[[वयोनिर्णयः भाग-2 Source: EB]]
[
________________
३०
॥ वयोनिर्णयः ॥
(७) पतिगृहगमनाय रथमारोहन्तीं वधूंप्रति “ उदुत्तरमा- रोहन्ती” त्यादिना वरेणोच्यमानमात्मश्वशुरप्रजास्नुषाधनादिकं प्रति नियन्तृभावरूपं प्राधान्यं तस्याः प्रौढावस्थामेव व्यवस्थापयति, बाला- यास्तच्छक्त्यनुपपत्तेः ॥
(८) पतिगृहगताया वध्वाअङ्के कमपि बालकं निवेश्य तस्मै फलानि प्रदाय आह वरः यथा फलानि प्रसवशीलानि एवमिय- मपि प्रसवशीला भवतु तथा गृहकर्मनिर्वाहकत्वमग्न्यतिथिपरिच- रणजागरूकत्वं मयासह शरीरसंबन्धञ्च चिरायानुभूय जराव- स्थायां पुत्रादीनामपि कर्तव्यविधेरुपदेष्ट्री भवतु " इति । न पदेशग्रहणायाप्यन शैशवे वयस्ययमर्थो वध्वां वदितुं युज्यते
यद्यपि दिनत्रयमात्रब्रह्मचर्यविधानमेकं तथामूर्धाभिषिक्तंचा- न्यच्चतुर्थदिने समावेशन विधानन्नामेत्यधिकमपि हेतुद्वयमत्रविषयेऽ- स्तीति कृत्वा तदुभयमपि श्रौतार्थकोट वेवैकदेशिभिः परिगणितं दृश्यते। तथाऽपि तयोरुभयोरपि केवलस्मार्तत्वाच्छ्रतमध्ये गणनमन- वधानमूलकमिति बोध्यं । स्मार्तमपि तदुभयं परस्ताद्विचारयिष्यामः । तदेवं वैवाहिकाः मन्त्राः कार्त्स्न्येन परामृश्यमाना उपपादितैरष्ट- मिर्लिङ्गैर्विवाह्यां वधूं युवतिमेव व्यवस्थापयन्तीति ॥
.
गात्,
(१) अब्रूमः ननुचभोः किं विवाहविषये विधिरेवास्तमुपा- यावता मन्त्रलिङ्गानुसारेणैवैतमर्थमभ्यूहितुमभिनिविशसे । असत्यामेवहि चोदनायां लिङ्गमन्वेष्टव्यं भवति । चोदनाश्च ऋतुकाला- त्पुरस्तादेव स्त्रीणां विवाहं विदधानाः परश्शता उपलभ्यते । तथाहि मनुः________________
॥ वयोनिर्णयः ॥
“त्रिंशद्वर्षो वहेत्कन्यां हृद्यां द्वादशवार्षिकीं । यष्टवर्षोऽष्टवर्षांवा धर्मे सीदति सत्वरः ॥ १ - ९४ ) इति । तथा संवर्तः
(९-
“यावन्नलज्जते कन्या यावत्क्रीडति पांसुषु । यावतिष्ठति गोमार्गे तावत्कन्यां विवाहयेत् \।\। " इति । वसिष्ठश्च
“प्रयच्छेन्नग्निकां कन्यामृतुकालभयात् पिता । "
इति । यमः
३१
“विवाहंचोपनयनं स्त्रीणामाह पितामहः । तस्मान्नर्भाष्टमश्श्रेष्ठःजन्मतोवाष्टवत्सरः ॥” इति । व्याघ्रपादः उपायनोदितः कालः स्त्रीणामुद्वाहकर्मणि । स्त्रीणामुपनयस्थाने विवाहं मनुरब्रवीत् ॥”
इति । एवमन्याश्च चोदनाः प्रत्यक्षमेव स्त्रीणां विवाहं विदधाना अष्टमादीन् ऋतोरर्वाचीनान् वयोविशेषानेव विवाहकालान्व्यवस्थाप- यन्ति निर्विचिकित्सं । नहि प्रत्यक्षया चोदनया प्रतिपादितेऽर्थे तत्पृष्ठ- तोगामिना लिङ्गेन कश्चिदर्थान्तरमनुमातुमायस्येत् न खलु करि विषाणशुण्डादण्डादिमण्डिते पुरतश्चक्षुस्सन्निकृष्ठे पृष्ठतोगामिनं पुरुषं छिङ्गमाश्रित्य “अश्वोयमिति” अनुमिमानो भवति श्लाघनीयप्रज्ञः तस्मान्न विधिसिद्धेऽर्थे विरोधिनो लैङ्गिकप्रत्ययस्य उन्मेषावकाशोऽ स्तीति ॥
अत्राहुः परे । यद्यप्युदाहृताश्चोदनाः तथाऽपि न प्रत्यक्षो विधि- उपलभ्यते श्रुतिषु ‘इयद्धायनीं वधूं विवाहयेदिति’ । उदाहृतास्तु चोद-
5________________
३.२
॥ वयोनिर्णयः ॥
नास्स्मृतिवेवोपलभ्यन्ते । लिङ्गानि पुनश्श्रौतानि । किंच भोस्स्मृतिरप्र- माणमिति मन्यते भवान्, यत्प्रत्यक्षं विधिमुत्सृज्य कल्पनाप्रयासमनुभ- वसि । नाप्रमाणं स्मृतिः, किंतु श्रुतिवन्न प्रमाणमिति ब्रूमः । स्मार्तोऽपिहि विधि र्मूलश्रुतिमनुमापयन्नेव प्रमाणं भवति न स्वातन्त्र्येण । श्रौतञ्च लिङ्ग स्वानुगुणं कमपि विधिमनुमापयति । तथाच द्विविधो विधिरसंपद्यते स्मार्तविध्यनुमितश्श्रौतलिङ्गानुमितश्चेति । तत्र यच्छ्रौत लिङ्गानुसारि वय न्तदनुष्ठास्यामः । अथवा श्रौतलिङ्गानुसार्येव विधिर्ज्यायानिति कृत्वा सवानुष्ठायिष्यते सर्वैरपि । स्मृतिकारः खल्वर्वाचीनास्वस्वकालानुगु- ण्धेः कलनिकमप्यर्थमभिहितवन्तस्स्युः नैवं श्रुतिः, तस्या नित्यत्वात् तद्बोधितएवार्थस्सार्वदिकइति निर्णेष्यामः । यद्येवं निर्णेप्यसि का गतिस्स्मार्तानां विधीनां, अपरामर्शनिपुणाश्श्रद्धाजडा जना गतिर्भ- विष्यन्ति, अप्रमाणंवा ते भवन्तु । तस्मात् स्मुत्युक्तचोदना विहाय श्रौ तानि लिङ्गान्येव तावत्परामृशामइति ॥
(२) अत्रोच्यते अपूर्वमिदमायुष्मतः पाण्डित्यं प्रमाणव्यवस्था पनंच \।
मन्त्रार्थवादानांहि आजानतएव विधिशेषतया समाम्नायमा नानां तदेकवाक्यतयैवार्थावबोधकत्वेन विधितः पृथक् क्वचिदप्यर्थे प्रामाण्यमेव न शक्यं कल्पयितुमिति जैमिनीयाः प्रतिजज्ञिरे । ब्रह्म मीमांसायां तु यद्यपि विध्येकवाक्यतापन्नानाममीषां तत्रैव परमतात्पर्ये ऽपि अवान्तरं किमपि तात्पर्यमभ्युपेत्य प्रतीयमानेष्वप्यर्थेषु प्रामाण्य मुपपादितं देवताधिकरणे । तथाऽपि प्रमाणान्तरप्राप्तिविरोधयोरसतो रेवान्यपराणां मन्त्रादीनां प्रतीयमानार्थेऽवान्तरं तात्पर्यं नतु तद्विरो- वे प्राप्तवेति तत्रैव घण्टाघोषः । एवं सति प्रत्यक्षादिलौकिकप्रमाण विरुद्धमप्यर्थमर्थवादामन्त्राश्च न प्रमापयितुं शक्नुवन्तीति स्थिते किमङ्ग________________
\।\। वयोनिर्णयः ॥
३३
वक्तव्यं संप्रतिपन्नशब्दप्रमाणविधिबाधितमर्थं व्यञ्जयितुमपि न प्रग- ल्भन्तइति । एतेन श्रुतिवत्स्मृतिर्न प्रमाणमिति श्रौतलिङ्गेन विध्य न्तरमनुमास्यामहइति प्रत्युक्तं । अन्यपराश्रुतयोहि प्रत्यक्षादपेक्षयाऽपि दुर्बलाः, ऐदंपर्यप्रवृत्त संप्रतिपन्न स्मार्त विधिविरोधेतु समुच्छ्रुसितुमपि हि न प्रगल्भन्ते \।\।
(२) किंच खलु श्रुतिरित्येव सर्वं वाक्यं सर्वत्रार्थे प्रमाणं भवति, नवा स्मृतिरित्येतावतैव सर्वमप्यप्रमाणं । किंतु प्रमेयावगम सन्निकर्षविप्रकर्षाभ्यामेव प्रमाणस्य बलाबले इति व्यवतिष्ठते सिद्धा न्तः । प्रमेयावगमोपयोगीनिच प्रमाणानि सन्निकर्षतारतम्यात् श्रुति लिङ्गवाक्यादिभेदेन षोढा विभिद्यन्ते । तेषुच श्रौतं स्मार्त वा सन्नि कृष्टं प्रमाणमपेक्ष्य विप्रकृष्टं दुर्बलं भवति, न तत्र जातिबलं किञ्चि दुपयुज्यते । तथाच पारमर्षं सूत्रं " श्रुतिलिङ्गवाक्यप्रकरणस्थान समाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात् ” (जै ३-३-१४) इति । अत्रच प्रमाणबलाचलव्यवस्थापके सूत्रे न श्रुतिशब्दो वेदवचनः, किंतु निरपेक्षतया बोधक शब्दः प्रमेयावगमेऽत्यन्तसन्निकृष्टउच्यते । सच श्रौतस्मार्तोवा न तद्विशेषइह विवक्ष्यते । लिङ्गादीनितु पञ्चापि प्रमाणानि उत्तरोत्तरं विप्रकृष्यन्ते प्रमेयबोधविषये । तत्र यद्यपि लिङ्गं श्रौतं भवतु, तथाऽपि तद्विप्रकृष्टमेव प्रमाणं । श्रुतिस्तु स्मृति सिद्धाऽपि लिङ्गापेक्षया प्रमेये सन्निकृष्टैव न किंचिद्विप्रकृप्यते । तथा च प्रमेयविप्रकृष्टमतएव दुर्बलं श्रौतमपि लिङ्गमपेक्ष्य सन्निकृष्टा स्मृति सिद्धाऽपि श्रुतिरेव प्रबलं प्रमाणं । अतएवानन्यथासिद्धेन “अहं गर्भमदधा” मित्यादिमन्त्रलिङ्गेन भर्तृजप्यत्वेन निश्चयावगतमपि “आरोहोरुसमे” त्यादिमन्त्रभागं स्मार्ती श्रुतिरन्यजन्यं व्यवस्थाप________________
