार्थे प्रथमेयमार्षी।” ↩︎
-
“मूत्रं गोमूत्रम् ।” ↩︎
-
“पुरीषं गोमयम् ।” ↩︎
-
“अधिकस्तनी ।” ↩︎
-
“स्वकन्याया अन्नम् ।” ↩︎
-
“अप्रसूता-तावदितिशेषः ।” ↩︎
-
“त्रीणि-धर्मार्थकामरूपाणि ।” ↩︎
-
“नश्यतीतिशेषः ।” ↩︎
-
“वैश्यान्नमितिशेषः ।” ↩︎
-
“घोरं नरकं व्रजन्तीतिशेषः ।” ↩︎