आङ्गिरस-स्मृतिः

<MISSING_FIG href="../books_images/1680947395.jpg"/>

गृहाश्रमेषु धर्मेषु वर्णानामनुपूर्वशः ।
प्रायश्चित्तविधिं दृष्ट्वा अङ्गिरा मुनिरब्रवीत् ॥ १ ॥

अन्त्यानामपि सिद्धान्नम्भक्षयित्वा द्विजातयः ।
चान्द्रङ्कृच्छ्रं तदर्धन्तु ब्रह्मक्षत्रविशां विदुः ॥ २ ॥

रजकश्चर्मकश्चैव नटो बुरुड एव च ।
कैवर्तमेदभिल्लाश्च सप्तैते चान्त्यजाः स्मृताः ॥ ३ ॥

अन्त्यजानां गृहे तोयं भाण्डे पर्युषितं च यत् ।
यद्द्विजेन यदा पीतं तदैव हि समाचरेत् ॥ ४ ॥

चण्डालकूपे भाण्डेषु त्वज्ञानात्पिबते यदि ।
प्रायश्चित्तं कथं तेषां वर्णे वर्णे विधीयते ॥ ५ ॥

चरेत्सान्तपनं विप्रः प्राजापत्यं तु भूमिपः ।
तदर्धन्तु चरेद्वैश्यः पादं शूद्रेषु दापयेत् ॥ ६ ॥

अज्ञानात्पिबते तोयं ब्राह्मणस्त्वन्त्यजातिषु ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्ध्यति ॥ ७ ॥

विप्रो विप्रेण संस्पृष्ट उच्छिष्टेन कदाचन ।
आचान्त एव शुद्ध्येत अङ्गिरा मुनिरब्रवीत् ॥ ८ ॥

क्षत्रियेण यदा स्पृष्ट उच्छिष्टेन कदाचन ।
स्नानं जप्यं तु कुर्वीत दिनस्यार्द्धेन शुद्ध्यति ॥ ९ ॥

वैश्येन तु यदा स्पृष्टः शुना शूद्रेण वा द्विजः ।
उपोष्य रजनीमेकां पञ्चगव्येन शुद्ध्यति ॥ १० ॥

अनुच्छिष्टेन संस्पृष्टः स्नानं येन विधीयते ।
तेनैवोच्छिष्टसंस्पृष्टः प्राजापत्यं समाचरेत् ॥ ११ ॥

अत ऊर्ध्वं प्रवक्ष्यामि नीलीशौचस्य वै विधिम् ।
स्त्रीणां क्रीडार्थसम्भोगे शयनीये न दुष्यति ॥ १२ ॥

पालनं विक्रयश्चैव तद्वृत्त्या चोपजीवनम् ।
पतितस्तु भवेद्विप्रस्त्रिभिः कृच्छ्रैर्व्यपोहति ॥ १३ ॥

स्नानं दानं जपो होमः स्वाध्यायः पितृतर्पणम् ।
स्पृष्ट्वा तस्य महापापं नीलीवस्त्रस्य धारणम् ॥ १४ ॥

नीलीरक्तं यदा वस्त्रमज्ञानेन तु धारयेत् ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्धयति ॥ १५ ॥

नीलीदारु यदा भिन्द्याद्ब्राह्मणो वै प्रमादतः ।
शोणितं दृश्यते यत्र द्विजश्चान्द्रायणं चरेत् ॥ १६ ॥

नीलीवृक्षेण पक्वन्तु अन्नमश्नाति चेद्द्विजः ।
आहारवमनं कृत्वा पञ्चगव्येन शुद्ध्यति ॥ १७ ॥

भक्षेत्प्रमादतो नीलीं द्विजातिस्त्वसमाहितः ।
त्रिषु वर्णेषु सामान्यं चान्द्रायणमिति स्थितम् ॥ १८ ॥

नीलीरक्तेन वस्त्रेण यदन्नमुपदीयते ।
नोपतिष्ठति दातारं भोका भुङ्क्ते तु किल्बिषम् ॥ १९ ॥

नीलीरक्तेन वस्त्रेण यत्पाके श्रपितं भवेत् ।
तेन भुक्तेन विप्राणां दिनमेकमभोजनम् ॥ २० ॥

मृते भर्तरि या नारी नीलीवस्त्रं प्रधारयेत् ।
भर्ता तु नरकं याति सा नारी तदनन्तरम् ॥ २१ ॥

नील्या चोपहते क्षेत्रे सस्यं यत्तु प्ररोहति ।
अभोज्यं तद्द्विजातीनां भुक्त्वाचान्द्रायणं चरेत् ॥ २२ ॥

देवद्रोणे वृषोत्सर्गे यज्ञे दाने तथैव च ।
अत्र स्नानं न कर्तव्यं दूषिता च वसुन्धरा ॥ २३ ॥