३४
॥ वयोनिर्णयः ॥
यति “अन्योवैनामभिमन्त्रयेत" (आप. गृ. ३-९-११) इति । तदेतद्व्याचक्षाणाश्च प्रायः “इदंच " अहं गर्भमदधामित्या" दिलिङ्ग विरोधेऽपि श्रुतेर्बलीयस्त्त्रादिति स्मार्तश्रुतेश्रौतलिङ्गापेक्षया प्राबल्यं वस्तुसदुपपादयांबभूवुः । एकमेवच मन्त्रं विभिन्नेष्वर्थेषु बहुलं विनि- खानेषु स्मृतिवचनेष्वपि एषएव कृतान्त आस्थेयः । एकमेव पुरुषसूक्तं शिवविष्णुकुबेर वरुणाद्यनेकदेवताराधनेषु विनियुञ्जानानि स्मृतिवचना- न्युपलभ्यन्ते। तथा आग्नेये कर्मणि विनियुक्तानां “उबुद्धयखाने” ‘अग्निर्मूर्षादिवः" इत्यादीनां मन्त्राणां बुधभौमादिग्रहाराधनेपि विनियोगस्स्मर्यते । नहि सर्वेविनियोगा मन्त्रलिङ्गमनुसरन्तीति शक्यं वक्तुं । प्रसिद्धमेतद्वैदिकगोष्ठ्यां । नहीदमनव गतवैदिक संप्रदायः प्राकृतो विजानाति । एतेन श्रुत्यपेक्षया स्मृतेर्दुर्बलत्वादिति विरोधाधिकरणवर्ण नं निराकृतं भवति । श्रुतिलिङ्गादिष्वेकजातीयप्रमाणभूतयोर्ह श्रुति स्मृत्योस्सति विरोधप्रसङ्गे श्रुत्यपेक्षया स्मृतिहींनबला भवति । यथा एकमेवौदुम्बरीं प्रति स्पर्शनं सर्ववेष्टनञ्चान्योन्यविरुद्धमर्थद्वयं श्रुत्यैव प्रमाणेन बोधयन्त्योश्श्रुतिस्मृत्योस्स्मृतिर्दुर्बलेति । यत्र तु विभिन्नजाती यप्रमाणेन विभिन्नार्थबोधकता तत्र श्रुतिस्मृतिर्वा यतरा प्रमेयसन्निकर्ष वती ततरैव बलीयसी, तदुक्तं भट्टवार्तिके -
नैव तावच्छ्रुतिस्मृत्योस्वरूपेण विरुद्धता \। बलाबलपरीक्षावा प्रमेयद्वारिका हि सा ॥ तस्यामेव वेलायां विरोधो दृश्यते तयोः । प्रमेययोस्स्वरूपस्थं तस्यामेव बलाबलम् ॥ (१-३-७ ) इति । तथा " भिन्नकक्षागते येच प्रमाणे तत्र धावतः । तयोशीघ्रेण निणींते मन्थरं न प्रवर्तते ॥________________
॥ वयोनिर्णयः ॥
ता दूरमपि प्राप्तमेकमप्यगतं पदं ।
३६
इतरेण गतेनादावेकान्तेनैव जीयते” ॥ (जै सू १-३-३) इतिच । तत्रैवं सति प्रमाणवलालनिर्णये यत्केचिद्वर्णयन्ति स्मृति चोदना विहाय मन्त्रलिङ्गमेव प्रबलमिहाश्रयामइति तत् प्रमाणस्व रूपताद्वशेषादिविमर्शविधुराणां यथाजातानामेव शोभते न पण्डिताना मिति सिद्धम् ॥
(४) अपिच विधिना कर्मविशेषे प्रथमंविनियुक्ताः खलु मन्त्रा- स्तत्समवेतं कञ्चिदर्थं प्रकाशयितुमर्हन्ति, नासति विनियोगे ! तत्र यद्य- मित्रोऽर्थान्तरमेव स्वशक्त्या प्रकाशयितुमर्हति तथाऽपि यादृशेऽ- र्थविशेषे चोदनयाऽयं विनियोजित स्तमर्थमतिवर्तितुं न प्रगल्भेत । लक्ष- णादिभिरपि विधिबोधितमेवार्थमनुसरति न पुनस्स्वशक्तिमुदिक्षिते । नहि राजचोदितो राजपुरुषश्चोदितविपरीते शक्तोऽपि प्रवर्तितुमर्हति । तथा चोदनाविपरीतेऽर्थे मन्त्रोऽपि न प्रवर्तते तद्यथा “ कदाचन स्तरी- रसिनेन्द्रे" त्यादिः कश्चिन्मन्त्रस्स्वशक्त्या यद्यपि मघवानमेव प्रत्या- ययति नार्थान्तरं । तथाऽपि " ऐन्द्रया गार्हपत्यमुपतिष्ठत" इति चोदना गार्हपत्याग्न्युपस्थाने मन्त्रमिमं विनियोजयतीति अनुदाक्ष्यापि स्वशक्तिं गार्हपत्यमेवाग्निमुपस्थापयति । न ह्यत्र मन्त्रलिङ्गमात्रपरामर्शेन मन्त्रोऽयमैन्द्रएव कर्मण्यङ्गभूतइति व्यवस्थापनं घटते । नापि विधिबला दग्निपरत्वं लिङ्गबलाच्चेन्द्रपरत्वमित्युभयमप्यास्तामिति समीकरणं विदु- पामर्हम् \। नवा पुराकाले मन्त्रोऽयमैन्द्रएव कर्मण्युपयुक्तआसीत्, पाश्चा- त्यैस्तु कैश्चिद्विनियोगबलमवलम्व्यार्थान्तरे गार्हपत्ये केनापि हेतुनोपयु- ज्यतइति प्राचीनावचीन भेदकल्पनं साधु भवति । सर्वमेतदविदित
1________________
३९
॥ वयोनिर्णयः ॥
श्रौतसंप्रदायानां संन्निबुद्धीनां व्यामोहमात्रं । तस्मान्न चोदनाविरुद्धे ऽर्थे विद्यमानमपि मन्त्रलिङ्गं क्रमते ॥
(१) अन्यच्च। इदं कर्मानेनमन्त्रेण कार्यमिति कर्मविशेषं प्रत्यङ्ग गृहीततस्तत्र कर्मणि तेन मन्त्रेण कश्चिदर्थोऽनुमीयेत परामर्शोत्तर मिवानुमानेन । अगृहीताङ्गभावेनतु मन्त्रेण न कश्चिदर्थो निर्धारयितुं पार्थते । । तथाचाङ्गभावग्राहकं किञ्चन प्रमाणं प्रथममुपजीव्यैव मंत्रः कञ्चिदर्थविशेषं गमयितुमीष्टे । भवदभिमतानांच मन्त्राणां वैवाहिक एव कर्मण्यङ्गत्वं नान्यत्रेति प्रथममिदंके न प्रमाणेन निरचैषीदायुष्मान् नहि श्रौतएव विनियोगविधिश्शक्यः कश्चित्प्रदर्शयितुं । लिङ्गेनैवाङ्ग- त्वस्याप्युन्नयनेतु दुर्वारं परस्पराश्रयत्वं । ततश्च स्मार्तएव विधिः प्रथम मङ्गत्वग्रहणाय प्रमाणत्वेन शरणीकरणीयः । शरणीकृतेच तस्मिन्प्रा- थमिकेन तेन प्रमाणेन यदि मन्त्रलिङ्गं विरुद्ध्यते तदा न लिङ्गेन तस्य प्रमाणस्य बाधरशक्यो वदितुं । नहि तदेवोपजीव्यात्मानं लभमानं लिङ्क तस्यैव बाधकमिति युक्तं कल्पयितुं । तद्ववेद्यङ्गभाव एवमन्त्रस्य बाध्येत । असतिचाङ्गभावे कुत्र कमर्थं साधयिष्यति मन्त्रलिङ्गं । वयोविशेष निर्णयांशो बाध्यते अङ्गत्वबोधकांशः परमाश्रीयतइति त्वर्धजरतीय मन्याय्यं । तस्मान्नोपजीव्यप्रमाणविरुद्धमर्थं मन्त्रलिङ्गं गमयितुमीष्टे ॥
(६) किञ्चान्यत् । मन्त्रोक्तार्थानां विवाहकालावच्छेदेन वधू संबन्धित्वग्रहणमन्तरेण न तदुपयोगिवधूवयोविशेषरूपार्थानुमापकत्वं लिङ्गस्य संभवति । नहि परामर्शमन्तरेण लिङ्गज्ञानं क्वचिदनुमापकं दृष्टं । तत्संवन्धित्वग्रहश्च स्मृत्यधीनइति त्वदुदाहृतलिङ्गानां लिङ्गल मपि स्मार्तमिति समानमेव विधिलिङ्गयोस्स्मार्तत्वं । समानेच विधि लिङ्गयोस्स्मार्तत्वे विधिस्त्वविरुद्धं लिङ्गमाभासीकरोति ॥________________
॥ वयोनिर्णयः ॥
३७
