+१८-सङ्ग्रहः

[[अष्टादशस्मृतयः Split-1 Source: EB]]

[

[TABLE]

[TABLE]

भूमिका

<MISSING_FIG href="../books_images/1680858484.jpg"/>

श्रुतिः स्मृतिश्च विप्राणां नयने द्वे प्रकीर्तिते।

काणः स्यादेकया हीनो द्वाभ्यामन्धः प्रकीर्तितः ॥

इह हि परिवर्तिनि संसारेऽजस्रमेव शरीरिणाञ्जनननिधने जायेते। कर्मानुगो हि जीवः स्वसुखदुःखयोः परवानपि धर्मैकप्रवणः प्रभवति स्वाभ्युदयायेति निर्विवादम्।

यद्यपि जन्मिमात्रः स्वस्वधर्मानुरूपमधिकारी धर्माचरणे तथापि धर्मशास्त्राध्ययने तद्विहितधर्मानुष्ठाने च द्विजातिरेवाधिक्रियते। यथाह योगीश्वरः - “निषेकादिः श्मशानान्तो मन्त्रैर्यस्योदितो विधिः। तस्य शास्त्रेऽधिकारोऽस्मिन्सम्यङ्नान्यस्य कस्यचित् ॥" इति।

उपनयनानन्तरमेव हि ब्रह्मचर्याश्रमे गायत्रीजपाग्निगुरुशुश्रूषा श्रुतिपरिशीलनादिब्रह्मचारिनियमाः, गृहस्थाद्याश्रम-नियमाश्च ऋते धर्मशास्त्रान्न विज्ञायन्ते। प्राधान्यतश्चात्र धर्मशब्दः षड्विधधर्मपरः। सच - वर्णधर्मः, आश्रमधर्मः, वर्णाश्रमधर्मः, गुणधर्मः, निमित्तधर्मः, साधारणधर्मश्चेति। “स्वे स्वे कर्मण्यभिरतः संसिद्धिंलभते नरः ॥” इत्यादिश्रीभगवद्वचोऽनुरोधाद्विजातिभिस्त दपरैरपि यथाशक्ति स्वस्वधर्मानुष्ठानं विधेयमेव, अतएव परमकृपाकूपार महर्षिमन्वादिभिर्वर्णाश्रमधर्मबोधनायस्वस्वनाम्ना धर्मशास्त्राणिनिरमीयन्त, यतश्च किलातिपावनेऽस्मिन्भारते वर्षे द्विजत्वसम्मत्तिप्राप्तिदिवसादेवावहिता आचार्याः स्वस्वबटून्धर्मपटून्विधातुं धर्मशास्त्रानुसारं समादिशन्।

तेषामाह्निककृत्ये धर्मशास्त्रानुकूलमेव कर्मणां सन्निवेशान्त्वतो हि जागरूकता धर्मशास्त्रस्यासीत्। साम्प्रतं तु कलिमहिम्ना सुदूरमपास्ता सा द्विजानां दैनिकी क्रिया, तत एव दुर्दैवाद्द्विजा धर्मशास्त्रपरिशीलने मन्दोत्साहाः समभवन्।

मा चैव धर्मशास्त्रावहेलनं भवेद्द्विजाश्च भूयोऽपि धर्मशास्त्राध्ययनाध्यापनादिना स्वर्णाश्रमाचारं पालयन्तूपदिशन्तु च तदधिकारिण इति धियातिस्वल्पमूल्यतो वशिष्ठाद्यष्टादशस्मृतिग्रन्थमेनं विक्रेतुमुद्युक्तोऽहं सविनयं निवेदयामि सर्व एव धार्मिकाद्विजादयोऽमूल्यमेनं ग्रन्थं समुपलभ्य विशीर्णप्रायं धर्मं गोपायन्तु तमुद्धरन्तु च सुकृतप्रसूं सपस्विनीमिमां भारतभुवमिति।

श्रीकृष्णदासात्मजः

क्षेमराजोमुम्बईस्थः

“श्रीवेङ्कटेश्वर” स्टीम् यन्त्रालयाधिपतिः।

श्रीः।

अथाष्टादशस्मृति विषयानुक्रमणिका।
<MISSING_FIG href="../books_images/1680860883.jpg"/>

