Source: TW
०
THE PRINCESS OF WALES SARASWATI BHAVANA TEXTS
No. 20
EDITED BY
GOPI NATHA KAVIRĀJA
THE MANSATATTVAVIVEKA
Printed by Jai Krishna das Gupta At the Vidya Vilas Press, Gopal Mandir Lane, Benares City.
1927
विश्वनाथन्यायपञ्चानननिर्मितः
मांसतत्त्वविवेकः
THE MANSATATTVAVIVEKA
of Viśvanatha Nyayapañchanana Bhaṭṭāchārya
Edited with Introduction etc. by
Jagannatha Śastri Hoshing Sahityopadhyaya, Sādholal Research Scholar, Sanskrit College, Benares,
With a Foreword by
Pandit GOPINĀTHA KAVIRĀJA, M, A.,
The Principal, Government Sanskrit College,
Benares.
1927
FOREWORD
There has been a controversy from times im memorial over the alleged evils of slaughter of animale (for sacrificial purposes) and of flesh-eating from the standpoint of Hindu Śastra.
Those who are accustomed to vegetarianism
are inclined to non-violent attitude towards life
(as exemplified in early Buddhism, Jainism,Sankhya, Yoga & Vaisnavism)
and are fond of finding in the scriptures a general tendency
in favour of their own views and interpret all the sacred texts bearing on the question in that light.
The other party is naturally opposed to this position,
affirming that there are undoubtedly passages in the Śastras
which refer to slaughter not only for specific ritualistic purposes
but even for food.
The booklet which is herewith introduced deals with this interesting question.
Its interest is further enhanced by the fact that
it comes from the pen of Mahāmahopadhyāya Viśvanatha Nyayapañchanana,
the great Naiyāyika of Bengal,
whose Bhāṣāparichchheda with Nyayasiddhāntamuktāvali
has become a classical work for the study of the elements of Nyāya-Śastra.
Viśvanatha was the son of Vidyanivāsa1 Bhaṭṭācharya
and the brother of Rudra Nyayavāchaspati2 (and Nārāyaṇa).
Vidyānivāsa was the son of Ratnākara Vidyāvāchaspati,
the younger brother of the great Vasudeva Sarvabhauma,
who is believed to have been the teacher of four illustrious figures of mediaeval Bengal: viz
- (i) Śrī Chaitanya Deva,the religious reformer,
- (ii) Raghunatha Śiromani, the author of Tattvachintamani-didhiti,
the great Logician who paved the way in a sense for the study of Nyayaśāstra in Bengal, - (iii) Raghunandana, the author of the 28 Smrti Tattvas,
who is still regarded as the highest authority in all matters connected with social, domestic & ritualistic law in Bengal and - (iv) the great Tantrist Kṛṣṇānanda Agamavagīśa, whose Tantrasara is still the one guide book for the performance of Tantric ceremonies in Bengal.
The date of Viśvanatha is known for certain.
His gloss on the Nyaya sutras was composed at Brindavan in Śaka1556 (=1634 A,D.).1
Mm.Haraprasada Śastri has shown that the Danakhaṇḍa of his father Vidyanivasa
was composed in Śaka 1510(-1588A,D,).
It is said that Viśvanatha was one of the pandits
who presented addresses to Sarvavidyānidhāna Kavindrācharya Sarasvati
on his return from Delhi
after the successful agitation for the abolition of pilgrim taxes at Benares.
The date of Kavindracharya, who was a contemporary of the Moghul Emperor Shah Jehan (1627-1658 A. D.), is well known.
Viśvanātha may therefore be assigned to the middle of the 17th century A, D.
Viśvanatha was the author of the following works:
- (1) Bhāṣāparichchheda, in kārikās & its Commentary, Nyāyasiddhāntamuktāvalī. It is a work on Vaiseṣika or rather the combined system of Nyāya and Vaiseṣika.
- (2) Nyāyasūtra Vṛtti. It is the most popular gloss on the Sutras of Gotama.
- (3) Piñgala prakāśa (Com, on Prākṛta Pingala).
- (4) Śubarthatattvāloka.
- (5) Nyāyatantrabodhini.
- (6) Māṁsatattvaviveka.
The present edition of Mamsatattvaviveka is based on a single Ms. of the work (fols 1-13,9 lines per page, 36 letters per line, 10.4" x 4’-2′′) in fair Devanāgarī script.
It was once in possession of one Bāpu Āchārya alias Rāmakṛṣṇa Acharya of Benares
and has been recently acquired for the Government Sanskrit Library, Sarasvati Bhavana, Benares.
Sanskrit College, Benares.
March 17, 1927,
GOPINATH KAVIRAJ
प्रास्ताविकम्
श्रीगणेश-गीर्-गुरुभ्यो नमः ।
प्रास्ताविकं किञ्चित् ।
ग्रन्थ-कृद्-अभिप्रायः
अथैष प्रकाश्यते मांस-तत्त्व-विवेको नाम श्रीविश्वनाथ-न्याय-पञ्चानन-भट्टाचार्य-विनिर्मितो निबन्धो मुद्रापयित्वा ।
अत्र च ग्रन्थकृता समन्ततो वचनानि मांस-भक्षण-विधायकान्य् अनेकानि संगृह्य
प्रतिषेधकान्य् अपि कानिचिद् उल्लिख्य
तानि च परस्परं सङ्गमय्य
स्वतन्त्रः स्वीयो विचारः सर्वेषां विदुषां पुरस्ताद् उपन्यस्तः ।
भक्षणीयम्
तत्र च पूर्वं मनु-याज्ञवल्क्य्-अवचनान्य् उपन्यस्य
तेषां प्रकरण-सङ्गतिं विचार्य
प्रमाणत्वेन च पैठीनसि-हारीत-देवल-बृहस्पति-महाभारत-मेधातिथि-प्रभृतीनां प्रासङ्गिकानि वचनानि प्रदर्श्य
मांसं प्रोक्षिताद्य्-अन्यतमं चेत्
सर्वथा भक्षणीयम् इति साधितम् ।
भृत्य-भरणावशेषम् अपि
तत् समनन्तरम् एव वचनान्य् अमूनि शङ्कोप-शङ्कादिभिः सन्दूष्य सम्भूष्य च
यम-कुल्लूकभट्ट–भवदेव–वाचस्पति–मिताक्षरा–कल्पतरु–ब्रह्मपुराणादि–साहाय्येन,
यज्ञ-श्राद्ध–मधु-पर्क–प्राणात्यय–ब्राह्मणानुज्ञासु
तद्-व्यतिरेकेणापि देव-पित्रर्चन–भृत्य-भरणावशेषे च