(७) अपिच विध्युत्तरकालमेव मन्त्रस्य प्रवृत्त्या विधिरुपक्र मस्थः, मन्त्रश्च पाश्चात्यइति स्फुटं । उपक्रमस्थेन च प्रमाणेन दुर्बले नापि योऽर्थो बोधितस्तमेवार्थं प्रबलमपि पाश्चात्यं प्रमाणमनुसरति कथंचिदन्यथानयनेनापि, नतु ततो विपरीतं । नापि पाश्चात्यानुसारे ण प्राचीनं दुर्बलमप्यन्यथा नीयते । तथाहि वारुणेष्टिः “ यावतोऽश्वा न् प्रतिगृह्णीयात्तावतो वारुणांश्चतुष्कपालाभिर्वपेत्, (तै. सं. २—३—१२) इति विधिवाक्येन प्रबलेन यद्यप्यश्वप्रतिग्रहीतुरेव कर्तव्यत्वेन स्पष्टमवगम्यते । तथाऽपि " प्रजापतिर्वरुणायाश्वमन यदि” त्यादिरुपक्रमस्थस्तदर्थवादस्स्वयं विध्यपेक्षया दुर्बलोऽप्यश्वदातु रेवेमामिष्टिमवगमयति। ततश्च प्रबलदुर्बलयोर्विध्यर्थवादयोर्विरोधप्रसङ्गे दुर्बलमप्यर्थवादमुपक्रमस्थत्वाद्वलीयांसमाश्रित्य तदनुसारेण पाश्चात्यं विधिवाक्यमेव प्रबलमपि लक्षणाऽऽदिना दातृपरतया परिणीयते । प्रसिद्धश्चायमर्थः पूर्वतन्त्रे तृतीयाध्याये " अचोदितंच कर्मभेदात् " (3-8-) ३०) इत्यधिकरणे । एवं दुर्बलेनापि स्मार्तविधिना पौर स्त्येन बोधितं विवाह्यवधूनां वयोविशेषमनुसृत्यैव पाश्चात्यानि मन्त्र लिङ्गानि कथंचिदपि नेतृव्यानि । इहहि विवाहालम्बनभूतयोर्वधूवर योर्यथाशास्त्रं वयोलक्षणादिनिर्णायको विधिस्सर्वतः पुरस्तात् प्रवर्तते । ततः परमेव विवाहविधिः तदनन्तरञ्च तदङ्गभूतमन्त्रप्रवृत्तिरितिक्रमः तथाच परमोपक्रमस्थं वयोनिर्णयविधिं जघन्यानि लिङ्गानि न बाधितु मुत्सहन्ते । विधिरपिहि उपक्रमसिद्धमर्थमतिवर्तितुं न क्षमते, किमु वक्तव्यं पुरुषबुद्धिकल्पनाधीनं लिङ्गमौपक्रमिकमर्थं नातिक्रामतीति ॥ (( A. ) किञ्च कालान्तरभाविनमर्थमादायापि कथंचिन्मन्त्र लिङ्गानि सावकाशानि भवितुमर्हन्ति । विधीनां पुनर्लिङ्गबलावष्ट________________
३८
॥ वयनिर्णयः ॥
म्भेन स्वार्थे बाध्यमानानां न कश्चिदन्योऽवकाशरशक्यः कल्पयितु- मिति वैयर्थ्यमेव प्रसज्येत । ततश्च “आनर्थक्यप्रतिहतानां वि परीतं बलाबलमि” ति न्यायेन स्मार्तेरपि विधिभिरेव श्रौतान्यपि लिङ्गानि अर्थान्तरविषयता मापाद्यन्ते, नपुनरन्यथाचरितार्थैर्लिङ्गैरता- दृशानि विधिशास्त्राणि बाधितुं शक्यन्ते । यदुक्तं स्मार्तविधीनामृषि प्रणीतानां तदातदातनदेशकाला द्यानुगुण्येन कल्पितत्वशंकाप्रसरेण हेतु दर्शनन्यायादप्रामाण्यसंभावनया नोपादेयत्वमिति, तत् साहसमात्रं । नहि महर्षयो देशं कालमन्यद्वा किंचिदनुसरन्तः तादर्थ्येन धर्माधर्म विषयेऽपि शास्त्राण्यन्यथाकुर्वन्तीति युक्तमस्मदादित्रिव कल्पयितुं । न हि लोकररीत्यनुसारेण धर्ममन्यथा कुर्वन्तः प्रमाणभूता भवितुमर्हन्ति व्यवस्थितत्वाद्धर्माधर्मयोः । अस्मादृशाः खल्वधीरबुद्धयः कलुष- हृदया दृष्टानुसारेण शास्त्रमप्यन्यथानेतुमभिनिविशामहे । नख- त्विदानीन्तनानामस्माकमिव प्राचामपि महर्षीणां स्वभावआसीदिति शक्य संभावयितुं युक्तं वा । ते हि विदितवेदितव्याः प्रत्यक्षधर्माणः परावरज्ञा असिधाराव्रतन्यायेन धर्मपथं परिपालयन्तस्तमेव मार्ग - मस्मानप्युद्दिश्योपदिष्टवन्तः न तत्र देशकाला द्यनुसरणहेतुगन्धोऽप्यस्ति एतेन स्मृतिष्वपि अवान्तरावीचीनप्राचीनकालाद्यनुसार्यर्थनिरूपण. कल्पनं परास्तं
( B. ) अपिच भवेदेतदेवं लौकिकेष्वर्येषु । प्रथमं यथाक- थंचित्कस्यचित्कार्यस्यानुष्ठानं ततस्तत्र गुणदोषावनुभूय सदनुसारेण पश्चादन्यथाकरणं ततश्च कचित्प्रकारभेदइति तत्तत्प्राण्यभिमता- नुगुणत्वाल्लौकिकप्रवृत्तेः । कश्चित्क्वचिदेकधा प्रवर्तते कश्चित्तु तत्रै- वान्यथा वर्तते कश्चित्तु नैव प्रवर्तते । न ह्येतावता तेषु किञ्चित्पुण्या-________________
॥ वयोनिर्णयः ॥
३९
पुण्यात्मकमदृष्टतारतम्यं शक्यं वदितुं । वैदिकाः पुनरर्था नित्याएव भवन्ति, नत्वेषां पौरुषेयानुभवमूलकगुणदोष संभावनया कालभेदेन च जातुचिदन्यथाकरणं संभवति । अज्ञातोहि धर्मो नानुष्ठातुं शक्यतइति अनुष्ठानात्प्रागेव तज्ज्ञानमावश्यकं, यद्यनुतिष्ठासति । तथापूर्वपूर्वोऽप्य- नुष्ठाता प्रथममनुष्ठेयार्थरूपं धर्मं प्रमायैव पश्चादन्वतिष्ठदिति धर्माधर्म ज्ञानसामग्री काचिन्नित्यसिद्धैवाभ्युपगन्तव्या, नत्विदानीन्तनी सा । नापि पूर्वसिद्धप्रमाणबोधितो धर्मस्स्वाभिमतानुसारेण केनाप्यन्यथा क्रियते । यदि कश्चिदन्यथाकरोति नायं धर्मो भवितुमर्हति । अतएव न महर्षयोऽपि वेदबोधितं धर्मस्वरूपं कालानुगुण्येन विभिन्दन्ति, मै- षज्यानीव स्वानुभूतानि प्रामाणिकाः । अपितु यथादृष्टमेव वैदिकमर्थ जातं स्वग्रन्थेषु स्मृत्याख्येषु स्फुटं बोधयन्ति । न तत्र कश्चिदाधुनि- कोऽर्थइत्युत्प्रेक्षा घटते । अनुभवोऽपि तेषां वेदएव नास्मादृश- स्येव लोकमूलकः “श्रुतिं पश्यन्ति यस्स्मरन्ति च तथा स्मृति मि” ति मनुस्मृतेः । अतएवार्याची कालभवाअपि स्मृतयः पूर्वसिद्ध मेव वैदिकं धर्मजातमवबोधयन्तीति (दनित्यएव नाव इति शक्यते वक्तुं । तदाह भगा महाभाष्यकारः “ यद्यप्य यावसौ वर्णानुपूर्वी सा अनित्ये" ति । युक्तचैतत् नह्यस्मादि- भिः कृतेषु ग्रन्थेषु ज्योतिष्टोमोऽनुष्ठेयः अग्निहोत्रवः कर्तव्यमित्यादि लेखनमात्रेण ज्ये तिष्टोमादिधर्मोऽपीदानीन्तनइति भवति । एवमेवा
न
ग्रन्थेषु वोध्यं । ऋपयोह्याधुनिकमर्थं लेशतोऽप्यनिरूपयन्तः पूर्व सिद्धमेव वेदार्थस्माः (८–३) ।
( ८ C.) अपिच किं लोकानुभवोत्तरकालं शब्दप्रवृत्तिः, किं वा शब्द’ ‘चैतत्वमुपलभ्य लोकप्रवृत्तिरिति किञ्चिद्विशतु भवान् ।
ü________________
४०
॥ वयोनिर्णयः ॥
लोकतोऽर्थमनुभूय तदनन्तरमेव तदर्थबोधकशब्दरचनेतिचेत्, ਥ, ਕੰ स्यात् लौकिकेष्वर्थेषु \। अलौकिकेषु पुनर्वधर्मेषु नैवं शक्यते । धर्मा दिष्वपि चैवंस्यादिति दृष्टानुसारात्कल्पयामीतिचेत् यद्यप्येवं कल्पयति भवान् । श्रुतिरपिह्येवं सत्यनित्या प्रसज्येत । अस्तु साऽप्यनित्या, को दोषइतिचेत् नूनमत्र न भवतोदोषः कश्चित्प्रतिभाति । ऋषयः पुन रतीन्द्रियार्थकुशलाअपि व्यासादयो बिभ्यति ईदृशमर्थमभिधातुं । ते हि आब्रह्मणः आच अधुनातनात् पुरुषात् सर्वेषामपि नित्यसिद्धाच्छ - ब्दादेव अलौकिक धर्माद्यर्यानुभवः न लोकानुभवोत्तरकालं तथाविधशब्द प्रवृत्तिरित्युपदिशन्ति । अपिच अनुभवोपिहि जायमानः पूर्वसिद्धां सामग्रीमनपेक्ष्य न धर्मादिषु कस्यचिदव कल्पते । साचेत्सामग्री लोकानु भवाधीनात्मलाभा हन्त दुर्वारं परस्पराश्रयत्वं । किंच त्रष्टव्य विचित्र तर जगद्विम्बज्ञानमपि त्रष्टुस्सतो ब्रह्मणस्सृष्टिपूर्वसिद्धात् वैदिकादेव शब्दादुत्पद्यतइति कथमेषोऽनित्यइति कल्पनाघटतां । तथाच भगवान् बादरायणः “शब्दइतिचेन्नातः प्रभवादि" ति “अतएवच नित्य खमि " तिच (व्या. सू. १ - ३) आचार्येण शत्ररस्वामिनाऽप्यय मर्थो विस्तरेण निरूपितः । लौकिकेष्वप्यर्थेषु चिकीर्षितप्रकारमविज्ञा य न प्रवृत्तिरूपपद्यतइति पूर्वसिद्धैवावश्यज्ञानसामग्री कल्पयितव्या । किमंग वक्तव्यमलौकिकेष्वर्थेषु । तस्मादसदेतत् यद्वेदानुसारिणीषु मन्वादिस्मृतिषु अर्वाचीनकालानुसार्यर्थनिरूपणमिति दुर्मेधसामुत्प्रेक्षा ।