अत्रिस्मृतिः १
लोकहिताय ऋषीणां धर्मविषयकप्रश्नं श्रुत्वा अत्रिमहर्षिप्रणीतस्य स्मृतिनाम- कधर्मशास्त्रस्य प्रारम्भः, स्मृतिश्रवणफलं च
स्वकर्मानुष्ठानतो लोकप्रियत्वं वर्णचतुष्टयस्य कर्म वृत्तिकथनं च
वर्णचतुष्टयस्य पातित्यकारकक्रियाकथनम्
राज्ञः परमहितकरक्रियानिरूपणम्, मलशुद्धिनिरूपणम्, ब्राह्मणलक्षणकथनं च
शौचादिलक्षणम्, उक्तलक्षणलक्षितस्य द्विजस्य पुनर्जन्माभावः, ब्राह्मणैककर्तव्येष्टापूर्तफलं च
इष्टापूर्तवर्णनम्, यमादिनिरूपणं च
पुत्रप्रशंसनम् आहारशुद्धिकथनं च
प्रमादात्सन्ध्योल्लङ्घने प्रायाश्चित्तम्, उच्छिष्टाद्यन्नभोजने प्रायश्चित्तम्
शवदूषितगृहशुद्धिनिरूपणम्
सूतकनिर्णयः
परिवेदनदोषाभावनिरूपणम्
महापातकनाशनातिकृच्छ्रादिकथनम्
स्त्रीशूद्राणां पतनकरकर्मकथनम्
भोजने निषिद्धपात्राणि
षड् भिक्षुकाः, रजकादीनामन्नभक्षणे प्रायश्चित्तम्
दुषितान्नभक्षणे प्रायश्चित्तम्
म्लेच्छादिसम्पर्के प्रायश्चित्तम्
स्त्रीणां सदा दूषणाभावः
मद्यसम्पर्कदूषितस्य जलादेः शोधनम्
ब्रह्मदण्डहतानां आत्मघातिनश्च अशौचादिविचारः
गोहनने प्रायश्चित्तम्
पयसःशुद्धिकरणम्
स्पृष्टास्पृष्टदोषविचारः
ब्राह्मणस्य शूद्रोदकपाने प्रायश्चित्तम्
पतितान्नचाण्डालीगमनादिप्रायश्चित्तम्
पशुवेश्यादिगमने प्रायश्चित्तम्
रजस्वलानां परस्परस्पर्शादौ प्रायश्चित्तम्
शठब्रह्महत्याप्रायश्चित्तम्, विडालाद्युच्छिष्टान्नभोजनेखरादियानगमे च प्रायश्चित्तम्
अभक्ष्यान्नभक्षणे प्रायश्चित्तम्
अमङ्गलपदार्थसेवनादिनिषेधः
मौनस्थानानि, मौैनफल कथनं च
नानाविधदानफलानि
दानयोग्यब्राह्मणकथनम्
श्राद्धकालाः, श्राद्धदानप्रशंसनं तत्फलं च
दशविधा ब्राह्मणाः
पूजनानर्हद्विजनिरूपणम्
अत्रिस्मृत्युक्तधर्मनिर्णयश्रवणफलम्

[TABLE]