वापिता यत्र नीली स्यात्तावद्भूरशुचिर्भवेत् ।
यावद्द्वादशवर्षाणि अतऊर्ध्वं शुचिर्भवेत् ॥ २४ ॥

भोजने चैवं पाने च तथा चौषधभेषजैः ।
एवं म्रियन्ते या गावः पादमेकं समाचरेत् ॥ २५ ॥

घण्टाभरणदोषेण यत्र गौर्विनिपीड्यते ।
चरेदूर्ध्वंव्रतं तेषां भूषणार्थं तु यत्कृतम् ॥ २६ ॥

दमने दामने रोधे अवघाते च वैकृते ।
गवां प्रभवतां घातैः पादोनं व्रतमाचरेत् ॥ २७ ॥

अङ्गुष्ठपर्व मात्रस्तु बाहुमात्रप्रमाणतः ।
सपल्लवश्चसाग्रश्च दण्ड इत्यभिधीयते ॥ २८ ॥

दण्डादुक्ताद्यदान्येन पुरुषाः प्रहरन्ति गाम् ।
द्विगुणं गोव्रतं तेषां प्रायश्चित्तं विशोधनम् ॥ २९ ॥

शृगभङ्गे त्वस्थिभङ्गे चर्मनिर्मोचने तथा ।
दशरात्रं चरेत्कृच्छ्रं यावत्स्वस्थो भवेत्तदा ॥ ३० ॥

गोमूत्रेण तु सम्मिश्रं यावकं चोपजायते ।
एतदेव हितं कृच्छ्रमित्थमङ्गिरसा स्मृतम् ॥ ३१ ॥

असमर्थस्य बालस्य पिता वा यदि वा गुरुः ।
यमुद्दिश्य चरेद्धर्मं पापं तस्य न विद्यते ॥ ३२ ॥

अशीतिर्यस्य वर्षाणि बालो वाप्यूनषोडश ।
प्रायश्चित्तार्द्धमर्हन्ति स्त्रियो रोगिण एव च ॥ ३३ ॥

मूर्छिते पतिते चापि गवियष्टिप्रहारिते ।
गायत्र्यष्टसहस्रं तु प्रायश्चित्तं विशोधनम् ॥३४॥

स्नात्वा रजस्वला चैव चतुर्थे ह्निविशुद्ध्यति ।
कुर्याद्रजसि निर्वृत्तेऽनिर्वृत्ते न कथञ्चन ॥ ३५ ॥

रोगेण यद्रजः स्त्रीणामत्यर्थं हि प्रवर्त्तते ।
अशुद्धास्ता न तेन स्युस्तासां वैकारिकं हि तत् ॥ ३६ ॥

साध्वाचारा न तावत्स्याद्रजो यावत्प्रवर्तते ।
वृत्ते रजसि गम्या स्त्री गृहकर्मणि चेन्द्रिये ॥ ३७ ॥

प्रथमेऽहनि चण्डाली द्वितीये ब्रह्मघातिनी।

तृतीये रजकी प्रोक्ता चतुर्थेऽहनि शुद्ध्यति ॥ ३८ ॥

रजस्वला यदा स्पृष्टा शुना शूद्रेण चैव हि ।
उपोष्य रजनीमेकां पञ्चगव्येन शुद्ध्यति॥ ३९॥

द्वावेतावशुची स्यातां दम्पती शयनं गतौ ।
शयनादुत्थिता नारी शुचिः स्यादशुचिः पुमान् ॥४०॥

रजसा शुद्ध्यते नारी नदी वेगेन शुध्यति ।
भूमौ निःक्षिप्य षण्मासमत्यन्तोपहतं शुचि ॥ ४२ ॥

गवाव्रातानि कांस्यानिशूद्रोच्छिष्टानि यानि तु ।
भस्मना दशभिः शुद्ध्येत्काकेनोपहते तथा ॥ ४३ ॥

शौचं सौवर्णराप्याणां वायुनार्केन्दुरश्मिभिः॥

रजःस्पृष्टं शवस्पृष्ट1माविकं च न शुद्ध्यति ॥ ४४ ॥

अद्भिर्मृदा च यन्मात्रं प्रक्षाल्यच विशुद्ध्यति ।
शुष्कमन्नमविप्रस्य भुक्त्वा सप्ताहमृच्छति ॥ ४५ ॥

अन्नव्यञ्जनसंयुक्तमर्द्धमासेन शुद्ध्यति ।
पयो दधि च मासेन षण्मासेन घृतं तथा ।
तैलं संवत्सरेणैव काये जीर्यति वा न वा ॥ ४६ ॥

यो भुङ्क्ते हि च शूद्रान्नम्मासमेकं निरन्तरम् ।
इह जन्मनि शूद्रत्वं मृतः श्वा चाभिजायते ॥ ४७ ॥