(८ D.) यदपि पूर्वतन्त्रे विरोधाधिकरणे हेतुदर्शनात्स्गृती नामप्रामाण्यमुद्भावितं न तद्वैदिकमार्गानुसारिणीनां मन्वादिस्मृतीनां, अपितु शाक्यादिवेदवाह्यस्मृतीरुद्दिश्यैवेति, तत्वं विजानातु भवान् । तदुक्तं तन्त्रवार्तिके " यान्येतानि त्रयोविद्धिर्नपरिगृहीतानि किञ्चिच________________
॥ वयोनिर्णयः ॥
४१
न्मिश्रधर्मकञ्चुकच्छायापतितानि लोकोपसंग्रह लाभपूजा ख्यातिप्रयोज नपराणि त्रयीविपरीतासंबन्धदृष्टशोभादिप्रत्यक्षानुमानोपमानार्थापत्ति प्राययुक्तिमूलोपनिषद्धानि सांख्ययोगपाश्चर । त्रपाशुपत शाक्य निर्ग्रन्थ परिगृहीतधर्माधर्मनिबन्धनानि विषचिकित्सावशीकरणोच्चाटनोन्मादना
दिसमर्थकतिपयमन्त्रौषधिकादाचित्कसिद्धिनिदर्शनबलेन अहिंसा सत्य वचनदमदानदद्यादिश्रुतिस्मृतिसंवादिस्तोकार्थ गन्धवासितजीविकाप्राया र्थान्तरोपदेशीनि यानिच बाह्यतराणि म्लेच्छ । चारभिश्रकभोजनाचरण नित्रन्धनानि तेषामेवैतच्छ्रुतिविरोधहेतुदर्शनाभ्यामनपेक्षणीयत्वं प्रति- पाद्यते" इति ॥
(CE.) अपिच हेतुमूलकत्वकल्पने स्मृतित्वमेव आसामपेया त् । महर्षयोहि ज्ञानातिशयशालिनो यथाभूतं वेदार्थमनुभूय तमेवा थं शब्दान्तरेणास्मदाद्युद्देशेन स्मरन्तीतिहि प्रसिद्धं शास्त्रेषु । तथाच मानवे स्मर्यते—
“श्रुतिं पश्यन्ति मुनयः स्मरन्तिच तथा स्मृतिम् । तस्मात्प्रमाणमुभयं प्रमाणैः प्रमितं भुवि । इति ।
तथाविधे स्मृतिवाक्यार्थे यदिहेतुमूलकत्वं कल्प्यते तदाऽपूर्वएवा यमर्थों भवितुमर्हतीति तस्य वेदार्थानुभवमूलकस्मृतिरूपतैवहि बाध्येत । नहि श्रुत्यर्थवक्तृणामृषीणां वाचः पौरुषेयत्वेन तदभिहितोऽर्थोप्य वेदा र्थस्स्यात् । योहि वक्तृवाचः पौरुषेयत्वेन तदुक्तोऽप्यर्थोऽश्रुत्यर्थइति मन्येत स वेदमप्यवेदं मन्येत वेदवक्तुरिदानीन्तनस्य वाचोऽपि पौरुपेयत्वेन तत्प्रकाशितवेदस्यापि अवेदत्वावश्यंभावापातात् । तद् प्युक्तं वातिके
1
_-________________
४२
॥ वयोनिर्णयः ॥
‘वेदोहीदृशएवायं पुरुषैर्यः प्रकाश्यते । सपद्भिः प्रकाश्येत स्मरद्भिर्वेति तुल्यभाक् ॥ अनुच्चारणकालच संस्कारैरेव केवलैः । तत्कृतस्मरणैर्वाऽयं वेदाध्येतृषु तिष्ठति ॥
तेनार्थं कथयद्भिर्या स्मृतार्था कथ्यते श्रुतिः । पठिताभिमानाऽai केन न्यायेन बाध्यते " ॥ इति ।
अपिच वेदमूलकस्य स्मरणस्य यत्किञ्चिद्दृष्ट हेतुमूलकतां वद- तो मूलभूतवेदार्थएवायं हैतुकत्ववादः पर्यवस्येत् । मनुरपि स्मृतेर्हेतु मूलकत्वकल्पनेनावज्ञां कुर्वाणो वेदनिन्दकएव भवतीत्याह- “योऽवमन्येत तेतूभे हेतुशास्त्राश्रयान्नरः ।
21
साधुभिर्बहिष्कार्यो नास्तिको वेदनिन्दकः ॥ इति ।
ते इति श्रुतिस्मृतीइत्यर्थः । एतेन " अपरामर्श निपुणा श्रद्धाज - डाः केचनपरं स्मृतीनामनुष्ठातारस्स्युरिति प्रत्युक्तं । परामृशन्त एवहि सूक्ष्मदर्शिनः पण्डितमणयो वैदिकस्मृतिबोधितमध्यर्थं वेदबोधि तादविशिष्टं निश्चिन्वन्तस्तुल्यवदेवानुतिष्ठन्ति, नापरामर्शी स्थूलदृष्टी रागाभिनिविष्टबुद्धिः प्राकृतोऽमुमर्थं धिगन्तुमपि शक्नोति ॥
पिच वैदिके पथि वर्तमानानां त्रैवर्णिकानां संप्रतिपन्नप्रमाण भाषेष्वपि स्मृतिविधिषु हेतुमूलकत्वशङ्काकरणमेव तावन्न युज्यते । एवंसति सर्वत्रापि विधिषु कस्यचिद्धेतोरुत्प्रेक्षासंभवेन शास्त्रमात्राप्रा- माण्यप्रसंगात् । काहि विनिगमना, अयमेव विधिर्हेतुको नायमित्यत्र, सर्वत्राप्यौत्प्रेक्षिकहेतोस्सुलभत्वात् । तथाच लोकायतिकवाद पर्य वसानमापद्येत । ते खल्वैवयाहुः-________________
॥ वयोनिर्णयः ॥
“अग्निहोत्रं त्रयोवेदास्त्रिदण्डं भस्मकुण्ठनम् । बुद्धिपौरुषहीनानां जीविका धातृनिर्मिता ॥ ततश्च जीवनोपायः ब्राह्मणैर्विहितस्त्रिह \।
४३
मृतानां प्रेतकार्याणि न वन्यद्विद्यते कचिदित्यादि ॥ . तस्मात् स्मृत्यर्थेषु हेतुमूलकत्वकल्पनं कल्पयितुरेव बुद्धिदोषः । सच प्रादुर्भवन् लोकायतिकमतगर्तमेव नियतमवपातयेत् । विस्तरेण चैतद्विरोधाधिकरणे तन्त्रवार्तिके शङ्काग्रन्थे निरूपितं । । " तस्माद्यथाविरोधेऽपि पठ्यमान प्रमाणता । पठितस्मर्यमाणानां तथैवेत्यवधार्यताम् ॥ गृह्यमाणनिमित्तत्वाद्यद्युच्येताप्रमाणता । उत्प्रेक्षणीयहेतुखात्सा सर्वत्र प्रसज्यते ॥
रागद्वेषमदोन्मादप्रमादालस्य लुब्धताः ।
aar नोत्प्रेक्षितुं शक्यास्स्मृत्यप्रामाण्यहेतवः ॥ अदुष्टेन हि चित्तेन सुलभा साधुमूलता । दुष्टमूलखलाभस्तु भवत्याशयदोषतः ॥ कावा धर्मक्रिया यस्यां दृष्टो हेतुर्नयुज्यते । कथंचिद्वा विरुद्धवं प्रत्यक्ष श्रुतिभिस्सह \।\। लोकायतिकमूर्खाणां नैवान्यत्कर्म विद्यते । यावत्किञ्चिददृष्टार्थं तद्दृष्टार्थं कुर्वते \।\। वैदिकान्यपि कर्माणि दृष्टार्थान्येव ते विदुः । अल्पेनापि निमित्तेन विरोधं योजयन्तिच ॥ तेभ्यश्चेत् प्रसरोनाम दत्तो मीमांसकैः कचित् । नत्र कंचन मुंचेयुः धर्ममार्गीहि ते तदा ॥________________
४४
॥ वयोंनिर्णयः ॥
प्रसरं नलभन्तेहि यावत्कचन मर्कटाः । भवन्ति ते तावत्पशाचावा स्वगोचरे ॥ क्वचिद्दत्तेऽवकाशेहि स्वोत्प्रेक्षालब्धधामभिः । जीवितुं लभते कस्तैस्तन्मार्गपतितस्स्वयम् ॥ तस्माल्लोकायतस्थानां धर्मनाशनशालिनाम् । एवं मीमांसकैः कार्य न मनोरथपूरणम्” ॥ इति । तस्मान्नस्मृत्यर्थेषु दृष्टहेतुमूलकत्वकल्पनं वेदप्रामाण्यवादिनो
युक्तम् ॥ ८ ॥
( ९ ) अपिच कतिपय भ्रान्तजन मात्रदृष्टानि लिङ्गानि । लिङ्ग विरोधिन्यश्चोदनाःपुनः निर्दुष्टप्रामाणिक मूर्धन्यानेक महर्षिजनप्रत्यक्षाः । तथाहि अङ्गिरोवसिष्ठशातातपाश्वलायनयम संवर्तबोधायनबृहस्पतिया- ज्ञवल्क्यनारदपराशरप्रभृतयो महर्षयः प्रत्यक्षमेव वैदिकान् ऋतुमती विवाहनिषेधविधीननुभूय तानेवार्थतः पठन्ति । अङ्गिराः " पितुर्वेश्माने या कन्या रजस्तु समुपस्पृशेत् । भ्रूणहत्या पितुस्तस्यास्सा कन्या कृषली स्मृता ॥ माताचैव पिताचैव ज्येष्ठो भ्राता तथैवच । त्रयस्ते नरकं यान्ति दृष्ट्वा कन्यां रजस्वलाम् \।\। उद्यस्तु तां कन्यां ब्राह्मणो मदमोहितः । असंभाष्योह्यपाङ्केयस्सविप्रो वृषलीपतिः” । ( १२६–८) इति । वसिष्ठः–
“पितुः प्रमादात्तु यदीह कन्या वयः प्रमाणं समतीत्य दीयते । साहन्ति दातारमपीक्षमाणा कालातिरिक्ता गुरुदक्षिणेत्र \।\।________________
॥ वयनिर्णयः ॥
प्रयच्छेन्नग्निकां कन्यामृ कालभयात्पिता ।
ऋतुमत्यां हि तिष्ठन्त्यां दोषः पितरमृच्छति \।\।
४५
19
यावच्च कन्यामृतवस्स्पृशन्ति तुल्यैस्सकामामाभयाच्यमानाम् । भ्रूणानि तावन्ति हतानि ताभ्यां मातापितृभ्यामिति धर्मवादः’ (अध्या १७-६१ ) इति । लघुशातातपः