हारीतस्मृतिः३.
अध्यायः १.
हारीतस्य मुनिभिः सह संवादे द्विजाचारः
अध्यायः २.
क्षत्रियादीनामाचारकथनम्
अध्यायः ३.
उपनीतस्य गुरुकुलेषु वसतो बटोराचारः
अध्यायः ४
विस्तरेण गृहिणः सदाचारनिरूपणम्
अध्यायः ५.
वानप्रस्थधर्माः
अध्यायः ६.
चतुर्थाश्रमधर्मप्रणयनम्
अध्यायः ७.
सङ्क्षेपेण योगशास्त्रसारकथनम्
औशनसीस्मृतिः४.
वर्णचतुष्टयतः प्रतिलोमानुलोमविधिनोत्पन्नानां वृत्तिधर्माणां सङ्क्षेपेण कथनम्
आङ्गिरसस्मृतिः ५.
वर्णानामानुपूर्व्येण प्रायश्चित्तत्तविधेः कथा
यमस्मृतिः ६.
महापातकोपपातकादीनां वर्णक्रमेण सङ्क्षेपतः प्रायश्चित्तविधिकथनम्
आपस्तम्बस्मृतिः ७.
अध्यायः १.
आपस्तम्बऋषिं प्रति प्रमादादकामतो बालगवादीनां विपत्तिदाने कथं निष्कृतिरिति मुनिकृतप्रश्नः
अध्यायः २.
जलशोधनप्रकारः
अध्यायः ३.
अज्ञानतोऽन्त्यजातिगृहनिवासे गृहपतेः प्रायश्चित्तम् बालवृद्धादीनां पापनिवारणाय प्रायश्चित्तव्यवस्था निरूपणम्
अध्यायः ४
चण्डालकूपभाण्डेषु जलपाने प्रतिवर्णम्प्रायश्चित्तम्
अध्यायः ५.
चाण्डालस्पर्शे उच्छिष्टाशनादौ च प्रायश्चित्तम्
अध्यायः ६.
नीलीवस्त्रसम्बन्धेन प्रायश्चित्तम्
अध्यायः ७.
रजस्वलाशुद्धिनिरूपणम्
अध्यायः८.
कांस्यादिपात्रशुद्धिः शूद्रान्नसेवनतः शुद्धिकथनम्
अध्यायः ९.
भुञ्जानस्य गुदस्रवणे प्रायश्चित्तम् अलेह्यापेयाभक्ष्यरेतोमूत्रादीनां भक्षणे प्रायश्चित्तम्
अध्यायः १०.
क्षमाशीलस्य क्रोधरहितस्यावश्यं मोक्षः
संवर्तस्मृतिः ८.
ब्रह्मचारिणोऽवश्यकर्तव्यकथनम्
गृहधर्मिणः कर्तव्यधर्मप्रणयनम्
तृतीयचतुर्थाश्रमयोः सङ्क्षेपतो धर्मकथनम्
ब्रह्मघ्नस्य प्रायश्चित्तनिरूपणम्
सुरापानादिमहापातकोपपातकानां शुद्धिः
कात्यायनस्मृतिः ९.
प्रथमः खण्डः
यज्ञोपवीतनिर्माणप्रकारः,वृद्धौ पूज्यानां देवतानां नामानि, वसोर्धारावृद्धिश्राद्धसम्बन्धविचारः
द्वितीयः खण्डः
वृद्धिश्राद्धे विशेषकथनम्
तृतीयः खण्डः
वृद्धिश्राद्धविधानकथनम्
चतुर्थः खण्डः
पिण्डदानादिविधिकथनम्
पञ्चमः खण्डः
वृद्धिश्राद्धकरणेन क्रियमाण संस्कारसाङ्गता
षष्ठः खण्डः
अग्न्याधानकालनिर्णयः
सप्तमः खण्डः
अरणिद्वयविचारः
अष्टमः खण्डः
अरणितोऽग्नेर्निष्कासनप्रकारः, स्रुवप्रमाणम्, समित्प्रमाणकथनञ्च
नवमः खण्डः
होमकालकथनम्, असमिद्धाग्नौ होमे दोषकथनञ्च
दशमः खण्डः
प्रातः स्नानसम्बन्धेन जलादीनांविचारः
एकादशः खण्डः
सन्ध्योपासनविधिनिरूपणम्
द्वादशः खण्डः
