आपस्तंबस्मृतिः

** <MISSING_FIG href="../books_images/1681130008.jpg"/>**

** प्रथमोऽध्यायः १.**

** श्रीगणेशाय नमः।**

आपस्तम्बम्प्रवक्ष्यामि प्रायश्चित्तविनिर्णयम् ।
दूषितानां हितार्थाय वर्णानामनुपूर्वशः ॥ १ ॥

परेषां परिवादेषु निवृत्तमृषिसत्तमम् ।
विविक्तदेश आसीनमात्मविद्यापरायणम् ॥ २ ॥

अनन्यमनसं शान्तन्तत्त्वस्ययोगवित्तमम् ।
आपस्तम्बमृषिं सर्वेसमेत्य मुनयोऽब्रुवन् ॥ ३ ॥

भगवन्मानवाः सर्वे असन्मार्गे स्थिता यदा ।
चरेयुर्धर्मकार्याणां तेषां ब्रूहि विनिष्कृतिम् ॥ ४ ॥

यतोऽवश्यं गृहस्थेन गर्वोदिपरिपालनम् ।
कृषिकर्मादिवपनं द्विजामन्त्रणमेव च ॥ ५ ॥

बालानां स्तन्यपानादि कार्यं च परिपालनम् ।
देयं चानाथकेऽवश्यं विप्रादीनां च भेषजम् ॥ ६ ॥

एवं कृते कथञ्चित्स्यात्प्रमादो यद्यकामतः ।
गवादीनां ततोऽस्माकं भगवन्ब्रूहि निष्कृतिम् ॥ ७ ॥

एवमुक्तः क्षणं ध्यात्वा प्रणिपातादधोमुखः ।
दृष्ट्वा ऋषीनुवाचेदमापस्तम्बःसुनिश्चितम् ॥ ८ ॥

बालानां स्तनपानादिकार्ये दोषो न विद्यते ।
विपत्तावपि विप्राणामामन्त्रणचिकित्सने ॥ ९ ॥

गवादीनां प्रवक्ष्यामि प्रायश्चित्तं तृणादिषु ।
केचिदाहुर्न दोषोऽत्र स्नेहं लवणभेषजे ॥ १० ॥

औषधं लवणं चैव स्नेहं पुष्ट्यर्थभोजनम् ।
प्राणिनां प्राणवृत्त्यर्थं प्रायश्चित्तं न विद्यते ॥ ११ ॥

अतिरिक्तं न दातव्यं काले स्वल्पं तु दापयेत् ।
अतिरिक्तेविपन्नानां कृच्छ्रमेव विधीयते ॥ १२ ॥

अहर्निरशनं पादः पादश्चायाचितं त्र्यहम् ।
सायं त्र्यहं तथा पादः पादः प्रातस्तथा त्र्यहम् ।
प्रातः सायन्दिनार्द्धं च पादोनं सायवर्जितम् ॥ १३ ॥

प्रातः पादञ्चरेच्छूद्रः सायं वैश्यस्यदापयेत् ।
अयाचितं तु राजन्ये त्रिरात्रं ब्राह्मणस्य च ॥ १४ ॥

पादमेकं चरेद्रोधे द्वौ पादौबन्धने चरेत्॥

योजने पादहीनं च चरेत्सर्वं निपातने ॥१५ ॥

घण्टाभरणदोषेण गोस्तु यत्र विपद्भवेत् ।
चरेदर्द्धव्रतं तत्र भूषणार्थं कृतं हि तत् ॥ १६ ॥

दमने वा निरोधे वा सङ्घाते चैव योजने ।
स्तम्भशृङ्खलपाशैश्चमृते पादोनमाचरेत् ॥ १७ ॥

पाषाणैर्लगुडैर्वापि शस्त्रेणान्येन वा बलात् ।
निपातयन्ति ये पापास्तेषां सर्वं विधीयते ॥ १८ ॥

प्राजापत्यं चरेद्विप्रःपादोनं क्षत्रियस्तथा ।
कृच्छ्रार्द्धन्तु चरेद्वैश्यः पादं शूद्रस्य दापयेत् ॥१९ ॥

द्वौ मासौपाययेद्वत्सं द्वौ मासौ द्वौ स्तनौ दुहेत् ।
द्वौमासावेकवेलायां शेषकालं यथारुचि ॥ २० ॥

दशरात्रार्द्धमासेन गौस्तु यत्र विपद्यते ।
सशिखं वपनं कृत्वा प्राजापत्यं समाचरेत् ॥ २१ ॥

हलमष्टगवं धर्म्यं षड्गवं जीवितार्थिनाम् ।
चतुर्गवं नृशंसानां द्विगवं हि जिघांसिनाम् ॥ २२ ॥

अतिवाहातिदोहाभ्यां नासिकाभेदनेन वा ।
नदीपर्वतसंरोहे मृते पादोनमाचरेत् ॥२३ ॥

न नारिकेलवालाभ्यां न मुञ्जेन न चर्मणा ।
एभिर्गास्तु न बध्नीयाद्बद्धापरवशा भवेत् ॥ २४ ॥

कुशैः काशैश्च बध्नीयाद्वृषभं दक्षिणामुखम् ।
पादलग्नाहिदाहेषु प्रायश्चित्तं न विद्यते ॥२५ ॥

व्यापन्नानां बहूनां तु रोधने बन्धनेऽपि च ।
भिषङ्गमिथ्योपचारैश्च द्विगुणं गोव्रतं चरेत् ॥ २६ ॥