―
“पितुर्वेश्मनि या कन्या रजः पश्यत्यसंस्कृता । भ्रूणहत्या पितुस्तस्यास्सा कन्या वृषली स्मृता” (६.५ ) इति ।
आश्वलायनः
" रजस्वलाच या कन्या यदिस्यादविवाहिता । वृषली वार्षयस्स्याज्जातस्तस्यां सचैव हि " ॥ (प्रक २१५) इति । यमः -
" यः करोत्येकरात्रेण वृषलीसेवनं द्विजः । तद्भैक्षेण जपन्नित्यं त्रिभिर्वर्षैर्व्यपोहति ॥ वृष यस्तु गृह्णाति ब्राह्मणो मदमोहितः । सदा सूतकता तस्य ब्रह्महत्यादिनेदिने \।\। पलीगमनं चैत्रमासमेकं करोति यः । इह जन्मनि शूइवं पुनश्श्वानो भविष्यति ॥ वृषलीफेनपीतस्य निश्वासांपगतस्यच । तस्यांचैव प्रसूतस्य निष्कृतिर्नविधीयते ॥ पितुर्गे हेतु या कन्या पश्यत्यसंस्कृता रजः । भ्रूणहत्या पितुस्तस्याः कन्यासा वृषली स्मृता । यस्तां विवाहयेत्कन्यां ब्राह्मणो मदमोहितः ॥________________
४६
॥ वयोनिर्णयः ॥
असंभाष्योह्यपाङ्केयस्सविमो पलीपतिः । मातेच दशमे वर्षे कन्यां यो न प्रयच्छति ॥ मासिमासि रजस्तस्याः पिता पिवति शोणितम् । वर्षा भगौरी नववर्षाच रोहिणी \।\। दशवर्षा भवेत्कन्या ऊर्ध्वं रजखला । माताचैव पिताचैव ज्येष्ठ भ्राता तथैवच ॥ त्रयस्ते नरकं यान्ति दृष्ट्वा कन्यां रजस्वलाम् " ॥ (अध्या ३ – १२ -२१) इति । संवर्त :-
6:
‘अष्टवर्षा भवेद्गौरी नववर्षाच रोहिणी । दशवर्षा भवेत्कन्या अतऊर्ध्व रजखला ॥ माताचैव पिताचैव ज्येष्ठो भ्राता तथैवच । त्रयस्ते नरकं यान्ति दृष्ट्वा कन्यां रजखलाम् ॥ तस्माद्विवाहयेत्कन्यां यावन्नर्तुमती भवेत् ।
विवाहो ह्यष्टवर्षायाः कन्यायास्तु प्रशस्यते” \।\। (६५) इति ।
बोधायनः
"”
‘दद्याद्गुणवते कन्यां ननिकां ब्रह्मचारिणे । अपिवा गुणहीनाय नोपरुन्ध्याद्रजस्वलां” ॥ (प्रश्न ४ अ १ - - १२ ) इतेि । बृहस्पतिः- “पितृर्गेहेतु या कन्या रजः पश्यत्यसंस्कृता । भ्रूणहत्या पितुस्तस्यास्सा नारी नृपली स्मृता ॥ यस्तां विवाहयेत्कन्यां ब्राह्मणो मदमोहितः । असंभाष्यो पाङ्केयविप्रो पलीपतिः " ॥ इत्यादि ।
याज्ञवल्क्यः–________________
॥ वयोनिर्णयः ॥
“अप्रयच्छन् समाप्नोति भ्रूणहत्या मृतावृतौ” इति । नारदः- यावन्तश्चर्तवस्तस्यास्समतीयुः पतिं विना ।
४७.
तावत्यो भ्रूणहत्यारस्युस्तस्य यो न ददाति ताम् " ॥ इति । प्रत्यक्षाच श्रुतिरिह उदाहरिष्यते सिद्धान्तकथनावसरे । एवं प्रत्यक्षदृष्टेषु प्रामाणिकमहर्षिजनोत्तेषु वेदार्थेषु जाग्रत्सु क्व नामायं तद्विरुद्धो भवदुत्प्रेक्षितार्थोऽवकाशं लभेत । नह्यनृषिरस्मादृशः कश्चित् यथावच्छ्रुत्यर्थमधिगन्तुं शक्नोति । तथाच अस्मादृशामर्थकथनाय प्र- वृत्तौ श्रुतिरपि विभेतीति स्मर्थते " बिभेत्यल्पश्रुताद्वेदो मामयं विप्लविष्यति” इति । तथाऋषिवचनानुसारिवेदार्थवचनमेव निश्शंक- तया प्रमाणमित्यपि स्मरन्ति
" वेदार्थो यस्स्वयं ज्ञातस्तत्राज्ञानं भवेदपि । ऋषिभिर्निश्चिते तस्मिन् का शङ्का स्यात्महात्मभिः " ॥ इति । तस्मात् नरशिरःकपालशुचित्वानुमानवत् आगमबाधितमेवेदं ऋतुमतीविवाहविषयं भवदीयं लैङ्गिकं ज्ञानम् ॥
(१०) अपिच भवदुदाहृतान्वैवाहिकमन्त्रानृषयः किं जान- ते न जानते, यदि जानन्ति तदा कथमेते मन्त्रलिङ्गान्यमूहशान्यर्थ विशेषप्रसाधकानि मनागपि न गणयांबभूवुः । नखलु भवादृशेभ्यो हीनप्रज्ञास्ते । यदिवा विभिन्नप्रज्ञाः केचित्तथाऽपि कथं बहुष्वेकोऽपि ईदृशं लैङ्गिकमर्थविशेषं नोदाजहार । सर्वेऽपि प्राञ्चस्तद्विनियोगादि प्रदर्शनपराअपि न तदर्थविशेषमज्ञासिषुः, अहमेकस्तु यथावज्जानामी ति दुस्खमएवायं कश्चिद्भवतो दोषमूलकइति स्यान्नान्यथा । भवदीय प्रतिभामात्रविकासी खल्वयमर्थो न प्रमाणान्तरगोचरः । मन्त्रतदर्थावे व प्राञ्चो न जानन्तीतितु अस्माकं तद्वचनशकलमाभासतोविलोक्यैव
7________________
४८
॥ वयोनिर्णयः ॥
मन्त्रादिकं जानतां वचनं “ मन्माता वन्ध्ये “तिवचनवदेव स्यात् । तस्मादुक्तेन प्रकारेण परामृश्यमानेषु न्यायेषु यानि विवाहाङ्गभूत मन्त्रार्थपरामर्शेनापाततो भासमानानि पञ्चषाणि लिङ्गानि तानि अत्य न्तदुर्बलत्वात्प्रमाणान्तर बाधितत्वाच्च न भवदभिमतमर्थं प्रसाधथितुं प्रग- हमंते । तथाच तद्बलावष्टम्भेन विवाह्यावध्वो युवतयएव भवेयुरिति अयमध्यवसायस्सर्वधाऽपि न समर्थयितुं शक्यतइति सिद्धम् ॥
(११) अत्र वितण्डापण्डितस्तार्किक दर्दरूटः निपुणतरः क- श्चिदीदृशापूर्वमन्त्रालङ्गद्रष्ट्रननुमानकुशलान्बुद्धिमतः प्रत्याह । सत्यमे वमभ्यूहते भवान् “आर्यबालिकानां हितसाधनप्रत्याशाबलेन ऋतु मतीनामेव स्त्रीणां विवाहकरणमुचितमिति । अहंतु पश्यामि नायम-
स्त्रीणां सम्यक्सुखाय पर्याप्तो भवति । किन्तु ऋतुमतीभूय पश्चा द्यथाभिमत पुरुषसंसर्गेण संजातपुत्राणां ततः पश्चादेव स्त्रीणां पुत्रेण सह विवाहः कार्यइति व्यवस्थापनं सम्यक्सुखाय स्यात् । तदेवच शास्त्र तोऽनुमाय साधयितव्यं, यदि परमार्थमेव स्त्रीणां सुखसाधनमभिप्रैषि । मन्त्रलिङ्गानिच इतोऽपि किञ्चित्सूक्ष्मतरं परामृश्यमानानि पुत्रोत्पत्यु- त्तरकालमेव स्त्रीणां विवाहः कार्यइति प्रत्याययन्ति । भवांस्तु न ताव द्दूरमालोचितवान्संभ्रान्तबुद्धिः । अहंतु ते तानि लिङ्गानि दर्शयिष्या मि तथाहि " सोमः प्रथमो विविद” इत्यादिके वधूंप्रति जप्ये मन्त्र द्वये द्वितीयमन्त्रे “रयञ्च पुत्रांश्रादादभिर्मह्यमथाइमामिति पठ्य ते । अनेन मन्त्रभागेण तृतीयपतिस्थानीयोऽग्निर्विवह्यां स्त्रियं पुत्रां श्च मह्यं दत्तवानित्याह वरः । यदि विवाह्यमाना वधूः पुत्ररहिता स्यात्, कथमयं पुत्रदानरूपो मन्त्रार्थस्संगच्छतां । नहि जनिष्यन्ते पुत्राइति कृत्वा भाविपुत्रविषयतया मन्त्रार्थघटना युक्ता । कोहि नि-________________
॥ वयोनिर्णयः ॥
४९
र्णयः पुत्राजनिष्यन्तइति । जायन्तांवा कदाचित्कासां चित्तथाप्याशामो दककल्पोहि तदा मन्त्रार्थः पर्यवस्यति । एवंसति भाविनीं स्त्रियमुद्दि - श्यापि विवाहकरणं शोभेत । नहि स्त्रीपुत्रयोरुभयोस्समुच्चित्य दानवचने कश्चिदर्थस्त्रीरूपस्तात्कालिकः, कश्चित्तु पुत्रः परं भावीति शक्यमर्धज- रतीयं कल्पयितुं । मन्त्रस्तु " अददि” तिलुङन्तप्रयोगेण दानक्रियां निर्वृत्तां बोधयन् स्त्रियमिव पुत्रानपि सहसिद्धानेव मुक्तकण्ठं ब्रूते । नखलु भूतभाविनोरर्थयोस्समुच्चित्यदानं घटते । अतीतत्वंतु भाव्यर्थ दानस्य सुतरां न सम्भाव्यते । तस्मात्सञ्जातपुत्राणामेव स्त्रीणां विवा हो न्याय्यइति श्रुत्यैव निर्विचिकित्सं प्रतीयते (१)