पितृतर्पणाविधिः
त्रयोदशः खण्डः
पञ्चमहायज्ञविधिकथनम्
चतुर्दशः खण्डः
पृथिव्यादिभ्योऽन्नप्रदानम्,अग्निप्रार्थनादिकञ्च
पञ्चदशः खण्डः
ब्रह्मणे दक्षिणादानमानम् आज्यस्थाल्यादिमानं च
षोडशः खण्डः
अन्वाहार्याग्रहायण्यादिषु पितृयज्ञादिकथनम्
सप्तदशः खण्डः
पितृयज्ञविधिनिरूपणम्
अष्टादशः खण्डः
दर्शपौर्णमासादिषु होमादिविचारः
एकोनविंशःखण्डः
पतिप्रवासेऽग्निपरिचरणे स्त्रीणामधिकारस्तासां महत्त्ववर्णनप्रसङ्गेन अग्निसेविनः प्रशंसनम्
विंशः खण्डः
पुनराधानाग्निसमारोपणादिविचारः
एकविंशः खण्डः
गृहपतिमरणे तद्दाहव्यवस्थादिकथनम्
द्वाविंशः खण्डः
शवस्पृशां श्मशानात्पुनः परावर्तनम्
त्रयोविंशः खण्डः
आहिताग्नेः परदेशमरणे व्यवस्थाकथनम्, आहिताग्निस्त्रीमरणे दाहादिकथनञ्च
चतुर्विंशः खण्डः
सूतके कर्मणां त्यागः, षोडशश्राद्धविधिश्च
पञ्चविंशः खण्डः
ब्रह्मदण्डयुक्तानां बहिः संस्काराभावे कर्तव्य विधिःब्रह्मचारिव्रतकर्तव्यतातीतानां संस्काराणां प्रायश्चित्तपुरःसरं पुनः संस्कार कथनम्
षड्विंशः खण्डः
वृषोत्सर्जनादौ समशनीयचरोर्निवापादिकथनम्
सप्तविंशः खण्डः
अन्वाहार्यविधिकथनम्
अष्टाविंशः खण्डः
उपाकृत्य उपगमने अध्ययनादिविचारः
एकोनत्रिंशःखण्डः
दर्भकुर्चतः पशोः स्रोतसां क्षालनादिविचारः
बृहस्पतिस्मृतिः १०.
बृहस्पतिदेवेन्द्रसंवादे भूदानस्यातिप्रशंसनम्
पुत्रकर्तव्येषु मध्ये गयागमनस्य नीलवृषोत्सर्जनस्य च पितृसन्तोषकरत्वकथनम्
स्वदत्तपरदत्तायाभूमेर्हरणादाभूतसम्प्लवं नरके निवासः
ब्रह्मस्वहरणेन सर्वस्वविनाशः
पात्रेषु गोहिरण्यवस्त्रान्नमहीतिलवितरणात्सर्वपातकविनाशः, वापीकूपतडागोद्यानोपवनपुनः संस्करणे मुक्तिलाभः, अन्नदानप्रशंसनञ्च
ब्रह्मघातकविचारः, फलमूलाशनादिव्रतफलकथनञ्च
पाराशर स्मृतिः ११.
अध्यायः१.
व्यासेन सह मुनीनां बदरिकाश्रमे पराशरसमीपगमनम्, पराशरम्प्रति व्यासस्य कलौ चातुर्वण्यसम्पादनीयधर्मविषयकः प्रश्नः षट्कर्मकारिणो देवतातिथिपूजकस्य सदा सौख्यलाभः, अतिथिसत्कार कथनम्, सामान्यतोवर्णचतुष्टयस्य कर्मकथनम्
अध्यायः२.
कलावावश्यकसाधारण वर्णचतुष्टयगृहस्थाचार कथनम्
अध्यायः३.
जननमरणाशौचशुद्धिकथनं वर्णचतुष्टयस्य
अध्यायः४.
उद्वन्धनेन स्त्रीपुरुषयोर्मरणेबहुकालं नरके निवासःगवादिहतानां द्विजशवानान्दाहेतप्त कृच्छ्रम्तप्तकृछ्रलक्षणम्परिवेदनादिदोषस्तच्छुद्धिविचारश्च
अध्यायः५.