शूद्रान्नंशुद्रसम्पर्कः शूद्रेण च सहासनम् ।
दण्डादुक्ताद्यदान्येन पुरुषाः प्रहरन्ति गाम् ।
द्विगुणं गोव्रतन्तेषां प्रायश्चित्तं विशोधनम् ॥ २९ ॥

शृङ्गभङ्गे त्वस्थिभङ्गे चर्मनिर्मोचने तथा ।
दशरात्रं चरेत्कृच्छ्रं यावत्स्वस्थो भवेत्तदा ॥ ३० ॥

गोमूत्रेण तु सम्मिश्रं यावकं चोपजायते ।
एतदेव हितं कृच्छ्रमित्थमङ्गिरसा स्मृतम् ।
असमर्थस्य बालस्यपिता वा यदि वा गुरुः ।
यमुद्दिश्य चरेद्धर्मं पापं तस्य न विद्यते ॥ ३२ ॥

अशीतिर्यस्य वर्षाणि बालो वाप्यूनषोडशः ।
प्रायश्चित्तार्द्धमर्हन्ति स्त्रियो रोगिण एव च ॥ ३३ ॥

मूर्छिते पतिते चापि गवि यष्टिप्रहारिते ।
गायत्र्यष्टसहस्रं तु प्रायश्चित्तं विशोधनम् ॥ ३४ ॥

स्नात्वा रजस्वला चैव चतुर्थेऽह्नि विशुद्ध्यति ।
कुर्याद्रजसि निर्वृत्तेऽनिर्वृत्ते न कथञ्चन॥ ३५॥

रोगेण यद्रजः स्त्रीणामत्यर्थं हि प्रवर्त्तते ।
अशुद्धास्ता न तेन स्युस्तासां वैकारिकं हि तत् ॥ ३६॥

साध्वाचारा न तावत्स्याद्रजोयावत्प्रवर्तते ।
वृत्ते रजसि गम्या स्त्री गृहकर्मणि चेन्द्रिये ॥ ३७ ॥

प्रथमेऽहनि चण्डाली द्वितीये ब्रह्मघातिनी ।
तृतीये रजकी प्रोक्ता चतुर्थेऽहनि शुद्ध्यति ॥ ३८ ॥

रजस्वला यदा स्पृष्टा शुना शूद्रेण चैव हि ।
उपोष्य रजनीमेकां पञ्चगव्येन शुद्ध्यति ॥ ३९ ॥

द्वावेतावशुची स्यातां दम्पती शयनं गतौ ।
शयनादुत्थिता नारी शुचिः स्यादशुचिः पुमान् ॥४०॥

रजसा शुद्ध्यते नारी नदी वेगेन शुध्यति ।
भूमौ निःक्षिप्य षण्मासमत्यन्तोपहतं शुचि ॥ ४२ ॥

गवाव्रातानि कांस्यानि शूद्रोच्छिष्टानि यानि तु ।
भस्मना दशभिः शुद्ध्येत्काकेनोपहते तथा ।
शौचं सौवर्णराप्याणां वायुनार्केन्दुरश्मिभिः ।
रजःस्पृष्टंशवस्पृष्ट2माविकं च न शुद्ध्यति ॥ ४४ ॥

अद्भिर्मृदा च यन्मात्रं प्रक्षाल्यच विशुद्ध्यति ।
शुष्कमन्नमविप्रस्य भुक्त्वा सप्ताहमृच्छति ॥ ४५ ॥

अन्नव्यञ्जनसंयुक्तमर्द्धमासेन शुद्ध्यति ।
पयो दधि च मासेन षण्मासेन घृतं तथा ।
तैलं संवत्सरेणैव काये जीर्यति वा न वा ॥ ४६ ॥

यो भुङ्क्ते हि च शूद्रान्नम्मासमेकं निरन्तरम् ।
इह जन्मनि शूद्रत्वं मृतः श्वा चाभिजायते ॥ ४७ ॥

शूद्रान्नं शूद्रसम्पर्कः शूद्रेण च सहासनम् ॥
शूद्राज् ज्ञानागमःकश्चिज् ज्वलन्तम् अपि पातयेत् ॥ ४८ ॥

अप्रणामं गते शूद्रे स्वस्ति कुर्वन्ति ये द्विजाः ॥
शूद्रोऽपि नरकं याति ब्राह्मणोऽपि तथैव च ॥ ४९ ॥

दशाहाच्छुद्ध्यते विप्रोद्वादशाहेन भूमिपः ।
पाक्षिकं वैश्य एवाहुःशूद्रो मासेन शुद्ध्यति ॥ ५० ॥

अग्निहोत्री तु यो विप्रःशूद्रान्नञ्चैव भोजयेत् ।
पञ्च तस्य प्रणश्यन्ति चात्मा वेदास्त्रयोऽग्नयः ॥ ५१ ॥