(२) तथा “सोमाय जनिविदे” इत्यादिषु होमार्थमन्त्रेषु “प्रजां मुञ्चतु मृत्युपाशादि” ति ( १ ) " यथेयं स्त्री पौत्रमघं न रो- दादिति (२) सोऽस्यै प्रजान्नयतु दीर्घमायुरिति (३) अ- श्विनौच स्तनंधयन्तमि"तिच ( ४ ) प्रजायामृत्युपाशमोचनमघाभावा दीर्घायुङ्कं रक्षणंच सोमाग्न्यादिदेवता दिभ्यः प्रार्थ्यमानं तात्कालिक पुत्र सद्भावमन्तरेण सर्वधाऽनुपपद्यमानं सपुत्रकस्त्रीणामेव विवाहकरणं व्यवस्थापयति । (२)
(३) अग्निप्रदक्षिणार्थेच “तुभ्यमग्रे पर्यवहान्ने” त्यादिमन्त्रे “जायां दाने प्रजयासह " इति प्रजासहितायाएव जायाया दान मुच्यमानप्यमुमेवार्थं प्रसाधयति । तथाच सपुत्रकस्त्रीदानमेव विवाहे शास्त्रीयमिति दातृधर्मोऽपि श्रुतिसिद्धोऽतिप्राचीन संप्रदाय इतिच स्पष्टं निश्चीयते । (३)
(४) पतिगृहगमनाय रथारोहणकाले स्त्रियाअभिमन्त्रणार्थेषु मन्त्रेषु “सम्राज्ञी श्वशुरे भवेत्यादिना " प्रजायाच धनस्यच ‘________________
५०
॥ वयोनिर्णयः ॥
इत्यन्तेन श्वशुरादीन्प्रतीव प्रजांप्रत्यपि सम्राज्ञीभावउच्यमानो विवा ह्यायास्त्रियाः प्रजावत्वं प्रतिपादयति । ( ४ )
(५) पथि गमनकाले वृक्षादिव्यतिक्रमनिमित्ते जप्ये " या ओषधयो या नद्य” इत्यादिमन्त्रे “प्रजावतीं प्र त्वे चत्वंहस” इति प्रजासहितायास्त्रियाः अंहोमोचनमभिधीयमानं वध्वास्खप्रजा साहित्यं सम्मगुपकल्पयति । (५)
(६) “आगन्गोष्ठं महिर्षात्या “दिषु होमार्थमन्त्रेषु " प्र- जायाआभ्यां प्रजापतइन्द्राग्नी शर्मयच्छतमिति सिद्धवत्स्थितायाः प्रजायाश्शर्मप्रार्थनं क्रियमाणं नाप्रजस्स्त्रीविवाहे कथमपि घटते । (६)
(७) मन्वाद्यासुच स्मृतिषु द्वादशविधेष्वौरसादिपुत्रेषु सहो - ढो नाम पुत्रः परिगण्यमानः समुत्पन्नप्रजानां स्त्रीणां विवाहं श्रुति स्मृत्याचारसिद्धं गमयति । तथा “पाणिग्रहणादि गृह्यं परिचरे त्स्वयं पत्न्यपिवा पुत्रः कुमारीत्या दिना विवाहसमयादारभ्य पत्न्यागृह्याग्निपरिचरणाधिकारवचनेन तत्कर्मयोग्यं वयः प्राप्तैव कन्या विवाहार्हेति यथा व्यवस्थापयसि तथा तत्रैव सूत्रे “अपिवापुत्र” इति विवाहादारभ्यैव पुत्रस्यापि अग्निकर्माधिकारवचनेन तत्कर्मयोग्ये वय- सि वर्तमानो यः पुत्रस्तथाविधपुत्रसहिता वधूरेव विवाहयोग्येति व्य- वस्थापयामः । तथाच पितृगृहएव स्थितायाः ऋतुमत्या संपादित पुत्रायाश्च स्त्रियाः पश्चादेव विवाहः कार्यइति वैदिकस्सिद्धान्तः यदि दैवात्काश्चिदप्रसएव स्युः, तदा तासां विवाह एवानावश्यक इति कल्प्यते । अन्यथा प्रागुदाहृतानां मन्त्राणामर्थस्य बाधापत्तिः । नह्येवं व्यवस्थापने कश्चिद्विरोधोस्ति । नच स्मृतिवचनविरोधश्शङ्क नीयः । कोहि नाम स्मृतीरर्वाचीन कालभवाद्वियेत । स्मृतीनामपि________________
ዘ
वयोनिर्णयः 11
मूलश्रुत्यनुमापकत्वेन श्रौतैरेवोदाहृत लिङ्गैर्विध्यन्तरमेवानुमास्यामहे । यदि श्रुतिवचनविरोधस्स्यात्स परं परिहर्तव्यः । नह्युक्तसिद्धान्तविरो धितया प्रत्यक्षमेव श्रुतिवचनं किञ्चित्केन चिच्छक्यं प्रदर्शयितुं । तस्मा . त्सपुत्रकस्त्रीविवाहएव वैदिकस्सिद्धान्तइति निपुणतराणां तार्किक मूर्धन्यानां सूक्ष्मतरोऽम्यूहइति ॥
अभ्युपेत्यतु लिङ्गानि भवदुदाहृतानि सर्वमेतदेतावत्प्रश्चितं । परमार्थतस्तु पदवाक्यप्रमाणाभिज्ञैः पण्डितैः परामृश्यमानानि भव- लिङ्गानि लिङ्गान्येव न भवितुमर्हन्ति । तथाहि “अघोरचक्षुरि “त्या दिषु भवदुदाहृतेषु मन्त्रेषु सर्वत्रापि अपतिनि एधि शन्नो भव द्विपदे (१) तन्वं संसृजस्व (३) मया पत्या जरदृष्टिर्यथा असः (५) सप्त पदा भव सख्यंते गमेयं मायोषं मायोष्ठाः संकल्पावहै अनुव्रता भव एहि सूनृते (६) पत्युः आरोह विराड् भव श्वशुरे भव श्वश्रवां भव सम्राज्ञी भव विराड् भव (७) भुवने शोचेष्ट प्रजया ते समृ-
तां गार्हपत्याय जागृहि तन्वं संसृजस्व ( ८ ) इति लोडन्त लेडन्तलिङन्तानामन्यतमएवशब्दः प्रयुज्यते नान्यो लकारः । लोडादि त्रयस्यच सत्स्वपि विद्ध्याद्यर्थेषु मन्त्रसन्दर्भे प्रार्थनमेवार्थो भवत्यौचित्यादि ति सर्वसंप्रतिपन्नं । प्रार्थनञ्च सिषाधयिषितएवार्थे संभवति न सिद्धे वस्तु नीति तद्वाचकपदप्रयोगोऽपि तद्विषयएव साधुर्भवति । नहि सिद्धमर्थमुद्दि श्य सिषाधयिषितताबोधकं लोडाद्यन्तपदं प्राकृतोऽपि प्रयुङ्क्ते, किमु वक्तव्यं भगवत्यनादिसिद्धे मन्त्रसंन्दर्भे । नहि राजानमेव सन्तं पुरुष मुद्दिश्य “राजाभवे”तिप्रयुञ्जानो भवत्यविपर्यस्तबुद्धिः । अराजनि तु तत्सम्भावनागोचरे युक्तेयमाशीरभिधातुं “राजाभवेति । अत एव " राजा भव युध्यस्व " " राजन्युद्ध्य स्खे” त्यनयोर्वाक्ययोरर्थे________________
५२
11
योनिर्णयः ॥
भूयान्भेदइति संबोधनविभक्तिविधौ शब्दशास्त्रे डिण्डिमाघातः । त- देवभूतेषु लोडाद्यन्तपदेषु परामृश्यमानेषु तद्घटितैर्मन्त्रैर्विवाह्यमानाया वध्वास्तनुसंसर्गयोग्यताऽऽदिकं वरेण प्रार्थ्यतइत्येवमन्त्रार्थोऽवगम्यते । विवाह्यायां च वध्वां संसर्गयोग्यताऽऽदेस्तत्कालभवत्वे तस्य सिद्ध त्वेन मन्त्रैः क्रियमाणं तत्प्रार्थनं राज्ञि राजत्वप्रार्थनमिव उन्मत्तवचन मापद्येत । एतेन बालिकाविवाहे ’ मन्त्रार्थस्सर्वोऽप्याशामोदकल्पस्स्या- दिति अव्युत्पन्नानां भ्रमः परास्तः \। आशाम। दकस्थानीयस्यासिद्ध स्याभिलषितार्थस्य साधनार्थे मन्त्रप्रयोगइति स्थितावेवहि मन्त्रा अर्थ वन्तस्स्युः । नखलु मुखमोदकमेव चर्व्यमाणं साधयितुं मन्त्रापेक्षेति मूढ मन्तरेण कश्चिद्रयात् । नहि कृतमेव कुर्वन्ति भवन्ति साधनानि नवा ज्ञातमेव ज्ञापयन्ति प्रमाणानि । तथाच अयूनि “युवा भूया - दिति” वचनमिव सुखकरत्वशरीरसंसर्गित्वजरदङ्गत्व सख्यैश्वर्यसम्रा- ज्ञीभावप्रसवाग्निपरिचरणादिकर्मयोग्यताप्रार्थनां बोधयन्तो वैवाहिक मन्त्रास्तद्योग्यतामनापन्ने वयसि वर्तमानां वधूं प्रत्येव प्रयुज्यमाना अर्थ वन्तो भवन्ति न वृषस्यन्त्यां तरुण्यामिति क्व भवदभिमतलिङ्ग सद्भावः । . एवञ्च भवदुदाहृतलिङ्गान्येव भवद्विपरीतार्थसाधकाने विरुद्धानि प्रौढा ‘विवाहप्रतिषेधं गमयन्तीति अलमेतदेव प्रमाणं बालिकाविवाहएव शास्त्रीयइति वदतां । यत्तु अप्रौढायामिमे मन्त्राः प्रयुज्यमानाः तत्कालार्थशून्यास्सन्तो मृतप्राया भवन्तीति, तद्विपरीतं । अमृत प्रायाएव हि पुण्यतमा मन्त्राः बालिकामुद्दिश्य प्रार्थना रूपाअभिलषितभा- विसकलश्रेयःप्राप्तिसाधनार्थत्वेन प्रयुज्यन्ते । भवानेव पुनस्तत्तादृशा नपि मन्त्रविशेषान् प्रौढाविषयतया सिद्धार्थानुवादकत्वेन कृतकारि- तामापाद्यानर्थकत्वेन कष्टं मारयितुमभिप्रवृत्तो दृश्यते । यदपि भाव्य-________________