वृकश्वानादिदष्टानां शुद्धिकथनम्,चण्डालादिहतब्राह्मणदेहस्पर्शे प्रायश्चित्तम्, आहिताग्नेर्देशान्तरमरणे व्यवस्था
अध्यायः६.
सङ्क्षेपेण प्राणिहत्यानिष्कृतिनिरूपणम्
अध्यायः७.
दार्वादिपात्रशुद्धिः वृषलीपतित्वे दोषमुक्त्वा प्रायश्चित्तकथनम्, रजस्वलास्पर्शादिषुप्रायश्चित्तकथनञ्च
अध्यायः८.
बन्धनयोक्रेषु गवामकामतोमृत्यौप्रायश्चित्तम्
अध्यायः ९.
संरक्षणार्थं गवां रोधबन्धनादिभिर्नाशे न दोषः, अन्यप्रकारेण गोवधे प्रायश्चित्तम्, प्रायश्चिताकरणे नरकप्राप्तिश्च
अध्यायः१०.
अगम्यागमने चातुर्वण्येषु हिता निष्कृतिः
अध्यायः ११
अमेध्यरेतोगोमांसादिभक्षणे प्रायश्चित्तम्, शूद्राद्यन्नभोजने प्रायश्चित्तम्
अध्यायः१२.
विण्मूत्रादिभक्षणे प्रायश्चित्तम्, ब्रह्महत्यादिप्रायश्चित्तम्
व्यासस्मृतिः १२.
अध्यायः१.
वेदोक्तकर्मप्रचारभूमिकथनम् षोडशसंस्कारसञ्ज्ञाकालकथनम्, ब्रह्मचारिधर्मनिरूपणञ्च
अध्यायः २
द्वितीयाश्रमवतो द्विजस्याचारवर्णनम् स्त्रीधर्मनिरूपणम्पतिव्रतास्त्रीपरित्यागे दोषकथनञ्च
अध्यायः ३.
गृहस्थस्य नित्यनैमित्तिककाम्यकर्मनिरूपणम्
अध्यायः ४.
गृहस्थाश्रमप्रशंसनम्, वर्णानां दानधर्मनिरूपणञ्च
शङ्खस्मृतिः १३.
अध्यायः १.
वर्णचतुष्टयस्य कर्मनिरूपणम्
अध्यायः २.
संस्कारकालनिर्णयः
अध्यायः ३.
पित्रोपनीतस्य द्विजस्य वेदस्वीकरणव्रतनियमकथनम्
अध्यायः ४.
अष्टविधविवाहकथनम्, वर्णचतुष्टयस्य स्त्रीस्वीकरणम्
अध्यायः५.
पञ्चसूनानिवृत्तये पञ्चमहायज्ञकथनम्, अतिथिपूजनाग्निहोत्राभ्यां गृहधर्मिणः साफल्यकथनञ्च
अध्यायः ६.
द्विजस्य धयसस्तृतीयभागेवनाश्रयणं तद्धर्मकथनञ्च
अध्यायः७.
ब्रह्मप्राप्तये चतुर्थाश्रमस्वीकारोत्तरं सदाचारनिर्णयः अष्टाङ्गयोगसाधनकथनम्, ध्यानयोगनिरूपणञ्च
अध्यायः ८.
नित्यनैमित्तिकादिषड्विध स्नाननिरूपणम्
अध्यायः ९.
विधिपूर्वकं क्रियास्नाननिरूपणम्
अध्यायः १०.
शुभकराचमनक्रियाविधिकथनम्
अध्यायः ११.
शतरुद्रियत्रिसुपर्णगोसूक्तजपफलकथनम्
अध्यायः १२.
गायत्रीमन्त्रजपफलकथनम्
अध्यायः १३
तर्पणविधिनिरूपणम्
अध्यायः १४
दैवे कर्मणि ब्राह्मणपरीक्षणं पित्र्यकर्मण्यवश्यं परीक्षणम्, पङ्क्तिदूषकब्राह्मणकथनपूर्वकं पङ्क्तिपावनत्वकथनम् श्राद्धकालदेशादिकथनञ्च
अध्यायः १५
सपिण्डानां जननमरणाशौचविचारः
अध्यायः १६.
पात्रशौचकर्मनिरूपणम्,मूत्रपुरीषकरणोत्तरं शुद्धिकथनम्
अध्यायः १७.
ब्राह्मघ्नगोघ्नसुरापादीनां शुद्ध्यर्थं प्रायश्चित्तविधिः
अध्यायः१८.
अघमर्षणप्राजापत्यादिविवरणम्