शृङ्गभङ्गेऽस्थिभङ्गे चलाङ्गूलस्य च कर्तने ।
सप्तरात्रं पिबेद्वज्रंयावत्स्वस्थः पुनर्भवेत् ॥ २७ ॥

गोमूत्रेण तु सम्मिश्रं यावकं भक्षयेद्द्विजः ।
एतद्विमिश्रितं वज्रमुक्तं चोशनसा स्वयम् ॥ २८ ॥

देवद्रोण्यांविहारेषु कूपेष्वायतनेषु च ।
एषु गोषु विपन्नासु प्रायश्चित्तं न विद्यते ॥ २९ ॥

एका कदा तु बहुभिर्दैवाव्द्यापादिता क्वचित् ।
पादम्पादन्तु हत्यायाश्चरेयुस्ते पृथक्पृथक् ॥ ३० ॥

यन्त्रणे गोश्चिकित्सार्थे मूढगर्भविमोचने ।
यत्ने कृतेविपत्तिश्चेत्प्रायश्चित्तं न विद्यते ॥ ३१ ॥

सरोमं प्रथमे पादे द्वितीये श्मश्रुधारणम् ।
तृतीये तु शिखा धार्या सशिखं तु निपातने ॥ ३२ ॥

सर्वान्केशान्समुद्धृत्य च्छेदयेदङ्गुलिद्वयम् ।
एवमेव तु नारीणां शिरसो मुण्डनं स्मृतम् ॥ ३३ ॥

इत्यापस्तम्बीयेधर्मशास्त्रे प्रथमोऽध्यायः ॥ १ ॥

<MISSING_FIG href="../books_images/1681130095.jpg"/>

** द्वितीयोऽध्यायः २.**

कारुहस्तगतं पुण्यं यच्च पात्राद्विनिःसृतम् ।
स्त्रीबालवृद्धचरितं सर्वमेतच्छुचि स्मृतम् ॥ १ ॥

प्रपास्वरण्येषुजलेषु वै गिरौद्रोण्यां जलङ्केशविनिःसृतञ्च ।
श्वपाकचण्डालपरिग्रहेषुपीत्वा जलम्पञ्चगव्येनशुद्धिः ॥ २ ॥

न दुष्येत्सन्तता धारा वातोद्धूताश्च रेणवः ।
स्त्रियो वृद्धाश्चबालाश्च न दुष्यन्ति कदाचन ॥ ३ ॥

आत्मशय्या च वस्त्रं च जायापत्यं कमण्डलुः ।
आत्मनः शुचीन्येतानि परेषामशुचीनि तु ॥ ४ ॥

अन्यैस्तु खानिताः कूपास्तडागानि तथैव च ।
एषु स्नात्वा च पीत्वा च पञ्चगव्येन शुद्ध्यति ॥५॥

उच्छिष्टमशुचित्वं च यच्च विष्ठानुलेपनम् ।
सर्वं शुद्ध्यति तोयेन तत्तोयं केन शुद्ध्यति ॥६॥

सूर्यरश्मिनिपातेन मारुतस्पर्शनेन च ।
गवां मूत्रपुरीषेण तत्तोयं तेन शुद्ध्यति ॥ ७ ॥

अस्थिचर्मादियुक्तं तु खरश्वानोपदूषितम् ।
उद्धरेदुदकं सर्वं शोधनं परिमार्जनम् ॥ ८ ॥

कूपो मूत्रपुरीषेण यवनेनापि दूषितः ।
श्वसृगालखरोष्ट्रैश्चक्रव्यादैश्चजुगुप्सितः ॥ ९ ॥

उद्धृत्यैवच तत्तोयंसप्तपिण्डान्समुद्धरेत् ।
पञ्चगव्यं मृदा पूतं कूपे तच्छोधनं स्मृतम् ॥ १०॥

वापीकूपतडागानां दूषितानां च शोधनम् ।
कुम्भानांशतमुद्धृत्य पञ्चगव्यं ततः क्षिपेत् ॥ ११ ॥

यच्च कूपात्पिबेत्तोयं ब्राह्मणः शवदूषितात् ।
कथं तत्र विशुद्धिः स्यादिति मे संशयो भवेत् ॥ १२ ॥

अक्लिन्नेन नभिन्नेन केवलं शवदूषिते ।
नीत्वा कूपादहोरात्रं पञ्चगव्येन शुद्ध्यति ॥ १३ ॥

क्लिन्ने भिन्ने शवे चैव तत्रस्थं यदि तत्पिबेत् ।
शुद्धिश्चान्द्रायणं तस्य तप्तकृच्छ्रमथापि वा ॥ १४ ॥

इत्यापस्तम्बीये धर्मशास्त्रे द्वितीयोऽध्यायः ॥ २ ॥

<MISSING_FIG href="../books_images/1681130198.jpg"/>

** तृतीयोऽध्यायः ३.**

अन्त्यजातिरविज्ञातो निवसेद्यस्य वेश्मनि ।
तस्य ज्ञात्वा तु कालेन द्विजाः कुर्वन्त्यनुग्रहम् ॥ १ ॥

चान्द्रायणं पराको वा द्विजातीनां विशोधनम् ।
प्राजापत्यं तु शूद्रस्य शेषं तदनुसारतः ॥ २ ॥

यैर्भुक्तं तत्र पक्कान्नं कृच्छ्रं तेषां प्रदापयेत् ।
तेषामपि च यैर्भुक्तं कृच्छ्रपादं प्रदापयेत् ॥ ३ ॥