॥ वयोनिर्णयः ॥
५३
र्थाभिप्रायेण मन्त्राः प्रवृत्ताइति वैदिकास्साधयेयुरिति परिहासवचनं तदस्माकं स्वस्त्ययनमेव । नूनमेते वयमाब्रह्मणो वैदिकाः वैदिक एव वेदार्थमधिगन्तुमधिक्रियते शक्नोतिच नावैदिकः । अवैदिकोहि लडन्त लोडन्तादेर्विभागेप्यव्युत्पद्यमानोऽनधिगताक्षरार्थरीतिर्यदि वेदार्थव्या- ख्यानाय प्रवर्तते तदा नूनमीदृगेवापदापद्येत । नात्र भवतोऽन्यत्साक्ष्य न्तरं गवेषणीयं । एतेन सर्वाणि मन्त्रलिङ्गानि व्याख्यातानि भवन्ति मूर्धाभिषिक्तचतुर्थवर्जं । तथाच सिद्धं
लादिकं प्रयुञ्जाना गूढं भगवती श्रुतिः । भवादृशानां दुर्भावमच्छिनन्मूलतोपि च ॥ १ ॥ अनेनैव प्रार्थनेन विवाह्यामतथाविधाम् ।
anti गमयन्ती सत्यनुगृह्णातिच स्मृतीः ॥ २ ॥ इति । सर्वमिदमन्तरभिप्रेत्यैव सर्वज्ञो मनुराह " पाणिग्रहणिका
मन्त्राः कन्यास्वेव प्रतिष्ठिताः । ( ८- २२६ ) इति । कन्याशब्द श्वानृतुमत्यामेव मुरूयो मनोरभिमतइति निरूपयिष्यते । एतेन वैत– ण्डिकतार्किकोत्प्रेक्षितस्सपुत्रस्त्रीविवाहोऽपि प्रत्युक्तः पुत्रतद्दीर्घायुष्ट्वा देरभिलषितवस्तुनस्सर्वस्यापि मन्त्रेषु प्रार्थ्यमानतया तात्कालिक सद्भावायोगात् । नहि निरवग्रहैश्वर्यशक्तिशालिभ्यो देवेभ्यस्सकाशा. दभिलषितार्थप्रार्थनावेलायामभ्युदयार्थिना मियदेवप्रार्थनीयं नातोऽधिक मिति नियमे हेतुरस्ति । तस्माद्विवाद्याया भोगयोग्यत्वगृहकर्मसाम र्थ्यादिकमिव सन्तानसम्पदादिकमपि सर्वमभिलषितं मन्त्रैर्भाव्येवा शास्यते ।
अत
प्रार्थ्यमानस्य प्रार्थनासमानकालिकत्वभ्रमेणार्थान्तर
कल्पनं न संभवति । वस्तुतस्तु संभिन्नबुद्धीनां पदवाक्य प्रमाणपरि________________
६४
॥ वयोनिर्णयः
चंयविधुराणां जनानां व्यामोहमात्रमेतत् । नहि श्वश्रूश्वशुरननान्ह देवरादिसम्राज्ञीभावो मन्त्रेणोच्यतइति तेषामेकतमाभावे विवाहो शास्त्रीयइति कश्चिद्राम्यत् ।
यदपि " सोमः प्रथमो विविद, इत्यादिमन्त्रोक्तं मूर्धाभिषिक्तं चतुर्थं लिंङ्गं तद्विचारयामः । सत्यं सोमगन्धर्वा ग्नयस्त्रयो देवाः क्रमेण योनिरोम, कुत्र, रजः, प्रादुर्भावकालेषु भवन्ति वध्वाः पतयइति स्मर्यन्ते । तथापि त्रयाणांमध्ये कतमस्य आधिपत्य काले कन्यायाः विवाहकरणं मन्त्रैर्गम्यतइति इदमिह संप्रधार्यम् । नहि रजःप्रादुर्भावोत्तरमग्निरधिपतिरित्येतावन्मात्रेण विवाहोऽपि तद् नन्तरमेवेति शक्यं व्यवस्थापयितुं । तुल्यमेवहि सावधिकाः कन्यका- नां तिस्रोऽवस्थास्समाश्रित्य त्रयाणां देवानां पतित्वभोक्तृत्वे स्मृतिः प्रत्याययति । मन्त्रस्तु अवस्थाविशेषानाश्रयणेन पतित्वमात्रमाह । तत्र कस्यचिद्देवस्य स्वभूते काले विवाहकरणमितिनिश्चिते देवान्तर योरिह कथनं दस्तुसदर्थपरमिति वक्तव्यं । तत्र कदा विवाहइति निश्चिनोषि । ननु नेदमस्माभिर्निश्चतव्यं यतो मन्त्रएव स्पष्टमाह तृतीयपतिभूतस्य अनेः पश्वादेव मनुष्यस्तुरीयः पतिर्भवतीति " तुरीय स्ते मनुष्यजा,, इति । तत्र कुतस्सन्देहः । अग्न्यधिकारयोग्ये रजो विशिष्टे वयसि वर्तमानैव कन्या मनुष्यस्य विवाह्येति स्फुटं निश्ची- यते । बाढमेवं स्वाशयानुगुणं निश्चिनोषि । यदि सोमगन्धर्वयोनि- वृत्ताधिकारयोरग्नेश्च अधिकारप्रादुर्भावे ऋतोः परस्ताद्विवाहइति नि- श्चिनोषि एवंसति मन्त्रान्तरं विरुज्यते तन्नालोचयसि । अत्रहि “उदी
तो विश्वावसो,, इति “उदीवतः पतिवती” तिच मन्त्रद्वयमाम्नाय ते । तच्च मन्त्रद्वयं विवाहचतुर्थदिनापररात्रे दम्पत्योर्मध्ये गन्धर्वावा-________________
॥ वयोनिर्णयः ॥
५९
हनपूर्वकमकृत्य स्थापितो थोऽयमेोदुम्बरा दिगान्धर्ववृक्षदण्डस्तस्यो त्थापनेकर्मणि विनियुज्यते । अनेनच गन्धर्वाख्याद्वितीयपतिः स्तुति नमस्कारादिपूर्वकं विवाहितां बधूं मम पत्नीं विहाय पितृगृहगतामन्यां कन्यां प्रति त्वया गन्तव्यमिति वरेण प्रार्थ्यते मन्त्रद्वयेनापि । नतु तृतीयप्रथमपतिभूतावग्नीषोमावभ्ययैते, प्रथमस्य सोमस्य निवृत्ताधि कारत्वात्, अग्नेश्च असञ्जाताधिकारत्वात्, अस्वामिनिच स्वत्वत्या गाभ्यर्थनस्यासंगतत्वात् । अनेनच स्पष्टं विज्ञायते गन्धर्वाधिकार योग्येवयसि वर्तमाना वधूरेव विवाहार्हो भवतीति । यदित्वाग्नेयेवयसि ऋतुमति विवाहकरणमभिप्रेतं स्यात् तदा तस्य स्वभूता कन्या तत्स काशादेव प्रार्थयितव्येति अनधिकारिणोगन्धर्वस्य कन्या सकाशादुत्थान प्रार्थनं विरुद्धमेव स्यात् । नहि प्रथमपतिस्सोमः प्रार्थ्यते । तथाच विवाहस्य अग्निस्वभूतऋतुकाल संबन्धगन्धमप्य सहमानमिदं मन्त्रद्वय मपि चतुर्थदिनापररात्रावधिं गन्धर्वस्य स्वभूते ऋतोः प्राचीन एव वयसि कन्या वर्ततइति धरितरमाघोषयति ॥
अपिच सोमगन्धर्वाग्नीनां कन्यकासु भोक्तृत्वं स्मर्यमाणं कीदृ- शमभिप्रैषि । दृष्टानुसारेणैव देवानामप्येषामत्मदादिवदेव भोगइति कल्पने प्रत्यक्षवाघः । नहि अग्निनाऽहमिदानीमनुभूताऽस्मि सोमेना हमिदानीमिति कयाचित्स्त्रिया कदाचिदनुभूयते । आद्ययोस्सोम गन्धर्व योर्भोगासंभवश्च दृष्टानुसारेण भोगयोग्यकालस्य स्त्रीषु तयोरभावात् । तत्रामानुषस्वभावानां देवानामन्यादृशएव मानुषविलक्षणोमनः प्रीत्यादि रूपः कोऽपिभोगप्रकारइति कल्पयितव्यं । भोगः परमग्न्यादीनामस्म दनुभवागोचरोदृष्टविलक्षणः, तद्धेतुना रजः प्रादुर्भावेण परमस्मत्प्रत्यक्षे भवितव्यमिति तव केनोपदिष्टं । निश्चितेच तथाविधे भोगे यक्षा
8________________
५६
॥ वयोनिर्णयः ॥
नुरूप बलिन्यायेन तद्धेतूरजःप्रादुर्भावकालापि न मानुषप्रत्यक्षः किन्तु अविज्ञातएव आन्तरः कश्चित्प्रादुर्भावइति निधीयते । प्रसिद्धंहि सत एव रजसः कालेन बहिर्निर्गमादभिव्यक्तिरिति शरीरशास्त्रे \। भगवान् व्यासोऽपि “पुंस्त्रादिवचस्य सतोऽभिव्यक्तियोगात्,, (ब्रह्म- सू-२-३) इतिदृष्टान्तरूपेण सतएव पुंस्त्वादेस्पष्टमभिव्यक्तिमाच- ष्टे । तथाच अग्निभोगयोग्ये वयसि वर्तमानायास्त्रिया विवाहइति कल्पयतोऽपि तव व्यर्थः प्रयासस्यात् त्वदभिमत रजस्वलात्वस्य असि- द्धेः चतुर्थदिनापररात्रे गन्धर्वोद्वासनार्थे कर्मणि विनियुक्तस्य मन्त्रद्वय स्य बाधापत्तेश्च । अपिच सोमादीनां पतित्वमात्रमेव मन्त्रोवदति न भोक्तृत्वं । अवस्थाविशेषास्तु स्त्रीणां तत्तदनुगुणास्सर्वधा मन्त्रेण न व्य- ञ्जनयाऽपि बोध्यन्ते । तत्रैवंसति स्मृतीनामर्वाचीनकालभवत्वाच्छ्रुति- मात्रे श्रद्धालुतामात्मनोऽभिनयतामत्रपरं स्मृतिश्रद्धा कस्मादाविर्भ- वतीति न निश्चीयते । तस्मान्मूर्धाभिषिक्तमपि लिङ्गं विचार्यमाणं बालिकाविवाहमेव स्थूणानिखननन्यायेन दृढीकरोतीति सिद्धम् ॥