लिखितस्मृतिः १४.
द्विजातीनां सामान्यधर्मेषु इष्टापूर्तकथनम्, श्राद्धकालदेशविचारः सामान्यतो द्विजाचारकथनम्,प्रायश्चित्तविधिकथनञ्च
दक्षस्मृतिः १५.
अध्यायः१.
द्विजपुत्रस्याष्टवर्षपर्यन्तं भक्ष्याभक्ष्यादिषु दोषाभावकथनम्, तदूर्ध्वमाश्रमराहित्ये दोषकथनम्,आश्रमलक्षणकथनञ्च
अध्यायः२.
दिने दिने प्रातरुत्थाय द्विजस्यावश्यकर्त्तव्यानां कथनम्
अध्यायः३.
सुधेषद्दानकर्मविकर्मादि विचारनिरूपणम्
अध्यायः४.
अनुकूलकलत्रस्य गार्हस्थ्यंसुखकरमिति स्त्रीविषयकविचारः
अध्यायः५.
शौचाशौचविषये सङ्क्षेपेणविचारः
अध्यायः६.
जन्ममृत्यु निमित्तकाशौचनिर्णयः
अध्यायः७.
षडङ्गयोगस्य सङ्क्षेपतो विवरणम्
गौतमस्मृतिः १६.
अध्यायः १.
वर्णत्रयस्योपनयनकालमौञ्जीदण्डादिविचारः, गुरोः सकाशाद्ब्रह्मग्रहणनियमकथनञ्च
अध्यायः२.
उपनयनात्पूर्वं शौचाचारनियमाभावकथनम्, उपनयनोत्तरे प्रतिपालनीय नियमकथनञ्च
अध्यायः३.
नैष्ठिकब्रह्मचारिणो नियमकथनम्
अध्यायः४.
अनुलोमप्रतिलोमोत्पन्नवर्णचतुष्टयजातिनिरूपणम्
अध्यायः५.
दारपरिग्रहोत्तरं कर्तव्यधर्मकथनम्
अध्यायः६.
अभिवादनविषये विचारः
अध्यायः७.
आपत्कल्पो ब्राह्मणस्य निरूप्यते
अध्यायः८.
गर्भाधानादिचत्वारिशत्संस्कारयुक्तस्य द्विजस्य कृतापराधस्यापि न वधबन्धादिदण्डाधिकारः तस्यैव ब्रह्मणःसालोक्यादिलाभश्च
अध्यायः ९.
दारपरिग्रहोत्तरं द्विजस्यावश्यपालनीयव्रतकथनम्
अध्याय१०ः
वर्णचतुष्टयस्योपजीविकाकथनम्
अध्यायः११.
राज्ञः सदा शक्तिमतः सदाचारनिरूपणम्
अध्यायः१२
शूद्रस्य दण्डादिविचारः
अध्यायः १३.
साक्षिप्रसङ्गेन सत्यासत्यकथनविचारः
अध्यायः १४.
वर्णचतुष्टयस्याशौचविचारः
अध्यायः १५.
श्राद्धविचारः
अध्यायः १६.
अध्ययनानध्यायविचारः
अध्यायः १७.
ब्राह्मणस्य प्रतिग्रहान्नभोजनादिविचारः
अध्यायः १८
स्त्रीणां सदाचारविचारः
अध्यायः १९
निषिद्धाचरणप्रायश्चित्तविचारः
अध्यायः२०.
चतुष्षष्टियातनास्थानेषु दुःखान्यनुभूयात्रोत्पन्नानाञ्चिह्नादिविचारः
अध्यायः२१.
पङ्क्तिबाह्याद्विजादिकथनम्
अध्यायः२२.
पतितनिरूपणम्
अध्यायः२३.
ब्राह्मणहनने प्रायश्चित्तविचारः
अध्यायः२४.
सुरापानादिप्रायश्चित्तनिरूपणम्
अध्यायः२५.
रहस्यप्रायश्चित्तनिरूपणम्
अध्यायः२६.
अवकीर्णिनो विचारः
अध्यायः२७.
कुच्छ्रव्याख्यानम्
अध्यायः२८.
चान्द्रायणविधिनिरूपणम्
अध्यायः२९.
ऋक्थविभागनिरूपणम्
शातातपस्मृतिः १७.
अध्यायः १.