कूपैकपानैर्दुष्टानांस्पर्शसंसर्गदूषणात् ।
तेषामेकोपवासेन पञ्चगव्येन शोधनम् ॥ ४ ॥

बालोवृद्धस्तथा रोगी गर्भिणी वायुपीडिता ।
तेषां नक्तं प्रदातव्यं बालानां प्रहरद्वयम्॥ ५ ॥

अशीतिर्यस्य वर्षाणि बालो वाप्यूनषोडशः ।
प्रायश्चित्तार्द्धमर्हन्ति स्त्रियो व्याधित एव च ॥ ६॥

न्यूनैकादशवर्षस्य पञ्चवर्षाधिकस्य च ।
चरेद्गुरुः सुहृद्वापि प्रायश्चित्तं विशोधनम् ॥ ७ ॥

अथैतैःक्रियमाणेषु येषामार्तिः प्रदृश्यते ।
शेषसम्पादनाच्छुद्धिर्विपत्तिर्न भवेद्यथा ॥ ८ ॥

क्षुधाव्याधितकायानां प्राणो येषां विपद्यते ।
ये न रक्षन्ति वक्तारस्तेषां तत्किल्बिषं भवेत् ॥ ९ ॥

पूर्णेऽपि कालनियमे न शुद्धिर्ब्राह्मणैर्विना ।
अपूर्णेष्वपि कालेषु शोधयन्ति द्विजोत्तमाः ॥ १० ॥

समाप्तमिति नो वाच्यं त्रिषु वर्णेषु कर्हिचित् ।
विप्रसम्पादनं कर्म उत्पन्ने प्राणसंशये ॥ ११ ॥

सम्पादयन्ति ये विप्राः स्नानं तीर्थफलप्रदम् ।
सम्यक्कर्त्तुरपायं स्याद्व्रती च फलमाप्नुयात् ॥ १२ ॥

इत्यापस्तम्बीये धर्मशास्त्रे तृतीयोऽध्यायः ॥ ३ ॥

<MISSING_FIG href="../books_images/1681130275.jpg"/>

** चतुर्थोऽध्यायः ४.**

चण्डालकूपभाण्डेषु योऽज्ञानात्पिबतेजलम् ।
प्रायश्चित्तं कथं तस्य वर्णेवर्णे विधीयते ॥ १ ॥

चरेत्सान्तपनंविप्रः प्राजापत्यं तु भूमिपः ।
तदर्धन्तु चरेद्वैश्यः पादं शूद्रस्य दापयेत् ॥ २ ॥

भुक्तोच्छिष्टस्त्वनाचान्तश्चण्डालैः श्वपचेन वा ।
प्रमादात्स्पर्शनं गच्छेत्तत्र कुर्याद्विशोधनम् ॥ ३ ॥

गायत्र्यष्टसहस्रं तु द्रुपदांवा शतं जपेत् ।
जपंस्त्रिरात्रमनश्नन्पञ्चगव्येन शुद्ध्यति ॥ ४ ॥

चण्डालेन यदा स्पृष्टो विण्मूत्रे कुरुते द्विजः ।
प्रायश्चित्तं त्रिरात्रं स्याद्भुक्तोच्छिष्टः षडाचरेत् ॥ ५ ॥

पाने मैथुनसम्पर्केतथा मूत्रपुरीषयोः ।
सम्पर्केयदि गच्छेत्तु उदक्या चान्त्यजैस्तथा ।
एतैरेव यदा स्पृष्टः प्रायश्चित्तङ्कथं भवेत् ॥ ६ ॥

भोजने च त्रिरात्रं स्यात्पाने तु त्र्यहमेव च ।
मैथुने पादकृच्छ्रं स्यात्तथा मूत्रपुरीषयोः ॥ ७ ॥

दिनमेकं तथा मूत्रे पुरीषे तु दिनत्रयम् ।
एकाहं तत्र निर्दिष्टं दन्तधावनभक्षणे॥ ८ ॥

वृक्षारूढे तु चण्डाले द्विजस्तत्रैव तिष्ठति ।
फलानि भक्षयंस्तस्य कथं शुद्धिंविनिर्दिशेत् ॥ ९ ॥

ब्राह्मणान्समनुज्ञाप्य सवासाःस्नानमाचरेत् ।
एकरात्रोषितो भूत्वा पञ्चगव्येन शुद्ध्यति ॥ १० ॥

येन केनचिदुच्छिष्टोऽप्यमेध्यं स्पृशति द्विजः ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्ध्यति ॥ ११ ॥

इत्यापस्तम्बीयेधर्मशास्त्रे चतुर्थोऽध्यायः ॥ ४ ॥

<MISSING_FIG href="../books_images/1681130275.jpg"/>

** पञ्चमोऽध्यायः ५.**

चण्डालेन यदा स्पृष्टो द्विजवर्णः कदाचन ।
अनभ्युक्ष्यपिबेत्तोयं प्रायश्चित्तं कथं भवेत् ॥ १ ॥

ब्राह्मणस्य त्रिरात्रं तु पञ्चगव्येन शुद्ध्यति ।
क्षत्रियस्य द्विरात्रं तु पञ्चगव्येन शुद्ध्यति ॥ २ ॥

अहोरात्रं तु वैश्यस्यपञ्चगव्येन शुद्ध्यति ।
चतुर्थस्य तु वर्णस्य प्रायश्चित्तं कथं भवेत् ॥ ३ ॥