चातुर्-वर्ण्यस्य निर्विशेषं मांस-भक्षणं प्रतिपादितम् ।
तत्र च पूजादिषु प्रसङ्गतः कूर्म-वराह-कालिकादि-पुराण-वचनानि
कल्प-तरु–कामधेनु–प्रभृति–प्रबन्ध-हृतानि परिदर्शितानि ।
तद्-विरोधीनि च यज्ञीय-पश्व्-आलम्भन-व्यतिरिक्त–
हिंसा-पूर्वक-मांसादान-प्रतिषेधकानि बृहत्-पराशरादि-वचनानि
प्रोक्षितातिरिक्त-विषयकानि प्रतिपाद्य
निष्-कण्टकितः स्वीयः पन्थाः ।
कलि-वर्ज्यता
प्रस्तुत्य च कलि-वर्ज्य-विचारं गवालम्भादि-विषयत्वेन
संयोज्य तद्-वचन-जातं मध्य-देशीयस्याऽऽचारस्य सद्-आचारत्वेन
तत्राऽन्यत्र चाऽविगीतो मांस-भक्षणाचारः प्रतीयमानो निरूपितः ।
( २ )
उपसंहारः
अन्ते च मांस-श्राद्धे विवदमानानाम् उपरि
ब्रह्म-हत्यादि-प्रायश्चित्तोपदेशे मातुल-कन्या-परिणयने च वैमत्यं प्रदर्श्य
राग-रोष-दूषित-चित्तत्वं देवानां-प्रियत्वं सौगत-मतानुयायित्वं चेति प्रहार-त्रयं च सम्पात्य
सह चित्त-शान्त्या निबन्धो ऽवसानं प्रापितः ।
मीमांसा
अत्रेदं मीमांस्यते -
एष मांस-भक्षणाभक्षण-विवादः
प्राचीनाद् बहोः कालाद् अद्यावधि
सर्वत्र प्राप्तावसरो नयन-पथ-गोचरताम् उपैति ।
शाकादि-सात्त्विक-पदार्थ-भोजन-शालिनां मांस-भक्षणे सर्वथा ऽरुचिर् एवोत्पद्यत
इति प्रकृति-धर्म एवैषः ।
श्रुत्यविरोधः
आस्तां तावत्,
‘मा हिंस्यात् सर्वा भूतानी’ति श्रुत्या
हिंसा तु सर्वथा निषिद्धैव;
परं ‘वायव्यं श्वेतम् आलभेते’त्य्-आदि-श्रुत्यैव पश्व्-आलम्भनम् अप्य् अनुमोदितम् ।
न च
परस्पर-विरुद्धयोर् हिंसाऽहिंसाप्रतिपादिकयोर् उभयोः श्रुत्योः
कथम् अन्यतरस्याबलवत्त्वं,
पूर्वमीमांसा-शास्त्रीय-नियमानुरोधेन द्वयोर् अपि सावकाशत्वात्,
यागाद्य्-अतिरिक्तत्वेन हिंसाया निषेधात्;
यज्ञीयायाश् च कर्माङ्गत्वेन हिंसात्वाप्रतिपादनाच् च ।
एवं चैकमत्येन श्रुत्योर् अ-विरोधात्
‘नाऽकृत्वा प्राणिनां हिंसां
मांसम् उत्पद्यते क्वचिद्’
इत्य्-आदि-वाक्यस्य यज्ञातिरिक्तत्वेन सङ्कोचात्
क्रयादि-प्राप्तस्य हिंसापूर्वकत्वात्
तन्-निषेधस्य सर्वथा समुचितत्वात्
‘अनर्चितं वृथा मांसम्’ इत्य्-आदिना
याग-पूजाद्य्-अतिरिक्तस्य मांसस्याऽनुपादेयत्वं निर्विवादम् एव ।+++(5)+++
काम्य-मांसम्
यच् च भृत्य-भरणावशिष्टस्य मांसस्य
भक्षणार्थं पुनर्-उपादानं
युक्त्या प्रपञ्चितं
तत्तु न मनोरमं,
‘कामतो जग्ध्वा सोपवासस् त्र्य्-अहं वसेत्’
‘जग्ध्वा चान्द्रायणं चरेत्’
इत्य्-आदि-भक्ष्याभक्ष्य-प्रकरणीय-याज्ञवल्क्य-वचनानुरोधेन
भृत्य-भरणावशिष्ट-काम्य-मांसोपादानस्य प्रायश्चित्त-विधानेन दोषास्पदत्वात्
दूषितस्य च
‘अ-स्वर्ग्यं लोक-विद्विष्टं
धर्म्यम् अप्य् आचरेन् न त्व्’
इत्यनेन शिष्टैर् अनादृतत्वाच् च ।
अन्यच् च मृगादि-हन्तृ-व्याधाद्य्-अपेक्षया
मांस-भक्षकस्यैव विशिष्टा निन्दा शास्त्रे समुपलभ्यते ।+++(5)+++
तथा च मनुः -
न तादृशं भवत्य्
एनो मृग-हन्तुर् धनार्थिनः ।
यादृशं भवति प्रेत्य
वृथा मांसानि खादतः ॥
इति ।
(३)
वृथेति - यज्ञातिरिक्तानीत्य् अर्थः ।
एतच् च वचनं मांस-भक्षण-विधि-प्रतिषेधान्तर्गतम् अपि
वदतो-व्याघात-रूप-महादोष-पात-सम्भावना-भिया श्री-विश्वनाथेन समुपेक्षितम् ।+++(5)+++
‘यज्ञार्थं पशवः सृष्टा’ इत्य्-आदिना
मधु-पर्के च यज्ञे च
पितृ-दैवत-कर्मणि ।
अत्रैव पशवो हिंस्या
नान्यत्रेत्य् अब्रवीन् मनुः ॥
एष्व् अर्थेषु पशून् हिंसेद्
वेद-तत्त्वार्थ-विद् द्विजः ।
आत्मानं च पशुं चैव
गमयत्य् उत्तमां गतिम् ॥
इत्य्-अन्तेन च मनोर् एव वचन-कदम्बकेन
यज्ञादाव् एव श्रुति-मूलत्वेनाऽऽलम्भनं भक्षणं चाऽनुमतं
न त्व् अन्यत्र काम्यादौ,
“मां स भक्षयिता ऽमुत्र
यस्य मांसम् इहाद्म्य् अहम्” ।
एतन् मांसस्य मांसत्वम् +++(5)+++
इति
प्रवृत्ति-परकत्वेन क्वचिद्-अंशे ऽनुमते ऽपि
सर्वथोच्छृङ्खल-चेतसाम्
अन्यत्र शास्त्रेण नियन्त्रणस्याऽऽवश्यकत्वात् ।
निवृत्तेर् महा-फलता
अथ च सर्वेषां दर्शनानाम् इव
धर्म-मीमांसयोर् अपि निःश्रेयसावाप्ति-रूप-प्रधान-लक्ष्यस्यैव प्रतिपाद्यत्वं,
‘निवृत्तिस्तु महाफले’ति
सर्वान् कामान् अवाप्नोति
हय-मेध-फलं तथा ।
गृहेऽपि निवसन् विप्रो
मुनिर् मांस-विवर्जनात् ॥
इति मनु-याज्ञवल्क्योक्तेः,
‘अथातो धर्मजिज्ञासे’त्य्-आदि-जैमिनीय–पूर्व-मीमांसा–वाक्य-समूहाच् च ।
एवं च वैदिकीं हिंसाम् अपहाय
क्रयादि-प्राप्त-मांस-भक्षण-विषये प्रमाणान्य् उपन्यस्यतां सतां
मांस-भक्षण-साधनं जिह्वा-लौल्यम् एवोद्घोषयति ।+++(5)+++
ये किल मांसादास्
ते प्रकृत्या चञ्चला अपि भवन्ति नेतरे ।+++(4)+++
तथा हि मांसम् अदन् मृगेन्द्रः
पञ्जरे सुदृढं बद्धोऽपि
नैकमपि क्षणं शान्तः सन्तिष्ठते,
प्रत्युत धावत्य् एवेतस् ततः ।
गोमहिषादयः पुनर् लोके धीरा इव दृश्यन्ते ।+++(5)+++
इदानीन्तना आहार-शास्त्र( Dietetics)विदोऽपि
मांसभक्षणं सर्वथा निन्दन्ति,
प्रशंसन्ति च सात्त्विकं शाकादिकम् एवाऽऽहार-जातम् ।
तस्माद् वैदिक-कर्माङ्ग-भूतालम्भन-भक्षणे वर्जयित्वा
निषिद्धानां तामसानां मांसादीनां पदार्थानां भक्षणं
को नाम सुधीर् अनुमन्येतेति ।
(४)
उपसंहारः
सर्वदा समुचित-विचार-साहाय्यं विदधतोर् हृद्य-सुहृद्-वरयोः श्रीबटुकनाथ-शर्म,,खिस्ते-श्री-नारायण-शास्त्रिणोः
क्वचिद्-अंशेऽत्र संसूचयतो मित्र-वर-बेतालोपाह्व–श्री-अनन्त-राम-शास्त्रिणश् च नामान्य् अनुल्लेख्य
भूमिका-परिसमाप्तिर् अनुचितेति
तेभ्यः सहर्ष धन्यवादान् वितीर्य
सरस्वतीभवनसंस्कृत-ग्रन्थमाला-प्रधान-संशोधकानां
सर्वदा मय्य् अतुलं वात्सल्यं बिभ्रतां
विशेषतश् चाऽऽङ्ग्लभाषीयोपोद्घात-प्रदान-पूर्वकं ग्रन्थम् इमं निर्ध्यायतां पूज्य-वर-श्री-गोपीनाथ-कविराज एम० ए०. महोदयानां नाम सादरं स्मारंस्मारं,
सश्रद्धम् अभिवन्द्य च श्रीमद्-गुरु-वर-चरण-कमलानि
वृथा-पल्लविताद् अस्माद् विरम्यते प्रास्ताविकाल्लेखात् ।+++(4)+++
ग्रन्थ-कर्तुः प्रसिद्धतया ऽऽङ्ग्ल-भाषीय-भूमिकायां समुपन्यस्ततया च परिचयादिकं
पिष्ट-पेषणम् इव ज्ञात्या
नात्र निबद्ध्यते ।
आशास्यते च
गुणैक-पक्षपातिनः सज्जनाः शुद्धि-पत्राद् अशुद्धीः संशोध्य
ग्रन्थम् एतम् आद्यन्तम् आलोक्य
सफलयेयुः परिश्रमम् इति शिवम् ।
सरस्वती-भवनम् काशी.