यदपि श्रौतं युक्तीविवाहसाधकं लिङ्गान्तरमुपन्यस्तं वधू- कामायहि सोमाय स्वयं पतिंवरां सूर्यांनाम स्त्रियं सूर्योददाविति “सोमोवधूयुरभवदश्विनास्तामुभावरा । सूर्या पत्ये शंसन्तीं मनसा सविताऽददात्” इति मन्त्रे समाम्नायते ऋग्वेदे । तत्र “पत्ये शंसन्तीं, इत्यस्य पर्याप्तयौवनामित्यर्थविवरणं भाप्यकारेण कृतं दृश्यते । तथाच ऋतोरनन्तरमेव सूर्याया विवाहोनिर्वृत्तइति स्पष्टं प्रतीयतेइति । तत्र ब्रूमः बाढमेवं प्रतीयतएव । तथाऽपि नेदं लिङ्ग माश्रित्यास्मदादीनामपि स्त्रियोयुवतीभवन्त्यो विवाहयितुं शक्यन्ते, देवत्वात्तेषां । देवाःखल्वेतेसोमसूर्यासवितृप्रभृतयो मन्त्रेण वर्ण्यन्ते ।________________
॥ वयोनिर्णयः ॥
नह्यस्मदादिवद्देवेषु वर्णाश्रमविभागोऽस्ति । तन्मूलकविधिनिषेधविषय तावा तेषां क्वचिदस्ति प्रमाणसिद्धा । वर्णाश्रमवहिर्भूतानांच सतांतेषा- माचारो न वर्णिभिराश्रमिभिश्च स्वयमुपादातुं शक्यते । नापि तदनु- ष्ठानं युज्यते अन्यधर्मत्वात्तस्य । अन्यधर्मश्चान्येनानुष्ठीयमानो न श्रेयसे स्यात् “परधमों भयावह,, इति भगवदुक्तेः । निषिद्धत्वाच्च न तदाचरणमस्मदादीनामुपादेयं भवति । निषिध्यते हि देवाचरणं मनुष्याणां “न देवचरितं चरेत् इति । अन्यथाहि गुरुदारगमनादिः भूया - धर्मविप्लव देवेषु दृष्टइति स सर्वोपि मनुष्यान् प्रत्यपि अनुष्ठेयो युक्त श्वापद्येत । अपिच नानेन मन्त्रेण देवानामपि युवतीविवाहो धर्मइति चोद्यते । किंतर्हि उपाख्यानमात्रमेतद्भवति इदमनेन इत्थमनुष्ठितमिति तत्र वृद्धकन्योपाख्यानसमाधानेनैव इदमपि समाहितं भवति । तस्मा - नेदं लिङ्गं प्रौढाविवाहसाधकं भवति ।
"
यदप्यन्यदुक्तं “सकूतिमिन्द्रसच्युतिं सच्युतिं जघनच्च्यु- किनारकाभां न आभर प्रयप्सन्निव सक्थ्यौ,, इति केनचि - न्मन्त्रेण इन्द्रंप्रति भोगलंपटां स्त्रियमाहरेति प्रार्थनं क्रियमाणं दृश्यते । तच्च ऋतुमत्याएव स्त्रिया विवाहयोग्यतां सूचयतीति । अत्रब्रूमः । कामंदृश्यतएव तथाविधं प्रार्थनं । किमेतावता सिद्ध्यति विवाह नही दंप्रार्थनं विवाहाङ्गमित्यत्र प्रमाणमस्ति । नखल्वस्य मन्त्रस्य विशिष्य विनियोजकं प्रमाणं किञ्चित्प्रत्यक्षमुपलभ्यते । असतिच प्रमाणे कथ- मननमन्त्रेण विवाह्याया युवती भावमुन्निनीषसे, अतिप्रसंगापत्तेः । अनिर्धारिताङ्गभावेन मन्त्रेण यथाभिमतमर्थविशेषनिर्णयेहि सर्व सर्वत्र निर्णीयेत । नचैतद्युक्तं । अतएव यत्रक्वापि काम्येकर्मणि लिङ्गानुसारा द्विनियोजनीयोऽयं मन्त्रइति प्राञ्चोऽभिप्रयन्ति । काम्यकर्माङ्गभूतेच________________
५८
॥ वयोनिर्णयः ॥
मन्त्रे कामुकानां कामनाविलसितमेव लोकसिद्धमनूद्येत नापूर्वःकश्चि- दर्थस्स्यात् । तथाच कामुकमनोरथानुवादिनाऽनेन मन्त्रेण कथमनुष्ठे- यरूपःकश्चिदर्थस्सिद्ध्यतीति शक्यं वदितुं । अस्तुवा कथंचिदस्य मन्त्रस्य विवाहसिद्ध्यर्थे जपे विनियोगकल्पनं तथाऽपि चिराय विवाहमलभमानः उत्कटकामनावान् पुरुषएवाऽस्मिन् जपेऽधिक्रियेत न सर्वोऽपि । सचा यमधिकारी स्त्रियं प्रार्थयमानः दृष्टमेवफलं भोगाख्यमभिसन्धाय प्रार्थयेदिति युक्तं, दृष्टस्यैवपुरस्फूर्तिकत्वात् लोकस्वभावाच्च । तथाच मन्यामहे ओदनपाकसूत्रशाटकन्यायेन भाविनमेव भोगोपयोगिगुणं " सकूतिं जघनच्युतिमि,, त्यादिभिरभिसन्धाय प्रार्थयतीति । एवंच सति वचनान्तरविरोधोऽपि नापतति । अन्यथाहि अनृतुमतीविवाह बोधकवचनान्तरविरोधोऽपरिहार्य आपद्येत । किञ्च अवश्यंचैतदेवं वि- ज्ञेयं । अन्यथाहि मन्त्रोक्तविशेषणस्य जघनच्युतित्वा देस्सर्वदा स्त्रिया मसंभवाद्बाघएवस्यात् । नखलूक्तगुणविशिष्टैव सर्वदा काचित्स्त्री भव- तीत्यस्तिसंभवः । अतश्च गत्यन्तराभावात् भाव्येवासौगुणोऽभिप्रेतइति अकामैरप्यभ्युपगन्तव्यं । नच वार्तमानिकार्थबाधे भूतं तं गुणमादा- यापि उपपद्यतइति किं भाविग्रहणेनेतिशंक्यं । एवंसति निवृत्तरज- स्कायाअपि जरठायास्तव विवाह्यत्वापत्तेः, अतीतग्रहणापेक्षया आ- गामिग्रहणस्यैव युक्तत्वाच्च । तस्मान्नेदमृतुमतीविवाहसाधकमित्यास्ता मेतत् ॥
यदप्युच्यते “कन्याइव वहतुमेतवा, इति " इयमेव सा या प्रथमा व्यौच्छदि, तिच मन्त्रद्वयमस्ति । तत्राद्ये पतिप्राप्त्यर्थं कन्यकाभिः कुतूहलेन क्रियमाणमाभरणधारणं क्वचिदर्थे निदर्शन तयोदाह्रियते । द्वितीये सृष्ट्याद्यप्रभातस्य उत्तरोत्तर प्रभातजनकत्वे________________
॥ वयोनिर्णयः ॥
१९
उत्तरोत्तर प्रजाजननी नववधूरुपमानत्वेन उदाह्रियते । इदमुदाहरण द्वयं ऋतुमतीविवाहं गमयतीति । तदपि भ्रममात्रं । आद्यमन्त्रे हि पतिप्रेप्सया भूषणधारणमात्रमुच्यते कन्यकानां न यौवनमपि । नचेदं यौवनस्यलिङ्गमिति शक्यं प्रतिज्ञातुं । नह्याभरणधारणोत्साहः स्त्रीणां यौवनोत्तरकालमात्रभावत्यित्रास्ति प्रमाणं, अन्यथाऽपि दर्शनात् । प्राग- पि यौवनास्त्रिचतुरहायन्योऽपि बालिका भूषणधारणकुतूहलिन्यो बहु- धा स्वमनोरथं वर्णयन्त्यः प्रत्यक्षमेव दृश्यन्ते । तत्रकथमेतदवष्टम्भेन यौवनं शक्यं व्यवस्थापयितुं । तथाद्वितीयेऽपि निर्वृत्तविवाहा वधूरेव उपमानमुपादीयते नाप्राप्तविवाहा । साच कामं प्रजननसामर्थ्यं युव- तीभावंचापद्यतां । किमेतावता विवाहप्रागवस्थायां यौवनमुत्प्रेक्षितुं
शक्यम् ।
तस्मान्नेदमप्यृतुमतीविवाहसाधकं भवितुमर्हति । अथापि कथं चिद्भवतश्श्रद्धामनुरुज्य भवदभिमतमम्युपगच्छामः तथाऽपि न ब्राह्म- णेषु अनेनलिङ्गेन युवतीविवाहश्शक्यते साधयितुं " कन्यका, इति “वधूरि” तिच सामान्यग्रहणात् । नह्यत्र मन्त्रद्वयेऽपि ब्राह्मण कन्यका एवंविधाइतिकथने विशिष्य किञ्चिन्मूलमुपलभ्यते । सामा- न्यतः प्रवृत्तंच अविरुद्धं यंकञ्चिदर्थमादायाप्युपपद्यमानं नविरुद्ध विशेष विषयेऽपि पर्यवसानमपेक्षते । अपिच दृष्टान्तमात्रमेतदुभयमपि भवति । दृष्टान्तकथनेचसर्वत्र तस्यान्यतः प्रसिद्धि मात्रमपेक्षणीयं न पुनस्तेन विध्य नुसारिणा सदाचारसिद्धेनवा भवितव्यमिति नियमोऽस्ति । नखलु “योषाजार मित्रप्रियमि,, ति " मर्यो न योषामभ्येतिपश्चादि,, ति च श्रुत्युदितमेवदृष्टान्तद्वयमवष्टभ्य स्त्रीणां जारपुरुषानुसरणं पुंसांच योषितः पृष्ठतोगमनंच वेदसिन्द्रोधर्मइति प्राचीनाचारइतिच कश्चिन्निश्विनु-
]