व्रतं नास्ति तपो नास्ति होमो नैव च विद्यते ।
पञ्चगव्यं न दातव्यं तस्य मन्त्रविवर्जनात् ।
ख्यापयित्वा द्विजानां तु शूद्रो दानेन शुद्ध्यति ॥ ४ ॥

ब्राह्मणस्य यदोच्छिष्टमश्नात्यज्ञानतो द्विजः ।
अहोरात्रं तु गायत्र्या जपं कृत्वा विशुद्ध्यति ॥ ५ ॥

उच्छिष्टं वैश्यजातीनां भुङ्क्ते ज्ञानाद्द्विजो यदि ।
शङ्खपुष्पीपयः पीत्वा त्रिरात्रेणैव शुद्ध्यति ॥ ६ ॥

ब्राह्मण्या सह योऽश्नीयादुच्छिष्टं वा कदाचन ।
न तत्र दोषं मन्यन्ते नित्यमेव मनीषिणः ॥ ७॥

उच्छिष्टमितरस्त्रीणामश्नीयात्स्पृशतेऽपि वा ।
प्राजापत्येन शुद्धिः स्याद्भगवानङ्गिराब्रवीत् ॥ ८ ॥

अन्त्यानां भुक्तशेषं तु भक्षयित्वा द्विजातयः ।
चान्द्रायणं तदर्धार्धम्ब्रह्मक्षत्रविशां विधिः ॥ ९ ॥

विण्मूत्रभक्षणे विप्रस्तप्तकृच्छ्रंसमाचरेत् ।
श्वकाकोच्छिष्टगोभिश्च प्राजापत्यविधिः स्मृतः ॥ १० ॥

उच्छिष्टः स्पृशते विप्रो यदि कश्चिद्कामतः ।
शुनः कुक्कुटशूद्रांश्च मद्यभाडं तथैव च ॥ ११ ॥

पक्षिणाधिष्ठितं यच्च यद्यमेध्यं कदाचन ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्ध्यति ॥ १२ ॥

वैश्येन च यदा स्पृष्ट उच्छिष्टेन कदाचन ।
स्नानं जप्यं च त्रैकाल्यं दिनस्यान्ते विशुद्ध्यति ॥ १३ ॥

विप्रो विप्रेण संस्पृष्ट उच्छिष्टेन कदाचन ।
स्नानान्ते च विशुद्धिः स्यादापस्तम्बोऽब्रवीन्मुनिः ॥ १४॥

इत्यापस्तम्बीयेधर्मशास्त्रे पञ्चमोऽध्यायः ॥५ ॥

<MISSING_FIG href="../books_images/1681130275.jpg"/>

** षष्ठोऽध्यायः ६.**

अत ऊर्ध्वं प्रवक्ष्यामि नीलीवस्त्रस्य यो विधिः ।
स्त्रीणाङ्क्रीडार्थसम्भोगे शयनीये न दुष्यति ॥ १ ॥

पालने विक्रये चैव तद्वृत्तेरुपजीवने।

पतितस्तु भवेद्विप्रस्त्रिभिः कृच्छ्रैर्विशुद्ध्यति ॥ २ ॥

स्नानं दानं जपो होमः स्वाध्यायः पितृतर्पणम् ।
पञ्चयज्ञा वृथा तस्य नीलीवस्त्रस्य धारणात् ॥ ३ ॥

नीलीरक्तं यदा वस्त्रं ब्राह्मणोऽङ्गेषु धारयेत् ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्ध्यति ॥ ४ ॥

रोमकूपैर्यदा गच्छेद्रसो नील्यास्तु कर्हिचित् ।
पतितस्तु भवेद्विप्रस्त्रिभिः कृच्छ्रैर्विशुद्ध्यति ॥ ५ ॥

नीलीदारु यदा भिन्द्याद्ब्राह्मणस्य शरीरकम् ।
शोणितं दृश्यते तत्र द्विजश्चान्द्रायणं चरेत् ॥ ६ ॥

नीलीमध्ये यदा गच्छेत्प्रमादाद्ब्राह्मणः क्वचित् ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्ध्यति ॥ ७ ॥

नीलीरक्तेन वस्त्रेण यदन्नमुपनीयते ।
अभोज्यं तद्विजातीनां भुक्त्वा चान्द्रायणं चरेत् ॥ ८ ॥

भक्षयेद्यश्च नीलीं तु प्रमादाद्ब्राह्मणः क्वचित् ।
चान्द्रायणेन शुद्धिः स्यादापस्तम्बोऽब्रवीन्मुनिः ॥ ९ ॥

यावत्यांवापिता नीली तावती वाशुचिर्मही ।
प्रमाणं द्वादशाब्दानि अत ऊर्ध्वं शुचिर्भवेत् ॥ १० ॥

इति आपस्तम्बीयेधर्मशास्त्रे षष्ठोऽध्यायः ॥ ६ ॥

<MISSING_FIG href="../books_images/1681130275.jpg"/>

** सप्तमोऽध्यायः ७.**

स्नानं रजस्वलायास्तु चतुर्थेऽहनि शस्यते ।
वृत्ते रजसि गम्या स्त्री नानिवृत्ते कथञ्चन ॥ १ ॥

रोगेण यद्रजः स्त्रीणामत्यर्थं हि प्रवर्तते ।
अशुद्धास्तास्तु नैवेह तासां वैकारिको मदः ॥ २ ॥

साध्वाचारा न तावत्सा रजो यावत्प्रवर्त्तते ।
वृत्ते रजसि साध्वी स्याद्गृहकर्मणि चैन्द्रिये ॥ ३ ॥