जगन्-नाथ-शास्त्री होशिङ्गः
२५-३-२७.
पारिभाषिकशब्दाः
एतस्मिन्निबन्धे समापतितानां पारिभाषिकशब्दानां विवरणम् ।
उपाकरणम् = यज्ञाङ्गत्वेन रहसि स-मन्त्रकं साम्प्रदायिक-र्त्विगादि-द्वारा ऽशब्दं पशूनां प्राण-वियोजनम् ।
परिसंख्या = अनेकत्र लक्ष्याऽलक्ष्ययोर् वा प्राप्तौ निर्णयः ।
बर्तिलाः = आरण्यास् तिलाः, यश??साधनभूतास् तिल-विशेषा इति यावत् ।
इडा = यशीयः+++(=??)+++ पिष्टपशु, पशु,
चरुमयो होमावशिष्टो भक्ष्य-पदार्थः ।
प्राजापत्यम् = प्रजापतिदेवतोद्देशेन यागादौ दीयमानं होम-द्रव्यम् ।
अष्टकाः = मार्गशीर्ष-पूर्णिमोत्तरम् अपर-पक्षीयाश् चतस्रो ऽष्टम्यो
ऽष्टका इत्यु-??रूपन्ते ।
प्रमाण-सूचिः
अस्मिन् ग्रन्थे प्रमाणत्वेनोपन्यस्तानां ग्रन्थानां ग्रन्थकाराणां च वर्णक्रमानुसारि सूचीपत्रम्.
आचारमाधवीयम् … २१
भविष्यपुराणम् ……… १६
कल्पतरुः ७, १६, २०, २७
भागवतम् २४
कल्पतरुकृत् २८
कामधेनुः १६ २०
कालिकापुराणम् १७
कूर्मपुराणम् १६
गोभिलसूत्रम् २३
तन्त्ररत्नम् ११
देव (वी?) पुराणम् १६
देवलः ४
पुलस्त्यः २५
पारिजातरत्नाकरः १६, २०
पृथ्वीचन्द्रोदयः २३ - २४
पैठीनसिः ३
बृहत्पराशरः २१
बृहस्पतिः ३
भोजदेवः २०
मनुः १, ४, ५, ६, ८, १४, १५, १८, १९, २३, २६, २८
महाभारतम् ४
माधवाचार्यः १८
मिताक्षरा ९, १५
मेधातिधिः २, ३, ६, १२, १३, १४, १५
यमः ६, २०
याज्ञवल्क्यः २, ८, १५, १७,१९, २८
वराहपुराणम् १६
वसिष्ठस्मृतिः १५
वाचस्पमितिश्रः १३
विष्णुपुराणम् १८
विज्ञानेश्वरः २, १३, १४, २५, २६
ब्रह्मपुराणम् १३, २०, २६, २७
स्कन्दपुराणम् १६
भट्टभाष्यम् (गोभिलसूत्रस्य) २३
स्मृतिमञ्जरी २०
भवदेवभट्टः ८, १३, १७, २७
हारीतः ४
१ मांस-भक्षण-विधि-प्रतिषेधौ
श्रीः।
श्रीविश्वनाथभट्टाचार्यकृतः
मांसतत्त्वविवेकः॥
अथ मांस-भक्षण-विधि-प्रतिषेधौ व्याख्यास्यामः ।
मनु-वचनम्
तत्र मनुः –
मांसस्याऽतः प्रवक्ष्यामि
विधिं भक्षण-वर्जने ॥
प्रोक्षितं भक्षयेन् मांसं
ब्राह्मणानां च काम्यया ।
यथा-विधि, नियुक्तश् च
प्राणानाम् एव चात्यये ॥
प्राणस्यान्नम् इदं सर्वं
प्रजापतिर् अकल्पयत् ।
जङ्गमं स्थावरं चैव
सर्वं प्राणस्य भोजनम् ॥
चराणाम् अन्नम् अचरा
दंष्ट्रिणां चाऽप्य् अदंष्ट्रिणः ।
अहस्ताश् च सहस्तानां
शूराणां चैव भीरवः ॥+++(5)+++
नात्ता दुष्यत्य् अदन्न् आद्यान्
प्राणिनोऽहन्य् अहन्यपि ।
धात्रैव सृष्टा ह्य् आद्याश्च
प्राणिनो ऽत्तार एव च ॥[[१]]
यज्ञाय जग्धिर् मांसस्येत्य्
एष दैवो विधिः स्मृतः ।
अतोऽन्यथा प्रवृत्तिस् तु
राक्षसो विधिरुच्यते ॥क्रीत्वा स्वयं वाप्य् उत्पाद्य
परोपकृतम् एव वा ।
देवान् पितॄंश्चाऽर्चयित्वा
खादन् मांसं न दुष्यति ॥नाद्याद् अविधिना मांसं
विधि-ज्ञो ऽनापदि द्विजः ।
जग्ध्वा ह्य् अविधिना मांसं
प्रेत्य तैर् अद्यते ऽवशः ॥नियुक्तस्तु यथान्यायं
यो मांसं नात्ति मानवः ।
स प्रेत्य पशुतां याति
सम्भवान् एक-विंशतिम् ॥असंस्कृतान् पशून् मन्त्रैर्
नाद्याद् विप्रः कथञ्चन ।
मन्त्रैस् तु संस्कृतान् अद्याच्
+++(“अ-यज्ञीयं मांसं न भक्षणीयं मये"ति)+++ छाश्वतं विधिम् आस्थितः ॥
प्रकरण-निश्चयः
अत इत्यनेन वर्णचतुष्टय-साधारण्येन
मांस-भक्षण-वर्जन-प्रकरणम् आरभ्यत इत्युक्तम् ।
एवं मेधातिथि-प्रभृतयोऽपि —
अतः शृणुध्वं मांसस्य
विधिं भक्षणवर्जने ।
इति याज्ञवल्कीयेऽप्यतः-शब्दे ऽमुम् एवार्थं विज्ञानेश्वरो व्याचख्यौ ।
भक्षाधिकारः
अ-प्रोक्षितस्यापि भक्षणाभ्यनुज्ञानार्थं ‘ब्राह्मणानां च काम्यया’ इत्यादि ।
[[२]]
नियुक्तः = श्राद्धादौ निमन्त्रितः कृतस्वीकारः ।
‘प्राणानाम् एव चात्यये’
इति रोगादौ न भक्ष्याभाक्ष्येे ।
यदि मांस-भक्षणम् अन्तरेण प्राणवियोगः संभाव्यते
तदाऽवश्यं भुञ्जीतेत्यर्थः ।+++(4)+++
‘सर्वत एवाऽऽत्मानं गोपायति’ इति श्रुति-मूलकं चेदम् ।+++(5)+++
अत्र च देवाद्य्-अर्चनम् अपि नापेक्षितम् इति मेधातिथिः ।
अधिकं च तेनोक्तम् -
न केवलम् उत्पन्नस्य व्याधेर् निवृत्त्य्-अर्थं
किन्तु दुर्बलादीनां पुष्ट्य्-अर्थं
सर्व-कालं मांसाशनं नियमत इष्यत
इति ।+++(5)+++
‘प्राणस्यान्नम्’ इत्य्-आदि-श्लोक-त्रयं ‘प्राणानाम् एव चात्यये’ इत्यस्याऽर्थवादः ।
प्रोक्षित-भक्षण-श्लाघा
‘प्रोक्षितं भक्षयेत्’ इत्यस्याऽर्थवादो ‘यज्ञाय’ इत्यादि ।
अन्यथा लोभादिना ‘राक्षसो विधिः’ इति निन्दा ऽपि
ततः स्तुतौ पर्यवसन्ना +++(न त्व् अयज्ञीय-निषेध-परा)+++।
स्रोतः
क्रीत्वेति सूना-व्यतिरिक्त-स्थले ।+++(4)+++
स्वयम् उत्पादनं ब्राह्मणस्य याच्ञादिना, क्षत्रियस्य मृगयादिना ।+++(4)+++
नियोगे, अ-निषिद्धे, रोगादौ
श्राद्धादौ निमन्त्रितस्याऽभोजने निन्दाम् आह ‘नियुक्त’ इति ।
पैठीनसिः -
श्राद्धे तु मांसम् अश्नीयात्
तथा ऽतिथि-निमित्तके ।
बृहस्पतिः -
रोगी, नियुक्तो, विधिना
कृतं, विप्र-वृतस् तथा ।
मांसम् अद्याच् चतुर्द्धैषा
परिसंख्या प्रदर्शिता ॥[[३]]
अतोऽन्यथा तु योऽश्नीयाद्
विधिं हित्वा पिशाचवत् ।
यावन्ति पशु-रोमाणि
तावत् प्राप्नोति मारणम् ॥ +++(4)+++
हारीत:-
वृथा मांसम् अभक्ष्यं तु
प्राश्य कृच्छ्रं चरेद् बुधः ।