पातकान्नरकादिषु यातना उपभुज्य भूमावुत्पन्नानां देहचिह्ननिरूपणम्
अध्यायः२.
ब्रह्महानरकादियातना उपभुज्य कुष्ठी भवति तस्य प्रायश्चित्तम्, तथैव गवादिहननेष्वपिप्रायश्चित्तानि
अध्यायः ३.
सुरापादिसभापक्षपातिपर्यन्तं प्रायश्चित्तम्
अध्यायः४.
कुलघ्नादिनानाविधद्रव्यचोरपर्यन्तं प्रायश्चित्तम्
अध्यायः५.
मातृगाम्यादिनिषिद्धस्त्रीगामिनां प्रायश्चित्तम्
अध्यायः६.
अश्वसूकरशृङ्ग्यादिहतानां गतिहीनानां सन्ततिनाशकत्वात् तदुद्धाराय प्रायश्चित्तविधिनिरूपणम्
वसिष्ठस्मृतिः १८.
अध्यायः १.
पुरुषनिःश्रेयसार्थं धर्मजिज्ञासा, धर्माचरणे आर्यावर्तप्रदेशस्य महत्त्वकथनम्, ब्राह्मणप्राशस्त्यकथनश्च
अध्यायः २.
वर्णत्रयस्य द्विजत्वकथनम्,अध्ययनावश्यकत्वकथनञ्जीविकाविचारकथनञ्च
अध्यायः ३.
वेदमनधीयानस्यद्विजस्य शूद्रवत् स्थितिः, आततायी ब्राह्मणश्चेत्तद्धनने न दोषः,धर्मकथने अधिकारिणः,आचमनप्रकारः,भूम्यादीनां शुद्धि निरूपणञ्च
अध्यायः ४.
संस्कारविशेषतश्चातुर्वर्ण्यकरणम् ,देवतातिथि पूजायां पशुवधे न दोषः, अशौचविचारश्च
अध्यायः ५.
स्त्रीणां स्वातन्त्र्याभावकथनम्, रजस्वलास्त्रीणां नियमाः
अध्यायः ६.
आचारप्रशंसनम्, सामान्यतो ब्राह्मणयाचारकथनञ्च
अध्यायः ७.
सामान्यतो ब्रह्मचर्यविधिनिरूपणम्
अध्यायः ८.
विवाहयोग्यस्त्रीकथनम् विवाहानन्तरं पालनीयधर्माणां सङ्क्षेपेण निरूपणम्
अध्यायः ९.
वानप्रस्थधर्माणां सङ्क्षेपेण वर्णनम्
अध्यायः१०.
यतिनियम निरूपणम्
अध्यायः ११.
षट्कर्मणो द्विजस्यातिथिभोजनविचारः श्राद्धविचारः द्विजानामुपनयनकालदण्डाजिन-वस्त्रभिक्षादिविचारश्च
अध्यायः १२.
स्नातकव्रतानां निरूपणम्
अध्यायः १३.
स्वाध्यायोपाकर्मनिरूपणम्
अध्यायः १४.
भोज्याभोज्यविषये विचारः
अध्यायः १५.
पुत्रदानप्रतिग्रहविचारः
अध्यायः १६.
राजव्यवहारसाक्षिप्रभृतिविचारः
अध्यायः १७.
पुत्रजनात्पितृऋणमोचनं तत्सम्बन्धेन द्वादशपुत्रकथनम्,दायग्रहीतृविचारश्च
अध्यायः १८.
प्रातिलोम्येनोत्पन्नानां चण्डालादिनां विचारः शूद्रस्य धर्मोपदेशानर्हत्वादिविचारश्च
अध्यायः १९.
सङ्क्षेपेण राज्ञो धर्मनिरूपणम्
अध्यायः २०.
सङ्क्षेपतो ब्रह्मघ्नादीनां प्रायश्चित्तनिरूपणम्
अध्यायः २१.
वर्णत्रयस्य ब्राह्मणीगमन उभयोः प्रायश्चित्तविधिकथनम्

इत्यष्टादशस्मृत्यनुक्रमणिका समाप्ता।

श्रीः।

अष्टादशस्मृतयः।

श्री योगिजनवल्लभाय नमः।

<MISSING_FIG href="../books_images/1680869523.jpg"/>