शूद्रान्नेन तु भुक्तेन यो द्विजो जनयेत्सुतान् ।
यस्यान्नं तस्य ते पुत्रा अन्नाच्छुक्रं प्रवर्तते ॥ ५२ ॥

शूद्रेण स्पृष्टमुच्छिष्टं प्रमादादथ पाणिना ।
तद्द्विजेभ्यो न दातव्यमापस्तवोऽब्रवीन्मुनिः ॥ ५३ ॥

ब्राह्मणस्य सदा भुङ्क्ते क्षत्रियस्य च पर्वसु ।
वैश्येष्वापत्सु भुञ्जीत न शूद्रेऽपि कदाचन ॥ ५४ ॥

ब्राह्मणान्नेदरिद्रत्वं क्षत्रियान्ने पशुस्तथा ।
वैश्यान्नेन तु शूद्रत्वं शूद्रान्ने नरकं ध्रुवम् ॥ ५५ ॥

अमृतं ब्राह्मणस्यान्नङ्क्षत्रियान्नं पयः स्मृतम् ।
वैश्यस्य चान्नमेवान्नंशूद्रान्नंरुधिरं ध्रुवम् ॥५६॥

दुष्कृतं हि मनुष्याणामन्नमाश्रित्य तिष्ठति ।
यो यस्यान्नंसमश्नाति स तस्याश्नाति किल्बिषम् ॥५७॥

सूतकेषु यदा विप्रो ब्रह्मचारी जितेन्द्रियः ।
पिबेत्पानीयमज्ञानाद्भुङ्क्तेभक्तमथापि वा ॥ ५८ ॥

उत्तार्याचम्य उदकमवतीर्य उपस्पृशेत् ।
एवं हि स मुधाचारो वारुणेनाभिमन्त्रितः ॥ ५९ ॥

अग्न्यगारे गवां गोष्ठे देवब्राह्मणसन्निधौ ।
आचरेज्जपकाले च पादुकानां विसर्जनम् ॥ ६० ॥

पादुकासनमारूढो गेहात्पञ्चगृहं व्रजेत् ।
छेदयेत्तस्य पादौ तु धार्मिकः पृथिवीपतिः ॥ ६१ ॥

अग्निहोत्री तपस्वी च श्रोत्रियो वेदपारगः ।
एते वै पादुकैर्यान्ति शेषान्दण्डेन ताडयेत् ।
जन्मप्रभृतिसंस्कारे चूडान्ते भोजने नवे ।
असपिण्डे न भोक्तव्यं चूडस्यान्ते विशेषतः ॥ ६३ ॥

याचकान्नं नवश्राद्धमपि सूतकभोजनम् ।
नारीप्रथमगर्भेषु भुक्त्वा चान्द्रायणं चरेत् ॥ ६४ ॥

अन्यदत्ता तु या कन्या पुनरन्यस्य दीयते ।
तस्य चान्नं न भोक्तव्यम्पुनर्भूः सा प्रगीयते ॥ ६५ ॥

पूर्वस्य श्रावितो यश्च गर्भो यश्चाप्यसंस्कृतः ।
द्वितीये गर्भसंस्कारस्तेन शुद्धिर्विधीयते ॥ ६६ ॥

राजाद्यैर्दशभिर्मासैर्यावत्तिष्ठति गुर्विणी ।
तावद्रक्षा विधातव्या पुनरन्योविधीयते ॥ ६७ ॥

भर्तृशासनमुल्लङ्घ्यया च स्त्री विप्रवर्तते ।
तस्याश्चैव न भोक्तव्यं विज्ञेया कामचारिणी ॥ ६८ ॥

अनपत्या तु या नारी नाश्नीयात्तद्गृहेऽपि वै ।
अथ भुङ्क्ते तु यो मोहात्पूयं स नरकं व्रजेत् ॥ ६९ ॥

स्त्रिया धनं तु ये मोहादुपजीवन्ति मानवाः ।
स्त्रिया यानानि वासांसि ते पापा यान्त्यधोगतिम्॥७॥

राजान्नंहरते तेजः शूद्रान्नं ब्रह्मवर्चसम् ।
सूतकेषु च यो भुङ्क्ते स भुङ्क्तेपृथिवीमलम् ॥ ७१ ॥

इत्यङ्गिरः प्रणीतं धर्मशास्त्रं सम्पूर्णम् ॥ ५ ॥

**इत्याङ्गिरसस्मृतिः समाप्ता ॥ ५ ॥**

** <MISSING_FIG href="../books_images/1681129567.jpg"/>**

   <MISSING_FIG href="../books_images/1681129500.jpg"/>

॥ श्रीः ॥


  1. “रेतपुष्टीमति पाठः।” ↩︎

  2. “रेतपुष्टमिति पाठः।” ↩︎