काम्यया ब्राह्मणानां तु
यथाकामं समश्नुयात् ॥
देवलः -
भक्षयन्न् अपि मांसानि
शेष-भोजी न लिप्यते ।
औषधार्थम् अशक्तौ वा
नियोगाद् यज्ञ-कारणात् ॥+++(4)+++
अप्रोक्षितम् भक्ष्यम्
महाभारते -
प्रजानां हितकामेन
त्व् अगस्त्येन महात्मना ।
आरण्याः सर्वदैवत्याः
प्रोक्षिताः सर्वशो मृगाः ॥+++(4)+++
इति प्रोक्षितत्व-कथनं तत्-कार्य-कारित्व-बोधनाय,
तेन तेषां भक्षणम् अ-विरुद्धम् एव ॥
ननूक्त-वचनानां साधारण्येऽपि
अप्रोक्षितं ब्राह्मणेन न भक्षणीयम् ।
तथा च मनुः -असंस्कृतान् पशून् मन्त्रैर्
नाद्याद् विप्रः कथञ्चन ।
मन्त्रैस्तु संस्कृतान् अद्याच्
छाश्वतं विधिम् आस्थितः ॥
[[४]]
इति,
मैवं - पूर्वार्द्धस्य प्रोक्षित-भक्षण-स्तावकत्वात्,
‘अनाहुतिर् वै जर्तिला’ इत्य्-अस्य पयो-होम-स्तावकत्ववत् ।
अन्यथा श्राद्धेऽपि भक्षणानापत्तेः पूर्वोक्त-विरोधः स्यात् ।
यथा मनुः -
पितॄणां मासिकं श्राद्धम्
अन्वाहार्यं विदुर् बुधाः ।
तदा ऽमिषेण कर्तव्यं
प्रशस्तेन प्रयत्नतः ॥
तत्र ये भोजनीयाः स्युर्
ये च वर्ज्या द्विजोत्तमाः ।
यावन्तश् चैव यैश् चान्नैस्
तत् प्रवक्ष्याम्य् अशेषतः ॥
इत्य् उक्त्वा-
द्वौ मासौ मत्स्य-मांसेन
त्रीन्मासान् हारिणेन तु ।
इत्य्-आदिना गुण-फलार्थं मांस-विशेषा अपि दर्शिताः ।+++(4)+++
एवं ‘नियुक्तस् तु यथान्यायम्’ इत्य्-अपि स्मर्तव्यम् ।
किञ् चैवं मत्स्यानां पक्षिणां च भक्षणं सिद्धम् एव ।
पशवोऽप्य् अत्र+++(←“असंस्कृतान् पशून्”)+++ गोऽव्य्-अजा एव
तेषाम् एव संस्कार-प्रसक्तेः ।
अन्ये तु नियमाभिप्रायेणोक्तम् अनुवचनं योजयन्ति ।
तथा हि - +++(छाश्वतं विधिम् आस्थितः इत्यत्र)+++ शाश्वतं नित्यं वैदिकमित्यर्थः ।
[[५]]
+++(“छाश्वतं विधिम् आस्थितः” इत्यत्र)+++ आस्थित आश्रित इति मेधातिथि-व्याख्यानात्
‘अ-यज्ञीयं मांसं न भक्षणीयं मया’
इति नियमो येन कृतस् तत्-परत्वं स्पष्टम् ।
तथा च यमः -
प्रोक्षितं भक्षयेन् मांसं
सकृद् ब्राह्मण-काम्यया ।
दैवे नियुक्तः श्राद्धे वा
नियमे तु विवर्जयेत् ॥
‘नियमे तु’ इति प्रोक्षितातिरिक्त-परं
तद्-भक्षणे यागानिष्पत्तेर् इत्य् आहुः ।
न मनुना निषिद्धम्
यच् चैकादशाध्याये सुरा-पान-प्रायश्चित्त-प्रकरणे -
यक्ष-रक्षः-पिशाचान्नं
मद्यं मांसं सुरासवम् ।
तद् ब्राह्मणेन नाऽत्तव्यं
देवानाम् अश्नता हविः ॥
इति मनु-वचनं,
तत्र पञ्चमाध्यायोक्त-मांस-निन्दानुवादो दृष्टान्तार्थम् उपन्यस्तः ।
‘ब्राह्मणेन नात्तव्यम्’ इत्य्-अत्र
ब्राह्मण-पदम् एक-देशानुवाद-मात्रम्,
‘एकं वृणीत’ इत्य्-आदिवत् ।
न वा सुराया अपीदं निषेधकम् ।
तस्माद् ब्राह्मण-राजन्यौ
वैश्यश् च न सुरां पिबेत् ।
इति पूर्वम् एव निषेधाद्
अतो निन्दा-मात्र-परम् इदं वचनम् ।
न वाऽनया निषेधान्तरं कल्पयितुं युक्तम् - अतिप्रसङ्गात् ।
[[६]]
तथा हि
मांस-सामान्यं ब्राह्मण-सामान्यस्य निषिध्येत,
तद्-विशेषस्य वा ?
आद्ये प्रोक्षितम् अपि द्विवार्षिकादेर् अपि निषिध्यताम् ।
निषिध्यत एव,
किन् तु प्रोक्षित-भक्षण-बोधक-श्रुति-स्मृतिभ्यां बाध्यत
इति चेत् तर्हि
एकवाक्यतया ऽप्रोक्षितं न भक्षणीयम् इति प्राप्तम् । तच् च -
असंस्कृतान् पशून् मन्त्रैर्
नाद्याद् विप्रः कथञ्चन ।
इत्य् उक्तम् एवा ऽधस्तात् ।
किञ् च द्वि-वार्षिकेऽपि +++(जाति-ब्राह्मणे)+++
प्रत्यवेयात्तृ+++(??)+++-वचनान्तरात्
तस्य बाध
इति चेत्
+++(देवान् पितॄंश् चाऽर्चयित्वा
खादन् मांसं न दुष्यति←)+++
‘देवान् पितॄन् समभ्यर्च्य’ इत्यादिनाऽपि कथं न बाधः ।
“तत् सामान्य-वचनं क्षत्रियादिकम् आदाय चरितार्थं
ब्राह्मणस्य निषेधं नाक्रामती"ति चेत् तर्हि -
ऊनैकादश-वर्षस्य
पञ्च-वर्षाधिकस्य च ।
चरेद् गुरुः सुहृद् वापि
प्रायश्चित्तं विशुद्धये ॥
अतो न्यूनतरस्याऽस्य
नाऽपराधो न पातकम् ।
इत्य्-आदिकम् अपि क्षत्रियादि-परं स्यात् ।
न चैवं -
सुरा-पान-निषेधो ऽपि द्वि-वार्षिकादि-ब्राह्मणादेर् न स्याद्
इति वाच्यम्,
इष्टापत्तेर् इति कल्प-तरुः ।
+++(उपनीतस्यैव सुरा-निषेधः।)+++
[[७]]
सुरा-पान-निषेधोऽयं
जात्याश्रय इति स्थितिः ।इति वचनात्
तस्यापि निषेध इति भव-देव-प्रभृतयः ।
तस्मात् सामान्य-वचनम् अपि
ब्राह्मण-गोचर-निषेधम् आक्रामति
इति - ‘देवान् पितॄन्’ इत्य्-आदाव् अपि तुल्यम् ।
अन्यथा ‘देवान् पितॄन्’ इत्यादिकं क्षत्रियादि-परम् अपि न स्यात् -
‘अनुपाकृत-मांसानि’ इति द्विजातित्व-पुरस्कारेण मनुना निषेधात् ।
याज्ञवल्क्येन च द्विजातित्व-पुरस्कारेण मत्स्यादीनां भक्ष्यत्वोक्तेश् च
विरोधो दुष्परिहारः स्यात् ।
अथाऽप्रोक्षित-मांसं पञ्च-वर्षाधिक-ब्राह्मणस्य निषिध्यत
इति चेन् न -
श्राद्धेऽपि भक्षणानापत्तेः ।
न चैवम् एवाऽस्त्व् इति वाच्यं,
तस्य विहितत्वात्,
श्राद्धाङ्ग-प्रतिपत्ति-परं तद्-वाक्यं
न भोक्तुर् दोषं प्रतिप्रसोतुम् ईष्ट
इति चेत्
तर्हि ऋत्विजाम् अपि प्रत्यवायापत्तेः ।
ऋत्विजां भक्षण-विधायकेन
‘यजमान-पञ्चमा इडां भक्षयन्ति’
इत्य्-अनेन
इष्ट-साधनत्वं बलवद् अनिष्टाननुबन्धित्वं च बोधितम्
अतो न दोष
इति चेन् न,