प्रथमेऽहनि चाण्डाली द्वितीये ब्रह्मघातिनी।

तृतीये रजकी प्रोक्ता चतुर्थेऽहनि शुद्ध्यति ॥४॥

अन्त्यजातिश्वपाकेन संस्पृष्टा वै रजस्वला ।
अहानि तान्यतिक्रम्य प्रायश्चित्तं प्रकल्पयेत् ॥५॥

त्रिरात्रमुपवासः स्यात्पञ्चगव्यं विशोधनम् ।
निशां प्राप्य तु तां योनिं प्रजाकरां च कामयेत् ॥ ६ ॥

रजस्वलान्त्यजैःस्पृष्टा शुना च श्वपचेन च ।
त्रिरात्रोपोषिता भूत्वा पञ्चगव्येन शुद्ध्यति ॥ ७ ॥

प्रथमेऽहनि षड्रात्रं द्वितीये तु त्र्यहस्तथा ।
तृतीये चोपवासस्तु चतुर्थे वह्निदर्शनात् ॥ ८ ॥

विवाहे वितते यज्ञे संस्कारे च कृते तथा ।
रजस्वला भवेत्कन्या संस्कारस्तु कथं भवेत् ॥ ९ ॥

स्नापयित्वा तदा कन्यामन्यैर्वस्त्रैरलङ्कृताम् ।
पुनर्मेध्याहुतिं हुत्वा शेषं कर्म समाचरेत् ॥ १० ॥

रजस्वला तु संस्पृष्टा प्लवकुक्कुटवायसैः ।
स्रा त्रिरात्रोपवासेन पञ्चगव्येन शुद्ध्यति ॥ ११ ॥

रजस्वला तु या नारी अन्योन्यं स्पृशते यदि ।
तावत्तिष्ठेन्निराहारा स्नात्वा कालेन शुद्ध्यति ॥ १२ ॥

उच्छिष्टेन तु संस्पृष्टा कदाचित्स्त्री रजस्वला ।
कृच्छ्रेण शुद्ध्यतेविप्राशूद्रीदानेन शुद्ध्यति ॥ १३॥

एकशाखां समारूढश्चण्डालो वा रजस्वला ।
ब्राह्मणश्च समं तत्र सवासाः स्नानमाचरेत् ॥ १४ ॥

रजस्वलायाः संस्पर्शः कथञ्चिज्जायते शुना ।
रजोदिनानां यच्छेषं तदुपोष्य विशुद्ध्यति ॥ १५ ॥

अशक्ता चोपवासेन स्नानं पश्चात्समाचरेत् ।
तथाप्यशक्ता चैकेन पञ्चगव्येन शुद्ध्यति ॥ १६ ॥

उच्छिष्टस्तु यदा विप्रःस्पृशेन्मद्यं रजस्वलाम् ।
मद्यं स्पृष्ट्वा चरेत्कृच्छ्रं तदर्धं तु रजस्वलाम् ॥ १७ ॥

उदक्यां सूतिकां विप्र उच्छिष्टः स्पृशतेयदि ।
कृच्छ्रार्द्धन्तु चरेद्विप्रः प्रायश्चित्तं विशोधनम् ॥ १८ ॥

चण्डालः श्वपचो वापि आत्रेयीं स्पृशते यदि॥

शेषाह्नाफालकृष्टेन पञ्चगव्येन शुद्ध्यति ॥ १९ ॥

उदक्याब्राह्मणी शूद्रामुदक्यां स्पृशते यदि ।
अहोरात्रोषिता भूत्वा पञ्चगव्येन शुद्ध्यति ॥ २० ॥

एवं तु क्षत्रिया वैश्या ब्राह्मणी चेद्रजस्वला ।
सचैलं प्लवनं कृत्वा दिनस्यान्ते घृतं पिबेत् ॥ २१ ॥

सवर्णेषु तु नारीणां सद्यः स्नानं विधीयते ।
एवमेव विशुद्धिः स्यादापस्तम्बोऽब्रवीन्मुनिः ॥ २२ ॥

इत्यापस्तम्बीये धर्मशास्त्रे सप्तमोऽध्यायः ॥७ ॥

<MISSING_FIG href="../books_images/1681130275.jpg"/>

** अष्टमोऽध्यायः ८.**

भस्मना शुद्ध्यतेकांस्यं सुरयायन्नलिप्यते ।
सुराविण्मूत्रसंस्पृष्टं शुद्ध्यतेतापलेखनैः ॥ १ ॥

गवाघ्रातानि कांस्यानिशुद्रोच्छिष्टानि यानि तु ।
देशभस्मानि शुद्ध्यन्तिश्वकाकोपहतानि च ॥ २ ॥

शौचं सुवर्णनारीणां वायुसूर्यैन्दुरश्मिभिः ।
रेतःस्पृष्टं शवस्पृष्टमाविकं तु प्रदुष्यति ।
अद्भिर्मृदा च तन्मात्रं प्रक्षाल्य च विशुद्ध्यति ॥ ३ ॥

शुष्कमन्नमवेद्यस्य पञ्चरात्रेण जीर्यति ।
अन्नं व्यञ्जनसंयुक्तमर्द्धमासेन जीर्यति ॥ ४ ॥

पयस्तु दधि मासेन षण्मासेन घृतं तथा ।
संवत्सरेण तैलं तु कोष्ठेजीर्यति वा न वा ॥ ५ ॥