तेन हि यजमानस्येष्ट-साधनत्वं बलवद्-अनिष्टाननुबन्धित्वं च बोध्यते
न तु ऋत्विजाम् ।
[[८]]
सत्यम् एवं
तथापि ‘असंस्कृतान् पशून्’ इति वचनम् एवर्त्विजां भोजनं प्रतिप्रसौति
इति चेन् न,
यजमान-भोजन-परत्वेनैवोपपत्तेः कल्पनान्तराऽनवकाशात् ।
अन्यथा उदासीनोऽपि तद्-भुञ्जानो न प्रत्यवेयात् । किञ्च
नियुक्तस्तु यथान्यायं
यो मांसं नात्ति मानवः ।
इति न प्रतिपत्तिपरं -
प्राग् एव तत्-प्रतिपादनात् ।
केतितस्तु यथान्यायं
हव्यकव्यैर् द्विजोत्तमः ।
कथञ्चिद् अप्य् अतिक्रामन्
पापः शूकरतां व्रजेत् ॥+++(4)+++
इत्य्-अस्य तृतीयाध्याये श्राद्ध-प्रकरणे विधानात्
तत्-परत्वं वक्तुम् अपि युज्यते ।
‘नियुक्तस् तु’ इति वचनं तु
पञ्चमाध्याये भक्ष्याभक्ष्य-निरूपणे ऽभिहितम् ।
अत एव कुल्लूकभट्टाः -
श्राद्धे मधु-पर्के च नियुक्तः सन्
यो न खादति
स मृतः सन्न् एक-विंशति-जन्मानि पशुर् भवति ।
इदं च ‘यथा-विधि नियुक्तस् तु’ इत्य्-एतन्
नियमातिक्रम-फल-कथनम् इति व्याख्यातवन्तः ।
श्राद्धे निमन्त्रितो नियमतो मांसं भक्षयेद्,
अभक्षणे ‘नियुक्तस्तु यथान्यायम्’ इति दोष-श्रवणाद्
इति मिताक्षरा ।
[[९]]
यदि च
सामान्यत एव ब्राह्मणस्य मांस-निषेधे,
‘असंस्कृतान् पशून् मन्त्रैः’ इति प्रतिप्रसवाद्
ऋत्विजां भक्षणम् अनुज्ञायत
इत्य् उच्यते
तदा यजमानस्य ब्राह्मणस्य भक्षणं न स्यात् -
श्रुतिप्राप्तर्त्विग्भक्षणे दोषाभावानुवादेनैव स्मृतेः पर्यवसानात्,
ज्योतिष्टोमादेः क्षत्रियादिकम् आदाय चरितार्थत्वात् ।
“स्मृत्या कथं श्रुतिः सङ्कोच्ये"ति चेत्
तर्ह्य् अधीत-वेद-पतितस्याऽप्यधिकारः स्यात्
स्मृत्यैव तस्य सर्वधर्मबहिष्कृतत्वोक्तेः ।
एवम् अष्टकादाव् अपि
ब्राह्मणस्य मांसं न स्यात् ।
किञ्च यदि ‘असंस्कृतान् पशून्मन्त्रैः’ इति प्रतिप्रसवाद्
ऋत्विजां मांस-भक्षणं,
तदा कपिञ्जलादीनां भक्षणं न स्यात् प्रतिप्रसवाभावात् ।
वस्तुतस् तु ‘तद् ब्राह्मणेन नात्तव्यम्’ इत्यत्र
तत्-पदेन मद्यम् एव परामृश्यते ।
तच् च त्रि-विध-सुरा-भिन्नं पानसादि,
तन्-निषेधे वचनस्य सार्थकत्वम्,
अन्यथा सर्वेषां निषेधे
तानि नात्तव्यानीत्य् उक्तं स्यात् ।
किञ्चिद्-अंशे निषेधः
किञ्चिद्-अंशेऽनुवाद
इति वैरूप्यं च वाक्य-भेदश् च स्यात् ।
[[१०]]
न च
अश्रूयमाण-विशेषत्वात्
तत्-पदेन सर्वेषाम् एव परामर्शान्
न वाक्य-भेदः ।
अत एव -‘दधि मधु घृतं पयो धाना उदकं तण्डुलास्
तत्-संसृष्टं प्राजापत्यं हविः’इत्य्-अत्र तत्-पदेन पूर्वोक्त-सर्वपरामर्श
इति वाच्यं
तत्र समास-निविष्ट-तत्-पदस्य बहुवचनान्तत्वात् ।
कथमन्यथा न?
दक्षिणाधिकरण-विरोधस् - तत्र हि -
गौश्च अश्वश्च अश्वतरश्च गर्दभश्च अजाश्च अवयश्च यवाश्च तिलाश्च माषाश्च
तस्य द्वादश-शतं दक्षिणा’
इत्यत्र तस्येत्य् एकवचनश्रुतेर् अजादीनां निरासः,
तथा च गवादीनां परामर्शस् तत्राऽपि एक-वचनान्तत्वान्
न चतुर्णां परामर्शः ।
किन्त्व् एक-जातीयस्य तत्रापि मुख्यत्वात्
गवां निर्देश इति तन्त्ररत्नम्,
तन् न स्यात्
तत्रापि सर्व-परामर्श-प्रसङ्गात् ।
न च तत्र महाभ्युदय-हेतुत्वाद् एव गोर् ग्रहणम्
इति वाच्यम्, एकतरपरिग्रहनिष्टङ्कने हि विनिगमिका सा युक्तिः ।
न चैकतर-निष्टङ्कन-मुक्तातिरिक्त-प्रकारेण सम्भवति ।
किंच तत्र गोरेव वाक्यार्थप्रवेशादश्वश्चेत्यादीन्यनन्वितान्येव तिष्ठन्ति ।
अतस्तत्र ‘एतानि द्रव्याणि दक्षिणा’ इत्यध्याहारेण दक्षिणा इत्यस्यानुषङ्गेण वाऽन्वयः कियते ।
एतावद् अप्य् एकवचनान्त-तत्पदानुरोधात् सह्यते ।
प्रकृते तु नाऽध्याहारादिकमप्यस्ति ‘यक्षरक्षः पिशाचान्नम्’ इत्यनेनैव सर्वान्वयात् ।
[[११]]
तद् एवम् एकतरान्वये प्रसक्ते
स्त्रीलिङ्गतापत्त्याऽनुवादत्वापत्त्या च सुराया अपरामर्शे
वक्ष्यमाणयुक्त्या आसवस्यापि तथात्वे
द्वयोरन्यतरपरामर्शप्रसक्तौ मांसनिषेधे ऽनुवादत्वापत्त्या महादोषसाधनत्वात् प्रथमोपस्थितत्वात्
प्रकरणानुरोधाच्च
मद्यमेव तत्पदेन परामृश्यत इत्येव युक्तम् ।
न च तदिति हेतौ -
तथापि नात्तव्यमित्यस्य विशेष्याकाङ्क्षायां पूर्वोक्तयुक्त्या मद्यस्यैव तथात्वात्,
यत्-तद्-आद्य्-उपबन्धेन
विधिशक्तिः प्रणश्यति ।+++(5)+++
इति न्यायादर्थवादत्वापत्तेश्च ।
अत एव द्वितीयश्लोके -
अमेध्ये वा पतेन् मत्तो
वैदिकं वाऽप्य् उदाहरेत् ।
अकार्यम् अन्यत् कुर्याद् वा
ब्राह्मणो मद-मोहितः ॥
इति मद्यं निन्द्यते ।
न चासव एव निषिध्यताम्,
आसवस्य सुराया एवाऽवस्था-विशेषस्योपादानं
‘गोबलीवर्द’न्यायेनेति मेधातिथि-व्याख्यानात्
तन्निषेधस्याऽवक्तव्यत्वात् ।
तथात्वे वा “तद्” इति पदं विरुद्ध्येत पुंल्लिङ्गत्वापत्तेः ।
सुरासवमिति च समाहारद्वन्द्वः ।
[[१२]]
उक्तव्याख्यानाऽनादरे तत्पदमनर्थकमेवापद्यते । अत एव च ब्रह्मचारिणो मांसनिषेधे प्रोक्षिताद्यपीति व्याख्यातं मेधातिथिना । अजाद्यपीति विज्ञानेश्वरेण । अन्यथाऽधिकदोषार्थमिदमित्युक्तं स्यात् । ब्राह्मणस्य सामान्यत एव निषेधात् क्षत्रियब्रह्मचारिपरमिदमिति व्याख्यातं स्यात् । कथं वा मनुना ब्राह्मणमधिकृत्य मांसश्राद्धमुक्तम् । स्मृत्यन्तरेषु च सर्वस्मात् प्रकृतादन्नात् पिण्डदानमुक्तं पिण्डशेषप्राशनं चोक्तं, तदपि विरुद्ध्येत । भवदेवभट्टवाचस्पतिमिश्रादयस्तु ‘यक्षरक्षः पिशाचान्नम्’ इत्यत्र मांसपदमाममांसपरं तस्यैव पिशाचादिभक्ष्यत्वेन प्रसिद्धेरित्याहुः । कुल्लूकभट्टास्तु तत्र मांसपदं प्रतिषिद्धमांसपरमिति व्याचक्रुः । अन्ये तु तत्र द्विवार्षिकाद्यनुरोधेन ब्राह्मणपदसङ्कोचावश्यकत्वे यतिपरमेवाऽस्तु ।
न भक्ष्यं यतिना मांसं कदापि च मुमूर्षता ।
इति ब्रह्मपुराणात् । ब्रह्मचारिपरं वा, तस्यापि सर्वथा निषेधादित्याहुः ।
[[१३]]
एवं भृत्यभरणावशिष्टमांसं भक्ष्यमाह मनुः -
यज्ञार्थं ब्राह्मणैर्वध्याः प्रशस्ता मृगपक्षिणः ।
भृत्यानां चैव वृत्त्यर्थमगस्त्यो ह्याचरत् पुरा ॥
एतस्मादेव वचनाद्भृत्यभरणावशिष्टस्य भक्ष्यतां विज्ञानेश्वरोऽपि दर्शितवान् । ब्राह्मणैरिति कण्ठरवेणैवोक्तम् । एवम् -
क्रीत्वा स्वयं वाऽप्युत्पाद्य परोपकृतमेव वा ।
देवान् पितंश्चाऽर्चयित्वा खादन्मासं न दुष्यति ॥
इत्यत्र स्वयमुत्पाद्य ब्राह्मणो याञ्चया क्षत्रियो मृगयाकर्मणेति द्वितीय इव वेधा मेधातिथिर्व्याचख्यौ । तेनाऽयज्ञेऽपि भक्षणं ब्राह्मणस्य तदनुमतमेव । तस्मात् यज्ञे श्राद्धे मधुपर्के प्राणात्यये ब्राह्मणाज्ञायां च भोक्तव्यं तद्व्यतिरेकेणाऽपि भृत्यभरणावशिष्टं देवपित्रर्चनावशिष्टं च चतुर्णामपि वर्णानामविशेषेण भक्ष्यमेव, ‘विवाहे पुनर्भोक्तव्यम्’ इति वचनात् । प्रतिषेधाप्रवृत्तिर्विवाहे गम्यत इति मेधातिथिः । एवं -
पाठीनरोहितावाद्यौ नियुक्तौ हव्यकव्ययोः ।
राजीवान् सिंहतुण्डांश्च सशल्कांचैव सर्वशः ॥
[[१४]]
इति मनुवचने सर्वशः पदाद्धव्यकव्याभ्यामन्यत्राऽपि आन्वाहिकभोजने प्रवृत्तिरनुज्ञायत इति मेधातिथिः । इदमपि ब्राह्मणादिसाधारणम् ।
भक्ष्याः पञ्च-नखाः सेधा-
गोधा-कच्छप-शल्यकाः ।
शशश् च मत्स्येष्व् अपि हि
सिंह-तुण्डक–रोहिताः ॥
तथा पाठीन-राजीव-
स-शल्काश् च द्वि-जातिभिः ।
इति याज्ञवल्क्येन द्विजातित्व-पुरस्-कारेणाऽभिधानानात् ।
अत्र खड्गमांसमपि मनुना दर्शितम् -
श्वाविधं शल्यकं गोधां खड्ग-कूर्म-शशांस् तथा ।
भक्ष्यान् पञ्च-नखेष्व् आहुः
इति । ‘खड्गे तु विवदन्ते’ इति वसिष्ठस्मृतिः श्राद्धं विनाऽभक्ष्यत्वबोधनाय श्राद्धे प्राशस्त्यप्रतिपादनादिति मिताक्षरा । इदं तु बोध्यम् - ‘देवान् पितॄंश्चार्चयित्वा’ इत्यनेन श्राद्धशेषस्याऽष्टकास्वष्टकावशिष्टस्य देवपूजावशिष्टस्य च भोजनमभ्यनुज्ञायते न तु श्राद्धशेषमात्रपरं, सङ्कोचे मानाभावात् ।
[[१५]]
अत एव कौर्मे -
मत्स्यान् सशल्कान् भुञ्जीत मांसं रौरवमेव च ।
निवेद्य देवताभ्यश्च ब्राह्मणेभ्यश्च नान्यदा ॥
इति देवादिपूजानन्तरं भक्ष्यत्वमुक्तम्, अन्यथा —-
गव्यं कृसरपूपानि पायसं मधुसर्पिषी ।
वृथामांसं च नाऽश्नीयात् पितृदेवविवर्जितम् ॥
इति देव?पुराणात् घृतादीनामपि श्राद्धं विनाऽभक्ष्यत्वं स्यात् । देवपूजायां मांसदाने कल्पतरुकामधेनुपारिजातरत्नाकरादिलिखितवचनानि । यथा सूर्यपूजायां भविष्यपुराणे -
भक्ष्यान्नपान्नमांसानि फलानि च निवेदयेत् ।
शिवपूजायां स्कान्दे -
अशेषफलदानेन यत्फलं परिकीर्तितम् ।
तत्फलं प्राप्नुयान्नित्यं सर्वं मांसनिवेदनात् ॥
वाराहे विष्णुवाक्यम् -
खड्गमांसं तथा छागं शाशं समुपयुज्यते ।
एतानि मे प्रियाणि स्युः प्रयोज्यानि वसुन्धरे ॥[[१६]]
कर्मण्यं रौरवं मांसं मायूरं कौक्कुटं तथा ।
मायूरं तृणमयूरभवं, कौक्कुटं घनकुक्कुटभवम्, इतरस्याऽभक्ष्यत्वादिति निबन्धकारः ।
लावकं वार्तिकं चैव प्रशस्तश्च कपिञ्जलः ।
वेणुकः पार्श्वकश्चैव पितॄणां प्रवरः प्रियः ॥
पञ्चभूतकमांसं च जीवञ्जीवस्य पक्षिणः ।
सम्प्रदद्याच्च मैध्यं च नीलपन्नं तथैव च ॥
गिरिवर्त्तिकामेध्यं च कपोता वत्सपक्षिणः ।
एते चान्ये च बहवः शतशोऽथ सहस्रशः ॥
शकुनेर्योनयः शस्ता ये मया परिकीर्तिताः ।
एवं याज्ञवल्कीयविनायकशान्तावम्बिकापूजायां ‘मत्स्यान् पक्वांस्तथैवाऽऽमान्’ इति । दुर्गापूजायां कालिकापुराणे -
अन्नानि चैव पानानि मांसानि च निवेदयेत् ।
भवदेवभट्टास्तु - अनिषिद्धमत्स्यमांसभक्षणे दोषाभावात् प्रायश्चित्ताभाव एव । यानि च वृथा मांसनिन्दापराणि, यानि च प्रोक्षितदेवपित्रर्चनशेषभक्षणाभ्यनुज्ञापराणि तानि पर्वाभिप्रायेणेति वदन्ति । युज्यते चैतत् ।
[[१७]]
कथमन्यथा -
चतुर्दश्यष्टमी चैव अमावास्या च पूर्णिमा ।
पर्वाण्येतानि राजेन्द्र! रविसङ्क्रान्तिरेव च ॥
स्त्रीतैलमांससम्भोगी पर्वस्वेतेषु वै पुमान् ।
विण्मूत्रभोजनं नाम नरकं प्रतिपद्यते ॥
इति विष्णुपुराणीयनिषेधो यागश्राद्धादावपि भोजनं नाक्रामति । अमावास्याऽष्टकादौ विशिष्य मांसविधानान्न दोष इति चेत्तथापि ‘प्रोक्षिते का गतिर्न वा’, ‘अमावास्यायां श्राद्धकर्ता श्राद्धभोक्ता च मांसं भुञ्जीत’ इति वाक्यान्तरं कल्पयितुं युक्तम्, उक्तसामान्यवचनैरेव निर्वाहात् । अन्यथा प्राणात्यये पर्वणि भोजनापत्तेरिति तेषामाशयं वर्णयन्ति । माधवाचार्यास्तु हिंसां विनाऽनिषिद्धमांसभक्षणे न दोषं मन्यन्ते । तथा चाहुः - ‘विशेषनिषेधबलात्तत्तन्मांसभक्षणे प्रत्यवायो नेतरत्रेत्यवगम्यते’ ।