भुञ्जते ये तु शूद्रान्नं मासमेकं निरन्तरम् ।
इह जन्मनि शूद्रत्वं जायन्ते ते मृताः शुनि ॥ ६ ॥

शूद्रान्नं शूदसम्पर्कः शूद्रेणैव सहासनम् ।
शूद्राज्ज्ञानागमः कश्चिज्ज्वलन्तमपि पातयेत् ॥ ७ ॥

आहिताग्निस्तु यो विप्रःशूद्रान्नान्न निवर्तते ।
तथा तस्य प्रणश्यन्ति आत्मा ब्रह्म त्रयोऽग्नयः ॥ ८ ॥

शूद्रान्नेन तु भुक्तेन मैथुनं योऽधिगच्छति ।
यस्यान्नं तस्य ते पुत्रा अन्नाच्छुक्रस्य सम्भवः ॥ ९॥

शूद्रान्नेनोदरस्येन यः कश्चिन्म्रियते द्विजः ।
स भवेच्छूकरो ग्राम्यस्तस्य वा जायते कुले ॥ १०॥

ब्राह्मणस्य सदा भुङ्क्ते क्षत्रियस्य तु पर्वणि ।
वैश्यस्य यज्ञदीक्षायां शूद्रस्य न कदाचन ॥ ११ ॥

अमृतं ब्राह्मणस्यान्नं क्षत्रियस्य पयःस्मृतम् ।
वैश्यस्याप्यन्नमेवान्नं शूद्रस्य रुधिरं स्मृतम् ॥ १२ ॥

वैश्वदेवेन होमेन देवताभ्यर्चनैर्जपैः॥

अमृतं तेन विप्रान्नमृग्यजुःसामसंस्कृतम् ॥ १३ ॥

व्यवहारानुरूपेण धर्मेण च्छलवर्जितम् ।
क्षत्रियस्य पयस्तेन भूतानां यच्च पालनम् ॥ १४ ॥

स्वकर्मणा च वृषभैरनुसृत्याद्य शक्तितः ।
खलयज्ञातिथित्वेन वैश्यान्नं तेन संस्कृतम् ॥ १५ ॥

अज्ञानतिमिरान्धस्य मद्यपानरतस्य च ।
रुधिरं तेन शूद्रान्नं विधिमन्त्रविवर्जितम् ॥ १६ ॥

आममांसम्मधु घृतं धानाः क्षीरं तथैव च ।
गुडस्तक्रंरसाग्राह्या निवृत्तेनापि शूद्रतः ॥ १७ ॥

शाकं मांसं मृणालानि तुम्बुरुः सक्तवस्तिलाः ।
रसाः फलानि पिण्याकं प्रतिग्राह्याहि सर्वतः॥१८ ॥

आपत्काले तु विप्रेण भुक्तं शूद्रगृहे यदि ।
मनस्तापेन शुद्ध्येतद्रुपदांवा शतं जपेत् ॥ १९ ॥

द्रव्यपाणिश्च शूद्रेण स्पृष्टोच्छिष्टेन कर्हिचित् ।
तद्द्विजेन न भोक्तव्यमापस्तम्बोऽब्रवीन्मुनिः ॥ २० ॥

इत्यापस्तम्बीयेधर्मशास्त्रेऽष्टमोऽध्यायः ॥ ८ ॥

<MISSING_FIG href="../books_images/1681130275.jpg"/>

** नवमोऽध्यायः ९.**

भुञ्जानस्य तु विप्रस्य कदाचित्स्रवते गुदम् ।
उच्छिष्टस्याशुचेस्तस्य प्रायश्चित्तं कथं भवेत् ॥ १ ॥

पूर्वं शौचं तु निर्वर्त्य ततः पश्चादुपस्पृशेत् ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्ध्यति ॥ २ ॥

अशित्वा सर्वमेवान्नमकृत्वा शौचमात्मनः ।
मोहाद्भुक्त्वात्रिरात्रं तु यवान्पीत्वाविशुद्ध्यति ॥ ३ ॥

प्रसृतं यवसस्येन पलमेकं तु सर्पिषा ।
पलानि पञ्च गोमूत्रं नातिरिक्तवदाशयेत्॥ ४ ॥

अलेह्यानामपेयानामभक्ष्याणां च भक्षणे॥

रेतोमूत्रपुरीषाणां प्रायश्चित्तं कथं भवेत् ॥ ५ ॥

पद्मोदुम्बरबिल्वाश्च कुशाश्च सपलाशकाः ।
एतेषामुदकं पीत्वा षड्रात्रेण विशुद्ध्यति ॥ ६ ॥

ये प्रत्यवसिता विप्राः प्रव्रज्याग्निजलादिषु ।
अनाशकनिवृत्ताश्च गृहस्थत्वं चिकीर्षिताः ॥ ७ ॥

चरेयुस्त्रीणि कृच्छ्राणि त्रीणि चान्द्रायणानि वा ।
जातकर्मादिभिः सर्वैःपुनः संस्कारभागिनः ।
तेषां सान्तपनं कृच्छ्रं चान्द्रायणमथापि वा ॥ ८ ॥

यद्विष्ठितङ्काकबलाकयोर्वा अमेध्यलिप्तं च भवेच्छरीरम् ।
श्रोत्रेमुखेचप्रविशेच्चसम्यक्स्नानेनलेपोपहतस्यशुद्धिः॥ ९॥

उर्ध्वं नाभेःकरौमुक्त्वा यदङ्गमुपहन्यते ।
ऊर्ध्वं स्नानमधः शौचमात्रेणैव विशुद्ध्यति ॥ १० ॥