[[१८]]
अत एवोक्तं मनुना - ‘न मांसभक्षणे दोषः’ इति । यत्तु तेनैवोक्तम् -
नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते क्वचित् ।
न च प्राणिवधः स्वर्ग्यस्तस्मान्मासं विवर्जयेत् ॥
समुत्पत्तिं च मांसस्य वधबन्धौ च देहिनाम् ।
प्रसमीक्ष्य निवर्तेत सर्वमांसस्य भक्षणात् ॥
इति । यच्च याज्ञवल्क्येनोक्तम् -
वसेत्स नरके घोरे दिनानि पशुरोमभिः ।
संमितानि दुराचारो यो हन्त्यविधिना पशून् ॥
इति, तन्निषिद्धप्राणिहिंसापूर्वकमांसभक्षणविषयं, न तु क्रयादिप्राप्तमांसभक्षणविषयम् । प्राणिवधनिन्दापूर्वकमेव मांसभक्षणनिषेधस्मरणात् । यच्च मनुनैवोक्तम् -
फलमूलाशनैर्मेध्यैर्मुन्यन्नानां च भक्षणैः ।
न तत्फलमवाप्नोति यन्मांसपरिवर्जनात् ॥
इति, तत्र मांसर्वजनस्य महाफलसाधनत्वं प्रोक्षणादिव्यतिरिक्तविषयम् । अत एवोक्तं तेनैव -
प्रोक्षितं भक्षयेन्मांसं ब्राह्मणस्य च काम्यया ।
यथाविधि नियुक्तश्च प्राणानामेव चात्यये ॥
इति ।
[[१९]]
एतन्मते व्यक्तमांसस्य प्रतिप्रसवरूपं ‘प्रोक्षितं भक्षयेन्मांसम्’ इत्यादि । न च ‘नियमं च विवर्जयेत्’ इति पूर्वलिखितयमवचनविरोध इति वाच्यं नियमशब्दस्य व्रतवाचित्वात् । ‘आमाषमामांसं बहुसर्पिष्कं व्रतयति’ इत्यादौ मांसं ब्राह्मणकामनादावपि न भोक्तव्यमित्यर्थस्य सुवचत्वात् । यश्च ब्रह्मपुराणे -
ब्राह्मणानुज्ञया भक्ष्यं त्यक्तं मांसं च रोगिभिः ।
मातापितृभ्यां संभुक्तं शेषं वा ब्रह्मचारिणा ॥
पुनः प्रशान्तरोगेण कर्तव्यमधिकं व्रतम् ।
इति, तत्राऽधिकव्रतकरणं ब्रह्मचारिण एवेति । यच्च ‘श्राद्धे मांसं तथा मधु’ इति कलिवर्ज्येषु दर्शितमतः श्राद्धे मांसदानं भक्षणं च न कार्यमिति वदन्ति, तस्य भोजदेवकल्पतरुकामधेनुपारिजातरत्नाकरस्मृतिमञ्जरीप्रभृतिषु प्राच्यदाक्षिणात्यप्राचीननिबन्धेषु अलिखितस्य प्रामाण्ये देवार्चनशेषादिभोजनं सर्वमविवादमेव । किञ्च मांसदानमत्र हिंसापूर्वकमेव वर्ज्यम् ।
[[२०]]
वरातिथिपितृभ्यश्च पशूपाकरणक्रिया ।
इति आचारमाधवीयलिखितवचनानुसारात् । अन्यथा मांसदानाप्रसक्तेरुपाकरणनिषेधो व्यर्थ एव स्यात् । पित्रर्थमुपाकरणं तु कस्याञ्चिच्छाखायां प्रसिद्धम् । नववरार्थमतिथ्यर्थं वोपकरणं न प्रसक्तं कथं प्रतिषिध्यतामिति वाच्यम्, वरातिथ्यर्थं पशुः पित्रर्थमुपाकरणकियेत्यर्थात् पशुशब्दाच्च प्रमापणीयः पशुर्वध्यते । ‘गोपशुश्च सुराग्रहः’ इत्यादौ ‘कौरव्याः पशवः’ इत्यादौ च तथैव दर्शनात् । उपाकरणशब्दश्च मन्त्रवत् पशुहिंसाविशेषवाचीत्यत उपाकरणे पशुविशेषणमनर्थकमापद्यते । अपि च हिंसापूर्वकमांसदाननिषेधः स्पष्टमेव निष्टङ्कितो बृहत्पराशरेण । यथा -
शौचं पात्रविशुद्धिश्च श्रद्धा च परमा यदि ।
अनन्ततृप्तिकृच्छ्राद्धेष्वेतत् खलु न चाऽऽमिषम् ॥
एतन्मुन्यन्नादि ।
यस्तु प्राणिवधं कृत्वा मांसेन तर्पयेत् पित्रॄन् ।
सोऽविद्वांश्चन्दनं दग्ध्वा कुर्यादङ्गारविक्रयम् ॥[[२१]]
क्षिप्त्वा पङ्के यथा किञ्चिद्बालः प्राप्तुं तदिच्छति ।
पतत्यज्ञानतः सोऽपि मांसेन श्राद्धकृत्तथा ॥
ननु प्रथमश्लोके ‘न चामिषम्’ इत्युपक्रमादन्तेSपि ‘मांसेन श्राद्धकृत्’ इत्युपसंहारात् मध्यस्थप्राणिवधनिन्दापि मांसनिन्दापर्यवसन्नैवेति चेन्न, अनवबोधात् । प्रथमश्लोकेन हि मांसमनन्ततृप्तिकृन्न भवतीत्यर्थः स्पष्ट एव । न चैतावता निषेध आयाति स्वल्पतृप्तिकराणामपि दानस्य सर्वसिद्धत्वात् । यद्यपि खड्गमांसादेरनन्ततृप्तिजनकत्वमस्त्येव तथापि तद्भिन्नमांसपरमिदं कलिपरं वा । इत्थं च ‘प्राणिवधं कृत्वा’ इत्युपक्रमात् । ‘मांसेन श्राद्धकृत्’ इत्यपि प्राणिवधपूर्वमांसश्राद्धनिन्दापरमेवेत्युपक्रमवाक्यस्याऽसञ्जातविरोधितया बलवत्त्वात् । न च श्राद्धादौ हिंसाया न प्रसक्तिरिति वाच्यम्, ‘अथैनामुत्सृप्य3 उत्तरस्यां दिशि नीत्वा संज्ञायन्ति’ ‘प्राक्शिरसमुत्तरपदीं देवदैवत्ये’ ‘दक्षिणशिरसं प्रत्यक्पदीं पितृदैवत्ये’ इति गोभिलसूत्रे हिंसाया उक्तत्वात् ।
[[२२]]
व्याख्यातं च तद्भट्टभाष्ये - ‘पितॄनुद्दिश्य यत्कर्म तत्पितृदैवत्यं तस्मिन् पितृदैवत्ये, श्रोत्रियेऽभ्यागते श्राद्धं महोक्षेण महाजेन वा पयस्विन्या वा दद्यात्’ इत्येवमादौ दक्षिणशिरसे दक्षिणशिरस्कां प्रत्यक्पदीं प्रत्यङ्मुखपदा संज्ञपयन्तीत्यनुवर्तत इति । इत्थं च हिंसापूर्वकमांसदाननिषेधात् ‘क्रीत्वा स्वयं वाप्युत्पाद्य’ इति मनूक्तप्रकारो न विरुद्धः । न च —
अनुमन्ता विशसिता निहन्ता क्रयविक्रयी ।
संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः ॥
इति मनुवचनात् क्रयोऽपि हिंसैवेति वाच्यं भक्षणार्थक्रयस्यैव हिंसात्वात् । अन्यथा क्रीत्वेत्यादेर्निर्विषयत्वं स्यात् । याच्ञादिना लब्धश्वादिहते दोषाभावाच्च । यद्यपीदं सामान्यवचनं तथापि हिंसाविधायकबहुतरवचनविरोधादेतस्य कलिपरत्वमिति पृथ्वीचन्द्रोदयः ।
[[२३]]
यच्च -
न दद्यादामिषं श्राद्धे न चाऽद्याद्धर्मतत्त्ववित् ।
मुन्यन्नैः स्यात् परा प्रीतिर्यथा न पशुहिंसया ॥
इति भागवतवचनं, तद्भागवतपरम् । उक्तं हि - मोक्षधर्मे नारायणीये -
धर्मज्ञानेन चैतेन सुप्रयुक्तेन कर्मणा ।
अहिंसाधर्मयुक्तेन प्रीयते हरिरीश्वरः ॥
इत्थं च नाऽद्यादित्यभोजनसङ्कल्पो विधीयते । ‘नेक्षेतोद्यन्तमादित्यम्’ इतिवत् । इत्थं च स्वयं भोजनाभावाच्छ्राद्धशेषभोजनाभावाच्छ्राद्धेऽपि तेन मांसं न देयमित्यर्थसिद्धम् । हिंसापूर्वकं न देयमिति वा, ‘न तथा पशुहिंसया’ इति वाक्यशेषात्त्यक्तमांसपरं वा । अत एव द्वितीयश्लोके -
नैतादृशः परो धर्मो नृणां सद्धर्ममिच्छताम् ।
न्यासो दण्डस्य भूतेषु मनोवाक्कायजस्य यः ॥
इति हिंसात्यागो दर्शितः । तस्मादुक्तकलिवर्ज्यवचनं प्रमाणयतां मतेऽपि हिंसाव्यतिरेकेण श्राद्धेऽपि मांसदानमविरुद्धमेवेति सिद्धम् ।
[[२४]]
ननु तथापि श्राद्धे मांसदानं न ब्राह्मणस्य । तथा हि -
मुन्यन्नं ब्राह्मणस्योक्तं मांसं क्षत्रियवैश्ययोः ।
मधु प्रधानं शूद्रस्य सर्वेषां चाऽविरोधि यत् ॥
इति पुलस्त्यवचनादिति चेन्न, अनेन मुन्यन्नादीनां प्राधान्यमात्रं बोध्यते न तु मुन्यन्नं ब्राह्मणस्यैव दातव्यमिति नियम्यते प्रधानपदानुषङ्गेणैवोपपत्तौ कल्पनान्तरानवकाशात् । न च पुलस्त्योक्ता व्यवस्था दर्शितेति विज्ञानेश्वरवचनविरोधोऽनवबोधात् । तथा हि -
खड्गामिषं महाशल्कं मधु मुन्यन्नमेव च ।
लोहामिषं महशाकं मांसं वार्द्ध्रीणसस्य च ॥
यद्ददाति गयास्थश्च सर्वमानन्त्यमश्नुते ।
इति यदनन्तफलकत्वं पूर्वमुक्तं, तत्र मुन्यन्नं ब्राह्मणस्याऽनन्तफलकमिति क्रमेण व्यवस्थेत्यर्थः । अत एव मुन्यन्नं यन्नीवारादि श्राद्धयोग्यमुक्तं तद् ब्राह्मणस्य प्रधानं समग्रफलदमिति तेनैव व्याख्यातम् ।
[[२५]]
अन्यथा ‘विप्रश्चन्द्रक्षयेऽग्निमान्’ इत्युपक्रम्य -
तदामिषेण कर्तव्यं प्रशस्तेन प्रयत्नतः ।
गुणांश्च सूपशाकाद्यान् पयो दधि घृतं मधु ॥
भक्ष्यं भोज्यं च विविधं मूलानि च फलानि च ।
हृद्यानि चैव मांसानि पानानि सुरभीणि च ।
उपनीय सर्वमेतत् - इति मनुवचनविरोधः स्यात् । एवम् —
ततो मधुघृताक्तं तु उष्णमन्नं तिलान्वितम् ।
गृहीत्वा देवतीर्थेन प्रणवेनैव तत्पुनः ॥
एतद्वो अन्नमित्युक्त्वा विश्वेदेवांश्च संयजेत् ।
पितृभ्यश्च तथा दद्यादन्नमामन्त्रणेन तु ॥
इति ब्रह्मपुराणवचनस्य समाधानं विज्ञानेश्वरेणापि दुःशकं स्यात् । इत्थम् —
अपि नः स कुले जायाद्यो न दद्यात् त्रयोदशीम् ।
पायसं मधुसर्पिर्भ्यां वर्षासु च मघासु च ॥
इति पितॄणां प्रार्थनां विफलीकुर्वन्तो मन्दभाग्याः शोचनीयाः ।
[[२६]]
न हि शूद्रस्य पायसादिना श्राद्धे योग्यताऽस्ति, आमेनैव तस्य नियमनात् । अत एव भवदेवलिखितच्छागलेयवचनम् -
वृथामांसं न भोक्तव्यमदत्त्वा श्राद्धकर्मणि ।
अदत्त्वा भक्षयन् विप्रः प्राजापत्यं समाचरेत् ॥
इति । अत्र मांसश्राद्धं शेषभक्षणं च ब्राह्मणस्याऽनुज्ञातमिति । ननु मांसस्य कलिवर्ज्यतानभ्युपगमे श्राद्धे गोमांसविधायकवचनैर्निरङ्कुशैः कलावपि गोमांसं विधीयतामिति चेन्न -
दीर्घकालं ब्रह्मचर्यं धारणं च कमण्डलोः ।
गोत्रान्मातृसपिण्डाद्वा विवाहो गोवधस्तथा ॥
नराश्वमेधौ मद्यं च कलौ वर्ज्यं द्विजातिभिः ।
इति कल्पतरुधृतब्रह्मपुराणवचनेन कलौ गोवधस्य वर्जितत्वात् । क्रयादिप्राप्तगोमांसेन श्राद्धाकरणं शिष्टविगानात् ।
[[२७]]
अस्वर्ग्यं लोकविद्विष्टं धर्म्यमप्याचरेन्न हि ।
इति याज्ञवल्क्यवचनात् । अत एव गोमहिषमांसश्राद्धादिकं तत्रोदाहृतं कल्पतरुकृता । न चेतरमांसश्राद्धादिकमपि केषाञ्चिद्विगानादनादरणीयं स्यादिति वाच्यम्, केषाञ्चिदनाचरणेऽपि केषाञ्चिदाचारस्य सत्त्वात् । सदाचारस्तु मध्यदेशीयाचार एव । तथा च मनुः -
वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः ।
एतच्चतुर्विधं प्राहुः साक्षाद्धर्मस्य लक्षणम् ॥
इत्युपक्रम्य -
सरस्वतीदृषद्वत्योर्देवनद्योर्यदन्तरम् ।
तं देवनिर्मितं देशं ब्रह्मावर्तं प्रचक्षते ॥
यस्मिन् देशे य आचारः पारम्पर्यक्रमागतः ।
वर्णानां सान्तरालानां सदाचारः स उच्यते ॥
इत्याद्यभिहितवान् । ब्रह्मावर्तब्रह्मर्षिदेशमध्यदेशाऽऽर्यावर्तेषु मांसभक्षणाचार आजानिकोऽविगीतः प्रतीयत एव ।
[[२८]]
ये तु कलिवर्ज्यतया मांसश्राद्धे विवदन्ते स्तेयान्यमहपातकनिष्कृतिरिति कलिवर्ज्यतयोक्तमपि ब्रह्महत्यातत्संसर्गप्रायश्चित्तं धनलोभादुपदिशन्ति मातृसपिण्डानयने च न विवदन्ते रागशेषदूषितचेतसो देवानां प्रियास्ते केन शिक्षणीया इत्यलं मांसं विद्विषद्भिः सौगतमतानुसारिभिः सह श्रमेणेति ॥
इति महामहोपाध्यायश्रीविद्यानिवासभट्टाचार्या त्मजविश्वनाथशर्मकृतो मांसतत्त्वविवेकः समाप्तः ।
-
His full name was probably Kāśīnātha Vidyānivāsa. Vide N. Vasu, Bangera Jatiya Itihasa, Vol. I, p. 295. ↩︎ ↩︎
-
The same as the author of Bhramaraduta. He was the father of Govinda Nyayavāgisa, the protege of Rājā Rāghava of Krisnanagara, whose date is 1669 A. D.(2) ↩︎
-
अथैनामुत्सृत्य संज्ञपयन्ति २५ प्राक्शिरसमुदक्पर्दी देवदैवत्ये, २६ दक्षिणाशिरसं प्रत्यक्पदीं पितृदैवत्ये, २७ इति चन्द्रकान्तमहोदयसम्पादिते पुस्तके Dr. Knauerमहाशयसम्पादिते शर्मण्यदेशीयानुवादयुते च पुस्तके पाठः । ↩︎