उपानहावमेध्यं वा यस्य संस्पृशते मुखम् ।
मृत्तिकाशोधनं स्नानं पञ्चगव्यं विशोधनम् ॥ ११ ॥

दशाहाच्छुभ्यते विप्रो जन्महानौ स्वयोनिषु ।
षड्भिस्त्रिभिरथैकेन क्षत्रविट्शूद्रयोनिषु ॥ १२ ॥

उपनीतं यदा त्वन्नं भोक्तारं समुपस्थितम् ।
अपीतवत्समुत्सृष्टं न दद्यान्नैव होमयेत् ॥ १३ ॥

अन्ने भोजनसम्पन्नेमक्षिकाकेशदूषिते ।
अनन्तरं स्पृशेदापस्तच्चान्नं भस्मना स्पृशेत् ॥ १४ ॥

शुष्कमांसमयं चान्नं शूद्रान्नं वाप्यकामतः ।
भुक्त्वा कुच्छ्रञ्चरेद्विप्रो ज्ञानात्कृच्छ्रत्रयं चरेत् ॥ १५ ॥

अभुक्तो मुच्यते यश्च भुक्तो यश्चापि मुच्यते ।
भोक्ता च मोचकश्चैव पश्चाद्धरति दुष्कृतम् ॥ १६॥

यस्तु भुञ्जति भुक्तं वा दुष्टं वापि विशेषतः ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्ध्यति ॥ १७ ॥

उदके चोदकस्थस्तु स्थलस्यश्चस्थले शुचिः ।
पादौ स्थाप्योभयत्रैव आचम्योभयतः शुचिः ॥ १८ ॥

उत्तीर्याचामेदुदकादवतीर्य उपस्पृशेत् ।
एवं तु श्रेयसा युक्तोवरुणेनाभिपूज्यते ॥ १९ ॥

अग्न्यगारेगवां गोष्ठेब्राह्मणानां च सन्निधौ ।
स्वाध्याये भोजने चैव पादुकानां विसर्जनम् ॥ २० ॥

जन्मप्रभृति संस्कारे श्मशानान्ते च भोजनम् ।
असपिण्डैर्न कर्तव्यं चूडाकार्ये विशेषतः ॥ २१ ॥

याजकान्नं नवश्राद्धं सङ्ग्रहे चैव भोजनम् ।
स्त्रीणां प्रथमगर्भे च भुक्त्वाचान्द्रायणं चरेत् ॥ २२ ॥

ब्रह्मौदनेऽवसाने च सीमन्तोन्नयने तथा ।
अन्नश्राद्धे मृतश्राद्धे भुक्त्वाचान्द्रायणं चरेत् ॥ २३ ॥

अप्रजाया तु नारी स्यान्नाश्नीयादेव तद्गृहे ।
अथ भुञ्जीत मोहाद्यःपूयं स नरकं व्रजेत् ॥ २४ ॥

अल्पेनापि हि शुल्केन पिता कन्यां ददाति यः ।
रौरवे बहुवर्षाणि पुरीषं मूत्रमश्नुते ॥ २५ ॥

स्त्रीधनानि तु ये मोहादुपजीवन्ति बान्धवाः ।
स्वर्णं यानानि वस्त्राणि ते पापा यान्त्यधोगतिम् ॥२६॥

राजान्नभोजआदत्ते शूद्रान्नं ब्रह्मवर्चसम् ।
असंस्कृतं तु यो भुङ्क्ते सभुङ्क्ते पृथिवीमलम् ॥ २७॥

मृतके सूतके चैव ग्रहणे शशिभास्करे ।
हस्तिच्छायां तु यो भुङ्क्ते स पापः पुरुषो भवेत् ॥२८॥

पुनर्भूपुनरेता च रेतोधा कामचारिणी ।
आसां प्रथमगर्भेषु भुक्त्वा चान्द्रयणं चरेत् ॥ २९ ॥

मातृघ्नश्चपितृघ्नश्च ब्रह्मघ्नोगुरुतल्पगः ।
विशेषाद्भुक्तमेतेषां भुक्त्वा चाद्रायणं चरेत् ॥ ३० ॥

रजकव्याधशैलूषवेणुचर्मोपजीविनः ।
भुक्तैषाम्ब्राह्मणश्चान्नंशुद्धिश्चान्द्रायणेन तु ॥ ॥ ३१ ॥

उच्छिष्टोच्छिष्टसंस्पृष्टः कदाचिदुपजायते ।
सवर्णेन तदोत्थाय उपस्पृश्य शुचिर्भवेत् ॥ ३२ ॥

उच्छिष्टोच्छिष्टसंस्पृष्टः शुना शूद्रेण वा द्विजः ।
उपोष्य रजनीमेकां पञ्चगव्येन शुद्ध्यति ॥ ३३ ॥

ब्राह्मणस्य सदा कालंशूद्रे प्रेषणकारिणि ।
भूमावन्नं प्रदातव्यं यथैव श्वा तथैव सः ॥ ३४ ॥

अनुदकेष्वरण्येषु चोरव्याघ्राकुले पथि ।
कृत्वा मूत्रं पुरीषं च द्रव्यहस्तः कथं शुचिः ॥ ३५ ॥

भूमावन्नं प्रतिष्ठाप्य कृत्वा शौचं यथार्थतः ।
उत्सङ्गे गृह्य पक्वान्नमुपस्पृश्य ततः शुचिः ॥ ३६ ॥

मूत्रोच्चारं द्विजः कृत्वा अकृत्वा शौचमात्मनः ।
मोहाद्भुक्त्वात्रिरात्रं तु गव्यं पीत्वा विशुद्ध्यति ॥ ३७ ॥

उदक्यां यदि गच्छेत्तु ब्राह्मणो मदमोहितः ।
चान्द्रायणेन शुद्ध्येत ब्राह्मणानां च भोजनैः ॥ ३८ ॥

भुक्त्वोच्छिष्टस्त्वनाचान्तश्चण्डालैःश्वपचेन वा ।
प्रमादाद्यदि संस्पृष्टो ब्राह्मणोज्ञानदुर्बलः ॥ ३९ ॥

स्नात्वा त्रिषवणं नित्यं ब्रह्मचारी धराशयः ।
स त्रिरात्रोषितो भूत्वा पञ्चगव्येन शुद्ध्यति ॥ ४० ॥

चण्डालेन तु संस्पृष्टो यश्चापः पिबति द्विजः ।
अहोरात्रोषितो भूत्वा त्रिषवणेन शुद्ध्यति ॥ ४१ ॥

सायम्प्रातस्त्वहोरात्रं पादं कृच्छ्रस्य तं विदुः ।
सायं प्रातस्तथैवैकं दिनद्वयमयाचितम् ॥ ४२ ॥

दिनद्वयं च नाश्नीयात्कृच्छ्रार्द्धं तद्विधीयते॥

प्रायश्चित्तं लघुष्वेतत्पापेषु तु यथार्हतः ॥ ४३ ॥

कृष्णाजिनतिलग्राही हस्त्यश्वानां च विक्रयी ।
प्रेतनिर्यातकश्चैव न भूयः पुरुषो भवेत् ॥ ९॥

इत्यापस्तम्बीये धर्मशास्त्रे नवमोऽध्यायः ।
<MISSING_FIG href="../books_images/1681130275.jpg"/>

** दशमोऽध्यायः १०.**

आचान्तोऽप्यशुचिस्तावद्यावन्नोद्ध्रियते जलम् ।
उद्धृतेऽप्यशुचिस्तावद्यावद्भूमिर्न लिप्यते ॥ १ ॥

भूमावपि च लिप्तायां तावत्स्यादशुचिः पुमान् ।
आसनादुत्थितस्तस्माद्यावन्नाक्रमते महीम् ॥ २ ॥

न यमं यममित्याहुरात्मा वै यम उच्यते ।
आत्मा संयमितो येन तं यमः किं करिष्यति ॥ ३ ॥

न चैवासिस्तथा तीक्ष्णः सर्पोवा दुरधिष्ठितः ।
यथा क्रोधो हि जन्तूनां शरीरस्थो विनाशकः ॥ ४ ॥

क्षमा गुणो हि जन्तूनामिहामुत्र सुखप्रदः ।
एकः क्षमावतां दोषो द्वितीयो नोपपद्यते ।
यदेनं क्षमया युक्तमशक्तं मन्यते जनः ॥ ५ ॥

न शब्दशास्त्राभिरतस्य मोक्षो न चैव रम्यावसथप्रियस्य ।
न भोजनाच्छादनतत्परस्यनलोकचित्तग्रहणे रतस्य ॥६॥

एकान्तशीलस्य दृढव्रतस्य मोक्षो भवेत्प्रीतिनिवर्तकस्य ।
अध्यात्मयोगैकरतस्यसम्यङ्मोक्षोभवेन्नित्यमहिंसकस्य

क्रोधयुक्तोयद्यजते यज्जुहोति यदर्चति ।
सर्वं हरति तत्तस्य आमकुम्भ इवोदकम् ॥ ८ ॥

अपमानात्तपोवृद्धिः सम्मानात्तपसः क्षयः ।
अर्चितः पूजितो विप्रोदुग्धा गौरिव सीदति ॥ ९ ॥

आप्यायते यथा धेनुस्तृणैरमृतसम्भवैः ।
एवं जपैश्च होमैश्च पुनराप्यायते द्विजः ॥ १० ॥

मातृवत्परदारांश्च परद्रव्याणि लोष्टवत् ।
आत्मवत्सर्वभूतानि यः पश्यति स पश्यति ॥ ११ ॥

रजकव्याधशैलूषवेणुचर्मोपजीविनाम् ।
यो भुङ्क्ते भुक्तमेतेषां प्राजापत्यं विशोधनम् ॥ १२ ॥

अगम्यागमनं कृत्वा अभक्ष्यस्य च भक्षणम् ।
शुद्धिं चान्द्रायणं कृत्वा अथवान्ते तथैव च ॥ १३ ॥

अग्निहोत्रं त्यजेद्यस्तु स नरो वीरहा भवेत् ।
तस्य शुद्धिर्विधातव्या नान्या चान्द्रायणादृते ॥ १४ ॥

विवाहोत्सवयज्ञेषु अन्तरा मृतसूतके ।
सद्यः शुद्धिं विजानीयात्पूर्वसङ्कल्पितं च यत् ॥ १५ ॥

देवद्रोण्यां विवाहे च यज्ञेषु प्रततेषु च ।
कल्पितं सिद्धमन्नाद्यं नाशौचं मृतसूतके ॥१६ ॥

इत्यापस्तम्बीये धर्मशास्त्रे दशमोऽध्यायः ॥१० ॥

आपस्तम्बस्मृतिः समाप्ता ७.

<MISSING_FIG href="../books_images/1681130275.jpg"/>

श्रीः।